००

iii

विषयानुक्रमणिका

क्र.सं. विषयाः पुटसङ्ख्या i. मुखचित्रम् ii. प्रतिज्ञापत्रम् iii. प्रमाणपत्रम् iv. मङ्गलाचरणम् v. कार्तज्ञ्याविष्कारः i-ii vi. विषयानुक्रमणिका iii-v vii. सङ्केताक्षरसूची vi-vii प्रथमो भागः नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम्

1-156 श्रीनिवासकृता नयद्युमणिदीपिका

  1. भगवन्मङ्गलाचरणम् 1

  2. व्यास-रामानुजस्तुतिः 1

  3. सुदर्शनसूरिस्तुतिः 2

  4. वेदान्तदेशिकस्तुतिः 2

  5. वेङ्कटाध्वरिस्तुतिः 2

  6. अण्णङ्गराचार्यस्तुतिः 3

  7. ताताचार्यस्तुतिः 3

  8. गुर्वनुग्रहस्मरणम् 3

  9. नयद्युमणिग्रन्थरचनाप्रतिज्ञा 4

  10. नयद्युमणग्रन्थरचनेतिकर्तव्यता 4

  11. नयद्युमणिदीपिकाव्याख्यारचनाप्रतिज्ञा 5 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च विषयानुक्रमणिका iv

  12. भगवद्रामानुजस्मरणम् 5

  13. पूर्वाचार्यकृषिस्मरणम् 6

  14. ग्रन्थरचनाप्रयोजनकथनम् 6

  15. भगवतः विष्णोरेव जिज्ञास्यत्वकथनम् (प्रथमश्लोकः) 7

15.1. जिज्ञासाशब्दार्थविचारः 9

15.2. पदशक्तिविचारः 21

15.3. ब्रह्मशब्दार्थविचारः 23

15.4. भगवान् विष्णुरेव ब्रह्मशब्दाभिधेय इति विचारः 26

15.5. कर्मविचारानन्तरं ब्रह्मविचार इति निर्णयः 28

15.6. भगवतः विष्णोः सर्वकर्मसमाराध्यत्व- सर्वकार्योत्पादकत्वादिलक्षणनिरूपणम्-

29

15.7. ऐकशास्त्र्यवादः 38

15.8. नित्यानित्यवस्तुविवेकः 41

  1. श्रुतेरेव परमप्रामाण्यम् (द्वितीयश्लोकः) 47

  2. जगदुपादानकारणत्वनिरूपणम् (तृतीयश्लोकः) 58

  3. लक्ष्म्याः जगत्कारणत्वनिरूपणम् (चतुर्थश्लोकः) 64

  4. भगवत एव सर्वकार्योत्पादकत्वनिरूपणम् (पञ्चमश्लोकः) 75

  5. भगवतः शास्त्रैकप्रमाणकत्वम् (षष्ठश्लोकः) 98

  6. शाब्दैकप्रमाणगम्यत्वस्य द्रढीकरणम् (सप्तमश्लोकः) 106

  7. अनवधिकातिशयानन्दरूपतया निरतिशयपुरुषार्थत्वम् (अष्टमश्लोकः)

112

  1. सच्छब्दवाच्यत्वं सद्विद्यावेद्यत्वं च (नवमश्लोकः) 144

  2. कल्याणगुणाकरत्वं मोक्षप्रदत्वं च (दशमश्लोकः)

148 नयद्युमणिव्याख्यायाः पाठसमीक्षात्मकं सम्पादनम् अध्ययनञ्च विषयानुक्रमणिका v द्वितीयो भागः नयद्युमणिव्याख्यायाः अध्ययनम्

157-300 उपोद्घातः 162-167 अथ प्रथमोऽध्यायः

  1. उपक्रमः

168-196 अथ द्वितीयोऽध्यायः

  1. विशिष्टाद्वैतपरम्परा

197-211 अथ तृतीयोऽध्यायः

  1. नयद्युमणिव्याख्याकर्तृतन्मातृकापरिचयः

212-224 अथ चतुर्थोऽध्यायः

  1. नयद्युमणिव्याख्यागतश्लोकानां सान्वयप्रतिपदार्थतात्पर्यविचारः

225-275 अथ पञ्चमोऽध्यायः

  1. उपसंहारः

276-281 परिशिष्टभागः अनुबन्धाः

282-300 ⏺⏺⏺

162

उपोद्घातः

स्वेष्टसुखसाधनमेव भूतानां प्रवृत्तिरिति प्रत्यक्षो विषयः। तादृशेष्टसाधनं कथं साधनीयमित्यत्रैव मानवानां विवेको वर्तते। मानवेतरप्राणिनस्सर्वे स्वेष्टसुखसाधनमार्गे यथेष्टं प्रभवन्ति। किन्तु मानवः धर्ममनतिरिच्यैव गन्तव्यमिति नियमः। तादृशनियम-

विहीनो मानवः पशुभिस्समान एवेति प्राज्ञां वचः। यथा – आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम्। धर्मो ह्येकोऽधिको विशेषो धर्मेण हीनाः पशुभिस्समानाः1॥ इति। एवं स्थिते धर्मार्थकाममोक्षेषु चतुर्विधपुरुषार्थेषु अर्थकामावेव पुरुषार्थाविति मन्यमानाः लोकान्तरगमनमेव नास्तीति चिन्तयन्तः पारलौकिकमर्थमपह्नुवानाः लौकिकसुखानुभवरता भवन्ति केचन (चार्वाकादयः)। केचिदन्ये लौकिकसुखस्यानित्यतां ज्ञात्वा स्वर्गाख्यः परलोकोऽस्तीति, तस्मिन् लोके महदानन्दोऽनुभूयते इति विचिन्तयन्तः इहपरसुखसाधनरता भूत्वा तादृशधर्म-

कर्माणि कुर्वन्ति (फलानुसन्धानसहितकर्माचरणशीलाः)। अपरे केचन किञ्चिदग्रे गत्वा सकलवेदोपनिषत्सारं ज्ञात्वा, पारलौकिकसुखमपि अनित्यमेवेति मत्वा, क्षीणे पुण्ये पुनरत्रैव विशाम इति च सम्भाव्य पुनरावृत्तिरहित-

स्थितिसाधनमेव लक्ष्यमस्माकमिति विचिन्वानाः तदर्थं प्रयतन्ते (वेदान्तिनः)। एतादृशेषु वेदान्तिषु “यथार्थं सर्वविज्ञानमिति वेदविदां मतम्”2 इति विज्ञाय, सर्वस्य जगतः सत्यत्वमङ्गीकृत्य, चिदचिद्विशिष्टस्य भगवतः स्वरूपगुणादिकं ज्ञात्वा,

  1. चाणक्यनीतिः, अ॰ 17, श्लो॰सं॰ 17

  2. य॰म॰दी॰ पृ॰ 4