02 व्यास-रामानुजस्तुतिः

दोहं दोहममोघवाङ्मयगवीराहृत्य सूत्राक्षर- क्षीरस्मेरमधान्मुदा क्षितितले क्षेमाय यो मादृशाम्। आतच्यैतदरिक्तयुक्तिनिकरैरामध्यभाष्यात्मकं गव्यं भव्यतमं च योऽप्युदहरत्4 तभ्यामुभाभ्यां नमः॥२॥

  1. T.M. शुभमस्तु॥ श्रीहयग्रीवायनमः॥ सत्यं ज्ञान.; D.M. नयद्युमणिदीपिका श्रीनिवासकृता॥ श्रीहयग्रीवायनमः॥ सत्यं ज्ञान.

  2. [ ] चिह्नमिदं सन्दर्भानुसारं भवतीति विषयानुरोधेन मया स्थापितम्।

  3. T.M. & D.M. यूध॰

  4. D.M. व्युदहरत् नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च नयद्युमणिव्याख्या(दीपिका)याः पाठसमीक्षात्मकं सम्पादनम्

2