०१ अध्ययनम्

नयद्युमणिव्याख्यायाः अध्ययनम्

उपक्रमः

163 भक्तिप्रपत्तिभ्यां तं भगवन्तमवाप्तुं शरणागतिमार्गे येऽग्रेसरन्ति ते विशिष्टाद्वैतिनः। एतेषां विशिष्टाद्वैतिनां परमस्सिद्धान्तो विद्यते “भक्तिप्रपत्तिभ्यां प्रसन्नः स एवोपाय”1 इति। सकलवेदोपनिषत्सारत्वेन भगवता स्वयं प्रवर्तितेऽस्मिन् सिद्धान्ते आचार्याः भवन्ति नाथ-यामुन-भगवद्रामानुजादिमनीषिणः॥ एतादृशाचार्यपरम्परायामन्यतमाः भवन्ति नयद्युमणि-तद्दीपिकाप्रणेतारः श्रीनिवासाचार्याः। एते भगवद्रामानुजानुगृहीतश्रीभाष्यस्योपरि श्लोकरूपेण ब्रह्मसूत्र-

स्तवरूपं नयद्युमण्याख्यंग्रन्थमारच्य तस्य विवरणात्मकं दीपिकाख्यस्वोपज्ञटीकामपि व्यरचयन्निति ज्ञायते॥ एतावत्पर्यन्तमप्रकाशितं ब्रह्मसूत्रस्तवरूपं ग्रन्थं गृह्णीय सम्पादनाध्ययनात्मक-

गवेषणाकार्यं विधातुमुद्युक्तेन मया परिशीलितेऽपि बहुत्र दक्षिणभारतमातृकागारेषु मातृकाद्वयमेव लब्धम्॥ तत्र तेलुगुलिप्यां लिखितां प्रथमां मातृकाम् Adyar Library and Research Centre – The Theosophical Society, Adyar, Madras तः; देवनागरीलिप्यां लिखितां द्वितीयां मातृकां Government Manuscript Library, Madras तः सम्प्राप्य, राष्ट्रियसंस्कृतविश्वविद्यालये विशिष्टाद्वैतवेदान्तविभागे श्रीमताम् आचार्य चक्रवर्ति राघवन् महोदयानां मार्गदर्शने “नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च” इत्याख्यया शीर्षिकया शोधप्रबन्धमारचयितुं प्रवृत्तोऽहं यथानुसन्धानप्रविधि सज्जीकृत्य समर्पयम् इति च विनिवेदयितुम् आनन्दसन्दोह-

मनुभवामि॥

  1. य॰म॰दी॰ पृ॰ 2 नयद्युमणिव्याख्यायाः अध्ययनम् उपोद्घातः

164 इतिकर्तव्यता - नयद्युमणिदीपिकाग्रन्थकर्त्रा ग्रन्थरचनचिकीर्षा एवं प्रदर्शिता – मोहावेशवशंवदात्ममनसो मूढा निगूढाशयं, श्रीमद्भाष्यमदूष्यमब्जजनुषाप्यादूष्य हृष्यन्ति ये। तानात्मीयमतिव्यतिक्रमभवद्दोषान्मनीषिब्रुवां- स्तत्तात्पर्यविवेचनान् निरसितुं यत्नः कृतार्थोऽद्य नः1॥ ध्वान्तानुवर्तिषु जनेष्वपि चन्द्रिकायां दोषानुषङ्गविधितः प्रथितोदयेषु। सन्मानसाब्जविततिर्व्यथिता विकासं गृह्णातु सम्प्रति नयद्युमणेरमुष्मात्2॥ इति। अनेन अदूष्यस्य श्रीभाष्यग्रन्थस्य मूलतत्त्वमज्ञात्वा तमुत्तमं ग्रन्थं प्रदूष्य ये मोहावेशाभ्यां वशीकृतमनस्काः मूढाः हृष्यन्ति तान् निरसितुं श्रीभाष्यग्रन्थतात्पर्य-

विवेचनात्मकेन नयद्युमणिदीपिकाख्यव्याख्यानेन कृतो यत्नः नः कृतार्थो भवतु इति॥ एतादृशग्रन्थरचना सन्मानसाब्जसमूहस्य विकासाय दोहदो भवतु इति ग्रन्थकर्तॄणामाशयः। एतादृशग्रन्थकर्तुराशयं मनसि निधाय एतावत्पर्यन्तमप्रकाशितस्य मातृकारूपेणैव संस्थितस्यास्य ग्रन्थस्य सम्पादनं श्रीभाष्यादिविशिष्टाद्वैतसाम्प्रदायिक-

ग्रन्थजिज्ञासूनां महदुपकाराय भवतीति मत्वा, मे प्रवृत्तिः॥

  1. नयद्युमणिदीपिका, श्लो॰सं॰ 10

  2. नयद्युमणिदीपिका, श्लो॰सं॰ 13 नयद्युमणिव्याख्यायाः अध्ययनम् अध्यायः – 1. उपक्रमः

165 अथ शोधप्रबन्धस्वरूपाविष्कारः – शोधप्रबन्धोऽयं द्विधा विभक्तः। तद्यथा –

  1. नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम्,

  2. नयद्युमणिव्याख्यायाः अध्ययनम् - चेति।

  3. शोधप्रबन्धस्य प्रथमो भागः - नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् – इत्याख्ये प्रथमभागे तेलुगु-देवनागरीलिपिगतमातृकयोः तोलनेन सह पाठभेद-अधिकपाठ-लुप्तपाठ-

साधुपाठादिविवेचनापूर्वकं यथानुसन्धानप्रविधि नयद्युमणिव्याख्यासम्पादनम् समुपस्थापिता॥

  1. शोधप्रबन्धस्य द्वितीयो भागः - नयद्युमणिव्याख्यायाः अध्ययनम् – इत्याख्यो द्वितीयभागोऽयं पञ्चाध्यायैः विभक्तः। तेषु च अध्यायेषु एते विषयाः अध्ययनरूपेण विचारिताः। ते च यथा - I. प्रथमाध्यायः – उपक्रमाख्येऽस्मिन्नध्याये वैदिकवाङ्मयविचारः, वेदस्या-

पौरुषेयत्वकथनम्, वेदस्य विभागक्रमः, उपनिषद्वैभवम्, ब्रह्मविद्यानां स्वरूपम्, प्रस्थानत्रयस्वरूपकथनम्, अद्वैतविशिष्टाद्वैतद्वैतादिवेदान्तसिद्धान्तानां स्वरूपम्, विशिष्य विशिष्टाद्वैतसिद्धान्तस्य प्रौढिमा इत्याद्यंशा विवेचिताः।

विशिष्टाद्वैतपरम्परा

विशिष्टाद्वैतपरम्पराख्येऽस्मिन्नध्याये भगवद्रामानुजाचार्यात् पूर्वाचार्यपरम्परास्वरूपम्, द्वादशदिव्यसूरिणां योगदानम्, नाथ-यामुनाचार्ययोः वरिवस्या, भगवद्रामानुजाचार्य-सुदर्शसूरि-वेदान्तदेशिक-महाचार्य-रङ्गरामानुजा-

चार्याणां योगदानम् विशिष्य एतादृशविशिष्टाद्वैतपरंपरायां नयद्युमणिदीपिका-

कर्तुः श्रीनिवासाचार्यस्य स्थानं विवेचितम्। नयद्युमणिव्याख्यायाः अध्ययनम् उपोद्घातः

166

नयद्युमणिव्याख्याकर्तृतन्मातृका

III. तृतीयाध्यायः – नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयात्मकेऽस्मिन्नध्याये नयद्युमणिदीपिकाग्रन्थकर्तुः जीवनविशेषाः, विशिष्टाद्वैतपरम्परायां नयद्युमणि-

दीपिकाग्रन्थकर्तुः, ग्रन्थस्य च स्थानम्, यतीन्द्रमतदीपिकाग्रन्थकर्तार एव नयद्युमणिदीपिकाग्रन्थकर्तार इति निर्णयः, मेघनादारिसूरिविरचितस्य नयद्युमणिग्रन्थस्य श्रीनिवासविरचितनयद्युमणिदीपिकाग्रन्थस्य च सम्बन्धाभावः, नयद्युमणिव्याख्यामातृकापरिचयः, मातृकासम्पादनावश्यकता, परिशोधन-

प्रकाशनयोः स्वरूपः, नयद्युमणिदीपिकाग्रन्थरचनोद्देश्यकथनम्, इदानीन्तनकाले तादृशग्रन्थस्य सम्पादनेऽध्ययने च औचित्यकथनम्, विशिष्य शोधकार्य-

प्रवृत्तिनिमित्तम् इत्याद्यंशाः प्रदर्शिताः॥

नयद्युमणिव्याख्यागतश्लोका

IV. चतुर्थाध्यायः – नयद्युमणिव्याख्यागतश्लोकानां सान्वयप्रतिपदार्थतात्पर्यविचारः इत्याख्ये चतुर्थाध्याये नयद्युमणिदीपिकाग्रन्थारम्भे स्थितमङ्गलाचरणादिपञ्चदश-

श्लोकानां पदविभागप्रतिपदार्थप्रदर्शनपुरस्सरं तात्पर्यार्थो प्रतिपादितः। तत्र क्रमशः – भगवन्मङ्गलाचरण-व्यासरामानुजस्तुति-सुदर्शनसूरिस्तुति- वेदान्तदेशिकस्तुति-वेङ्कटाध्वरिस्तुति-अण्णयार्यस्तुति- ताताचार्यस्तुतिरूपगुर्वनु-

ग्रहस्मरणानि सम्यक् विचारितानि। ततः नयद्युमणिग्रन्थरचनाप्रतिज्ञां रचनेतिकर्तव्यतां च सुनिरूप्य, ततः नयद्युमणिदीपिकाव्याख्यारचनाप्रतिज्ञा विवेचिता। तदनु ब्रह्मसूत्रस्तवरूपनयद्युमण्याख्यदशश्लोकीविचारः निरूपितः। तत्र क्रमशः - विष्णोर्जिज्ञास्यत्वकथनम्, श्रुतिप्रामाण्यनिरूपणम्, जगदुपादानकारणत्वनिरूपणम्, लक्ष्म्याः जगत्कारणत्वनिरूपणम्, भगवत एव सर्वकार्योत्पादकत्वनिरूपणम्, भगवतः शास्त्रैकप्रमाणकत्वनिरूपणम्, तद्द्रढीकरणम्, अनवधिकातिशयानन्दरूपतया निरतिशयपुरुषार्थत्वनिरूपणम्, सच्छब्दवाच्यत्वनिरूपणम्, सद्विद्यावेद्यत्वनिरूपणम्, कल्याणगुणाकरत्व-

प्रतिपादनम्, मोक्षप्रदत्वनिरूपणं चेत्याद्यंशान् श्लोकरूपेण दीपिकाव्याख्यारूपेण च स्थितान् पदविभाग-प्रतिपदार्थ-तात्पर्यार्थैः गन्थकर्तुराशयं सारतो यथानुसन्धानप्रविधि व्यचारिषम्॥ नयद्युमणिव्याख्यायाः अध्ययनम् अध्यायः – 1. उपक्रमः

167

उपसंहारः

V. पञ्चमाध्यायः – अन्ते उपसंहारात्मकेऽस्मिन् पञ्चमाध्याये सम्पादितमूलग्रन्थे तदध्ययने च प्रतिपादितांशान् सारतः प्रपञ्च्य, भाव्यनुसन्धानसूचनाः प्रदात्ताः॥ परिशिष्टभागः - परिशोधनाग्रन्थस्य अनुबन्धरूपेण श्रीनिवासकृतनयद्युमणि-

व्याख्यागतपञ्चदशश्लोकाः एवं नयद्युमण्याख्या दशश्लोकी च प्रदर्शिता। ततः नयद्युमणिश्लोकपादानाम् अकारादिसूची, नयद्युमणिव्याख्यामातृकायाः आदिमध्यान्तचित्राणि, उपयुक्तग्रन्थसूची च दत्ता॥ एभिः अंशैः तिरुपतिस्थे राष्ट्रियसंस्कृतविश्वविद्यालये श्रीमताम् आचार्य चक्रवर्ति राघवन् महोदयानां मार्गदर्शने “नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च” इत्याख्यया शीर्षिकया विद्यावारिधिः इत्युपाधये शोधकार्यं कर्तुं यथामति उद्युक्तोऽस्मि॥ ⏺⏺⏺