॥श्रीः॥ तत्र अथाऽतो ब्रह्मजिज्ञासे1त्यारभ्यानावृत्तिश्शब्दादि2ति पर्यन्तस्याकृत्स्नस्य शास्त्रस्य भगवदेकनिष्ठां प्रतिष्ठापयितुं जिज्ञास्यत्वं भगवतः प्रथमतो वक्क्ति - हरे! जिज्ञास्यत्वमिति। हरे! जिज्ञास्यत्वं तव मुनिरवादीत् प्रथमतो, यतो ब्रह्मेत्येतत् तव पदमसाधारणमभूत्। अथातश्शब्दाभ्यामपि विहितकर्मावगतिभि- स्तदाऽराध्यो वेद्यस्त्वमिति निरणैषीत् करुणया॥१॥ अत्र जिज्ञास्यत्वस्य विष्ण्वेकनिष्ठत्वकथनेनोत्तरसूत्रसन्दर्भस्यापि तदेकविषयत्वं सूचितम्। न ह्यजिज्ञास्यमुत्तरशास्त्रविषय इति भावः। तदधिगम उत्तरपूर्वादघयोरश्लेष-
विनाशावित्यनेन मोक्षसाधारणकारणज्ञानसाध्यतया वक्ष्यमाणस्य पापसम्बन्धाभावस्य “हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत”3 इत्यादिभिर्भगवद्ध्यानाधीनत्व4बोधनात् तस्य जिज्ञास्यत्वं युक्तमिति सूचयन् हरिशब्देनैव सम्बोधयति5 - हरे!6 इति॥
-
ब्र॰सू॰ 1.1.1
-
ब्र॰सू॰ 4.4.22
-
हर्य॰ श्लो॰ 1
-
॰र्भगवध्यानाधीनत्व॰
-
D.M. सम्बोध्यते
-
ब्रह्मसूत्रस्तवरूऽपेस्मिन् नयद्युमणिदीपिकाग्रन्थे एकैकस्मिन् श्लोके एकैकेन नाम्ना भगवन्तं सम्बोधयन्ति ग्रन्थकर्तारः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
8 मुनिरित्यनेन पुनः पुनर्विचारणात्मकमननशीलत्वमभिदधता – आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः। इदमेकं सुनिर्दिष्टं1 ध्येयो नारायणस्सदा॥ सत्यं सत्यं पुनस्सत्यमुद्धृत्यं भुजमुच्यते। वेदशास्त्रात् परन्नास्ति न दैवं केशवात् परम्2॥ इति निश्चिन्वता भगवता बादरायणेन प्रणीतानि सूत्राणि न देवतान्तरविषयाणि भवितुमर्हन्ति। तत्स्वभावविरोधादिति सूचितम्। सर्वज्ञत्व-सर्वशक्तित्व-परमकारुणिक-
त्वादिकल्याणगुणसिद्धिमुपदर्शयता तवेत्यनेन यस्सर्वज्ञस्सर्वविदि3त्यादिश्रुतिप्रतिपन्न-
सुगुणसन्दोहमन्दिरस्य भगवतो जिज्ञास्यत्वमभिदधतः सूत्रकारस्य यथावस्थितार्थ-
कथनेनाप्ततमत्वं सूचितम्। तव मुनिरित्यन्वयेनात्यर्थभगवत्प्रीतिविषयकत्वव्यञ्जकेन यमेवैष वृणुते न लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामि4ति श्रुतिकटाक्षेणातिरोहितभगवत्स्वरूप-
याथात्म्यावबोधनधौरन्धर्यमस्योपास्यभगवत्कटाक्षायत्तमिति सिंह5वनगुप्तिन्यायेन6 उभयोस्सम्बन्धो युज्यत इति व्यज्यते।
-
T.M. इदमेकसुनिष्टंन्नं
-
द्वा॰पं॰स्तो॰ श्लो॰ 16, 17
-
मुं॰उ॰ 2.6
-
मुं॰उ॰ 3.2.3
-
D.M. सिह्म॰
-
न स्याद्वनमृते सिंहात् न स्युः सिंहादृते वनम्। वनं हि रक्ष्यते सिंहैः सिंहान् रक्षति काननम्॥ लौ॰न्या॰को॰ पृ॰ 601 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
9 तवेत्यत्र राहोᐋश्शर इᐋतवदभेदषष्ठ्याश्रयणेन अपहतपाप्मनो भगवतोऽवतार-
रूपत्वादस्य भ्रमविप्रलभ्यादिकं दूरोत्सारितम्। अत्र सर्वं वाक्यं सावधारणमिति न्यायेन सन्त्येकपदान्यप्यवधारणानि अब्भक्षो वायुभक्ष इति अप एव भक्ष इति, वायुमेव भक्षयति इत्यर्थ1 इति महाभाष्योक्तरीत्या तवैव जिज्ञास्यत्वमवादीदिति गम्यते। तथा च नाम श्रीमद्भाष्यं तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्य इति। न हि क्षुत्क्षामो भिक्षुको भिक्षुकान्तरं याचत2 इति न्यायेन तापत्रयातुराणां विधिशिवादीनां न तापत्रयातुरोपास्यत्वमिति भावः।
15.1. जिज्ञासाशब्दार्थविचारः
अत्र जिज्ञास्यमिति कृत्यप्रत्ययेन विधेयत्वमभिदधता सूत्रेऽपि तद्विजिज्ञासस्वेति विषयवाक्यगतलोडन्तपदानुगुण्येन कर्तव्येति पदमध्याहर्तव्यमिति सूचितम्। जिज्ञासा च ज्ञानगोचरेच्छा। तत्रेच्छाया वस्तुसौन्दर्यायत्ताया विधिपरतन्त्रत्वा-
भावेन तत्र कर्तव्यत्वानन्वयेऽपि तद्विषयीभूते विचारपर्याये तर्करूपे ज्ञाने धात्वर्थे तदन्वयस्सम्भवत्येव। न च प्रत्ययार्थस्य प्रकृत्यर्थापेक्षया प्राधान्यस्यौपगवादौ दृष्टत्वादिहापि छायाप्राधान्यावश्यम्भावे कथं तद्विशेषणस्य ज्ञानस्य विधेयत्वम्? प्रधानाप्रधानयोः प्रधानस्यैव विधेयत्वौचित्यादिति वाच्यम्। दध्ना जुहोतीत्यादौ धात्वर्थस्य होमस्य प्राधान्याद्विधिप्रतीतावपि प्राप्ताप्राप्तविवेकेनाप्राप्ते दध्यादौ विध्यन्वयवदिहापि इच्छाप्राधान्येऽपि तस्य स्वतः प्राप्तत्वेनाविधेयतया तद्विशेषणोऽस्य ज्ञानस्य विधेयत्वे बाधकाभावात्, इच्छावाचकपदसमभिव्याहारे इष्यमाणप्राधान्य-
-
T.M. भक्षयतित्यर्थ
-
सं॰न्या॰ पृ॰ 378 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
10 स्यावर्जनीयतया प्रत्ययार्थाप्राधान्यस्यौत्सर्गिकस्य सन्नादिप्रत्ययासमभिव्याहार-
स्थलीयत्वकल्पनेन इहापीष्यमाणस्य ज्ञानस्य प्राधान्याविघाताच्च। अन्यथा अश्वेन जिगमिषति, असिना निघांसतीत्यादौ प्रकृत्यर्थे गमनादावश्वाद्यनन्वयप्रसङ्गात्। अप्रधानतयोपस्थिते पदार्थे पदार्थान्तरान्वयायोगात् लिङ्गसङ्ख्यादेः प्रत्ययार्थस्यापि प्राधान्यादर्शनेन तथाविधनियमस्यैवासिद्धेश्च। एवमेव च श्रीमद्भाष्यं दृश्यते। “ज्ञातुमिच्छा जिज्ञासा। इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयत”1 इति। अत्र च ज्ञानशब्दस्सामान्यवचनोऽपि प्रमाणपरतन्त्रस्य परोक्षस्य वा अपरोक्षस्य वा ज्ञानस्य पुरुषतन्त्रत्वेन विध्यनर्हत्वात्तर्करूपं ज्ञानमभिधत्त इत्युक्तम्। प्राचीननिबन्धनेषु सन्प्रत्ययस्य ज्ञानप्राधान्यमवगमयति। धातोः कर्मणस्समानकर्तृकादिच्छायां प्रत्यनुशासनेनेषिकर्मणो धातोरिषिणा समान-
कर्तृकादिच्छार्थे सन्प्रत्ययविधानात् कर्मत्वस्य प्राधान्याविनाभावात् ज्ञातुमिच्छेति विवरणेनापीदमेव निर्णीयते।
2तुमुन्ण्वुलौ3 क्रियायां क्रियार्थायामिति पाणिनिस्मरणात् तस्माल्लिङ्गसङ्ख्यादिवत् प्रत्ययार्थीभूतापीच्छा न प्राधान्यमर्हतीत्युपसर्जनीभूतां तामुल्लङ्घ्य ततोऽपि प्रधानभूतं ज्ञानमेव विधीयते। ननु न प्राधान्यं विधीयत्वे प्रयोजनं न वोपसर्जनत्वं तदभावे स्नात्वा भुञ्जीत प्राङ्मुखोऽन्नानि भुञ्जीतेत्यादौ प्रधानस्यापि भोजनस्याविधेयत्वदर्शनात्। उपसर्जनी-
-
श्री॰भा॰ 1.1.1 सूत्रव्याख्याने
-
पा॰सू॰ 3.3.10
-
T.M. & D.M. तुमुण्णुमुलौ नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
11 भूतस्यापि स्नानप्राङ्मुखत्वादेर्विधीयत्वदर्शनाच्च। किन्तु अप्राप्ते शास्त्रमर्थवदिति सूत्रोक्त-
न्यायेन मानान्तराप्राप्तत्वं तदभावश्च ततश्च विधेयत्वाय प्रधानत्वोत्कीर्तनमयुक्तमिति चेत् सत्यम्। सम्भवतः प्रधानविधेस्त्यागायोगस्य न्यायसिद्धतया इह विधेयस्य ज्ञानस्य प्राधान्यमप्यस्तीति सूचनाय तदनुपादानात्। ननु अथापि न प्राधान्यम्। विधेयत्वे हेतुतयोपादातुमुचितम्। अनुवाद्यत्वानु-
बन्धिनः तस्य विधेयत्वविरोधित्वात्। अन्यथा व्रीहीन् प्रोक्षतीत्यादौ व्रीह्यादीनामपि विधेयत्वप्रसङ्गात्। उद्देश्यानुवाद्यप्रधानत्वानाम् उपादेयविधेयगुणत्वानाञ्च मिथो विरोधस्य वाजपेयाधिकरणसिद्धत्वादिति चेदुच्यते। नात्र गुणत्वप्रतीकोऽपि भूतं भाव्यत्वापरपर्यायं प्राधान्यं भाष्येऽभिधीयते। येन विध्यनन्वयस्स्यात्। किन्तु समभिव्याहृतपदान्तरप्रतिपाद्यार्थान्वययोग्यताघटकं स्वतन्त्रोपस्थितत्वरूपं प्राधान्यं तच्च न विधेयत्वविरोधि प्रत्युतानुकूलमेव प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययस्य न्याय्यत्वात् तथा च वस्तुस्वभावायत्तत्वेनेच्छाया अविधेयत्वेऽपि स्वतन्त्रोपस्थिते तद्विषये ज्ञाने कर्तव्यत्वान्वयो न विरुद्ध इति विस्तृतञ्चैतत् सिद्धान्तवैजयन्त्यामस्मत्पितामहचरणैरिति तत्रैव द्रष्टव्यम्॥ यत्त्वत्र नवीनोक्तं स्नानादिकं प्राधान्येनाप्रतीतत्वाद्विधातुं युक्तम्। इह तु ज्ञानमिच्छां प्रति कर्मतया प्राधान्येन प्रतीतमिति कथन्तद्विरोधिनी1 विधेयता ? न हि स्वर्गकामपदेनेच्छाविषयतया प्रतीतस्वर्गोऽपि विधेयः। किञ्च प्राङ्मुखो भुञ्जीतेत्यादौ विधेयप्राङ्मुखत्वादीनामाश्रयसमर्थनाय भजधातुस्सार्थकः।
- D.M. ॰विरोधीनि नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
12 प्रकृतेऽनुविधेयज्ञानं प्रति इच्छाया आश्रयत्वासम्भवात्तद्विजिज्ञासस्वेति श्रुतौ सूत्रे च सन्प्रत्ययो व्यर्थः। किञ्च, जानातेः प्रमितौ स्वारस्यात् सन्वाच्या वा इच्छायाश्च प्रमितिरूपफलविषयत्वास्वारस्यान्न सन्नन्तजानातेस्तद्रूपज्ञानपरता, किञ्च त्वन्मते विचारकर्तव्यताया मानान्तरप्राप्तत्वाच्छ्रोतव्य इत्यादिवाक्यवत् सूत्रमप्यनुवादकमेव स्यादिति कथं विधायकतोक्तिः कथञ्चिदप्राप्त्युपपादने तु श्रोतव्य इत्यादिरपि विधिस्स्यादिति अत्र ब्रूमः। किं कर्मत्वावगतिमात्रं विधेयत्वविरोधि? किं वा इच्छाकर्मत्वावगतिः? यद्वा विध्यर्थभावना कर्मत्वावगतिः? नाद्यः कृतिविषययागादेः विधेयत्वस्य तदविषय-
देशकालादेः अविधेयत्वस्य च दर्शनेन कृतिकर्मतावगतेर्विधेयत्वप्रयोजकतया कर्मत्वप्रतीतिमात्रस्य विधेयत्वविरोधित्वाभावात्। अत एव यत्र सिद्धस्य दध्यादेर्विधेयत्वं तत्रापि व्यापारानुविद्धत्वेन तस्य कृतिविषयत्वं सम्पाद्यैव विधेयत्वमाघाराग्निहोत्राधिकरणादौ निरूपितं करणत्वम् औपादानिकं विषयत्वं शाब्दं तच्च कृत्यवच्छेदद्वारा कार्यावच्छेदकमिति वदतां
1प्राभाकाराणामप्यभिमत एवायमर्थः। न द्वितीयः। फलोपाधिकायाः साधनेच्छायाः सम्भवेच्छाकर्मत्वमात्रेणाविधेयत्वे यागादीनामपि अविधेयत्वप्रसङ्गात्। ननु मास्तु इच्छाकर्मत्वमात्रं विधेयत्वविरोधी। तथापि स्वसमभिव्याहृतपदान्तरप्रतिपाद्येच्छाकर्मत्वं2 तद्विरोध्येव। अन्यथा तथाविध-
स्वरादेरपि विधेयत्वप्रसङ्गादिति चेत् मैवम्।
-
D.M. प्राभाकराणामपि
-
D.M. प्रतिपद्येच्छाकर्मत्वं नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
13 स्वर्गादेर्विधेयत्वाभावो न। स्वसमभिव्याहृतपदान्तरप्रतिपाद्येच्छाकर्मत्ववशात्। अपि तु प्रवर्तनात् पदस्य विधेः प्रवृत्तिरूपपुरुषव्यापारं प्रति साक्षाद्विषयीभूतो यस्तन्मात्रविश्रान्ततया स्वर्गादेश्च साक्षात्पुरुषव्यापाराविषयतया विधेयताप्रयोजक-
साक्षात्पुरुषव्यापारसाध्यत्वाभावादेव। तथाहि - विधिं प्रति नेच्छाकर्मत्वज्ञानस्य प्रतिबन्धकत्वं ग्राह्याभावानव-
गाहिनस्तस्य विधेयस्येदित्यादौ अभिजनसङ्ग्रहादेरपि विरोधप्रसङ्गात्। न तृतीयः - भावनाकर्मत्वस्य विधेयत्वप्रयोजकत्वेऽपि प्रकृते भावनाकर्मत्वस्यापुरुषार्थे तर्करूपे ज्ञाने असम्भवेन कर्मणि षष्ठ्या परमपुरुषार्थभूतस्य ब्रह्मणो भावनाभाव्यत्वनिर्णयेन भाव्यान्तराकाङ्क्षानुदयेन च। षष्ठ्याद्यन्वयानुरोधेन धात्वन्तरार्थस्यैव ज्ञाधात्वर्थस्यापि भावनाकर्मत्वाभावेन च विधेयत्वप्रसङ्गात्। यद्यपि पुरुषार्थस्यापि ब्रह्मणस्सिद्धरूपतया भावनाभाव्यत्वं स्वरूपेण न सम्भवति। तथापि यथा व्रीह्यादीनां सिद्धरूपाणामपि ¯…¯
1विधेयस्त्वज्ञानं प्रति अप्रतिलम्भकत्वात्। न हीच्छाकर्मत्वज्ञानं विधिविषय-
कृतिसाध्यताज्ञानं तथाविधेष्टसाधनतादिज्ञानं वा प्रतिबध्नाति। न चेष्टस्येष्टसाधनता-
योगात्2। इच्छाविषयत्वज्ञानं विधिविषयेष्टसाधनताज्ञानं प्रतिबध्नात्येवेति वाच्यम्। फलोपाधिकायाः साधनेच्छायाः सम्भवेन इच्छाविषयत्वस्येष्टसाधनत्वाभावव्याप्तत्वा-
भावात्। मण्यादिन्यायेन तत्प्रतिबन्धकत्वस्याप्रामाणिकत्वात्। अन्यथा फलार्थिनः सर्वत्र साधनेच्छासम्भवेन साधनमात्रविधिविरोधप्रसङ्गात्। अत एव न समभिव्याहृतपदान्तर-
प्रतिपाद्येच्छाविषयत्वज्ञानमपि तद्विरोधि अप्रयोजकत्वात्।
-
T.M. विधेयस्येदित्यादौ अभिजनसंग्रहादेरपि विरोधप्रसंगात्
-
D.M. साधनयोगात् नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
14 अन्यथा तस्मिन्नभिजनविद्यासमुदेतं सहितं संस्कर्तारमीप्सेत्। प्राचार्यं परिचर्यया उपसङ्गृह्य उपसञ्जिगृक्षेदाचार्यम्। बाल्येन तिष्ठास्ये1दित्यादौ अभिजनसङ्ग्रहादेरपि विरोधप्रसङ्गात्। न तृतीयः। भावनाकर्मत्वस्य विधेयत्वप्रयोजकत्वेऽपि प्रकृते भावनाकर्म-
त्वस्यापुरुषार्थे तर्करूपे ज्ञाने असम्भवेन कर्मणि षष्ट्या परमपुरुषार्थभूतस्य ब्रह्मणो भावनाभाव्यत्वनिर्णयेन भाव्यान्तराकाङ्क्षानुदयेन च षष्ठ्याद्यन्वयानुरोधेन धात्वन्तरार्थस्यैव ज्ञाधात्वर्थस्यापि भावनाकर्मत्वाभावेन च विधेयत्वप्रसङ्गात्। यद्यपि पुरुषार्थस्यापि ब्रह्मणासिद्धरूपतया भावनाभाव्यत्वं स्वरूपेण न सम्भवति। तथापि यथा व्रीह्यादीनां सिद्धरूपाणामपि वितुषीभावादिविशिष्टत्वेन साध्यत्वम्। तथा विचारफलभूतप्रमितिरूपज्ञानविशिष्टत्वेन तस्यापि भाव्यत्वं सम्भवत्येव। अत एव ज्ञाधातोः प्रमितिपरत्वशङ्कापि परास्ता। भाव्यकोट्यन्तर्गतस्य तस्य विधेयत्वायोगेन विधेयसमर्पकस्य धातोः अविधेयप्रकृतिपरत्वायोगात्। तस्माद्विचारस्य प्रकृतधात्वर्थस्य भावनाभाव्यत्वायोगात् न विधेयत्वविरोधः। वस्तुतस्तु भावनाभाव्यत्वमपि न विधिविरोधि। अन्यथा शब्दभावनाभाव्यायाः अर्थभावनाया अप्यविधेयत्वापत्तेः। अन्ततः तदंश2भूतयागादेरपि विधेयत्वाभाव-
प्रसङ्गाच्च। यदि च फलसाधनगोचरव्यापाररूपाया अर्थभावनायाः फलोपाधिक-
भावनाभाव्यत्वेऽपि स्वारसिकभावनाभाव्यत्वस्य फलसाधनगोचर3मात्रनिष्ठत्वात् तस्यैव
-
बृ॰उ॰ 3.5.1
-
D.M. तदङ्ग॰
-
D.M. साधनगोचर इत्यधिकपाठः। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
15 च विधेयत्वविरोधित्वान्नार्थभावनाया विधेयत्वविरोध इत्युच्येत। तर्हि विचारेप्यफलभूते तथैव कर्मत्वं न विधेयत्वविरोधीत्युपशाम्यतु भवान्। परमार्थतस्तु - प्रकृतविधिप्रयुक्तकृतिसाध्यता धीविशेष्यत्वरूपोपादेयत्वस्य विधेयत्वानुगुणितायाः सर्वसम्मततया कर्मत्वावगतिमात्रस्य प्राधान्यावगवद्वारा विधेयत्व-
विरोधित्वकथनमयुक्तमेव। नापि समभिव्याहृतपदप्रतिपाद्येच्छाकर्मत्वावगतिः। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यमि1त्यादौ ब्रह्मण एव सर्वप्राधान्यावगमेनेहापि कर्मणि षष्ठ्या ब्रह्मण एव प्रकृतविधिप्रयुक्तकृत्युद्देश्यता
धीविशेष्यत्वरूपोद्देश्यतापरपर्यायप्राधान्यावगत्या ज्ञाधात्वर्थज्ञानस्य तथाविधप्राधान्य-
प्रतीतेः अयोगात्। फलेभ्यो वृक्षमारुरुक्षतीत्यादौ समभिव्याहृतचतुर्थ्यन्तपदोपात्त-
फलाधीनैवोद्देश्याकाङ्क्षापूर्त्या सन् प्रत्ययाभिहितेच्छाकर्मतया अवगतस्यापि धात्वर्थस्या-
रोहणस्य अनुद्देश्यवदिहापि ब्रह्मरूपोद्देश्यान्तरश्रावणेन तदाकाङ्क्षाशान्त्यै सन्वाच्येच्छा-
कर्मतया अवगतस्यापि ज्ञाधात्वर्थज्ञानस्यानुद्देश्यत्वसम्भवेन विधेयत्वाविरोधाच्च।
सिद्धस्यापि ब्रह्मणोनुभाव्यत्वेन प्राप्यत्वेन वा भाव्यत्वेन उद्देश्यत्वसम्भवात्। अत
एव धर्माय जिज्ञासा ब्रह्मणे जिज्ञासेति शाबरभाष्यबोधायनवृत्तिग्रन्थयोः
उद्देश्यत्वाभिधायकचतुर्थ्यन्तपदेन धर्मब्रह्मणोर्निर्देशः कृतः।
प्रकृतिविकारभावरहितस्थले तादर्थ्यचतुर्थ्याः समासस्यासाधुत्वात्तथा विग्रह-
प्रदर्शनमयुक्तमिति भाष्यादौ षष्ठीसमासोऽभिहितः। तथा च तुमर्थाच्च भाववचनादिति2
-
मुण्डक॰उ॰ 3.8
-
T.M. भाववचनादिचतुर्थी, D.M. भाववचनादिति चतुर्थी
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
16
चतुर्थीमाश्रित्य फलेभ्यो वृक्ष इत्युक्तोदाहरणे फलाहरणस्योद्देश्यत्वलाभवत् अत्रापि
ब्रह्मप्रमितेरुद्देश्यतया लाभो निष्प्रत्यूहः।
एतेन प्रतिष्ठन्ति ह वा एते तारात्रिरूपयन्तीत्यत्र प्रतिनिष्ठा सन्तीति सनन्तनिर्देशेन
प्रतिष्ठाया उद्देश्यत्वदर्शनादिहापि तथात्वं किन्न स्यादिति शङ्का परास्ता।
उद्देश्यान्तरसद्भावासद्भावाभ्यां वैलक्षण्यात्। अत एव सर्वेभ्यो दर्शपूर्णमासौ सर्वे
ज्योतिष्टोम इत्यादावूर्जं पशूनामोत्यूर्जोवरुद्धादित्यादौ च फलत्वोद्देश्यत्वलाभाय
चतुर्थ्यन्तनिर्देशः कृतः।
यत्रापि कामपदसमभिव्याहारो यजेत स्वर्गकाम इत्यादौ1 तत्रापि यागं कुर्यात्
स्वर्गायेत्यवबोधम्। अत एव दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत आदित्येभ्यो भुवद्भ्यः
चरुं निर्वपेत् भूति काम इत्यादेः स्वर्गाय हि कालो यद्धर्शपूर्णमासाविज्येते। आदित्या वा
एनं भूत्यै प्रतिनुदन्त इत्यादयश्चतुर्थ्यन्तपदघटिताः प्रति निर्देशाः दृश्यन्ते।
फलायगुणविधिरित्यादि तान्त्रिकव्यवहारा अप्यत्रैवानुकूलाः।
एतदेवाभिप्रेत्य किमर्थं भावयेदित्याकाङ्क्षया फलस्यान्वय इति न्यायपरिशुद्धा-
वार्यैरुच्यते। किं भावयेदित्याकाङ्क्षा तु धात्वर्थेनैव पूर्यते। स्तोकं पचतीत्यादौ
क्रियाविशेषणानां कर्मत्वबोधकद्वितीयान्तत्वानुशासनेन भावनायां धात्वर्थस्य भाव्यत्वेनैव
अन्वयात्। जिज्ञासाधिकरणभाष्ये विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं
शब्दानुशासनसिद्धं लिङ्गादेर्वाच्य इत्यध्यवयत इत्युक्तम्। गीताभाष्ये च “युध्यस्व
विगतज्वर”2 इत्यत्र युद्ध्यस्व युद्धाख्यं कर्मारभस्वेति व्याख्यातम्। युक्तञ्चैतत् -
-
D.M. मीमाٷावाक्ये
-
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः। भ॰गी॰ 3.30
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
17
कृतिरुपायाः भावनायाः निर्विषयायाः प्रतीत्यसम्भवात्1 पुरुषार्थस्यापि (फलस्य)
या(गा)2दिगोचरकृत्यनुनिष्ठादितत्त्वेऽपि3 कृतिविषयत्वासम्भवेन देशकालादिवदुद्देश्य-
त्वेनैव अन्वयादपुरुषार्थोपि धात्वर्थो यागादेरेव तत्र विषयतया सम्बध्यते। तद्विषयत्वञ्च
तत्साध्यत्वं विना न सम्भवतीति किं भावयेदित्याकाङ्क्षा तेनैव पूर्यते।
न चैवं साध्यस्य साध्यान्तराकाङ्क्षत्वात् फलानन्वयः शङ्क्यः। तथा सति करणस्य
करणाकाङ्क्षत्वात्सोमादीनामपि अन्वयो न स्यात्। यदि च सोमादेः वस्तुतः
करणत्वेऽपीति कर्तव्यतात्वेनैवान्वयो न करणत्वेनेत्युच्यते। तर्हि फलस्यापि
वस्तुतस्साध्यत्वेप्युद्देश्यत्वेनैवान्वयो न साध्यत्वनेति तुल्यत्वात्।
न चैवं ज्योतिष्टोमेनेत्यादि तृतीयान्तविशेषणानन्वयस्स्यादिति वाच्यम्।
करणत्वपक्षेऽग्निहोत्रं जुहोतीत्यादावार्थिकसाध्यत्वानुवादित्वेन द्वितीयोपपत्तिवत्
एतन्मतेप्युद्देश्योपादेययोः परस्परान्वयसामर्थ्यलब्धकरणत्वानुवादित्वेन तृतीयोपपत्ते-
स्सम्भवात्। सामान्यविशेषभावकृतं भेदमाश्रित्य दर्भैश्शुल्बं कुर्यादित्यादिवत्साध्य-
साधनभावनिर्देशोपपत्तेश्च धात्वर्थभावनया गतिभेदेऽपि सामान्यविशेषभावमादाय
सामान्यरूपायां भावनायां धात्वर्थकरणकत्वस्य परैरप्युपादानाच्च। नन्वेतन्मते
किमर्थमित्याकाङ्क्षाधिक्याद्भावनायास्त्र्यंशत्व व्यवहारविरोधस्स्यादिति चेन्मैवम्।
- T.M. तया विधेयताप्रयोजकसाक्षात्पुरुषव्यापारसाध्यत्वाभावादेव। तथा हि विधिप्रतीकेच्छाकर्मत्व-
ज्ञानस्य प्रतिबन्धकत्वं ग्राह्यभावानवगाहिनस्तस्य विधेयत्वज्ञानं प्रति अप्रतिबन्धकत्वात्। न
हीच्छाकरत्वज्ञानं विधिविषये कृतिसाध्यताज्ञानं तथाविधेष्टसाधनताज्ञानं वा प्रतिबध्नाति। न
चेष्टस्येष्टुसाधकत्वायोसादिच्छाविषयत्वज्ञानंविधिविषयेष्टसाधकताज्ञानं प्रतिबध्नात्योवेति वाच्यं।
फलोपाधिकायाः इत्यधिकपाठः॥
-
T.M.
-
T.M. & D.M. ॰कृत्यनुनिष्टादितत्वेपि
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
18
न्यायप्राप्ते अंशाधिक्ये तान्त्रिका अप्रमाणिकत्र्यंशत्वव्यवहारविरोधस्याप्रयोज-
कत्वात्। नहि त्र्यंशाभावेनेत्यत्र श्रुत्यादिकमस्ति। अस्तिस्त्वंशाधिक्ये तथा हि -
ज्योतिष्टोमादेः करणत्वेनान्वये सोमादेरितिकर्तव्यतया अन्वये च नास्ति विरोधः।
धात्वर्थस्य कर्मत्वेन फलस्योद्देश्यत्वेन च स्वर्गाय हि लोकाय दर्शपूर्णमासाविद्येते।
एकस्यैवास्य यज्ञक्रतवः कामायाभिप्रयन्ते। सर्वेभ्यो ज्योतिष्टोम इत्यादिकमिति
प्रागवोचाम। अत्र हि चतुर्थीनिर्देशात् फलस्य किमर्थमित्याकाङ्क्षत्वं कर्मणि
यकाचधात्वर्थस्य किमित्याकाङ्क्ष्यत्वं प्रमीयते।
तेन च भावनायाश्चतुरंशत्वं प्राप्ततमिति नामशाधिक्यं दोषः। तादर्थ्यचतुर्थ्या
निर्दिष्टस्य स्वर्गादेः फलेभ्यो यातीत्यादौ फलादेरिव क्रियान्तरनिरूपितकर्मत्वस्याप्यभावेन
कथञ्चिदपि किमित्याकाङ्क्षानर्हतया किमर्थमित्येवाकाङ्क्ष्यत्वादित्यन्यत्र विस्तरः।
न चैवं भाव्यतया प्रतिपन्नस्य धात्वर्थस्य गुणफलाभ्यां युगपदेवान्वयसम्भवात्
वाजपेयनयविरोध इति वाच्यम्। विधेयत्वोपयोग्योपादेयत्वसम्पादनाय स्वतस्सिद्धस्यापि
गुणस्य करणत्वेन रूपेप्यसिद्धतया भाव्यत्वप्रतीत्यवश्यम्भावे सति भाव्यस्य
भाव्यान्तरानाकाङ्क्षतया यागे तदन्वयाय तस्योद्देश्यत्वेनैव प्रतीत्यर्हतया पुनस्तदेव तस्य
फलान्वयायोपादेयतया प्रमीत्यसम्भवेन भाव्यत्वेपि धात्वर्थस्य युगपत् गुणफल̄-
सम्बन्धासम्भवादतो नेच्छाकर्मत्वमात्रात्प्राधान्यं विधेयत्वाभावोपीति यत्किञ्चिदेतत्॥
यत्वेवं प्रकृत्यर्थस्य ज्ञानस्य विधेयत्वे सन् प्रत्ययवैयर्थ्यम्। तत्प्रतिपाद्येच्छाया
विधेयज्ञानानाश्रयतया प्राङ्मुखो भुञ्जीतेत्यादौ विधेयप्राङ्मुखत्वाद्याश्रयसमर्पकतया
भुजिधातोरिव तस्य सार्थक्यासम्भवादित्युक्तम्। तत्तु श्रुतप्रकाशिकायामेव सन्
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
19
प्रत्ययवैयर्थ्यमाशङ्क्य विधेयज्ञानस्य प्रतिरूपतासम्पादनाय रागप्राप्तत्वज्ञापनाय वा
तत्सार्थक्योपपादनादुपेक्षणीयम्।
नन्वेवं विधेयत्वविरोधस्स्यादित्युक्तमिति चेन्न, रागप्राप्तत्वेन अप्रवृत्तप्रवर्तनात्मक-
विधिविषयत्वाभावेपि अज्ञातज्ञापनात्मकविधिविषयत्वं सम्भवतीति भावप्रकाशिकायां
विशदतरमुपपादितत्वात्तदभिधानन्तु सिद्धे व्युत्पत्तिसम्भवेन अनारम्भणीयत्वशङ्का
व्यावर्तनायेति सिद्धान्तवैजयन्त्यामस्मत्पितामहचरणैस्सम्यगुपपादितमिति न तत्र वयं
प्रयतामहे।
यत्तु! सनन्तजानातेः प्रमितिरूपफलविषयत्वस्वारस्यान्न तर्करूपज्ञानपरत्वमिति
तदपि कर्मणि षष्ठ्या ब्रह्मणो भाव्यत्वमवगम्यमानं स्वरूपेण न सम्भवतीति
प्रमितिविशिष्टवेषेण तस्य भाव्यत्वे सति भाव्यकोठ्यन्तर्गतस्य प्रमितिरूपफलस्य
पुनस्सनन्तधातुप्रतिपाद्यत्वायोगेन स्वारसिकेच्छाविषयत्वासम्भवेनोपसञ्जिघृक्षीत्यादावुप-
संग्रहादेरिव सनन्तधातुप्रतिपाद्यत्वं न विचारस्य विरुद्धमित्युपेक्षणीयम्।
यद्यपि घटं जानातीत्यादाविव सविषयधातुप्रयोगे विषयत्वे द्वितीयार्थ इतीहापि
कर्मणि षष्ठ्या ब्रह्मणो विचारविषयत्वमेव लभ्यते। तथापि घटादेरपुरुषार्थत्वात्
प्रयोजनत्वालाभेपीह ब्रह्मणः परमपुरुषार्थत्वाद्विषयत्ववत्प्रयोजनत्वमपि कर्मणिषष्ठ्या
प्रत्याय्यत एवेति श्रुतप्रकाशिकादौ स्पष्टम्।
इच्छायाः फलविषयत्वनियमस्तु नास्तीति प्रागेवाभ्यधायि। न चेषिकर्मणो
धातोरिच्छायां सन्विधानात् कर्तुरीप्सिततमस्यैव कर्मवदीप्सिततमस्य च फलत्वादिह
ज्ञाधातोः प्रमितिरूपफलविषयत्वमेव युक्तमिति वाच्यम्। ग्रामं गच्छति व्रीहीन्
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
20
प्रोक्षतीत्यादि लौकिक-वैदिकप्रयोगेप्यफलस्यापि ग्रामादेरीप्सिततमत्वदर्शनेनेप्सिततमस्य
फलत्वनियमासिद्धेः।
तथा युक्तञ्चानीप्सितमित्यनीप्सितस्यापि कर्मत्वदर्शनेप्सिततमस्यैव कर्मत्वमिति
नियमासिद्धेश्च विधिप्रत्ययस्वारस्याद्विचारार्थकत्वे सति तस्यानन्दात्मकब्रह्मणो गोचरतया
प्रीतिरूपतां सम्पत्त्यास्मत्कृतेपि सन् प्रत्ययस्वारस्याविघाताच्च। एतेन जिज्ञासाशब्द-
स्समुदायशक्त्या विचारपर इति परपक्षः पतिक्षिप्तः।
उक्तरीत्या प्रोक्षणशब्दस्यैवावयवशक्त्यैवोपपत्तौ समुदायशक्तिकल्पनां विनानुप-
पत्त्यभावात्। ऋभूत्सादिपदान्तसप्रयोगसहितैतत्प्रयोगनियम एव शक्तिकल्पक इति
वाच्यम्। अशोकवनिकान्यायेन1 तत्प्रयोगोपपत्त्या ततस्तस्य तत्र शक्त्यन्तरकल्पना-
योगात्। अन्यथा सेचन्यादिपदान्तराप्रयोगसहितप्रोक्षणीपदप्रयोगोऽपि तत्र शक्त्यन्तरं
कल्पयेदिति प्रोक्षण्यधिकरणविरोधापत्तेः।
यदि च प्रोक्षणीरासादयेदित्यादि प्रैषमन्त्रप्रयोगानुसारेण याज्ञिकानां पदान्तर-
प्रयोगमन्तरेण प्रोक्षणीपदप्रयोगोपपपत्त्या अन्यथासिद्धत्वान्न तत्र प्रयोगशक्तिकल्पक
इत्युच्येत। तर्हि तद्विजिज्ञासस्व सोऽन्वेष्टव्य सविजिज्ञासितव्यः तत्त्वं जिज्ञास-
मानानामित्यादिश्यति। स्मृतिप्रयोगानुसाराज्जिज्ञासापदप्रयोगोप्यन्यथासिद्धो न तस्य
समुदायशक्तिं कल्पयेदिति समस्समाधिः। नाप्यवयवार्था प्रतीतावपि विचारप्रतीति-
स्समुदायशक्तिकल्पिका।
- कार्यसाधने नैकमार्गेषु सत्स्वपि, एकमार्गचयनविषये अयं न्यायः प्रवर्तते। सं॰न्या॰मा॰ पृ॰ 199
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
21
अवैयाकरणानां प्रोक्षणीशब्देप्यवयवार्थप्रतीत्या च व्यभिचारात् स्वरूपासिद्धेश्च
विजिज्ञासस्वेति तिङन्त इव सुबन्तोप्यवयवशक्त्यैव विचारप्रतीत्युपपत्तावपि तद्वैलक्षण्येन
समुदायशक्तिकल्पनायां नानाभावाच्च।
एवं व्युत्पन्नत्वमाश्रित्यापि सर्वसामञ्जस्येप्यव्युत्पन्नप्रातिपदिकत्वं भवतामेव रोचते
चेतसे।
न चैवं राजिशब्दाभिधेयान्न सम्बन्धित्वेनैव वाजिप्रतीत्युपपत्तौ वाजिशब्दस्यापि
समुदायरूढेर्न स्यादिति वाच्यम्। अवयवार्थस्य वाजिपदप्रयोगाविषयाव्यावृत्ततया
अतिप्रसङ्गत्वेन तत्र यौगिकत्वासम्भवेन समुदायशक्तिकल्पने अपीह अवयवार्थाति-
प्रसङ्गाभावेन यौगिकत्वोपपत्तेः॥
15.2. पदशक्तिविचारः
अत एव द٥ादिपदानां न समुदायशक्तिः कल्प्यते। क्वचित्कावयवार्था-
प्रतीतिश्च तत्सामग्रीविरहादेव। तथा च यथा लौकिकानां पङ्कजशब्दात् पङ्कजनिकर्तृ-
त्वाद्यप्रतीतावपि पङ्कप्रतीतिर्न1 योगार्थाभावज्ञापिका तद्वदिहाप्यवयवार्थाप्रतीतावपि
पद्मप्रतीतिः न योगार्थाभावज्ञापिका। तद्वदिहाप्यवयवार्थप्रीतावपि तत्प्रतीतिर्नावयवार्था-
भावग्राहिकेति न सनन्तऋभुत्सादिपदान्तरवैलक्षण्येन जिज्ञासापदे शक्त्यन्तरकल्पन-
मुपपत्तिमत्। तथा च –
चतस्रो वृत्तयः प्रोक्ताः योगो रूढिश्च लक्षणा।
गौणी चेति क्रमादेताः दुर्बलादुत्तरोत्तरम्॥
- D.M. पङ्कजप्रतीतिर्न
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
22
योगस्यातिप्रसङ्गित्वे रथकारादिशब्दवत्।
समुदायशतारूढिरक्लुप्तापि प्रकल्प्यते॥
योगमात्रेण यत्तार्थः प्रतीतिरुपपद्यते।
प्रोक्षणीशब्दवत्तत्र निरूढिरपि कल्प्यते॥
रूढिर्योगापहारित्वं विभिन्नविषयाश्रयम्।
एकस्मिन् विषये शङ्क्यं योगो भेदप्रसङ्गतः॥1
तस्मात् प्रकृत्यर्थो ज्ञानमेव, जिज्ञासाशब्देन प्रधानप्रतिपाद्यं विधीयते। तव
जिज्ञास्यत्वमित्यत्र तवेति षष्ठ्यन्तनिर्देशसूत्रे ब्रह्मणो जिज्ञासेति षष्ठीसमासो द्योत्यते।
तवेति च कर्मणिषष्ठी, न कर्तरि षष्ठी, कर्तृकर्मणोः कृतीत्युभयत्र तद्विधानेऽपि कर्मफला
-नित्यत्वनिश्चयसहितब्रह्मज्ञानानन्तरस्थिरफलायातप्रतीतिमत्पुरुषरूपस्याधिकारिण एव
कर्तुरुत्तरभागविचारपरब्रह्मजिज्ञासापदसमेभिव्याहृतादश्शब्देन सूचिततया पारिशेष्यात्
ब्रह्मणः कर्मत्वस्यैव निर्णयात्।
ननु कथं विष्णोरेव जिज्ञास्यत्वं ब्रह्मणो हि तदभिधीयते। तत्राह - यत इत्यादि।
ब्रह्मजिज्ञासासूत्रे तद्विजिज्ञातसस्व तत् ब्रह्मेति श्रुतौ च श्रुतं ब्रह्मेत्येतत्पदं
तवासाधारणम्। त्वदेकरूढं यतोभूत्ततस्तवैव जिज्ञास्यत्वं मुनिरवादीत्।
ब्रह्मशब्दस्यैव विष्णुसाधारणत्वात् ब्रह्मणो जिज्ञास्यत्वं न विष्णोर्जिज्ञास्यत्व-
मतिपततीत्यर्थः। अयमभिप्रायः - बृहतिर्धातोर्मतिन् प्रत्ययोन्तत्वेन निष्पन्नोपि ब्रह्मशब्दो
- वा॰प॰ पृ॰ 27
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
23
न बृहत्वमात्रनिमित्तकः। तथा सति बृहन्महश्शब्दादिवदाक्षि1 बृहत्वयोगिषु घटादिष्वपि
तत्प्रयोगापत्तेः। नापि निरतिशयबृहत्वनिमित्तकः॥
15.3. ब्रह्मशब्दार्थविचारः
तथा सति ब्रह्मण्येव तद्गुणादावपि तत्प्रयोगापत्तेः। किन्तु बृहति बृंहयति
तस्मादुच्यते परंब्रह्म। बृहत्वात् बृंह्मणत्वाच्च तत् ब्रह्मेत्यभिधीयत इति श्रुतिस्मृत्यनुसारेण
अधिकञ्च विवरणञ्च जैमुनिस्थोभशब्दादित्यत्र ऋगक्षरादिरुत्वविवरणत्वयोर्द्वयोस्तोम-
शब्दप्रवृत्तिनिमित्तत्ववत् बृहत्व-बृंहणत्वयोर्द्वयोरपि समुच्चितयोः ब्रह्मशब्दप्रवृत्ति-
निमित्तत्वनिर्णयादुभयनिमित्तकः।
तथा च नाम श्रीमद्भाष्यम् - बृहत्वञ्च स्वरूपेण गुणैश्च यत्रानवधिकातिशयं
सोऽस्य मुख्योऽर्थः। अत्र हि गुणतो बृहत्वं बृह्मणत्वमेव। तथा च स चानन्त्यायकल्पत
इत्यादिश्रुतिप्रतिपन्नकर्मसम्बन्धिनिबन्धन-सकलसङ्कोचनिवृत्तिपूर्वक- निरवधिकज्ञान-
विकासरूपशान्त्यावहतेः (र्वापयिकक्षान्ति)2 प्रयुक्त3कारुण्याद्यनन्तकल्याणगुण-
शालित्वरूपबृह्मणस्य ब्रह्मगुणादिव्यावृत्ततया नातिप्रसङ्गः।
न चैवमनतिप्रसङ्गादिदमेव निमित्तमस्तु। किं बृहत्वेनेति वाच्यम्। पङ्कजशब्द-
प्रयोगव्यवस्थापककुमुदादिव्यावृत्ततामरसानुवृत्तपद्मत्वजातेः अनतिप्रसङ्गित्वे अप्यवय-
वार्थस्य पङ्कजनिकर्तृत्वस्यापरित्यागवत् बृहत्वस्यास्य परित्यागोपपत्तेः। एतेन
ब्रह्मशब्दस्य प्रयोगविषये सर्वत्र शक्तिरेव किं न स्यादिति शङ्का परास्ता।
-
T.M.ब्रहन्महद्ब्रह्मशब्दस्यैव शब्दादिवदापेक्षकबृहत्वयोगिषु।
-
T.M.
-
D.M.
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
24
ब्रह्मशब्दप्रयोगविषयपञ्चष्वन्यव्यक्त्यनुवृत्तान्यव्यावृत्ताकारस्य एकस्यासम्भवात्।
तत्तदसाधारणधर्मप्रवृत्तिनिमित्तकत्वे च शक्यतावच्छेदकनानात्वप्रयुक्तशक्त्यानन्त्यापत्ते-
रन्यत्र प्रयोगस्य गौणत्वेऽपि परस्मिन् ब्रह्मण्यवयवार्थपौष्कल्येन मुख्यत्वोपपत्त्या शूरे
सिह्मपदप्रयोगवदन्यत्र ब्रह्मशब्दप्रयोगस्य शक्तिकल्पनासामर्थ्याच्च।
एतदभिप्रायेणैव श्रीमद्भाष्यम् - सर्वत्र बृहत्वगुणयोगेन हि ब्रह्मशब्द इति।
अनन्यथासिद्धप्रयोगस्यैव शक्तिकल्पकत्वात् पङ्कजनिकर्तृत्वसहितपद्मत्वरूपप्रवृत्ति-
निमित्त्येकदेशभूतावयवार्थमात्रनिमित्तककुमुदादितात्पर्यककाचित्कत्पङ्कजपदप्रयोगवत्
बृहत्वसहितबृंहणत्वरूपप्रवृत्तिनिमित्तैकदेशभूतबृहत्वमात्रनिमित्तकं प्रकृत्यादितात्पर्यकं
काचित्कब्रह्मपदप्रयोगस्य गौणत्वेनाव्युत्पन्नतया न तत्र शक्तिकल्पकत्वमिति
तद्भाष्याशयः।
तदेवं बृहत्व-बृंह्मणत्वनिमित्तकोऽयं ब्रह्मशब्दो विष्णावेव रूढ इति श्रुतिस्मृति-
स्वारस्याद्दवसीयते। तथा हि - ब्रह्मविदाप्नोति परमि1त्युपक्रान्तब्रह्मतद्वैतनतत्प्रापि-
तत्प्राप्यानां च तु विवरणाय तदुत्तरवाक्ये सत्यं ज्ञानमनन्तं ब्रह्मेति प्रथमे बाह्यशब्द-
विवरणपरे वाक्यखण्डे श्रुतानां सत्यज्ञानानन्तशब्दानां विष्ण्वैकनिष्ठत्वात् ब्रह्मशब्दोऽपि
तत्रैव रूढ इति निर्णीयते।
सत्यशब्दस्तावत् एतानि हि तानि त्रीण्यक्षराणि अथ यत्सत् तदमृतं अथ यत्त
तन्मर्त्यम्, अथ यद्यन्तेनोभौ यच्छतीति निर्वचनबलात् मुक्तामुक्तनियन्तृवाची सन् –
यस्मात्क्षरमतीतोऽहमक्षरादपिचोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥2
-
तै॰उ॰ 2.1
-
भ॰गी॰ 15.18
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
25
इति भगवद्गीतानुसारात् पुरुषोत्तमशब्दावयवार्थम् अभिदधानस्तस्य पुरुषोत्तम-
परत्वमवगमयति।
सच्चासच्चैव गोविन्दः तस्मात् सत्यस्सतां मत1 इति अत्रैवानुकूलम्।
ज्ञानशब्दोऽपि सर्वज्ञो ज्ञानमुत्तममिति सहस्रनामपाठात्।
ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम्।
एकं सदैकं परमः परेश स वासुदेवो नयतोऽन्यदस्ति॥2
इति ज्ञानस्य वासुदेवत्वाभिधानात्। सत्यात्संज्ञायते ज्ञानमित्यत्र ज्ञान हेतुतया प्रसिद्धस्य
सत्वस्य यत्सत्वं स हरिर्देवः सत्यं नारायणात्मकमित्यादि तादात्म्यनिर्देशेन तदधीनतया
तद्गुणसारत्वात् तद्व्यपदेशन्यायेन ज्ञानव्यपदेशस्य विष्ण्वावेव स्वरसत्वाच्च।
तदेकनियतस्सन् तस्यैव ब्रह्मशब्दवाच्यत्वं दर्शयति।
अनन्तशब्दस्तु - अनन्तोनागराड्विष्णुरित्यभिधानकोशात् प्रसिद्धिप्राचुर्यात् नान्तं
गुणानां गच्छन्ति तेनानन्तोयमुच्यत3 इति निर्वचनानुसारादेव त्रिविधपरिच्छेद-
राहित्यबोधनेन च ब्रह्मशब्दप्रवृत्तिनिमित्तयोः बृहत्वब्रुंह्मणत्वयोः नारायणे तद्भावं बोधयन्
योगरूढिभ्यां स्वप्रतिपाद्ये भगवति ब्रह्मशब्दशक्तिं निर्धारयति।
-
म॰भा॰ 14.25.15
-
वि॰पु॰ 12.28
-
नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यतः। यस्य नागवधूहस्तैर्लापितं हरिचन्दनम्॥ वि॰पु॰ श्लो॰
19.25
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
26
न चात्र विष्णुवाचकस्यानन्तपदस्य पुल्लिङ्गान्ततया अनन्तमिति निर्देशानुपपत्ति-
श्शङ्कनीया। यो वेदनिहितं गुहाया1मित्युत्तरवाक्यस्य विधिक्रियापेक्षितकर्मसमर्पकतया
द्वितीयान्तस्य तस्य पुल्लिङ्गत्वेऽप्यविरोधात् नारायणपरंब्रह्मेत्यादिसमानाधिकरण-
निर्देशाच्चात्रानुकूलाः।
[15.4. भगवान्विष्णुरेव ब्रह्मशब्दाभिधेय इति विचारः]
तथा स्थानव्यतिकराभ्यामपि ब्रह्मशब्दो विष्णुपरः। यथा हि -
दब्धिरसीतिमन्त्रस्योपांशुयाजे स्थानपाठबलात्तदीयदेवतापरत्वम्। यथा च य आत्मनि
तिष्ठन्नि2त्यस्य स्थाने पाठबलात् यो विज्ञाने तिष्ठन् इत्यत्र विज्ञानशब्दस्यात्मपरत्वम्।
यथा वा यस्य तमश्शरीरमित्यस्य स्थाने पाठसामर्थ्यात् यस्य मृत्युशरीरमित्यत्र
मृत्युशब्दस्य गुणसाम्यावस्थापन्न प्रकृतिरूपतमः परत्वं तद्वदत्रापि एको ह वै नारायण
आसीदित्यस्य स्थाने ब्रह्म वा इदमग्र आसीदिति ब्रह्मशब्दोऽपि नारायणपरोऽवसीयते।
यथा च विद्युपास्योर्व्यतिकरेण उपक्रमोपसंहारदर्शनादेकार्थपरत्वमम् एवमिहापि
एनाक्षरं3 पुरुषं वेदसत्यं होवाचतां तत्वतो ब्रह्मविद्यामिति पुरुषब्रह्मशब्दयोर्व्यतिकरेण
निर्देशादेकार्थविश्रान्तिरावीस्यन् पुरुषशब्दश्च –
पुरिसंज्ञे4 शरीरेऽस्मिन् शयनात् पुरुषो हरिः।
शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते॥
-
तै॰उ॰ 2.4
-
बृ॰उ॰ 3.7.3
-
D.M. एकाक्षरम्
-
D.M. पुरिसंज्ञे
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
27
यदा पुरुषशब्दोऽयं रूढ्या वक्ति जनार्दनम्।
तं विना पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक्॥1
इत्यादियोगरूढ्युभयग्राहकप्रमाणप्रतिपन्नविष्णुशक्तिकः। तदेवं श्रौतनिर्देशस्वारस्यात्
ब्रह्मशब्दो विष्णुपरः तथा स्मृतिरपि –
वेदे भूरि प्रयोगाच्च गुणयोगाच्च शार्ङ्गिणि।
तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तौ महामुने॥2
विष्णुरेव परं ब्रह्म वासुदेवः परंब्रह्म ब्रह्मेति परमात्मेति भगवानिति शब्द्यते
इत्यादिका। अमुमेवार्थं प्रथयति सूत्रकारोऽपि। यतो वा इमानीत्यादि वाक्येषु
सामान्येनावगतं जगत्कारणत्वं नारायणादेव सर्वाणि भूतानि समुत्पद्यन्त इत्यादिभिः3
नारायणे विश्रान्तमासीदिति तद्विजिज्ञासत्व तत् ब्रह्मेति निर्देशोऽपि नारायणपर इति
सूचनायैव जन्माद्यस्य यत4 इति यच्छब्देन कारणं वस्तु निर्दिष्टवान्।
अन्यथा हि अथाऽतो धर्मजिज्ञासा, चोदनालक्षणोऽर्थो धर्मवदिति वदधातो
ब्रह्मजिज्ञासे भिः कारणं ब्रह्मेत्येव निर्दिशेत्। परं जैमिनिर्मुख्यत्वात्5 स्याच्चैकस्य
ब्रह्मशब्दवदित्यादिकमप्यत्रैवानुकूलम्। तथा च श्रीमद्भाष्यम् - ब्रह्मशब्देन च स्वभावतो
निरस्त निखिलदोषोऽनवधिकातिशयासंख्योपकल्याणगुणगणः पुरुषोत्तमोऽभिधीयत
इति।
-
पा॰उ॰भा॰ पृ॰ 48
-
पु॰सू॰भा॰ मं॰ 1
-
T.M. ‘इत्यादिभिः वारणं ब्रह्मेत्येव निर्दिशेत्। परं जैमिनिर्मुख्यत्वात्।’
-
ब्र॰सू॰ 1.1.2
-
ब्र॰सू॰ 4.3.11
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
28
अत्र प्रथमविशेषणेन दोषविशिष्टाद्बद्धाक्षरशब्दार्थादागन्तुकदोषनिरासवतो
मुक्तादक्षरशब्दार्थाच्च वैलक्षण्यबोधकात् सत्यशब्दार्थ उक्तः। अत एव कर्मरूपसङ्कोच-
काभावेन ज्ञानस्य निरवधिकत्व सूचनादानैकसारत्वरूपज्ञानशब्दार्थस्सूचितः।
अत एव च स्वाश्रितदोषनिर्हरणसूचने निरुक्त्यानन्त्यावहत्वरूपं बृंहणत्व-
मधिकृतम्। अनेनैवापहतपाप्मादित्यादेव ‘एको नारायण’ इति श्रुत्यर्थस्मरणेन
नारायणत्वं व्यञ्जितम्। द्वितीयविशेषणेनानन्तशब्दार्थम् उक्तः।
बृहत्वमपि गुणमध्येऽर्थाल्लभ्यमिति हृदयम्। तेन च विष्णुपरत्वं निर्व्यूढमिति
पुरुषोत्तमोऽभिधीयत इत्यनुगृहीतम्। आह धारण्य एव हेत्वन्तरं वदन्नथातश्शब्दयोरप्यर्थं
दर्शयति अथातश्शब्दाभ्यामित्यादिना।
15.5. कर्मविचारानन्तरं ब्रह्मविचार इति निर्णयः
अपिशब्दो हेत्वन्तरसूचनाय अथातश्शब्दाभ्यां निरणैषीदित्यन्वयः। किमयं
निर्णयः प्रतिबन्ध्या किं वा रैक्यादिवदुपकारमपेक्ष्यतेत्याह - करुणयेति। निरुपाधिकपर-
दुःखप्रहाणेच्छेत्यर्थः। निर्णीतमेवार्थमाह - विहितेत्यादिना। विशेषणयुता प्राप्ता
कर्मावगतिः कर्मविचारैस्तादृशैः विचारितपूर्वभागैरित्यर्थः। विपुलकर्मावगतिभिरिति पादे
प्रकृति-विकृत्यात्मकविषयवैषम्याद्विचारवैफल्यं बोध्यम्। अनेन कर्मविचारानन्तर्यमथ-
श्शब्दार्थ इति सूचितम्।
एवं विधेः मुमुक्षुभिः त्वं वेद्यः त्वमेव विचारणीयः तत्र हेतुस्तदाराध्य इति तथा
चावृत्तिविधानादिभिः केवलकर्मणामल्पास्थिरफलत्वे ज्ञाने स्वर्गाद्यर्थं तदनुष्ठानाद्
विरच्यते। तेषामेव कर्मणां भगवदाराधनप्रेषणपरमपुरुषार्थलक्षणमोक्षसाध्यभूत
भगवद्ज्ञानोपयोगित्वस्य तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
29
तपसाऽनाशकेने1 त्यादिभिरवगतत्वेऽपि तस्याराध्यवस्तुविशेषनिर्णयाधीनत्वात् तन्निर्णयाय
वेदान्तविचारः कर्तव्य इति, सकलकर्मसमाराध्ये त्वय्येवायं वेदान्तविचारोऽपि
श्राम्यन्तीति कर्मविचारसन्ध्यविचारविषये प्रयुज्यमानोऽयं ब्रह्मशब्दः कर्मसमाराध्य-
भगवदसाधारण एवेति भावः।
सर्वकर्मसमाराध्यत्वं च भगवतः श्रुतिस्मृतिसूत्रस्वारस्यादवगम्यते। तत्र
तावद्यज्ञेन यज्ञमयजन्तदेवा इति देवकर्तृकसर्वयज्ञाराध्यत्वं विष्णोरवगम्यते।
(आराधयन्नित्यर्थः।)2
[15.6. भगवतः विष्णोः सर्वकर्मसमाराध्यत्वसर्वकार्योत्पादकत्वादि-
लक्षणनिरूपणम्-]
यज्ञेन ज्योतिष्टोमादिना यज्ञं विष्णुं अयजन्त आराधयन्नित्यर्थः। यज्ञशब्दो हि
यज्ञो वै विष्णुरिति श्रुत्या यज्ञो यज्ञपतिर्यज्वेति सहजनामपाठाच्च विष्णुपरः। तथा
विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन्निति यज्ञादिकृत्स्नधर्मधारकत्वं तस्यैवावगम्यते।
तथा यज्ञोद्देश्यदेवानां विष्णुमुखा वै देवा3 इति विष्णुमुखत्वप्रतिपादनात्
तवदेवाहवमायन्ति सर्वे त्वमेकोसि बहूननुप्रविष्ट इति सर्वदेवतान्तर्व्यापितया
सर्वदेवताह्वानस्य विष्णुपर्यन्तत्वाभिधानात् इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति
भुवनस्य नाभिरि4त्यखिलकर्माराध्यत्वं तस्याभिधाय तत्रोत्पत्तिशिष्टाद्यवरोधमाशङ्क्य
-
बृ॰उ॰ 6.4.22
-
D.M मध्ये एव विद्यते।
-
कृ॰य॰वे॰ 5.2
-
म॰ना॰उ॰ 1.6
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
30
तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाःइति तत्तत्कर्मान्वयदेवतान्तर्यामितयाग्न्यादिशब्दैः
तस्यैवाभिधानेन तस्यैव सर्वकर्माराध्यत्वप्रदर्शनाग्नावैष्णवमेकादशकपालन्निर्वपति
दीक्षिष्यमाण इति यष्टव्यकृत्स्नदेवतापरिग्रहार्थायां दीक्षणीयेष्टावग्नाविष्णोर्देवतात्व-
मभिधाय कथमेतयोर्द्वयोः परिग्रहात् कृत्स्नदेवतापरिग्रहस्स्यादित्याशङ्क्य श्रुतिरेवाग्निस्सर्वा
देवता विष्णुर्यज्ञे इति देवदूतस्याग्नेः देवश्रेष्टस्य विष्णोश्च परिग्रहो राजपरिग्रहे स्वस्य
दूताहूतानामन्येषां तच्छेषभूतानां स्वत एवागमनवद्विष्णोः प्राधान्येनाग्नेः दूतत्वेन च
परिग्रहे विष्णुशरीरतया तच्छेषभूतानां स्वत एवागमवद्विष्णोः प्राधान्यताग्नेर्दूतत्वेन च
परिग्रहे विष्णुशरीरतया तच्छेषभूतानां देवतानां स्वदूताग्न्याहूतानां स्वत एव परिग्रहो
भवतीत्यमुमर्थं सूचयित्वा, तस्यैव पुनः विशदीकरणाय अग्निदेवतानां विष्णुः परमो
यदाग्नावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य यजमानोग्नरुन्ध इति
प्रत्याहारन्यायेनाप्याद्यन्तपरिग्रहात्सर्वदेवतापरिग्रहप्रतिपादनादस्यैवार्थस्यातिथ्येति प्रकरणे
यावद्भिर्वैराजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियत इति दृष्टान्तमभिधाय
दार्ष्टान्तिकेप्यग्नेरातिथ्यमपि विष्णवेत्वेत्यादेर्मन्त्रस्य विवरणादेवम् आश्रावय! अस्तु
श्रौषट्! यज! ये यजामहे! विष्ट!1 इत्येतैस्सप्तदशभिरेवाक्षरैः सर्वेषां क्रतूनां
निष्पद्यमानत्वेन तेषाञ्च सप्तदशानामक्षराणां चाश्रावयेति चतुरक्षरमस्तु श्रौषडिति
चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः
प्रजापतिरिति श्रुत्या चतुर्भिश्चतुर्भिश्चेति भारतवचनोपबृंहितया विष्णुदेवताकत्वा-
भिधानादस्य दर्शपूर्णमासप्रकरणस्थत्वेऽपि सप्तदशाक्षरसम्बन्धि देवताप्रतिपादनद्वारा
तस्यास्सर्वकर्मान्वयित्वतात्पर्यकत्वात् तथा होतृमन्त्रावेते विष्णोर्वेदतापत्तेकरिष्यामीत्यत्र
तादर्थ्यचतुर्थ्या यावत्तावच्छब्दाभ्यां च यत्किञ्चित्प्राचीनाग्नीषोमीयात्तेनोपांशुचरन्ती-
- हैत्रप्रशंसनकर्मणि सामिधेनि।
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
31
त्यत्राग्निष्टोमोयालाप्राचीनपदार्थानां कार्त्स्न्येनोपांशुस्वरलाभवत् होत्राक्रममाणस्य
सर्वस्यापि विष्वर्थत्वावेदनात् अधस्तमपि विष्णवेत्वेत्याध्वर्यवमन्त्रेणोदस्तमपि
विष्णवेत्याह।
यज्ञो वै विष्णुरित्यादिना विवृतेन सायं दोहस्य वैष्णवत्वाम्नानाद्दर्शपूर्णमासान्ते
विष्णोऽसि क्रमोसीऽत्यादिना क्रियमाणेन विष्णुक्रमो कृतस्य सर्वस्यापि कर्मणो
विष्णुपर्यवसानबोधिकादेवं सोमयागेऽपि विष्णवुरुक्रमैषते सोम इति सोमलतायाः
विष्णुदेवताकत्वाभिधानेन सोमक्रयणे पदानुक्रमणे विष्णुस्त्वान्वेत्विति मन्त्रपाठेन तुष्टं
विष्णव इति मन्त्रेणैकहायन्या जुष्टत्वाभिधानेन च तत्क्रीतसोमस्य विष्ण्वाराधन-
द्रव्यत्वावगमेन यज्ञे शिरःप्राणहनुप्रभृत्यवयवतया श्रुतानाह विधान् नोपरवाधिषवण-
फलकादीनां विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोश्न्यत्प्रेस्तो विष्णोस्स्यूरसि
विष्णोर्धुवमसि वैष्णवमसि विष्णवेत्वा वैष्णवं देवतया हविर्धानम्। वैष्णवा हि
देवतयोपरताः प्रोक्षामि वैष्णवान् उपदधामि वैष्णवि पर्यूहामि वैष्णवी
इत्यादिभिर्बहुवाराभ्यासेनादरेण वैष्णवत्वाभिधानेन विष्णो हव्यँ रक्षस्वेत्यादिभि-
स्सोमाख्यहविस्संरक्षणेन तन्निष्पाद्य क्रतुसंरक्षणस्य विष्ण्वधीनत्वबोधनेन विष्णोरेवाराध्य-
त्वसिद्धे तत एवान्ते पूर्णाहुतेः वैष्णवमन्त्रसाधनकत्वोपपत्तेः।
पशुयागोऽपि प्राजापत्या वै पशव1 इति पशूनां प्रजापतिशब्दवाच्य
विष्णुसम्बन्धित्वाम्नानाद्वैष्णवो हि देवतया यूप2 इति यूपस्य वैष्णवत्वाभिधानात्
यूपसम्बन्धीनां मन्त्राणामपि वैष्णवत्वात् यत्समिध आदधाति वैष्णवा वैवस्वतयो
वैष्णवीरेव तदुपधत्त इत्यादिभिर्यज्ञे साधनसमिदादीनामपि वैष्णवत्वाच्च तस्यैवेष्टि
-
तै॰सं॰ 3.1.4.10
-
तत्रैव
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
32
पशुसोमात्मकप्रकृतिकर्म समाराध्यत्वे सिद्धे तद्विकृतीनां प्रकृतिवद्विकृतिन्यायेन
वैष्णवत्वावगतेः तथा ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनिय1मिति
यज्ञस्य यज्ञपतेर्यजमानस्य यज्ञे नियत शब्दित यज्ञे सम्बन्धिद्रव्याणां च तवैव
रक्षणीयत्वोक्तेः अथाऽतो विष्णुर्विदुषाचिदध्भ्यः स्तोमो यज्ञस्य राध्यो हविष्पतः2 इति
तस्यैव यज्ञाराध्यत्वं कयठोक्तेः सम्भारयजुर्मन्त्रेषु अग्निर्यजुर्भिः सवितास्तोमैः इन्द्र
उक्थ्यामदैरित्यादिष्वग्न्यादेर्यज्ञाङ्गैकदेशान्वयित्वमुक्त्वा विष्णुर्यज्ञेनेति विष्णोः कृत्स्न-
यज्ञान्वयित्वबोधनाद्विष्णवे स्वाहा, विष्णवे निखुर्यपाय स्वाहेत्याह।
यज्ञो वै विष्णुः यज्ञा येकैनमुद्यच्छते पूर्णाहुतिमुत्तमां जुहोती3ति
सर्वयज्ञपूर्णाहुतीः विष्णुशेषत्वबोधनाद्विष्णवे शिपिविष्टाय जुहोति, यद्वै यज्ञस्यातिरिच्यते
यः पशोर्भूमाया पुष्टिस्तद्विष्णुपिश्शिविष्टोतिरिक्त एवातिरिक्तं दधात्यतिरिक्तस्य शान्त्या
इति यज्ञातिरेकशामकत्वस्य तत्रैवाभिधानाद्विष्णुर्वै यज्ञस्य दुरिष्टं पाति वरुणस्विष्टं
तयोरुभयोरेव शान्त्यै विष्णोर्नुकं वीर्याणि प्रवोचमि4ति वैष्णवीं शंसतीति यज्ञे
न्यूनातिरेकशामकत्वस्य तदधीनत्वस्य बह्वृचप्रसिद्धत्वान्न पुरा नक्षत्रेभ्यो वाचं
विसृजेद्यत्पुरा नक्षत्रेभ्यो वाचं विसृजेद्यज्ञं विच्छिन्द्यादुदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं
विसृजति यज्ञे व्रतो वै दीक्षितो यज्ञमेवाभिवाचं विसृजति5 यदि
विसृजेद्वैष्णवीमृचमशुभायाद्यज्ञो वै विष्णुः यज्ञेनैव यज्ञँ सन्तनोति, यज्ञेन रक्षांसि दी
सन्ति वैष्णवीभ्यामृग्भ्याम्। वर्त्मनोर्जुहोति यज्ञो वै विष्णुः यज्ञादेव रक्षांसि
-
श॰प॰ब्रा॰ 1.3.4
-
ऋ॰सू॰ 1.156
-
श॰प॰ब्रा॰ 13.1.8
-
वि॰सू॰
-
तै॰सं॰ 6.1
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
33
अपहन्तीत्यादिभिः यज्ञे विच्छेदपूर्वादेर्वैष्णवमन्त्रसाध्यत्वाभिधानाद्वैष्णवं वामनमालभेत
यं यज्ञे नोपनमेद्विष्णुर्वै यज्ञो विष्णुमेव स्वेन भागधेयेनोपधावति। स एवास्मै यज्ञं
प्रयच्छत्युपैनं यज्ञो नमती1त्यादिष्वनुपनतयज्ञानां यज्ञोपनत्यर्थ वैष्णवपश्वालम्भनविधानेन
विष्णोर्यज्ञस्यानित्यनिर्णयाच्च, सर्वकर्मसमाराध्यो भगवानित्यत्रैव श्रुतीनां तात्पर्यं
निश्चीयते।
विस्तृतञ्चैतदन्यत्रास्माभिर्देवताद्वाप्रसादद्व्यारतानिर्णयप्रकरणे उपपादितं च।
देवतान्तराराध्यता निराकरणप्रकारेण विष्णोरेव सर्वकर्माराध्यत्वं सिद्धान्तरत्नावल्यां
अस्मत्पितामहचरणैर्विशदीकृतञ्च तत्वभास्करमोक्षोपायादिग्रन्थेष्विति सङ्क्षेपः।
तथा स्मृतिरपि -
येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।
ये यजन्ति पितृन् देवान् ब्राह्मणान् सहुताशनान्॥2
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते॥3
विष्णुर्यज्ञैरिज्यते चापि विष्णुः कृष्णो विष्णुर्यच्च कृत्स्नं प्रभुश्च।
स्थानं सर्वं वैष्णवं यज्ञमार्गे चातुर्होत्रं वैष्णवन्तत्र4 कृष्णः॥
-
श॰प॰ब्रा॰ 12.6.1
-
भ॰गी॰ 9.23, 24
-
ब्र॰वै॰ पु॰ 1.8.54
-
D.M. वैष्णवं तत्र
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
34
सर्वैर्भावैरिज्यते सर्वकामैः पुण्यान् लोकान् ब्राह्मणाः प्राप्नुवन्ति।
आद्यं यज्ञस्सन् स वै यज्ञदाता1 इच्छापत्नी पत्निशाला वपांषि॥
इध्मा पुरोडाशं सर्वदा होतृकर्ता कृत्स्नं विष्णुं संविजानन्तमेति।
कृष्णो यज्ञैरिज्यते सोमहूतैः कृष्णो यज्ञैरिज्यते सोमवद्भिः॥2
विष्णुं वाक्यैरिज्यते सन्दृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः।
तमध्वरे शंसितारस्तुवन्ति रथन्तरे सामगाश्च स्तुवन्ति॥
तं ब्राह्मणा ब्रह्मतन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ते3॥
इत्याकारिका विष्णोरेव तथात्वमभिदधाति। विस्तरभयान्न लिख्यते।
मनुस्मृतिरपि - वर्णाश्रमधर्मनिर्णयाय प्रवृत्ता प्रथमं जगज्जन्मादिकारणं नारायण-
मभिधाय पश्चाद्धर्ममभिदधाना विष्णोरेव धर्माराध्यत्वं सूचयति।
तथा सूत्रजातमपि - फलमत उपपत्तेः4, पूर्वन्तु बादरायणो हेतुव्यपदेशात्5,
सर्वापेक्षा च यज्ञादिश्रुतेरश्वव6दित्यादिकममुमेवार्थं प्रतिष्ठापयति।
-
D.M. आज्यं यज्ञः सृक्सृवौ यज्ञदाता
-
म॰भा॰ 13.16-18
-
म॰भा॰ 13.26, 27.A
-
ब्र॰सू॰ 3.2.38
-
ब्र॰सू॰ 3.2.42
-
ब्र॰सू॰ 3.4.5
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
35
तच्च यथास्थानं निरूपयिष्यामः -
न त्वानन्तर्यविशिष्टं कर्तव्यत्वं सिद्धे व्युत्पत्त्यभावे अन्यथापि विचार-
कर्तव्यत्वासिद्धेरिति न विनोक्तं तन्न सिद्धे व्युत्पत्तिसद्भावो हि न साक्षात्कर्तव्यतायां
हेतुः। अथशब्दोपस्थापितानन्तर्यप्रतियोगिनस्तत एवाथशब्देन परामृष्टस्य तस्य
स्वतस्तद्धेतुत्वायोगात्।
किन्तु ब्रह्मजिज्ञासाविशेष्यककर्मविचारोत्तरकाल-कर्तव्यता प्रकारक-बोधजनक-
कर्मफलाल्पास्थिरत्व-निर्णयसहित-ब्रह्मज्ञानानन्तस्थिरफलापातप्रतीति- साध्यत्वज्ञान-
प्रतिबन्धक-कार्यमात्र-व्युत्पत्तिनिरसनद्वारा तद्धेतुः। तथाहि –
अथशब्दोपस्थापितमानन्तर्यं हि न ब्रह्मजिज्ञासारूपधर्मविशेषणतयावगन्तुं
शक्यम्। तस्यापि कर्मविचारानन्तर्य विशिष्टतयैतत् प्रागवगतत्वेन तेन रूपेण धर्मिणो
निर्देष्टुमशक्यत्वादतः कर्तव्यतारूपसाध्यांश एव तद्विशेषणं युक्तं चैतत्। कर्मविचार-
निष्पाद्य-केवलकर्माल्पास्थिरफलत्व-निर्णयसहित-निरुक्तापात- प्रतीतिरूपस्याथशब्दोप-
स्थापितानन्तर्यप्रतियोगिककर्मविचाररूपहेत्वाक्षिप्तहेतोः कर्मविचारोत्तरकालकर्तव्यतां
प्रत्येव हेतुत्वात्।
तत्र च कार्यमात्रव्युत्पत्त्यवष्टम्भेन ब्रह्मज्ञानानन्तस्थिरफलापातप्रतीतिप्रामाण्य-
सम्भावनाप्रतिबन्धेन धर्मविचारप्रवृत्तिकारणीभूतसम्भावितप्रामाण्यक-तथाविधापात-
प्रतीतिसाध्यत्वज्ञानविषयविशेष्यांशासिद्धिःसम्भावनाप्रयुक्तविशिष्टहेत्वसिद्धशङ्कया
तथाविधविशिष्टसाध्यासिद्धिशङ्कायां सत्यां सिद्धव्युत्पत्तिसमर्थनेन तथाविधापातप्रतीति-
प्रामाण्यप्रतिष्ठापनद्वारा विशिष्टहेत्वसिद्धिशङ्का व्यावर्तने सत्यानन्तर्यविशिष्टकर्तव्यत्वरूप-
विशिष्टसाध्यसिद्धेरेव कर्तव्यतया विचारकर्तव्यतामात्रकथनस्यानुपयुक्तत्वात् एतेन अथ
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
36
कर्मविचारानन्तरं कर्मणां वृत्तत्वादेव हेतोः ब्रह्मविचारः कर्तव्य इति सूत्रार्थमुक्त्वा, सिद्धे
व्युत्पत्त्यभावात् ब्रह्मविचारस्यानारम्भणीयत्वमाशङ्क्य सिद्धव्युत्पत्तिसमर्थनेन तदारम्भ-
णीयत्वकथनमयुक्तम्।
सौत्रपदनिरस्तैरेव हेतुभिस्सूत्रावतरणस्य युक्ततया विचारकर्तव्यताहेत्वर्थेनात-
श्शब्देनानुक्तायाम् अथशब्देन सूचितायाश्च सिद्धव्युत्पत्तेः हेतुत्वायोगादिति नवीनोक्तं
दूषणमलग्नकम्।
अथशब्दोक्तहेत्वाक्षिप्तहेत्वसिद्धिशङ्काव्यावर्तकतया अथशब्देनैव सूचिताया-
स्तस्याहेतुत्वे बाधकाभावादन्यथाऽथातोऽधर्मजिज्ञासेत्यत्राप्यथ वेदाध्ययनानन्तरं तस्य
वृत्तत्वाद्धेतोर्धर्मजिज्ञासा कर्तव्येति सूत्रार्थमुक्ताऽध्यनविधेः स्वर्गार्थतया वेदस्य
अविवक्षितार्थत्वात् धर्मविचारस्यारम्भणीयत्वे शङ्कित तद्विवक्षितार्थत्वसमर्थनेन
तदाऽरम्भणीयत्वकथनमसङ्गतं स्यात्1।
अथशब्देन सूचितस्यातश्शब्देनानुक्तस्य विवक्षितार्थत्वस्य तद्धेतुत्वायोगाद्यदि च
वेदाध्ययनस्याथज्ञानमनन्तराप्यर्थधर्मविचारहेतुत्वानुपपत्त्या अथ शब्दोक्तहेत्वाक्षिप्त-
हेत्वर्थज्ञानासिद्धिशङ्काव्यावर्तकतया तस्यादिशब्देनैव सूचनात्तद्धेतुत्वकीर्तनं
युक्तमित्युच्येत।
तदिहापि कर्मविचारहेत्वाक्षिप्तविशिष्टहेत्वसिद्धिशङ्काव्यावर्तकतया। अथशब्द-
सूचितायाः तस्या हेतुत्वाभिधानं युक्तमिति समस्समाधिः। युक्तसिद्धान्त-
सिद्धान्तेनाभिहितं2 सिद्धव्युत्पत्त्यभावस्य वेदान्तवाक्यजन्यपरब्रह्मगोचरापातप्रतीत्या-
-
D.M. धर्मविचारस्या॰॰॰ असङ्गतं स्यात् इति पाठः न प्राप्यते।
-
T.M. युक्तसिद्धान्तसिद्धाम्
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
37
क्षेपकस्यापि कर्मविचारसाध्यकर्मफलाल्पास्थिरत्वनिर्णयातिक्षेपकतया नाथशब्दोऽव-
स्थापितकर्मविचारक्षेतुत्वाक्षेपकत्वमिति असङ्गतिर्दुर्वारेति।
तदपि न। प्रागुक्तरीत्या तथाविधापातप्रतीतिमनन्तर्भाव्यकर्मफलाल्पास्थिरत्व-
निर्णयस्य कर्मविचारद्वारत्वासम्भवेन तथाविधापातप्रतीत्याक्षेपकस्यापि विशेष्याक्षेपद्वारा
विशिष्टहेत्वाक्षेपकत्वसम्भवेन तन्मुखेन कर्मविचारहेतुत्वाक्षेपकत्वस्याविरोधात्
व्याप्तिज्ञानस्य व्याप्तिपक्षधर्मोभयगोचरपरामर्शद्वारकं कारणत्वं व्याप्त्यंशप्रतिबन्धक-
व्यभिचारज्ञानेनैव पक्षधर्मतांशप्रतिबन्धकस्वरूपासिद्ध्यादिनापि प्रतिबध्यत इति
न्यायविद्भिः अङ्गीकृतत्वादिति।
अस्मत्पितामहचरणास्तु सिद्धव्युत्पत्त्यभावस्य विशेष्यांशाक्षेपकत्ववत् विशेषणां-
शाक्षेपकत्वमपि सुवचम्। कार्यपरो वा न वा वाक्यापेक्षितब्रह्मज्ञानफलनित्यत्वं
तच्छेषवाक्यबोधितं प्रामाणिकमिति कार्यैकवित्वत्यभ्युपगमेन विशेष्यांशासिद्धि-
परिजिहीर्षया प्रवृत्तं राद्धान्तछायापन्नं प्रति तर्हि चातुर्मास्यादिकर्मविधिशेष-
माताक्षय्यादिवाक्यबोधितं तत्फलनित्यत्वमपि सिद्ध्येदिति तदुक्त तदुक्तयुक्त्यवष्टम्भेन
विशेषणांशासिद्धेश्शङ्कितुं शक्यत्वात् त एव काम्येषु चैवमर्थित्वादित्यत्र स्थितेऽपि
तिर्यगधिकरणे पूर्वाधिकरणतांगतोपकालुष्यबुद्धिः काम्येष्वपि तं मन्यत इति
तन्निराकरणार्थमिदमधिकरणमित्युक्तमिति प्राहुः।
वस्तुतस्तु कर्मविचारस्य कर्मफलानित्यत्वज्ञानरूपविशेषणांश इवानन्तस्थिर-
फलापातप्रतीतिरूपविशेष्यांशेप्युपयोगोस्त्येव। तमेतं वेदानुवचनेनेत्यादि औपनिषद-
वाक्याध्ययनजन्यायाः यज्ञाद्यङ्गैकोपासनात्मकब्रह्मज्ञानानन्तरस्थिरफलापातप्रतीतेरुपास-
नाङ्गभूतयज्ञाद्यवगतिसाध्यतया तस्याश्च कर्मविचारनिष्पाद्यत्वेन तदंशेऽपि कर्मविचारोप-
योगस्य तुल्यत्वात्।
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
38
अत एवोक्तं श्रुतप्रकाशिकायाम् - तत्र स्वरूपेणोपादेयताप्रतीतिरनन्तरस्थिर-
फलापातप्रतीत्यन्तर्भूता उपायतदितिकर्तव्यताविशेषैः सहैव ह्यनन्तस्थिरफलापात-
प्रतीतिरिति विशिष्टहेत्वन्तर्भाव इति मूलभावप्रकाशिकायां च कर्मविचारस्य कर्मफला-
नित्यत्वप्रतीतिरूपविशेषणे अनन्तस्थिरफलयज्ञाद्यङ्गक-ब्रह्मोपासकप्रतीतिरूपविशेष्ये
चोपयोगः प्रदर्शितो भवतीति मीमांसापूर्वभागेत्यादिभाष्याभिप्रायो वर्णितः।
ततश्च कर्मविचारस्योभयांशोपयुक्ततया सिद्धव्युत्पत्त्यभावेन विशेष्यांशाक्षेपोऽपि
कर्मविचारहेतुत्वाक्षेपक एवेति सिद्धम्।
15.7. ऐकशास्त्र्यवादः
यत्तु अथातोऽधर्मजिज्ञासेत्यारभ्य अनावृत्तिश्शब्दादित्यन्तं विंशतिलक्षणमेकं
शास्त्रमिति वदता चतुर्लक्षणी देवमीमांसा द्वादशलक्षण्यः कर्ममीमांसाया उत्तरा
ब्रह्ममीमांसायाः पूर्वेति स्वीकृतत्वेन सिद्धे व्युत्पत्त्यभावे सिद्धरूपदेवतामीमांसानु-
पपत्तेस्तस्यास्तत्रैव सिद्धत्वात् पुनरिह सिद्धव्युत्पत्त्यभावशङ्का न युक्तेति न तेनोक्तम्।
तत्र ब्रूमः - सत्यं विंशतिलक्षणमेकं शास्त्रमिति। तच्च ब्रह्ममीमांसाया-
श्चतुर्लक्षण्यजैमिनीया षोडशाख्यायेति संहितमेतच्छारीरकम्। जैमिनीयषोडशलक्षणेनेति
वृत्तिग्रन्थादवगम्यते तस्याश्च षोडशलक्षिण्यः कर्मैकपरत्वं वेदान्तसारे भाष्यकारै-
रेवाभिहितम्।
कर्मणाञ्च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनतानिश्चयः प्रभुत्वा-
दार्त्विज्यनित्यन्तेन ससङ्कर्षेण कृत इति। दृश्यते च कर्मविचारात्मक एव सङ्कर्षणकाण्डः
अनुयतीत्यारभ्य विद्यते वान्यकालत्वाद्यथा याज्या सम्प्रैषो यथा याज्या सम्प्रैष
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
39
इत्यन्तसूत्रसमुदायात्मकः उदाहृतानि च तेऽत्रत्यान्यधिकरणानि पूर्व1मीमांसा-
व्याख्यातृभिः सूत्रकारैरपि कुशाच्छन्दस्तुत्योपगानवत् तदुक्तमौपसदवत्तदुक्तमित्यादौ
द्वादशलक्षणस्थन्यायोपजीवनवत् प्रदानवदेव तदुक्तमिति जैमिनीयसङ्कर्षकाण्डस्थस्य
नाना वा देवतापृथक्त्वादित्यधिकरणन्यायस्येवोपजीवनाद्देवताकाण्डस्थ न्यायस्य
क्वाप्यनुपजीवनाच्च जैमिनीयेन सङ्कर्षेणैवास्यैकशास्त्र्यं निश्चीयते।
यस्तु देवताविचारात्मकः काशकृत्स्नीयस्सङ्कर्षकाण्डः शतेन ब्रह्मकाण्डस्यैकशास्त्र-
प्रमाणमस्ति। वृत्तिकारादिवाक्यानामतद्विषयत्वात् वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविवि-
दिषेत्यादि वृत्तिग्रन्थविरोधाच्च। न हि देवताकाण्डव्यवधाने सति कर्मविचारानन्तर्यम्
अथशब्दार्थो वर्णयितुं शक्यः। तस्मान्न ब्रह्मविचारात्प्राक् सिद्धव्युत्पत्तिसिद्धिकथनं
युक्तमिति।
अस्तु वा देवताकाण्डेनैकशास्त्र्यं तथापि कर्मसमवेतदेवतास्वरूपविचारस्य
कार्यान्वितशक्तिवादे तैवोपपन्नस्य स्वातन्त्र्येण सिद्धव्युत्पत्यनपेक्षित्वान्न तत्र तन्निर्णयः
इहास्वातन्त्र्येण ब्रह्मणि देवतान्तरप्रामाण्यसंरक्षणाय तदभिधानस्यापेक्षितत्वादुक्त-
स्तन्निर्णय इति सङ्क्षेपः।
साधनचतुष्टयपूर्ववृत्तित्वादिति रसनप्रकारस्तु वेदान्तविजयादिषु विस्मृतः।
परिष्कृतश्च वैजयन्त्यामस्मत्पितामहचरणैरिति नात्र प्रपञ्च्यते।
यत्पुनभाष्यकारोक्तनित्यानित्यवस्तुविवेकादिनिरसनप्रकारोनूद्य नवीनेन दूषितः।
तन्निरसनाय दिङ्मात्रमुदाहरामः। तथाहि - ब्रह्ममीमांसाधिकारिणः तावन्मुमुक्षाविशेषणं
- T.M. ॰धिकरणानपूर्व॰
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
40
तस्यां शमदमादिसाधनसम्पत्कारणं तस्यां च वैराग्यं तत्र च नित्यानित्यवस्तुविवेकः
कारणम्। तदेतत्साधनचतुष्टयानन्तर्यमथशब्दार्थ इति परेषां मतम्। तदयुक्तम्।
मुमुक्षायाः मोक्षोपाय निश्चयानन्तरभावितया तस्य च विचारसाध्यत्वेन ततः पूर्वं
मुमुक्षाया एवासिद्धेरधिकारिविशेषणत्वायोगाद्योगि वा तन्नात्रान्तरस्यैवाथशब्दार्थत्वेन
साधनचतुष्टयानन्तर्यस्य तदर्थत्वायोगात्।
किञ्च निर्गलितनिखिलव्यलीकनिरतिशयसुखाभिलाषरूपा हि मुमुक्षा तस्याञ्च
वस्तुसौन्दर्यायत्तायां न कथञ्चन शमादेरुपयोगः। असत्यपि शमादौ वैषयिकसुख इव
तत्राप्यभिलाषोपपत्तेः।
अपि च शमादेर्मुमुक्षायां न साक्षादुपयोगः। चित्तेन्द्रियव्यापारोपरमादिरूपस्य
तस्य ज्ञानसाध्यायामिच्छायां साक्षादुपयोगासम्भवात्। किन्त्वविक्षिप्तचित्ततया वेदान्तात्
आत्मावगमसम्पादनद्वारा तदुपयोगो वाच्यः।
स चावगमः किमवधारणात्मकः? किं वा पातप्रतीत्यात्मकः?
नाद्यः, मुमुक्षायाः प्रागेव तथाविधात्मावगमसिद्धौ विचारवैषम्यात्।
न द्वितीयः अनवधारणात्मके तस्मिन् शमादेरनपेक्षवदन्यथा नित्यानित्यवस्तु-
विवेकेऽपि शमादेर्हेतुत्वं को वारयेत्।
किञ्च शमदमाद्युपेतस्स्यादित्यनेन ब्रह्मविचारमध्ये निरूप्यमाणस्य शमादेरात्म-
ज्ञानोपायात्तस्य ततः प्रागनवगमात् कथं तद्वारा शमादेरिदानीं मुमुक्षाहेतुत्वावगमः?।
एतेन नित्यानित्यवस्तुविवेकस्य वैराग्यसम्पादनद्वारा शमादिहेतुत्वमपि निरस्तम्।
कर्मब्रह्मोभयभागब्रह्मविचारमन्तरेण निश्चयात्मकवस्तुविवेकासिद्धेः।
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
41
न हि वेदान्ताध्ययनमात्रादात्मनित्यत्वनिश्चयः न प्रेत्यसंज्ञास्ति विज्ञा एतेभ्यो
भूतेभ्यस्समुत्थाय तान्येवानुविनश्यतीत्यादि वेदान्तवाक्येष्वेवात्मनोऽपि विनाशित्वप्रतीत्या
तन्निश्चयायोगादत एव नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः इत्यादिनोत्तरत्र तन्नित्यत्व-
निर्धारणमुपपद्यते।
अन्यथा प्रागेव तन्निश्चये विचारवैफल्यादापातप्रतीतिरूपनित्यानित्यवस्तुविवेकस्तु
यद्यपि सम्भवति तथापि नासौ वैराग्यहेतुः वैषयिकसुखानित्यत्वनिश्चयस्यैव
वैराग्यहेतुत्वात् परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायादिति तन्निर्णयस्यैव
तद्धेतुताभिधानात्।
अन्यथा तद्यथेह लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते इत्यादिना
वेदान्तेषु तदनित्यत्वाभिधानवैफल्याच्च आपातप्रतीतेः कर्म ब्रह्मोभयभागसाधारणतया
ब्रह्मविचारे विशिष्य तत्कीर्तनवैयर्थ्याच्च।
15.8. नित्यानित्यवस्तुविवेकः
यत्तु कर्मफलानित्यत्वस्य ब्रह्मज्ञानफलनित्यत्वस्य च विवेक एव नित्यानित्य-
वस्तुविवेकः। न चाध्ययनमात्रादेव भवतीति तदपि निरस्तम्। निश्चयात्मकस्य तस्य
कर्मब्रह्मोभयभागविचारसाध्यत्वादापातप्रत्ययस्य च वैराग्याहेतुत्वादिति।
किञ्च न वेदान्ताध्ययनामात्रात् ब्रह्मज्ञानफलत्वावच्छेदेन नित्यत्वज्ञानं सम्भवति।
नास्या वरपुरुषाः क्षीयन्ते अन्नवानन्नादो भवतीत्यादिषु ब्रह्मज्ञानस्यापि क्षयफलश्रवणात्
फलतावच्छेदकसामानाधिकरण्येन तन्नित्यत्वज्ञानन्तु कर्मण्यपि समानम्। नास्या क्षय्यँ
हवै चातुर्मास्ययाजिनस्सुकृतं भवति अपामसोमममृता भूमेत्यादिषु कर्मफलस्यापि
नित्यत्वश्रवणादिति। यत्तु कर्मकाण्डे उभयथा श्रवणेऽपि वेदान्तेषु तद्यथेह कर्मचितो
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
42
लोकः क्षीयत इत्यादिषु कर्मफलत्वावच्छेदेन अनित्यत्वं ब्रह्मज्ञानफलस्य नित्यत्वं
चावगच्छतः पुरुषस्योत्कटकोटिकसम्भावनात्मकनित्यानित्यवस्तुविवेको वैराग्यहेतुः
सम्भवत्येवेति सिद्धान्तसिद्धाञ्जनोक्तं तदपि न चातुर्मास्यफलादावक्षय्यत्वं श्रुतवतः
तद्यथेहेति वाक्यमात्रात् कर्मफलत्वावच्छेदेनानित्यत्वज्ञानायोगात्।
न च तत एव वेदान्तवाक्यादक्षय्यादिवाक्यस्य कर्मप्रशंसार्थत्वं पश्वाद्यपेक्षया
चिरकालस्थायित्वाभिप्रायकत्वं वा ज्ञास्यतीति वाच्यम्। अक्षय्यादिश्रुतिमनुरुध्य
तद्यथेहेति वाक्यस्यैव न हि निन्दान्यायेन ज्ञानप्रशंसापरत्वस्यावगन्तुं शक्यत्वेन
वैपरीत्यस्यापि सुवचत्वेन तत उत्कटकोटिकसम्भावनात्मकज्ञानस्य वैराग्यहेतोरजननात्।
सिद्धान्ते तु कर्मविचारपूर्ववृत्तित्वाङ्गीकारात् तत एव कर्मफला नित्यत्वनिश्चयेन
तत्सहितायातप्रतीतिबलात् ब्रह्मविचारे प्रवृत्तिरुपपद्यते।
न च कर्मविचारात् कर्मणामल्पास्थिरत्वनिश्चयेऽपि तदुत्तरभागे ब्रह्मज्ञानस्य
अनन्तस्थिरफलत्वानिश्चयेन तत्राप्यल्पास्थिरफलत्वसम्भावनावतः कर्मफलहेयत्वनिश्चया-
भावात् कथं ब्रह्मविचार एव तद्धेतुता स्यादिति वाच्यम्।
तथाप्युत्कटकोटिकहेयताज्ञानस्य सम्भवेन ततो निवृत्तिसम्भवात् यत्तु अन्यत्रानु-
पायत्वनिश्चयेन ततो निवृत्तिमात्रसिद्धावपि ब्रह्मज्ञानोपायत्वानिश्चयेन तत्र प्रवृत्तिः
कथमुपपद्यत इति नवीनोक्तम्।
तन्न, पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ब्रह्मवेद ब्रह्मैव
भवतीत्यादिना ब्रह्मज्ञानस्यामृतत्वप्राप्तिहेतुत्वश्रवणेन तन्निर्णिनीषया ब्रह्मविचारे प्रवृत्त्युप-
पत्तेः मरुमरीचिकादावनुपायत्वनिश्चयेन ततो निवृत्तस्य पिपासितस्य तद्विलक्षणजला-
द्यापातप्रतीत्याऽपि जलादिप्रवृत्तिदर्शनेन तन्निश्चयस्यैव तत्प्रवृत्तिहेतुत्वनियमासिद्धेः
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
43
अधीतक्रमेण कर्मब्रह्मोभयगोचरापातप्रतीत्या प्रथमं कर्मविचारे प्रवृत्तस्य तत्रास्थिर-
फलत्वनिश्चयेन ततो निवृत्तस्यापातप्रतीतब्रह्मनिर्णिनीषया तद्विचारे प्रवृत्त्या (चि)त्या-
वर्जिताया निश्चयादिनिमित्तान्तरानपेक्षत्वाच्च।
अन्यथापातप्रतीत्या कर्मविचारेऽपि प्रवृत्त्यनुपपत्तेः प्रथममेतदुपायत्वनिश्चये
विचारवैफल्याच्च एतेन कर्मफलानित्यत्वावगमेऽपि तदधिकफलान्तरानवधारणाद-
नवलम्बनो न ततो निर्वेद्येत न ह्यापातादिगतानन्तस्थिरमनावलम्बनो निश्चितमल्पमपि
आस्वादितजातीयमह्नायत्यक्तुमुत्सहतेति सिद्धान्तसिद्धाञ्जनोक्तमपि निरस्तम्।
अनिश्चितजलोपलम्भस्यापि मरुमरीचिकादावृद्दन्या निवृत्त्यननुकूलत्वनिश्चयमात्रेण
तत्त्यागदर्शनेनानुभूतसजातीयस्वल्पसुखवैराग्येण नौकातरणसाध्यद्वीपान्तरस्थसन्दिग्ध-
फललिप्सया प्रवृत्तिदर्शनेन फलनिश्चयस्यैव विषयान्तरवैराग्यप्रकृतविषयप्रवृत्तिहेतुत्व-
नियमासिद्धेः। अन्यथा स्वमतेऽपि फलनिश्चयाभावेन श्रवणादिप्रवृत्त्युच्छेदापत्तेः।
वस्तुतस्तु कर्मविचारपूर्ववृत्तत्वानङ्गीकर्तुर्मत एवाधीत साङ्गसशिरस्कवेदस्य कर्मब्रह्मोभय-
भागसाधारणापातप्रत्यये सत्यपि ब्रह्मविचार एव प्रवृत्तेराकस्मिकत्ववारणाय
कथञ्चिदनन्तस्थिरफलनिश्चयापेक्षा न कर्मविचारपूर्ववृत्तित्वमते तत्पक्षे कर्मविचारेण
कर्मफलफल्गुत्वनिश्चये सति तत्सहितया वेदान्तेषु क्षयिफलत्वेन कर्मनिन्दया नूनं
ब्रह्मज्ञानसाध्यमक्षयं फलमस्ति।
त्युत्कटसम्भावनयैव तत्प्रवृत्तिसिध्या न तन्निश्चयापेक्षेति युक्तमुत्पश्यामः।
तस्मान्नित्यानित्यवस्तुविवेकस्य निश्चयात्मकस्यैव वैराग्यहेतुत्वात् तस्य च विचार-
साध्यत्वात् साधनचतुष्टयपूर्ववृत्तित्ववादिमते अन्योन्याश्रयो दुर्वार इति यत्वत्र नवीनोक्तं
यत्वादौ श्रद्धयासिद्धं पुनर्न्यायेन साधितमिति न्यायेनानित्यत्वात् न दुःखत्वान्न धर्माद्याः
परं सुखं मोक्ष एव वरानन्द इत्यादि इतिहासादिना नाना नास्त्यकृतः।
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
44
कृतेनेत्यादि श्रुतित आह ततो वा श्रुतिमूलहितैषिपित्रादिवाक्येन वामननात्मकी
विचारात् प्रागपि श्रद्धामात्रेण नित्यानित्यवस्तुविवेकसिद्धेर्वाक्याश्रयः अन्यथा तन्मते
अपशूद्राधिकारे ज्ञाते अशूद्रस्यैतच्छास्त्रे प्रवृत्तिः प्रवृत्ता चैतच्छास्त्रेणापशूद्राधिकारनिश्चय
इत्यन्योन्याश्रयस्स्यात्।
तथाध्ययनविधावप्यधीते स्वाध्यायेऽष्टवर्षं ब्राह्मणमित्यादिवाक्येनाष्टवर्षत्वान-
धिकारि विशेषणत्वज्ञानं तद्ज्ञाने चाध्ययनप्रवृत्तिरित्यन्योन्याश्रयः स्यात्। तथा ब्रह्मज्ञान-
स्यानन्तस्थिरफलत्वनिश्चये चैतदर्थिनो ब्रह्मविचारे निश्शङ्कं प्रवृत्तिः विचारेण च तन्निश्चय
इत्यन्योन्याश्रयस्स्यादिति।
तत्रोच्यते – उपनयनमनन्तरमधीतात् वेदापातप्रतिपन्न वेदार्थनिर्णिणीषया प्रयत-
मानस्य पुरुषस्येतिहासपुराणाध्ययनावसराभावात् कथं तत्रानित्यानित्यवस्तुविवेकसम्भवः
सम्भवे वा ततः एवानन्तफलसाधनब्रह्मावगतिसम्भवपुनर्विचारवैफल्यात्, नास्त्यतः
कृतेनेत्यादितो यद्य तप्रत्ययसम्भवति तथाप्यनावनिश्चयात्मकत्वान्न वैराग्यहेतुरित्युक्तं
प्राक्। वस्तुतस्तु नेत्रश्रुतौ परीक्ष्येत्यनेन कर्मविचारमभिदधतां कर्मविचारसाध्यकर्म-
फलाल्पास्थिरत्वनिश्चयस्यैव निर्वेदहेतुत्वाभिधानेन।
तत आह - तत्प्रतीत्युपपादनमयुक्तमेव अत एव श्रुतिहितैषिपित्रादिवचनात्
तदवगतिरपि निरस्ता। तथा सति लघुना तेनैवोपायेन ब्रह्माधिगमे गुरुवेदान्तविचारे
प्रवृत्त्ययोगात्। श्रवणेन तदवगतिरित्यप्ययुक्तम्।
नित्यानित्यवस्तुविवेकादिकं विना कर्मभागश्रवणमपहाय ब्रह्मभागश्रवण-
प्रवृत्तेरेवायोगात्। उपायान्तरेण चेत्तत्प्रवृत्तिः। तर्हि तदेव मननात्मकविचारेऽपि हेतुरस्ति
किं नित्यानित्यवस्तुविवेकादिना तस्मादुक्तनित्यानित्यवस्तुविवेकादेश्शास्त्रान्तरगम्यत्वा-
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
45
सम्भवादेतच्छास्त्रादेव तदधिगमो वाच्य इतीतरेतराधीनार्थनिर्णयत्वादितरेतराश्रयत्वं
दुर्वारमिति।
यत्त्वेवमपशूद्राधिकारज्ञानादेरप्येतच्छास्त्राधीनत्वादन्योन्याश्रयः स्यादिति। तन्न।
अपशूद्रेत्यन्वाधिकारिविशेषणत्वाभावेन प्रवृत्तेः पूर्वं नियमेन तद्ज्ञानस्यापेक्षणात्। न
चैवं शूद्रस्याप्येतच्छास्त्रे प्रवृत्तिप्रसङ्गः।
तस्यानधीतवेदस्यापातप्रतीत्यभावेन निर्णिनीषाऽनुत्पत्त्या तस्य तत्र प्रवृत्त्ययोगात्
सिद्धान्तकर्मविचाराधिकारिण एव कर्माङ्गकब्रह्मोपासनफलकब्रह्मविचाराधिकारितया
तत्रापशूद्राधिकारनिर्णयेन तन्निर्णयस्यैतच्छास्त्रप्रवृत्त्यधीनत्वाभावेन अन्योन्याश्रयानव-
काशाच्च। न चैवं तत्रैवापशूद्राधिकारनिश्चयात्पुनरत्र शास्त्रे तद्विचारो व्यर्थस्स्यादिति
वाच्यम्।
आजहारेया शूद्रेत्यादिना जानकृतिशूद्रेत्वामन्त्र्य रैक्वेन ब्रह्मतत्वोपदेशदर्शनात्
शूद्राणामनग्निकानामग्निसाध्येषु कर्मस्वनधिकारेऽपि स्ववर्णोचितकर्माङ्गकब्रह्मोपासनाया-
मधिकारः किन्न स्यादित्यधिका शङ्का व्यावर्तनाय तद्विचारणफलस्य वक्ष्यमाणत्वात्।
किञ्च येषां मते विचारस्य वैधत्वं नित्यानित्यवस्तुविवेकादेश्च पूर्ववृत्तत्वं तेषामत
एवेदमन्योन्याश्रयणं न कर्मविचारपूर्ववृत्तत्ववादिमते।
तथाहि - श्रवणादिविधे मुमुक्षुमात्रेण धारणतया त्वदुक्तरीत्या हितैषिपुरुषाद्य-
वगतनित्यानित्यवस्तुविवेकादीनां विशिष्टशूद्राणामपि मुमुक्षासम्भवादेतच्छास्त्रप्रवृत्ति-
वारणाय प्रथममपशूद्राधिकारो ज्ञातव्यः। तद्ज्ञानञ्च शास्त्राधीनमिति भवति
इतरेतराश्रयणं त्वन्मते अस्मन्मते तु अधीतवेदस्य विचारितकर्मणः आपातप्रतीतब्रह्म-
स्वरूपनिर्णिनीषया वेदान्तविचारे प्रयतमानस्य नापशूद्राधिकारज्ञानापेक्षा अनधीत-
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
46
वेदतया वा तत्प्रतीत्यभावेन वेदान्तविचारप्रवृत्तेरेवाप्रसक्तेः तद्वारणायापशूद्राधिकार-
ज्ञानापेक्षाभावात्।
न च तस्य वेदाध्ययनमपि किन्न स्यादिति शङ्क्यम्। अष्टवर्षं ब्राह्मणमुपनयीत
तमध्यापयेदित्युपनयनेनाध्ययनाङ्गतो बोधनेन त्रैवर्णिकमात्रविषयतया निर्णीतोपनयन-
रूपाङ्गलोपेन न स्त्रीशूद्रौ वेदमधीयातामिति कण्ठतस्तन्निषेधेन तस्माच्छूद्रसमीपे
नाध्येतव्यमित्यन्येषामधीयानानां शूद्रसामान्यनिषेधात्कैमुत्येन तस्याध्ययनयोग्यता
विरहनिश्चयेन अथ हास्यवेदमुपशृण्वतः त्रपुजतुभ्यां श्रोत्रप्रहाराणामिति वेदश्रवणे
प्रायश्चित्तविधानेन च तस्य वेदाध्ययनानुपपत्तेः यदप्यष्टवर्षत्वाद्यधिकां विशेषणा-
ज्ञानस्याष्टवर्षं ब्राह्मणमित्यादि वाक्याध्ययनाधीनत्वादन्योन्याश्रयोपपादनम्।
तदपि न अष्टवर्षत्वाद्यधिकारिविशेषणज्ञानवत् पित्रादिप्रेरणायाप्युपनयनादि
प्रवृत्तिसम्भवेन अन्योन्याश्रयानवकाशात्।
न चेहापि तथा त्वन्तथा तत ब्रह्मस्वरूपनिश्चये विचारवैफल्यादेरुक्तत्वात्
प्रकृतेतूपायान्तरव्यावृत्त्यघटकाध्ययननियमविधेर्विधेयाध्ययनस्य वा न वैयर्थ्यम्।
अध्ययनफलस्य अक्षरावाप्त्यादेः पित्रादिवाक्यमात्रेणानिष्पत्तेरिति ब्रह्मज्ञानानन्तस्थिर-
फलत्वप्रत्ययस्य विचाराधीनत्वमादायान्योन्याश्रयस्तु निरस्त एव। तस्मात्परोक्तरीत्या
नित्यानित्यवस्तुविवेकादेः पूर्ववृत्तित्वस्यायुक्तत्वात्। अस्मदुक्तरीत्या कर्मविचारपूर्ववृत्त-
मनवद्यमिति कर्मविचारानन्तरकर्तव्ये ब्रह्मविचारे विषयीभूतं ब्रह्म सर्वकर्मसमाराध्यो
विष्णुरेवेति ब्रह्मशब्देन अथातश्शब्दाभ्यां भगवान् पाराशर्यो निश्चिन्वन् कृत्स्नस्यापि
शास्त्रस्य तदेकविषयत्वं व्यातिष्टिवदिति भावः।
नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च
नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
47
ननु पूर्वमीमांसायां जैमिनिना आम्नायस्य क्रियार्थत्वादानर्थक्यमतर्थानां
तस्मादनित्यमुच्यत इत्यन्येन मात्रेण कृत्स्नस्यापि वेदस्य कार्यार्थतया प्रमाणत्वादि
क्रियाणामर्थवादादीनामप्रामाण्यमाशङ्क्य विधिना त्वेकवाक्यत्वादिति सूत्रेण क्रियार्थानां
साक्षात् क्रियाबोधनसामर्त्याभावेपि तत्सर्धविधिवाक्यैकवाक्यतावन्नत्वेन क्रियार्थपर्यव-
सायित्वात् सम्भवति॥१॥
⏺⏺⏺