मोहावेशवशंवदात्ममनसो मूढा निगूढाशयं, श्रीमद्भाष्यमदूष्यमब्जजनुषाप्यादूष्य हृष्यन्ति ये। तानात्मीयमतिव्यतिक्रमभवद्दोषान्मनीषि2ब्रुवां- स्तत्तात्पर्यविवेचनान्निरसितुं यत्नः कृतार्थोऽद्य3 नः॥१०॥ यो वायोरभवत् तृतीयतनुभृद्यस्तद्भुजामीशितुः तादृग्रूपधरास्तयोर्हि चरमस्पष्टप्रकृष्टोदयः। इत्थं तन्मतयो क्रमादधिगतं न्यूनत्वमाधिक्यम- प्यद्यत्वे त्वनवद्यतां प्रविशदीकर्तुं प्रवर्तामहे॥११॥ यावत्प्रज्ञमभिज्ञभाव्यमतिना ग्रन्थे मया निर्मिते दोषान्वेषणतोषिताः कतिपये तृष्यन्तु कुप्यन्तु वा। भिन्नच्छिन्नमतश्रुतिस्मृतिकथापारम्परीलम्पटा- स्सन्तः प्रोज्झितमत्सराः प्रतिपदं सन्त्येव सन्तोषिणः॥१२॥
-
T.M. बिभ्यत्रयी
-
D.M. मतीषि.
-
T.M. & D.M. कृतार्थोऽद्य इति सर्वत्र उभयमातृकयोः अवग्रहप्रयोगो न दृश्यते। नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्
5 ध्वान्तानुवर्तिषु जनेष्वपि चन्द्रिकायां दोषानुषङ्गविधितः प्रथितोदयेषु। सन्मानसाब्जविततिर्व्यथिता विकासं गृह्णातु सम्प्रति नयद्युमणेरमुष्मात्॥१३॥