16 श्रुतेरेव परमप्रामाण्यम् \(द्वितीयश्लोकः\)

प्रामाण्यमिति समाहितत्वादुत्तरमीमांसायास्तदेकशास्त्रत्वाद्वेदान्तानामपि सिद्धार्थ-

पराणां कर्मकर्तृजीवस्तावकत्वेन तद्विध्येकवाक्यतया वा अस्य वस्तुस्तावकत्वेनो-

पासनाविध्येकवाक्यतया वाऽन्यार्थत्वात् न ब्रह्मणि वेदान्तानां प्रामाण्यमित्य-

नारम्भणीयमिदं शास्त्रमित्यमुमाक्षेपं निराकरोति द्वितीयश्लोकेन विचार्यमित्यादिना1॥ विचार्यं यत् कार्यं विधिभिरभिधेयं तदभवत्2 त्रयी मूर्धा स्पर्धां त्यजति तव निर्धारणविधौ। स्वतस्सिद्धेऽप्यर्थे परमपुरुषार्थे त्वयि भवेत् पदानां व्युत्पत्तिः कथमपि हरे! स्वर्गपदवत्॥२॥ विधिभिः विधिप्रत्ययवाक्यघटितवाक्यैः अभिधेयं प्रतिपाद्यं विचार्यं विचारणीयत्वेन प्रतिज्ञातञ्च यत्कार्यं क्रियारूपं कृतिविषयीभूतं यज्ञादिवदभवत्

  1. D.M. (विचार्यं यत्कार्यं) इत्यधिकपाठः।

  2. D.M. तदभवीत् नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

48 तद्विचारितमासीत्। अथाऽतो धर्मजिज्ञासेत्यादिना1 विधिवाक्यप्रमाणकतयोक्तं च कार्यस्य रूपं पूर्वमीमांसायां निरूपितमित्यर्थः। यद्वा विधिभिरभिधेयं यद्विचार्यं तत्कार्यमभवत्। विधिवाक्यानामेव कार्यपरत्वेन प्रामाण्यं न सर्वेषामित्यर्थः। अयमभिप्रायः कार्यनिष्ठानां विधिवाक्यानां प्रामाण्ये निरूपिते तत्सन्निधिपठितानामर्थवादा नाम तथाभूतानामप्रामाण्यमाम्नायस्य क्रियार्थत्वादित्यनेनाशङ्क्य विधिना त्वेकवाक्यत्वादिति क्रियार्थविधिवाक्यैकवाक्यतया प्रामाण्यमुपपादितम्। न तद्वेदान्तवाक्यसाधारणं भवितुमर्हति। कर्मविध्यसन्निहितानां तेषां साकाङ्क्ष-

सन्निहितोपासनाविध्येकवाक्यताप्रहाणेन दूरस्थनिराकाङ्क्षज्योतिष्टोमादिविध्यन्वयायोगात् उपासनाविध्येकवाक्यता तु न तत्र प्रतिपादयितुं शक्यते। उपासनावसरविधिवाक्यमात्रविश्रान्तमात्राणां तत्रादर्शनेन तदर्थवादानुपव-

स्थिततया तदप्रामाण्यशङ्काया एवानुत्थापनात् तेन कर्मकर्त्रुजीवस्तावस्तावकतया तदेकवाक्यत्वोपवर्णनमपास्तम्। किञ्च कर्मक्रतृजीवादधिकस्य ब्रह्मणोऽपि तत्र तत्र प्रतिपादितत्वादुपासनाविधि-

परस्वतन्त्रवाक्यान्तर्दर्शनाच्च कथं वेदान्तमात्रस्य तदेकवाक्यत्वम्। अपि च अथाऽतो धर्मजिज्ञासेत्यत्र अथशब्दस्य वेदाध्ययनानन्तर्यपरत्वात् वेदार्थजिज्ञासेत्येव सूत्रे प्रणेतव्य धर्मपदं प्रयुञ्जीत। जैमिनिना धर्मातिरिक्तसिद्धरूपोऽपि वेदार्थोऽस्ति तद्विचारस्य नायमवसर इति सूचितत्वात्तथा वेदप्रमाणको धर्म इति वक्तव्ये

  1. T.M. अथातो धर्मजिज्ञासेत्यादिना प्रतिज्ञातं चोदनालक्षणोऽर्थो धर्म इत्यादिना। इति पाठः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

49 चोदनालक्षण इत्युक्त्या अचोदनात्मकस्वतः प्रमाणभूतो वेदभागोस्तीति सूचनाद्वेदान्त-

भागस्थतिं चिदंशविषयकप्रातिस्विकसूत्रान्तरादर्शनेन तस्यैवार्थस्य स्थिरीकरणाच्च नार्थवादमात्रसाधारण्यं विचारस्य कल्पयितुं युक्तम्। अत एव कर्मकाण्डस्थवाक्यानां ब्रह्मकाण्डस्थवाक्योक्तकर्माङ्गिकोपासन विशेषणीभूतकर्मस्वरूपनिरूपणपरतया तच्छेषत्वमपहाय स्वातन्त्र्येण कर्मफलसाधनता-

परत्वं जैमिन्युक्तमसहमानस्य भगवतो बादरायणस्य धर्मं जैमिनित एवेति तन्मतोद्घाटनं सर्वापेक्षामात्रे कर्मणां तदङ्गत्वोपपादनं जैमिनेश्च ब्रह्मपरवाक्यानां कर्मविधिशेषतोप-

पादनद्वारा ब्रह्मकाण्डस्वातन्त्र्यवादि बादरायणमतादुद्घाटनं च सङ्गच्छते। अन्यथा हि। जैमिन्युपपादित वेदप्रामाण्याद्युपजीवनतदुक्तविध्येकवाक्यत्वोप-

जीवनेनैव स्वार्था परित्यागेन तदेकवाक्यत्वोपपादनमात्रेण रात्रिसत्रप्रतिष्ठावत् सर्गादिवच्च ब्रह्मस्वरूपसिद्ध्युपपत्तेः तत्तु समन्वयादिति वेदान्तानां पृथक्समन्वयसमर्थनं तदुपर्यपि बादरायणस्सम्भवादित्यत्र कर्मविधिशेषबोधार्थवादानामपि स्वार्थाप्रहाणेन प्रामाण्योपपादनञ्च सङ्गच्छेत। तस्मादर्थवादनय पर्यालोचनमात्रादुत्सर्गतः प्रतिपन्नेऽप्यर्थवादनामन्यस्य कर्मविधिशेषत्वं समन्वयाधिकरणपर्यालोचनया वेदान्तादुक्तविषयनिश्चीयते। यत्तु उत्सर्गस्यदिवारणादेश्यनियमान्नर्थपादाधिकरणसमन्वयाधिकरणतोत्सर्ग1 उत्सर्गाप-

वादत्वमिति तन्न।पाणिनिव्याकरणे द्वैतीयीकस्य लुग्विधानस्य षाष्टिकेनालुग्विधानेन बाधाङ्गीकारेण तथा नियमस्यैवासिद्धेः।

  1. D.M. पर्यालोचनया॰॰॰करणोत्सर्ग इति पाठो लुप्तः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

50 ननु अथाऽतो धर्मजिज्ञासेति प्रतिज्ञातृ कृत्स्नवेदाध्ययनानन्तरं कृत्स्नवेदार्थ-

जिज्ञासाया आवश्यकत्वात् धर्म एव कृत्स्नवेदप्रधानप्रतिपाद्य इति निश्चीयत इति चेत् सत्यम्। कृत्स्नवेदाध्ययनानन्तर्यमपशब्दार्थः। तथाहि न कृत्स्नो वेदार्थो धर्म एव तथा सति वेदलक्षणो धर्म इत्येव ब्रूयान्न चोदनालक्षण इति तथा च यथार्थशब्द-

प्रयोगादनर्थसाधनस्य नादेर्न धर्मत्वम्। एवञ्चोदनाशब्दप्रयोगेन चोदनात्मकवेदांशप्रतिपद्यो न धर्मः। किन्तु ब्रह्मात्मकः न पृथक् प्रतिज्ञातः पृथगेवमीरित इत्युभयसाधारणवेदाध्ययनानन्तर्यस्याथशब्दार्थत्वेऽपि प्रतिज्ञाद्वयस्य कर्म ब्रह्मात्मकासाधारणार्थपरत्वेन न दोष इति। अस्तु वा कृत्स्नेवेदार्थोऽपि धर्म एवात एव तस्य कर्म ब्रह्मोपासनेति नोभयरूपतया न ब्रह्मापलापः एतत्पक्षे चाम्नायस्य क्रियार्थत्वादित्याक्षेपस्य विधिना त्वेकवाक्यत्वादिति समाधानस्य च वेदान्तभागसाधारणत्वेपि न दोषः। सन्निहित-

ब्रह्मोपासनाविध्येकवाक्यत्वेनैवोपपत्त्या कर्मविध्यन्वयाभावेन ब्रह्मसिद्धेः अविरोधित्वात्। नन्वेवं तत्तु समन्वयादिति स्वातन्त्र्ये वेदान्तानां ब्रह्मपरत्वसमर्थनं व्यर्थं स्यादिति चेन्न। तस्य सन्निहितोपासनविधिरहित सद्विद्यादिवेदान्तभागस्यान्तरेणापि तदेकवाक्यत्वं स्वातन्त्र्येण ब्रह्मपरत्वमस्तीति तत्परत्वादुपायस्योपायान्तरादोषकत्वाच्च। एतेन वेदान्तानामुपासनाविध्येकवाक्यतया प्रामाण्यपक्षे देवताविचारैव ब्रह्मविचारेऽपि सिद्धव्युत्पत्त्यनपेक्षणादाद्याधिकरणं विरुद्धं स्यादिति दूषणं निरस्तम्। उपासनाविध्यसन्निहितवेदान्तवाक्यप्रामाण्यस्याप्यत्रैव निरूपणीयतया तदर्थं सिद्धव्युत्पत्त्यनपेक्षणेन प्रथमाधिकरणवैयर्थ्याभावात्। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

51 वस्तुतस्तु न वेदान्तानां कर्मविधिशेषत्वं शङ्कितुमपि शक्यम्। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेनेत्यादिना ज्योतिष्टोमादीनामप्युपासनाङ्गतया विनियोगेन तद्विधीनामेवोपासनाविधिशेषतायाऽऽवश्यकत्वात्। विविदिषन्तीत्यस्य विधिपरत्वं तु विधिर्वा धारणवदित्यनेन निरूपयिष्यते। तथा चाथातश्शेषलक्षणमथातः क्रत्वर्थपुरुषार्थयोः जिज्ञासेतिवदथाऽतो धर्मजिज्ञासेत्येतदपि कृत्स्नवेदप्रधानप्रतिपाद्यब्रह्मोपासनाङ्गभूतयज्ञाद्यवान्तरार्थप्रतिज्ञापर एवेति न वेदान्तानां ब्रह्मपरत्वे कश्चिद्विरोध इत्यभिप्रायेणाह। त्रयीमूर्ध्नेत्यादिना। तव कर्माङ्गकोपासनोद्देश्यभूतब्रह्मरूपस्य ते निर्धारणविधौ इतरव्यावृत्तिरूपेण प्रतिपत्तौ त्रयी मूर्धा वेदान्तभागः कृत्स्नोऽपि स्पर्धा संशयं त्यजेति तत्स्वरूपमेवैदं सर्वेण निश्चिनोतीत्यर्थः। अयं भावः - उपासनाविध्यसन्निहितो भावस्तावत्सिद्धव्युत्पत्तिसमर्थनेन ब्रह्मणि प्रमाणमेव। तत्सन्निहितोऽपि भागस्तदेकवाक्यतया प्रतिपन्नोऽपि स्वार्थाप्रहाणेनैव स्वर्गाद्यर्थवादविध्यैकवाक्यतामनुभवतीति सोऽपि तत्र प्रमाणमेवेति कृत्स्नोऽपि वेदान्तभागस्तत्र प्रमाणमिति। अथ स्यात् न वेदान्तविचारारम्भः सम्भवति पदार्थज्ञानमन्तरा वाक्यार्थ-

विचारायोगात्। पदार्थज्ञानं हि प्रयोज्यप्रयोजकवृद्धव्यवहारसिद्धपदव्युत्पत्तिमूलकतया लौकिकानयन-क्रियान्वयपदार्थमात्रविश्रान्तं न लौकिकप्रमाणपदातिदूरे ब्रह्मणि। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

52 ननु त करणादिजन्यादृष्टविशेषविशिष्टा1 लौकिकपदार्थेऽपि यूपादिपदानामाधानादिजन्या लौकितसंस्कारजन्या लौकिकसंस्कारविशेषविशिष्टाग्न्यादौ गार्हपत्यादिपदानां च व्युत्पत्तिरङ्गीक्रियते। एवमिहापि किन्न स्यादिति चेन्न - यूपाहवनीयादिशब्दार्थस्य रवादिराग्न्यादे-

स्स्वरूपेणालौकिकत्वाभावात् यूपत्वगार्हपत्यत्वाद्याकारेणालौकिकत्वेऽपि तद्रूपेण तस्य तत्क्षणदानादिसाध्यतया2 तदुपायभूत तत् क्षणादेर्लौकिकतया तत्र व्युत्पत्तेस्सम्भवेऽपि ब्रह्मण्यलौकिके सिद्धरूपे न कथञ्चन व्युत्पत्तिस्सम्भवति। एतेन दुःखासम्भिन्नसुखविशेषरूपे ह्यलौकिके वस्तुनि स्वर्गशब्दव्युत्पत्तिवदिहापि किन्न स्यादिति शङ्का परास्ता। स्वर्गशब्दार्थस्यालौकिकत्वेन तत्साधनज्योतिष्टोमादे-

र्लौकिकत्वेन तत्साध्ये विजातीयसुखरूपे तस्मिन् सुखत्वसामान्येन चन्दनादि-

व्युत्पन्नस्वर्गशब्दशक्तिग्रहसौलभ्येऽपि सिद्धरूपेऽत्र ब्रह्मणि व्युत्पत्त्युपायासम्भवात् न ब्रह्मगोचरवाक्यार्थविचारकरणपदार्थज्ञानसम्भवैक्यतः तत्र पदानां व्युत्पत्तिसौलभ्यं दर्शयति। स्वतस्सिद्ध इत्यादिका। स्वतस्सिद्धे - उपायान्तरानधीनसिद्धिके। तेन ज्योतिष्टो-

माद्यधीनसिद्धिक स्वर्गादिव्युत्पत्तिः यद्वा स्वत इति भिन्नं पदम्। सिद्धे पुरुष-

व्यापाराविषये व्यर्थे पदानां व्युत्पत्तिः स्वतः कार्यान्वयमन्तरेणापि भवतीत्यन्वयः। कथमपीत्यनेन पदव्युत्पत्त्युपायबाहुल्यं सूच्यते।

  1. D.M. ननु॰॰॰विशिष्टा इति पाठः लुप्तः।

  2. D.M. तत्क्षणदानादिसाध्यतया इति पाठः लुप्तः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

53 तथा हि - न तावत्स्वर्गशब्दः सुखत्वप्रामाण्यनिमित्तकः तथा सति लोकव्युत्पत्तिसिद्धशक्तिकस्वर्गशब्दार्थनिर्णयायेदं प्रवृत्तस्य यन्न दुःखेन सम्भिन्नमित्यर्थ-

वादस्य वैयर्थ्यप्रसङ्गात्। विजातीयसुखसाधनताज्ञानमन्तरेण लौकिकसुखपरिपन्थि-

बहुवित्तव्ययशरीरायाससाध्यज्योतिष्टोमादिषु पुरुषप्रवृत्त्यनुपपत्तेश्च। तथा च यदा यन्न दुःखेनेत्यादि श्रुत्या विजातीयसुखविशेषस्वर्गशब्दशक्तिः निर्णीयते। एवमिहापि यतो वा इमानीत्यादिकारणमनूद्य तद्विजिज्ञासस्व तद्ब्रह्मेत्युक्त्या च कारणभूते जिज्ञास्ये वस्तुनि ब्रह्मशब्दशक्तिग्रहस्सम्भवत्येव। न चैवं तस्य कारणवाक्यत्वं न स्यादिति वाच्यम्। या गन्धवती सा पृथिवीत्यादेः लक्षणवाक्यत्वेऽपि पृथिवीशब्दव्युत्पत्तिपरत्ववत् इहापि कारणतापरत्वं अनपोद्यैव ब्रह्मशब्दव्युत्पत्तिपरत्वसम्भवादेकस्याधिकत्वेन तात्पर्यभेदप्रयुक्तवाक्यभेदप्रसङ्गाभावाच्च। अवश्यं चास्य वाक्यस्य व्युत्पत्तिपरत्वमङ्गीकर्तव्यमन्यथा तद्विजिज्ञासस्व ब्रह्मेत्येवेति वक्तव्ये तत्पदान्तरवैयर्थ्यात्। एवञ्च कारणतापरत्वेऽपि वाक्यस्य व्युत्पत्तिपरत्वं दुरुपपन्नमिति सूचयितुञ्च कथमपीत्युक्तम्। अत्र च कामिनीचन्दनभवनादिषु सुखसाधनेषु स्वर्गशब्दस्येहापेक्षिक-

बृहत्वयोगिषु वेदादिषु ब्रह्मशब्दस्य लोकेऽपि प्रयोगोऽस्ति। स च न मुख्य इति सूचनाय स्वर्गपदवदित्युक्तम्। तथा यूपादिपदानां लोके क्वचिदप्यर्थेऽप्रयुज्यमानानामपि यूपं तक्षति खादिरो यूपोभवतीत्यादिषु वाक्यान्तर-

पदान्तरसमभिव्याहाराद्विपत्तिवदिहापि सत्यं ज्ञानमनन्तं ब्रह्म यो वेदनिहितं गुहायामित्यादिवाक्यान्तरपदान्तसमभिव्याहारात् ब्रह्मशब्दव्युत्पत्तिस्सुलभैव। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

54 तथाहि - यूपं तक्षतिनक्तं गार्हपत्यमाधत्ते दिवा हवनीयमित्यादिष्वर्थविशेषे यूपादिपदानामप्युत्पन्नतया तदर्थकर्मकतक्षादिक्रियान्वयबोधासम्भवे सति खादिरो यूपो भवतीति वाक्यान्तरपर्यालोचनया यूपस्य खदिरविकारत्वावगमात् तत्प्रकृतिभूतखदिरस्य तक्षाद्यन्वययोग्यस्य कर्मतयान्वयेन खदिरकर्मकतक्षक्रियाविषयके प्राथमिकबोधे अवगते तत्र यूपपदोपादानफलं विमर्शता नूनं तक्षा संस्कृतः खदिर एव यूप इत्यर्थात् व्युत्पद्यते। तथा गार्हपत्यादिपदानामपि व्यक्तिविशेषानिर्धारितशक्तिकानां न सहसाशब्दस्य शाब्दबोधानुकूलत्वमिति गार्हपत्यमाधत्ते इत्यादौ गार्हपत्यत्वादिना रूपेण तस्याधानकर्म-

त्वेनान्वयबोधासम्भवात्। अग्नीनादधीतेत्यादिवाक्यान्तरपर्यालोचनया अग्नेराधानकर्म-

त्वाभ्युपगमादग्निकर्मकाधानक्रियान्वयबोधे प्रथममवगते तत्र गार्हपत्यादिपदोपादानफलं विमृशता नूनं नक्तमाहितोऽग्निर्गार्हपत्यसंज्ञया दिवाहिताग्निराहवनीसंज्ञित इत्यर्थात् व्युत्पद्यते। एवमिहापि ब्रह्मविदाप्नोति परमित्यादावस्तुविशेषानिर्धारितशक्तिकस्य ब्रह्म-

शब्दस्य न झटिति स्वार्थघटितशाब्दबोधजनकत्वं सम्भवति। कारणन्तु ध्येयः - यतो वा इमानि भूतानि जायन्ते तद्विजिज्ञासस्वेत्यादिषु जगत्कारणतया प्रतिपन्नस्य वस्तुनः ध्यानकर्मत्वानवगमात् तत्रापि कारणविषयकवेदनगोचरशाब्दबोधे प्रथममधिगते तत्र ब्रह्मशब्दोपादानफलं विमृशता तद्विवरणैदम्पर्यप्रकृष्टसत्यज्ञानादिवाक्यपर्यायोपचितबुद्धि-

नामानं सत्यत्वज्ञानत्वानन्तत्वाद्वाकारविशिष्टकारणमेव ब्रह्मशब्दार्थ इति निश्चिनोतीति न किञ्चिदपहीनम्। ननु चोक्तरीत्या ब्रह्मशब्दस्य वेदान्तवाक्यनिर्णयार्थत्वे ब्रह्मविचारात् प्राक् ब्रह्म-

शब्दार्थे ज्ञानासम्भवात् ब्रह्मविचारारम्भबोधकस्याथातो ब्रह्मजिज्ञासेति सूत्रकत्वाबोध-

कत्वप्रसङ्ग इति चेत् न। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

55 एवन्तर्हि अथाऽतो धर्मजिज्ञासा, अथ शब्दानुशासनमित्यादौ काप्यर्थबोध-

दौर्भिक्ष्यं स्यात्। धर्मशब्दस्य शब्दशब्दस्य चेतः प्रागप्रतीतार्थत्वात् निरूप्यते ह्युत्तरत्र चोदनालक्षणोऽर्थो धर्मः अथ गौरित्यत्र लाङ्गूलककुदखुरविषाणानां सम्प्रत्ययो भवति। न शब्द इत्यादिषु धर्मशब्दार्थ शब्दशब्दार्थश्च किञ्चैवमग्निहोत्रं जुहोतीत्यादेरप्य-

बोधकत्वं स्यात्। अग्न्यादिदेवतासम्बन्धकाग्निहोत्रादिशब्दार्थस्य होमविध्यनन्तर-

भाविहोमोद्देश्यकप्रवृत्तिनिमित्तभूताग्न्यादिदेवताप्रतिपादकमन्त्रसम्बन्धबोधक- विध्यन्तर-

सापेक्षतया ततः प्रागनवगतत्वात् यदि च विशिष्य धर्मादिशब्दार्थपरिज्ञानेऽपि वसन्ते सहकारेऽपि को मधुरं रौतीत्यादाविव प्रसिद्धार्थजिज्ञासादि पदसमभिव्याहारात् सामान्यतो धर्मादिशब्दार्थेऽवगते चोदनालक्षणोऽर्थो धर्म इत्याद्यनुसारात्, इतरव्यावृत्तो धर्मशब्दार्थो विशिष्य पश्चान्निश्चीयत इत्युच्यते। तर्हीहापि जिज्ञासापदसमभिव्याहारात् सामान्यतो ब्रह्मशब्दार्थेऽवगते जन्माद्यस्य यत इत्याद्युत्तरसूत्रानुगुण्यात् तद्विशेषनिर्णय इति गृहाण। वस्तुतस्तु आहतप्रतीतेरेतच्छास्त्र-प्रवृत्तिहेतुत्वादग्निहोत्रं जुहोतीत्यादौ सामानाधि-

करण्यादिना प्रथमतो होमनामधेयत्वे अवगते पश्चात्तत्प्रख्यञ्चान्यशास्त्रमित्यादिभिः वृत्तिविशेषनिर्णयवदिहापि वेदान्तवाक्यावगतापातप्रतीत्या ब्रह्मशब्दार्थघटितमात्रार्थबोधे प्रथममधिगतेऽपि तस्य जातिजीवादिसाधारणत्वनिर्धारणद्वारा जगज्जन्मादिकारणे ब्रह्मणि कारणत्वोपयुक्त-बृहत्वबृंहणत्वादिप्रवृत्तिनिमित्तपौष्कल्येन तच्छक्तिविशेषनिर्धारणाय जन्माद्यस्य यत इत्युच्यते।

इयांस्तु विशेषः - चोदनालक्षणोऽर्थो धर्म इत्यत्र पुनर्दर्शशब्दपाठात्

उभयससूत्रयोर्भिन्नवाक्यतया सामान्यविशेषबोधायकत्वं पूर्वमीमांसायामिह तु जन्माद्यस्य

यत इति साद्यं निर्दिश्य पदान्तसाकाङ्क्षापञ्चम्यन्तपदघटितब्रह्मशब्दाघटित-

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

56

सौत्रनिर्देशादुभयोस्सूत्रयोः एकवाक्यता प्रतिपत्त्या यतोऽस्ति जगतो जन्मादि तत्

ब्रह्मजिज्ञासा नाकर्तव्येत्युक्त्वा जन्मादिकारणं ब्रह्मजिज्ञास्यम् इत्येकविधिबोधाधायकत्व-

उभयोर्मात्रयोरिति। एतदभिप्रायेणैव श्रीमद्भाष्ये जन्मादिसूत्रमवतारितम्।

किं पुनस्तद्ब्रह्म यज्जिज्ञास्यमुच्यत इति देवताकाण्डेनापि सहास्यैकशास्त्रमिति मते

तु स विष्णुराह हितं ब्रह्मेत्याचक्षते तं ब्रह्मेत्याचक्षत इत्यन्तिमाधिकरण एव

ब्रह्मशब्दार्थनिर्णयान्न तच्छब्दार्थनिर्णयदौर्भिक्ष्यमिति।

न च सामान्यशक्त्या प्रयोगनिर्वाहे विशेषशक्तिकल्पनस्य बर्हिराज्याधिकरण-

सिद्धत्वादिहापि जातिजीवादिनोदाहरणबृहत्वमात्रनिमित्तकशक्त्यैव ब्रह्मशब्दस्य

परब्रह्मण्यपि प्रयोगोपपत्तेः।

न तत्र विशिष्य शक्तिकल्पनायुक्तेति वाच्यम्। प्रवृत्तिनिमित्तानतिप्रसङ्गे

प्रमाणान्तराभावे च युक्तेत्येतद्विषयत्वात् बर्हिराज्याधिकरणस्येह तु बृहत्वमात्रस्य

ब्रह्मशब्दप्रयोगाविषयघटाद्यव्यावृत्तितया बृहतिबृंहतीत्यादिप्रमाणान्तरसद्भावेन च

रथकारादिशब्देष्विव विशेषकल्पनायुक्तैव।

यत्तु प्रवृत्तिनिमित्तसाधारण्येऽपि पूर्वाप्रयोगादेवात्र योगोपपत्तेर्न

तदर्थविशेषशक्तिकल्पनमिति सिद्धान्त सिद्धाञ्जनोक्तं तन्न।

सति प्रवृत्तिनिमित्ते पूर्वपूर्वाप्रयोगस्यैवानुपपत्तेः अन्यथा गवादिशब्दानामपि

गन्तृत्वादिकमेव प्रवृत्तिनिमित्तं स्यादीश्वरादिषु। तदप्रयोगस्य पूर्वाप्रयोगापपत्तेः। एवं

पङ्कजरथकाराध्वर्यादिशब्दानामपि तदर्थविशेषे शक्तिर्नस्यादिति यत्किञ्चिदेतत्।

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

57

ननु अत्रैव सिद्धे वस्तुनि पदानां व्युत्पत्तिसमर्थने तदुपर्यधिकरण-

पूर्वपक्षानुन्मेषप्रसङ्गः। तत्र हि देवताविग्रहादिप्रतिपादकार्थपादांशस्य स्वार्थपरत्वाभावेन

देवतानां विग्रहादिसाध्यकर्माङ्गकोपासनानधिकारः पूर्वपक्षे क्रियते। तच्च सिद्धव्युत्पत्ति-

सिद्धा न सिध्यति।

न च तत्सद्भावेऽपि कर्मविधिविशेषतया न स्वार्थपरत्वं तेषामित्यधिका शङ्का

व्यावृत्तये तत्सार्थकमिति वाच्यम्। तथा सति ब्रह्मपरवाक्यानामप्युपासनाविधिशेषतया

ब्रह्मस्वरूपस्याप्यसिध्यापत्त्या सुतरामधिकरणारम्भप्रसङ्ग इति मामाशङ्कां परिहर्तुं

परमपुरुषार्थ इत्युक्तम्।

अयमभिप्रायः पुरुषप्रवर्तनात्मको हि विधिपुरुषार्थबोधनपर्यवसाये तया प्रमाणं

भवति। नान्यथा तथा च ज्योतिष्टोमादिविधिविशेषस्यापि स्वर्गाद्यर्थवादस्य

पुरुषार्थभूतस्वर्गादिविषये प्रमाणत्वमुपासनाविधिशेषभूतार्थवादानामपि परमपुरुषार्थ-

रूपतया विज्ञानमानन्दं ब्रह्मेत्याश्रित्यवगतपरब्रह्मणि प्रामाण्यसम्भवेऽपि कर्मविधिविशेष-

भूतार्थवादानामपुरुषार्थरूपे देवताविग्रहादौ न कथञ्चन प्रामाण्यमिति न तद्बलाद्देवता-

विग्रहादिसिद्धिरित्यधिका शङ्का व्यावर्तकतया तदधिकरणप्रवृत्तेरिति विस्तरेण

चैतत्तदधिकरण एव वक्ष्यामः।

अत्र पदानामिति बहुवचनं ब्रह्मशब्दवत् सर्वेषामपि शब्दानां साक्षाद्वा परम्परया

वा ब्रह्मण्येव तात्पर्यमेतच्छास्त्रे प्रतिपाद्यत इति सूचयितुं तच्च यथास्थानं निरूपयिष्यते–

एवन्तावत् जिज्ञासासूत्रं व्याख्यातम्। अथ जन्मादिसूत्रं व्याख्याति त्रिभिः

श्लोकैः। तत्र प्रथमश्लोके भिन्ननिमित्तोपादानत्वरूपं कारणत्वं नारायणनिष्ठमिति

प्रतिपाद्यते॥२॥

⏺⏺⏺

नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च

नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

58