२१ स्वतन्त्र-प्रपत्तिः

अथ एक-विंशो वादः

अथ यद् उक्तं विविध-वैदिक-लौकिक-गोष्ठी-द्वय-बहिष्ठेन निर्भाग्येन प्रपत्तिर् मोक्ष-साधनम् इत्य् अनुपपन्नं प्रमाणाभावात् । न तावत् “मुमुक्षुर् वै शरणम् अहं प्रपद्ये” इति तत्र प्रमाणम् । “ब्रह्मविद् आप्नोति” इत्य्-आदाव् इव प्रपद्ये इत्य् अस्यापि भक्ति-ज्ञान-परत्वात् । धातोर् ज्ञान-सामान्य-वाचित्वस्य छाग-पशु-न्यायेन भक्तौ विश्रान्तेश् च उभयत्राप्य् अविशेषात् । अस्तु वा ज्ञान-विशेष-वाचित्वं तथा ऽपि तस्य साक्षात् मोक्ष-साधनत्वं भक्त्य्-अङ्गत्वेनैव तस्य तद्-वाक्य-विषयत्वोपपत्तेः । अङ्गे ऽप्य् अङ्गि-फल-निर्देशोपपत्तेश् च ॥

[[P192]]

अत एव “सर्व-धर्मान्” इति चरम-श्लोकेनापि न तस्य मोक्ष-साधनत्व-सिद्धिः । रामानुजाचार्यैः तस्य अङ्ग-प्रपत्ति-परतयैव व्याख्यातत्वात् । “दैवी ह्य् एषा” इत्य् अपि

ये मां शरणं प्रपद्यन्ते ते तां मायाम् उत्सृज्य माम् एव उपासते

इति तैर् एवार्थोक्त्या तत्-परम् एव । अतो न स्व-तन्त्रोपासा ॥

किं च कर्माङ्गिका यावज्-जीवम् अनुष्ठेया च भक्तिः प्रपत्तिस् तु न तथेति कथम् अनयोर् विकल्पः । गुरु-लघु-विकल्प-योगात् । न चात्र व्यवस्थित-विकल्पो ऽपि व्यवस्थापक-प्रमाणाभावात् ॥

न च भक्त्य्-अनधिकारिणः प्रपत्त्य्-अधिकार इति प्रश्नः शूद्राणाम् एव प्रपत्त्य्-अधिकार इत्य् आपातात् । एतेन “वसुरण्या” इति मन्त्रे ओम् इत्य् आत्मानं युञ्जीत इति विहित-प्रपत्ति-मन्त्रम् अनूद्य “ब्रह्मणो महिमानम् आप्नोति” इति फल-सम्बन्ध-बोधनात् । प्रपत्तेः साक्षात् साधनत्वम् इत्य् अपि गतम् ।

ओम् इत्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत

इत्य्-आदि-श्रुत्य्-अन्तरानुसारेण भक्तेर् एवात्रापि प्रतिपादनीयत्वात् । “न्यास इति ब्रह्म”

तानि वा एतानि अवराणि तपाँसि

“न्यास एवात्यरेचयत्”

तस्मान् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः

इत्य्-आदिकम् अपि श्रुत्य्-अन्तर-सिद्ध-भक्ति-रूप-ज्ञाने सत्यादि-वैलक्षण्य-परम् एव । “ओम् इत्य् आत्मानं युञ्जीत” इत्य् एवं विध-वाक्यानां भक्ति-विलक्षणोपाय-विधायकत्वम् । अन्यथा

धनुर् गृहित्वौपनिषदं महास्त्रं शरं ह्य् उपासानिशितं सन्दधीत

प्रणवो धनुश्-शरो ह्य् आत्मा ब्रह्म तल्-लक्ष्यम् उच्यते । अप्रमत्तेन वेद्धव्यम्

इत्य्-आदीनाम् अपि तद्-विधायकत्वापातात् ॥

न चेष्टापत्तिः ।

तद् एतत् सत्यम् । तद् अमृतम् । तद् वेद्धव्यं सोम्य विद्धि

इत्य्-आदीनाम् अङ्गिरसा शौनकं प्रत्युपदेशानुपपत्तेः । तयोः भक्ताव् एवाधिकारित्वात् ॥

किं च अदृश्यत्वाधिकरणे

तद् एतत् सत्यं तद् वेद्धव्यं सोम्य विद्धि

इत्य् आरभ्य ‘प्रणवो धनुश्-शरो ह्य् आत्मा

इत्य्-आदिभिः उपासन-प्रकार उक्त इति भाष्य-व्याख्यान-भूत-श्रुत-प्रकाशिका-वाक्येन तच्-छ्रुतेः भक्ति-परत्वम् एव स्पष्टम् इति न प्रपत्ति-परत्व-शङ्का-ऽवकाशः ॥

[[P193]]

एतेन “तस्यैवं विदुषः” इति न्यास-निष्ठम् एव परामृश्य तत्-कर्तव्यत्वेन “यन् मरणं तद् अवभृथः” इत्य् अन्ताद् वाख्यात् पुरुष-विद्या-ऽऽम्नानात् तद्-अङ्गक-न्यास-विद्या-साक्षान्-मोक्ष-साधनम् इति निरस्तम् । त्वन्-मते प्रपत्तेः आनुकूल्य-सङ्कल्पाद्य्-अङ्ग-पञ्चकातिरिक्तानपेक्षतया तत्-पूर्व-वाक्ये “ज्ञात्वा देवम्” “मनसा हृदा च” इत्य् अनेन अङ्गि-भूत-पर-ब्रह्म-विद्या-लाभेन तद्-अनुवादेनैव पुरुष-विद्या-रूपाङ्ग-विधानोपपत्तेश् च । तद्-अतिरिक्त-न्यासासिद्धेः ॥

एतेन “वेदान्त-विज्ञान” इत्य्-आदि-श्रुतिर् अपि व्याख्याता ।

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः

इति श्रुत्य्-अनुसारेण तस्यार्थ-वर्णनौचित्यात् ॥

अत एव त्वद्-अभिमत-द्वय-मन्त्रेणापि न प्रपत्ति-रूपोपायान्तर-सिद्धिः । तस्यैव मूलकत्वात् । प्रसिद्ध-कठ-वल्यां तद्-अदर्शनात् । अस्तु वा कठ-वल्य्-अन्तरम् । तथा ऽपि न तवेष्ट-सिद्धिः तन्-मन्त्रस्याप्य् अङ्ग-प्रपत्ति-परत्वात् । किं च “तम् एवं विद्वान्” इत्य्-आदिना भक्त्य्-अतिरिक्तस्य मोक्ष-साधनत्व-निषेधात् न प्रपत्ति-रूपोपाय-सिद्धिः । न च तत्रत्य-वेदन-शब्दस्य छाग-पशु-न्यायेन भक्ताव् इव न्यास-विद्यायाम् अपि विश्रान्तिर् अङ्गीक्रियत इति वाच्यम् । तथा ऽङ्गीकारस्य प्रपत्तेः स्व-तन्त्रोपायत्व-सिद्ध्य्-अधीनत्वेन अन्योन्याश्रयात् । अन्यथा “मत्वा धीरो न शोचयति” इति श्रुतेः मननस्यापि साक्षान् मोक्ष-साधनत्वापातः ॥

न च तद्-वैलक्षण्याय…… मोक्ष-साधनत्व-बोधनत्व-बोधकं किञ्चिद् अस्ति प्रमाणम् । “सकृद् एव प्रपन्नाय” इत्य्-आदि-रामयण-वचनैः “अनया च प्रपत्त्या माम्” इत्य्-आदि-पाञ्चरात्र-वचनैर् अपि न तत्-सिद्धिः । तस्मात् पर-मतैर् अपि भक्तेर् एव मोक्ष-साधनत्वम् उपेयं न प्रपत्तेर् इति ॥

[[P194]]

तत् अबाल-वृद्धम् उभय-विध-गोष्ठी-प्रसिद्धे प्रपत्त्य्-उपायाभावे न शोभते । निक्षेप-रक्षा-निराकृतानेक-विध-कु-फणितिषु त्वद्-उपन्यस्त-फणितेः लेश-मात्रत्वात् ॥

यद्य् अपि त्वद्-उक्तिः वेद-बाह्यं प्रति वेद-प्रामाण्ये वेद-वाक्योपन्यसनवत् अ-त्रैवर्णिकं प्रति ब्रह्म-सूत्र-भाष्य-व्याख्यानवच् च न प्रत्युक्ति-विलेखनार्हा । “मन्त्रं यत्नेन गोपयेत्” इत्य् उक्तेः । तथा ऽपि पर-पक्षे यः कश्चित् प्रमाण-शरणः प्रज्ञावान् अस्ति चेत् — तस्यात्र प्रमाणोपपत्ति-पौष्कल्य-मात्र-प्रदर्शनेन सर्वस्यास्य दुरुक्ति-समूहस्य दौरात्म्य-विलसितत्वम् अध्यवसितं भवतीति तन्-मात्र-प्रदर्शनम् इह क्रियते । तत्र तावत् ज्ञानान् मोक्ष इत्य् अयम् अर्थः सर्व-वैदिक-सम्प्रतिपन्नः । तत्र किं प्रपत्तिः ज्ञातम् एव नेति त्वद्-भ्रमः? उत न ब्रह्म-ज्ञानम् इति यद् वा ऽनभिधेय-ज्ञानम् इति तथा ऽपि औपनिषद-विद्या-विशेषो नेति वा, भक्तिवत् भगवद्-वशी-करणासमर्थेति वा, तथा ऽपि मोक्षोपायतया अविहितेति वा, तथा ऽपि न साक्षात् तद्-उपाय-भावार्हेति वा? तत्त्वम् अपि तस्याक्षिप्तं त्वद्-उक्ति-मात्र-बलात्, यद् वा तन्-निषेधक-श्रुत्य्-आदि-प्रमाण-बलात्, यद् वा कैश्चिद् एव परिगृहीततया सर्व-परिग्रह-विधुरत्वात्, महर्षिभिः अनादृतत्वाद् वा, स्व-प्राप्त्य्-उपायत्वेव स्वाम्य्-असम्मतत्वाद् वा, तथात्व-बोधक-भगवद्-वचन-रूप-विध्य्-अदर्शनाद् वा, अन्यस्माद् वा?

नाद्यः —

त्वम् एवोपाय-भूतो मे भवेति प्रार्थना-मतिः । शरणागतिर् इत्य् उक्ता

इत्य्-आदि-प्रमाणे ज्ञानस्य

समित्-साधनकादीनां यज्ञानां न्यासम् आत्मनः ।
नमसा यो ऽकरोद् देवे स स्वध्वर इतीरितः ।

इति प्रमाणेन च मानस-ज्ञान-विशेषत्वस्य च सम्प्रतिपन्नत्वात् । न द्वितीयः — पर-ब्रह्म-ज्ञान-विषय-प्रपत्तेः ब्रह्म-ज्ञानत्वस्य त्वया ऽप्य् अनिवार्यत्वात् । न तृतीयः — अनेनैव तु मन्त्रेण स्वात्मानं मयि निक्षिपेत् ।

वृथैव भवतो याता भूयसी जन्म-सन्ततिः ।
तस्याम् अन्यतमं जन्म सञ्चिन्त्य शरणं व्रज

इत्य्-आदि-रूप-तद्-विधायक-परश्-शत-वचनोपलम्भात् । नापि चतुर्थः । “वसुरण्या” इति मन्त्र एव तद्-विधान-पूर्वकम् एतद् वै महोपनिषदं “तस्यैवं विदुषः” इति त्वद्-उदाहृत-तैत्तरीयादि-श्रुति-शत-समधिगतायाः अस्यां औपनिषद-विद्या-विशेषत्वस्य त्वया ऽप्य् अप्रत्याख्येयत्वात् । भक्ति-विद्या-विषयकतैव तासाम् इति मद्-अभिमतम् इति चेत् किं तेन? त्वद्-भ्रमम् अनुसृत्यैव उपनिषद्-अर्थ-विशदी-करणस्य शास्त्रानियमितत्वात् ।

इतिहास-पुराणाभ्यां वेदं समुपबृंहयेत्

इति ताभ्याम् एव तद्-विशदी-करणस्य नियमितत्वाच् च ॥

[[P195]]

तथापि “युज समाधौ” इति धातु-बलात् “युञ्जीत” इति विधिः भक्तिम् एव विधत्ते इति चेत् मैवं; यदि “आत्मानं युञ्जीत” इत्य् अस्य “मनो युञ्जीत” इत्य् अर्थः स्यात् । तदा भक्तिर् एव अत्र विहिता स्यात् । किन्तु अहम् अर्थम् एव “स्वात्मानं युञ्जीत” इति रक्ष्यत्वेन तद्-अर्पणम् एव । ब्रह्मण एव प्रधान-फलत्वात् ब्रह्मणे प्रणव-करणकम् अर्पणं “युजिर् योगे” धातु-बलाद् इह विधीयते । न ह्य् एवम् आत्मार्पण-रूपा भवति भक्तिः अस्य क्षण-मात्र-साध्यत्वेन आवृत्तिमद्-भक्ति-भिन्नत्वस्य वाच्यत्वात् । “सकृद् एव प्रपन्नाय” इत्य्-आदि-प्रमाण-बलात् इह विहितम् आत्मार्पणं तु सकृद् एवेति सिद्धम् ॥

अत एव इत्थम् आत्मार्पण-रूप-न्यास-निष्ठस्य “तस्यैव विदुषा” इत्य्-आदिना कृत-कृत्यत्वानुसन्धान-पर-नैरेपेक्ष्य-प्रतिपादकार्थ-वाद-प्रवृत्तिः ॥

न च “आत्मन्य् एवात्मानं पश्येत्” इत्य् अत्रेव इह “आत्मानं युञ्जीत” इत्य् अस्य “मनो युञ्जीत” इत्य् एव अर्थ इति वाच्यम् । ब्रह्मणि इति सप्तमी-श्रवणाभावात् । सम्प्रदानार्थक-चतुर्थी-वैयर्थ्याच् च । तथा सति आत्म-शब्द-मुख्यार्थ-बाधो ऽपि । “निदिध्यासितव्यः” इत्य् अनेनैव अर्थात् तत्-सिद्ध्या तत्र तद्-विधि-वैयर्थ्यं च ॥

न चैवं “युञ्जीत” इत्य्-अस्य न्यास-विद्या-विधित्वेन “तस्यैवं विदुषः” इत्य् अनुवाकस्य न्यास-विद्यया तन्-निष्ठ-श्रुति-परत्वे

पुरुष-विद्यायाम् अपि च इतरेषाम् अनाम्नानात्

इति सूत्रे

ब्रह्म-प्राप्तिर् एव अस्याः पुरुष-विद्यायाः फल्म्

इति भाष्यं गुणोपसंहारार्थतया छान्दोग्य-तैत्तिरीयाम्नात-पुरुष-विद्या-द्वय-भद्र-भेदाभेद-चिन्तनं, तैत्तरीयक-पुरुष-विद्यायाः प्रकृत-ब्रह्म-विद्या-ऽङ्गत्वम् इति भवद्-भाष्यकृन्-निर्धारणं च विरुध्येत । तैत्तरीयक-तद्-वाक्य-तुल्यं छान्दोग्य-वाक्यम् अपि पुरुष-विद्या-प्रतिपादकं न स्याद् इति वाच्यम् ॥

[[P196]]

ब्रह्मणे, आत्मानम् इति पद-द्वय-स्वारस्येन न्यास-विद्याया एव प्रकृत-ब्रह्म-विद्यात्वेन अस्मद्-भ्याष्य-कारैः भाषिततया अस्मिन्न् अर्थे सूत्रादि-विरोध-लेशस्यापि अभावात् । वसुरण्यादि-प्रणवान्त-मन्त्र-करणको ऽधिकारि-विशेष-नियत-कर्तृको न्यास-विद्या-विशेष एव “तस्यैवं विदुषः” इत्य् अर्थ-वाद-फलित-पुरुष-विद्या-ऽङ्गको “युञ्जीत” इत्य् अत्र विधीयते इत्य् एव तत्-सूत्र-भाष्य-समधिगतो ऽस्मत्-सिद्धान्तार्थः । तत्र पुरुष-विद्या-ऽङ्गक-प्रकृत-ब्रह्म-विद्या भक्ति-विद्येति त्वद्-भ्रम-मात्रम् । न्यास-विद्यैव तत्र प्रकृत-ब्रह्म-विद्येत्य् अत्र विरोध-गन्धाभावात् । न ह्य् अत्र

ओम् इत्य् एवात्मानं ध्यायथ

ओम् इत्य् अनेनैवाक्षरेण परं पुरुषम् अभिध्यायीत

इत्य्-आदि-विधि-वाक्यं श्रूयते । येनात्र सा भक्ति-विद्या स्यात् उद्गीथादि-विद्या-विषय-चिन्तनवत् । पुरुष-विद्या-मात्र-भेद एव गुणानुपसंहाराय तद्-अधिकरणे चिन्तितः । न तु भक्ति-विद्यैव तत्र प्रकृत-ब्रह्म-विद्येति न्यास-विद्यैव प्रकृत-ब्रह्म-विद्येत्य् अपि तैस् तत्रानिर्धारितम् इति चेत् मैवम्; उक्त-विधया “युञ्जीत” इत्य् अन्त-वाक्यस्य भक्ति-विद्याविध्य्-असमर्थतया प्रकृत-ब्रह्म-विद्येत्य् उक्ते तद्-वाक्य-विधेयत्व-योग्या न्यास-विद्यैवेति गद्याभिव्यक्त-भाष्य-कृद्-आशयस्य न्यास-विद्यैवात्र प्रकृत-ब्रह्म-विद्येति निर्धारित-प्रायत्वात् ॥

अत एव भाष्ये ऽप्य् अङ्ग-शब्दो

विध्य्-अङ्गार्थ-वाद-परत्वे ऽप्य् अविरुद्धम्

इति भाष्यम् अपि चानुकूलम् इत्य् एव निर्धारितं निक्षेप-रक्षायाम् आचार्य-चरणैः ॥

न चैवं सूत्र-भाष्यादिषु विद्याङ्ग-शब्दाद्य्-अस्वारस्य-दोषः । पुरुषावयवादिषु सकृद्-यज्ञावयव-दृष्टि-मात्रस्यैव पुरुष-विद्यात्वेन तस्याः न्यास-विद्या-ऽङ्गस्य कस्याप्य् अस्वारस्याप्रसङ्गात् । तथा ऽप्य् अस्य विध्य्-अङ्गार्थ-वादत्व-स्वाभाव्यानपायात् ॥

[[P197]]

न चैवम् अस्यार्थ-वादत्वे विद्या-ऽनुष्ठापकत्वात् । एवं विधार्थ-वाद-स्थलेषु अनुष्ठानम् अर्थ-वाद-कल्पित-विधि-मूलम् इत्य् एव हि मीमांसक-सरणिः ॥

न चात्र प्रकृता ब्रह्म-विद्या पुरुष-विद्या-ऽङ्गकत्वाद् एव उपासन-रूपेति सु-वचम् । मन्त्र-विशेषवत् तस्याः प्रकरणाद् अङ्गत्व-प्राप्ताव् अपि निष्पन्नाङ्गि-न्यासोत्तराङ्गस्य अश्रुतावृत्ति-कस्यापि न्यास-समान-योग-क्षेमतया अङ्गि-वैरूप्यानापादकत्वात् । अन्यथा अङ्गि-धर्म-साङ्ग-सकृत् त्व् अविरोधेन गुण-मुख्याधिकरणाङ्ग-गुणाधिकरण-द्वय-विरोधापत्तेः ॥

अत एव निक्षेप-रक्षायाम् अनुजग्राह भगवान् गुरु-वरः

तदावृत्त्य् अनावृत्ती तु तद्-अङ्गकेन न्यासेन समान-योग-क्षेमतया तन्-निष्कर्षाद् एव निष्कर्षणीय

इति । अत्र विहित-न्यासे ऽपि विध्य्-अन्तर-विहित-न्यास-सारूप्य-भङ्ग-नियामक-विरहात् नोपासन-रूपता-प्रसक्तिमती इत्य् आस्तां तावत् ॥

एतेन अ-दृश्यत्वाधिकरणे

तद् एतत् सत्यं तद्-वेद्धव्यं सोम्य विद्धि

इत्य् आरभ्य “प्रणवो धनुश्-शरो ह्य् आत्मा” इत्य्-आदिभिः उपासन-प्रकार उक्त

इति भाष्य-व्याख्यान-भूता श्रुत-प्रकाशिका ऽपि व्याख्याता । शुष्केष्टि-च्छायया उक्त-श्रुति-बोधित-फल-रूपोपासनवत एव प्रणव-करणक-न्यास-विशेषाकारेण तद्-रथोपासन-पदस्य साधन-भक्त्य्-अर्थकत्वाभावात् । शरण-वरण-मात्रे ऽपि तत्-प्रकाशक-करण-मन्त्रार्थोपासनस्य फल-रूपस्य प्राक्तनत्वेन आवश्यकत्वम् अर्थ-सिद्धम् ॥

अत एव “धनुर् गृहीत्वा” इत्य्-आदि “सन्दधीत” इत्य् अन्तम् “प्रणवो धनुः” इत्य्-आदि “बोद्धव्यम्” इत्य् अन्तम्, “ओम् इत्य् आत्मानम्” इति विधि-समानार्थकतया सर्व-शाखा-प्रत्यय-न्यायेन न्यास-विद्या-विधायकम् एव । अत इत्य्-आदिना तेषाम् अपि द्विधायकत्वापात इत्य् आपादनं नानिष्टम् ॥

[[P198]]

यद् उक्तम् अत्रेष्टापत्तौ अङ्गिरसा शौनकं प्रत्युपदेशानुपपत्तिर् इति तद् अपि असत् । तेषाम् अपि अङ्ग-प्रपत्त्य्-अवशं भावेन तद्-उपपत्तेः। “तावद् आर्तिस् तदा वाञ्छा” इत्य्-आदिना तद्-विधैर् एव तद्-उपदेशात् ॥

यच् च निक्षेप-रकक्षादिषु मदीय-दाक्षिणात्य-दुरूह-शिक्षायां च “आत्मानं युञ्जीत” इत्य् अस्य पाक्षिकतया भक्ति-विधित्वाद्य्-उपपादनं तत् अन्वारूह्य-वादेन मद्-एक-देशिनं प्रत्येव न परं प्रति । सर्वान् प्रत्यप्य् अयम् एव उपपादनीयो मुख्यः सिद्धान्तः । तस्माद् अवैदिकस्यैवेह विहित-न्यासे औपनिषद-विद्या-विशेषत्वाभाव-शङ्का । तत्वेनैवात्र विहित-न्यासस्य बहुधैवेदेतिहास-पुराण-वचन-शतोपपादितत्वात् ॥

नापि पञ्चमः । “नाना शब्दादि-भेदात्” “विकल्पो विशिष्ट-फलत्वात्” इति सूत्र-कृद्भिर् एव महा-भारतादिषु न्यास-विद्या–स्व-रूपादि–कथनेन तद्-अत्यन्ताभिमत-न्याय-विशदी-कर-स्व-रूपास्मद्-भाष्य-विधया भक्त्य्-अवान्तर-विद्या-भेदवद् एव भक्ति-न्यास-विद्ययोर् अपि तद्-उभय-न्याय-विषयतया

भक्त्या परमया वा ऽपि प्रपत्त्या वा महा-मते ।
प्राप्यो ऽहं नान्यथा प्राप्यः

इति भगवतैव भक्त्य्-आदि-विकल्पित-न्यास-विद्यायां

तस्य च वशी-करणं तच्-छरणागतिर् एव

इति मदीय-भगवद्-भाष्य-कार-भाषिताभिज्ञेन तथोक्त्य्-अयोगात् ॥

त्वदीय-सुधाकारो ऽपि “न स्नातो ऽपि” इत्य्-आदि-सूत्र-प्रस्थाने

भगवत्-प्रसादात् संसारान् मुक्तिर् भवति । स भगवत्-प्रसादः स्व-गुणोत्कर्ष-वेदनात् दोषाभाव-वेदनाच् च भवति । अयम् अर्थः लोकतो दृष्टान्तोपेतानुमानाच् चावसीयते । तथा च प्रतीयते । तथा च प्रयोगः

संसारान् मुक्तिः समर्थ-पुरुष-प्रसाद-साध्या मुक्तित्वात् निगल-मुक्तिवत्,

विमतो भगवत्-प्रसादः गुणोत्कर्षादि-ज्ञान-साध्यः महा-प्रसादत्वात् राज-प्रसादवत्

इति प्राह । तथा च उभय-लिङ्गत्व-ज्ञान-काष्ठाया एव फली-भूता भगवद्-वशी-करण-पराकाष्ठा-रूपा प्रपत्ति-विद्या मोक्षोपायत्वेन विहिता भक्तिवत् कुतो भगवद्-वशी-करण-समर्था स्यात् । अन्यथा “मुमुक्षुर् वै शरणम् अहं प्रपद्ये” इति श्वेताश्वतर-श्रुति-बाध-प्रसङ्गः ॥

[[P199]]

नापि षष्ठः । “मुमुक्षुर् वै” इत्य्-आद्य्-उदाहृत-श्रुति-बाधाद् एव । नापि सप्तमः । तस्य त्वदीय-दुर्वासना-विलसित-भ्रम-मूलकत्वात् । किम् अङ्गत्वम् एव स्वातन्त्र्य-विरोधीति त्वद्-भ्रमः? उत स्व-तन्त्रता अस्याः प्रमाण-बोधिता नेति? नाद्यः मन्त्रान्तराङ्ग-भूते ऽपि प्रणवे स्वातन्त्र्योपलम्भोदकस्यैव सङ्कल्प-मात्र-भेदेन सत्रत्वाहीनत्व-काम्यत्व-नित्यत्वाद्य्-उपलम्भात् । एतज्-जातीयस्य क्वचिद् अङ्गत्वे ऽपि “ब्रह्मणो महिमानम् आप्नोति” इति प्रकृत-न्यास-विद्यायाः फल-संयोग-श्रवणेन आख्या-रूपयोः अ-प्रयोजकत्वात् ॥

यद् अत्रोक्तम् अङ्गे अङ्गि-फल-निर्देश-पराः फल-संयोग-श्रुतय इति तद् असत् । अङ्गित्वेन विज्ञातेष्व् एव तथात्वात् अन्यथा सर्वत्र फल-संयोग-मात्रस्य अङ्ग-भाव-कल्पकत्व-प्रसङ्गः ॥

न द्वितीयः —

भक्त्या परमया वा ऽपि प्रपत्त्या वा महा-मते ।
प्राप्यो ऽहम्

इति भक्त्या तुल्य-विकल्प-दर्शनात् ॥

यद् उक्तं गुरु-लघ्वोः तुल्य-विकल्पायोग इति तद्-अभद्रम् । महताम् अल्पानां च कर्मणां तुल्य-फलतायाः नित्येष्ट-कर्मसु बहुशो दर्शनात् ।

एकाम् अप्य् ऋचं यजुस् साम…… तद् ब्रह्म यज्ञस् सन्तिष्ठते

इत्य्-आदि-लिङ्ग-दर्शनेन सर्व-शक्त्य्-अधिकरण-सिद्धान्त-न्यायेन तद्-उपजीविन्या प्रतिनिधि-पदिकया

सहस्र-शक्तिश् च शतं शत-शक्तिर् दशापि च ।
दद्याद् अपश् च यश् शक्त्या सर्वे तुल्य-फलाः स्मृताः ॥

इत्य्-आदिभिः वचनैश् च तद्-अनुग्रहात् ॥

प्रकृते ऽपि वाचनिके ते भक्ति-प्रपत्त्योः शक्ताशक्ताधिकारे तुल्य-फलतायां बाधकाभावात् ॥

[[P200]]

न च तादृश-वचनाभावः —

इतरोपाय-दौष्कर्याद् अधिकारादि-हानितः ।
उपायम् इह वक्ष्यामि साम्प्रतं सार्वलौकिकम् ॥
काल-दोषान् मनुष्याणां मनश्-चाञ्चल्य-योगतः ।
विषयेन्द्रिय-संयोगात् निषिद्ध-करणाद् अपि ॥
विहिताकरणान् नापि जेतुं शक्त्या गणाधिप ।
इन्द्रियाणीन्द्रियार्थाश् च नॄणां काल-स्व-भावतः ॥
तस्मान् न कर्म-योगे ऽस्मिन् अधिकारो हि विद्यते ।
विहितेष्व् अपि सर्वेषु तद्-अभावान् महा-मते ॥
ज्ञान-योगेष्व् अभिरतिः कस्यचिद् दीयते न च ।
तद्-अभावान् मयि प्रीतिः न च भक्तिश् च विद्यते ॥
तस्मात् मत्-पाद-युगलं ऐकान्याच् छरणं व्रजेत् ॥

इति विष्वक्सेनं प्रति भगवद्-वचनस्य श्री-पाञ्चरात्रे स्फुटतरम् उपलम्भात् ॥

न च प्रपदनस्य साक्षान्-मोक्ष-साधनत्वं न श्रुतम् इति वाच्यम् ।

मद्-एकोपाय-सम्पत्तिः मां प्रपन्नो ऽपि मुच्यते

इत्य् अनन्तर-वाक्येन,

भक्त्या परमया वा ऽपि प्रपत्त्या वा महा-मते ।
प्राप्यो ऽहं नान्यथा प्राप्यः मम कैङ्कर्य-लिप्सुभिः ॥

माम् एकं शरणं प्राप्य मम् एवान्ते समश्नुते ॥

स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम्

सकृद् एव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्व-भूतेभ्यो ददाम्य् एतद् व्रतं मम ॥

इत्य्-आदि-वचनान्तरैश् च उदाहृत-श्रुत्य्-उपबृंहण-रूपैः तत्-सिद्धेः ॥

न च मुमुक्षाप्रयुक्तयोः भक्ति-प्रपत्त्योः काम्यतया नित्य-कर्म-वैषम्यं शङ्कनीयम् । “सहस्र-शक्तिः” इति वचनेन काम्ये ऽपि शक्ताशक्तानुष्ठाने कर्मणि अल्पे भूयसी च तुल्यतया निर्बाधत्व-सरणात् ॥

एतेन अधिकाल्प-गुणानां ब्रह्म-विद्या-ऽन्तराणाम् अपि तुल्य-फलत्वं व्याख्यातम् ॥

किं च

सत्-कर्म-निरताश् शुद्धाः साङ्ख्य-योग-विदस् तथा ।
नार्हन्ति शरण-स्थस्य कलां कोटितमीम् अपि ॥

इत्य्-आदि-प्रमाण-बलेन

विश्वासायास-भूम्नोर् न्यसन-भजनयोः गौरवे को विशेषः

इत्य् एवास्मद्-गुरु-वर-निर्धारणात् ।

यस्य यावांश् च विश्वासस् तस्य सिद्धिश् च तावती

इत्य् अष्टाक्षर-मनुराज-विषये नारदादि-पर-मर्षिभिर् उक्तेश् च । महा-विश्वास-गौरवात् प्रपत्तिर् एव भक्तेः गुरु-भूततरा । तत एव कलां नार्हतीत्य् उक्तेः । ततो ऽप्य् अभ्यर्हिता ऽपीति न त्वदीय-कुचोद्यानाम् अवकाशः अवकाशः ॥

[[P201]]

अन्यथा त्वन्-मते निर्दुःखित्वादि-फलेष्व् अपि गुरु-लघ्वोर् विकल्पाभाव-प्रसङ्गः । यदि निर्दुःखत्व-लिङ्ग-भङ्गादिषु निर्वृत्ति-रूप-फलेषु गुरु-लघ्वोर् विकल्पो ऽभिमतः तदा अविद्या-निवृत्तेर् एव मोक्षत्वात् प्रमाण-बलेनात्रापि स तुल्य इति यत् किञ्चिद् एतत् ॥

तत एव “तत् त्वम् असि” इत्य् आरभ्य विकल्पितेषु न प्रथमः । त्वद्-उक्ति-मात्रस्य भ्रान्त-जल्पितत्वात् । नापि द्वितीयः — तन्-निषेधक-श्रुत्य्-आद्य्-अनुपलम्भात् । “तम् एव विद्वान् अमृत इह भवति” “तम् एव विदित्वा” इत्य्-आदीनां भक्ताव् इव उक्त-श्रुत्य्-आदि-बलेन प्रपत्ताव् अपि विश्रान्त्या तन्-निषेधकस्यासम्भावितत्वात् ॥

नापि तृतीयः — कैश्चिद् इत्य् अनेन भक्त-ग्रहणे अधिकार-वैधुर्य-प्रयुक्ततया तद्-अपरिग्रहस्यादोषत्वात् । दैव-हतक-त्वद्विध-भ्रान्त-ग्रहणे तु अ-शिष्ट-परिग्रह-वैधुर्य-रूपतया तत् त्वम् अत्र गुणायैवेति लेशतो ऽपि दोषाप्रसक्तेः ॥

नापि चतुर्थः —

तावद् आर्तिस् तथा वाञ्छा तावन् मोहस् तथा सुखम् ।
यावन् न याति शरणं त्वाम् अशेषाघ-नाशनम् ॥

यद् येन काम-कामेन न साध्यं साधनान्तरैः ।
मुमुक्षुणा यत् साङ्ख्येन न योगेन न भक्तितः ॥
प्राप्यते परमं धाम ततो नावर्तते यतिः ।

तेन तेनाप्यते तत् तत् न्यासेनैव महा-मुने ।
परमात्मा च तेनैव साध्यते पुरुषोत्तमः ॥

शरणं त्वां प्रपन्ना ये ध्यान-योग-विवर्जिताः ।
ते ऽपि मृत्युम् अतिक्रम्य यान्ति तद् वैष्णवं पदम् ॥

इत्य्-आदि-विधया महर्षिभिर् एते बहुधा ऽऽहृतत्वात् ॥

नापि पञ्चमः —

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
मायया ऽपहृत-ज्ञानाः आसुरं भावम् आश्रिताः ॥

भक्त्या परमया वा ऽपि प्रपत्त्या वा महा-मते ।
प्राप्यो ऽहम्

इत्य्-आदिना स्व-प्राप्त्य्-उपायत्वेनैव स्वात्यन्ताभिमतत्वस्य स्फुटत्वात् ॥

[[P202]]

नापि षष्ठः — “सर्व-धर्मान्” इत्य्-आदि-विधानैक-पर-भगवद्-वचन-रूप-विधिषु सत्सु त्वद्-दर्शनस्य त्वद्-आन्ध्य-विलसितत्वात् ॥

यद् अत्रोक्तम् —

अस्य अङ्ग-प्रपत्ति-परतयैव रामानुजाचार्यैर् व्याख्यातत्वाद्

इति — तद् अ-भद्रम् । सर्व-फल-साधन-प्रपत्तौ अधिकारि-विशेषं प्रति भक्ति-फलकत्वस्यैव प्रदर्शनात् । यदि मद्-गुरु-वर-व्याख्यायाम् अतिविश्वस्तो ऽसि तदा गद्ये अधिकारि-विशेषस्य साक्षान् मोक्ष-साधनत्वाभिधानेन लब्धोपदेशस् त्वम् । अद्य तदीय-शिष्य-भावम् उपेत्य कदाचिद् उज्जीवितो ऽसि । न चेत् मृतिम् एव बहु-तर-नरक-प्रवेशोचितां प्राप्य पुनः पुनः यावद्-आत्म-भावि-संसरण-भाग् भवसि ॥ इत्य् अलम् अवैदिकासन्न-तत्-पुरस्करणातः तन्-निरसनेन ॥

निरस्तान्य-मत-ध्वान्त-प्रौढा लोक-सुधाकरे ।
विशिष्टाद्वैत-सिद्धान्ते मन्-मनस् त्वं सुनिर्विश ॥
अत्यन्त-हेय-माध्वानां सिद्धान्ते मान-बाधिते ।
निरासाय विचारे ऽपि विरमस्वाथ मन्-मनः ॥
यतिना पर-कालेन विजयीन्द्रः पराजितः ।
रामानुज-मते ऽप्य् एवं अ-सारत्वोक्ति-गर्हितः ॥
जयतु विविध-विद्वद्-गर्व-भङ्ग-प्रचण्डः
कवि-कथक-मृगेन्द्रस् सर्व-तन्त्र-स्व-तन्त्रः ।
शमित-विमत-भावि-ग्रन्थसन्दर्भ-वीर्यः
फणितिभिर् अचलाभिः मद्-गुरुर् देशिकेन्द्रः ॥

[[P203]]

त्रय्य्-अन्तदेशिक-कृपा-भरितावलोक-
लब्धोभयागम-शिरो-निहितार्थ-तत्त्वम् ।
प्रत्यर्थि-वादि-मद-दन्ति-घटा-मृगेन्द्रं
पश्यध्वम् अत्र पर-कालम् अथास्मदीयः ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचितः विजयीन्द्र-पराजयः सम्पूर्णः ।

श्रीमत्-प्रथम-पर-काल-महा-देशिकाय नमः ।

श्रीमते रामानुज-पर-काल-महा-देशिकाय नमः ।

समाप्तो ऽयं ग्रन्थः ।

PRINTED BY SAMSKRITA SAHITYA SADANA 2, DEVAPARTHIVA ROAD, CHAMARAJAPURAM, MYSORE- 4

[[P204]]

For copies apply to- Sri Vedantadesika Vihara Sabha Sri Parakala Mutt MYSORE