२० जगद्-ब्रह्मणोः उपादेयोपादान-भावः

अथ विंशो वादः

यच् च अन्यद् उक्तं — ब्रह्म न जगद्-उपादानं निर्विकारत्वात्। यदि चिद्-अचिद्-विशिष्टम् एव ब्रह्मेति तद्-उपादानम् इत्य् अभिमतं विशिष्टं पदार्थान्तरं न वा? आद्ये तस्य विशेषाद् अप्य् अतिरिक्ततया कर्तुर् एवोपादानत्व-सिद्धिः । द्वितीये चिद्-अचितोः ब्रह्म-पदार्थान्तर्भावे ब्रह्मापि जगद्-उपादानं न स्यात् । अन्तर्भावस् तु सत्यादि-वाक्य-प्रतिपन्नाकार-विरुद्धाकारयोः न युक्तः । तयोः मुख्य-शरीरत्वाभावात् तत्वेनापि तत्-अन्तर्भावः शास्त्रेषु शरीरत्व-व्यपदेशः तद्-अधीनत्व-मात्रेण गौणः । “यत् तद् अद्रेश्यम्” इति श्रुतौ “अ-पाणि-पादम् इत्य् अनेन प्राकृत-शरीर-निषेधं वदतां कथं पृथिव्य्-आदीनाम् अपि तं प्रति मुख्य-शरीरत्वम् अभिमतम् इति न जानीमः ॥

किं च निर्विकारम् अपि ब्रह्म यदि शरीर-द्वारा उपादानं तर्हि जीवानाम् अपि स्व-शरीरादि प्रति उपादानत्व-प्रसङ्गः । एवं सद्-वारक-विकाराश्रयत्वेनैव उपादानत्वे देश-कालयोर् अप्य् उपादानत्वं स्यात् । यदि जगद्-आधारत्व-कृत-विकाराश्रययोः तन् नेष्टं तदा तुल्यं ब्रह्मण्य् अपि । अपि च ब्रह्मणो जगद्-उपादानत्वे प्रत्यक्षानुमानयोः अनवकाशात् “यतो वा” “आत्मन आकाशः” “आकाशाद् ध्य् एव” “अक्षरात् सम्भवतीह विश्वम्” “एतस्माज् जायते” “तस्माद् एतद् ब्रह्म” “नारायणाद् एव समुत्पद्यन्ते” इत्य्-आदिषु श्रुतायाः “जनि-कर्तुः प्रकृतिः” इति पञ्चम्याः “अन्नात् प्राणा भवन्ति” “मनसश् च विज्ञानम्” इत्य्-आदाव् अनुपादाने ऽपि श्रवणात् कथञ्चिद् धेतुत्वेनापि तच्-चारितार्थ्यात् । “किं स्विद् वनम्” इत्य्-आदि-प्रश्न-प्रतिवचन-भूत “ब्रह्म-वनम्” इति श्रुति-प्रतिपन्नोपादानत्वस्य

तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायते

“मम योनिर् महद् ब्रह्म” “तासां ब्रह्म महद् योनिः” इत्य्-आदि-श्रुत्य्-अन्तरैकार्थ्येन प्रकृति-गतत्व-निर्णयात् न किञ्चिद् अपि साक्षात् प्रमाणम् अस्ति ॥

नापि “सद् एव” इत्य्-आदि-वाक्यम्

इदं शब्दित-प्रपञ्चस्य सद्-आद्य्-आत्मकत्वम् अवगमयति । कार्यस्योपादानात्मना ऽवस्थानस्यैव लय-शब्दार्थत्वाद् इति ॥ यद्-अधीना यस्य सत्ता तत् तद् इत्य् एव भण्यते

इति स्मृति-बलेन तद्-वाक्य-मात्रस्य इदम् अग्रे सूक्ष्म-रूपेण परमात्माधीनम् एव आसीत् इत्य् एवार्थकत्वात् । एवं “बहु स्याम्” इति बहु-भवन-सङ्कल्पो ऽपि स्वस्यैव तत्-तत्-नियामक-विषयः । “सच् च त्यच्चाभवत्” इति समानाधिकरण-वाक्यम् अपि तद्-उभय-नियामकत्व-विषयम् ॥

[[P165]]

यद्यप्य् एकेन स्व-रूपेण सर्व-नियमनं सम्भवति तथाप्य् “एकस् सन् बहुधा विचारः” इति श्रुति-बलात् नियामक-रूप-बहुत्वं सङ्कल्प्य, तेजः-प्रभृति-सर्जनं “गुरुः स्याम्” इति सङ्कल्प्य शिष्य-सम्पादानवत् अ-विरुद्धम् । न ह्य् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा-ऽऽन्यथा-ऽनुपत्त्या ब्रह्मण उपादानत्व-सिद्धिः? तस्यापि प्रधान-ज्ञानेन अ-प्रधानं ज्ञातं भवतीत्य् अर्थ-परत्वात् । ब्रह्म-विज्ञानस्य सर्व-विषय-ज्ञान-हेतुत्व-प्रतिपादन-परत्वाद् वा चरितार्थत्वात् ॥

अत एव “यथा सोम्य” इति दृष्टान्तो ऽपि प्रधान-ज्ञानेन अ-प्रधानं ज्ञातं भवति इत्य् एवं परः । “यथोर्ण-नाभिर्” इति दृष्टान्त-वाक्यम् अपि ऊर्ण-नाभि-पृथिवी-पुरुषाणां तवोषधि-केश-लोमानां च पृथक् सिद्धतया उपादानोपादेय-भावानवकाशात् । तयोर् अपि कार्य-कारण-भाव-मात्रम् अवलम्ब्य तद्-दृष्टान्तेन ब्रह्मणो ऽपि निमित्तत्व-परम् । “तदात्मानँ स्वयम् अकुरुत” इत्य् अपि “तदाऽऽत्मानं सृजाम्य् अहम्” इत्य् उपबृंहणानुसारेण रामादि-रूपेण प्रादुर्भाव-परम्। “यत् प्रयन्ति”

तत्र चैवापि यान्ति नारायणं प्रलीयन्ते

इत्य्-आदिकम् अपि निर्विकारे स्व-रूपे उपादानत्वेन कार्य-प्रपञ्चेन लम्ब्याश्रयत्वायोगात् कालादिवत् तद्-आश्रयत्व-परम् । “मया ऽध्यक्षेण प्रकृतिस् सूयते” इति प्रकृतेर् एव उपादानत्वोक्त्या निर्विकारस्य ब्रह्मण उपादानत्व-निबन्धने किञ्चिन् नियामकं पश्यामः ॥

किं च अ-चितः साक्षाद् अवस्था-योगित्वेन उपादानत्वम् उचितम् । चितां च जीवानां ब्रह्म–स्व-रूपवत् निर्विकारत्वेन तेषाम् अपि विशिष्टान्तर्भावात् उपादान-कोटि-प्रवेश-सम्भवः । न च धर्म-भूत-ज्ञान-गतावस्थानम् आदाय जीवानाम् अप्य् अवस्था-योगित्वेन तत्-प्रवेशः परंपरया तद्-आश्रयत्वे ऽतिप्रसङ्गात् तथा-विध-नित्य-धर्म-ज्ञाने प्रमाणाभावाच् च । मुक्तौ ज्ञातृत्वं तु स्व-रूप-ज्ञानेनैव। संसार-दशायां तु घट-पटादि-वृत्ति-रूपं

जन्यं ज्ञानम् एव सर्व-निर्वाहकम् । वृत्ति-ज्ञानोपादानं च मन एव । कामस् सङ्कल्पः

इत्य्-आदि-श्रुतेः । तस्मात् जगत्-कर्तृत्व-भूतस्य ब्रह्मणः अनुपादानत्वात् न जगद्-ब्रह्मणोः उपादानोपादेय-भावः । न वा तत्-प्रयुक्तः तयोर् अ-भेद इति । तच् च पर्यायेण वेदाप्रामाण्य-पर्यवसितत्वात् वैदिक-गोष्ठी-बहिष्ठम् ॥

[[P166]]

एवं श्रुति-प्रकटितार्थ-विद्वेषेण श्रुति-सूत्रोभय-हिंसकस्य किं शास्त्रयोन्य्-अधिकरणेन? इत्थं तत्-तद्-वेद-बाह्य-मत-भेद-प्रवर्तकैः त्वद्-विध-कुशलैः कृत्स्नस्यापि वेदान्त-गणस्य सूत्र-गणस्य च स्व-स्वाभिमत-विध-व्याख्यानेन श्रुत्य्-आदिभिर् एव तत्-तन्-मत-निर्वाहः सुगमः । श्रुत्य्-आदिषु तत्-तत्-प्रकरणानुबन्धि-षड्-विध-तात्पर्य-लिङ्ङ्गम् अपि तत्-तद्-वैदिक-मतम् अनुसृत्य त्वत्-तुल्यैः तदीयैः वैदिकत्व-प्रच्छन्नैः उपपादयितुम् अपि शक्यं यदि सिद्ध्येत् तन्-मतम् एतैर् एव तदा त्वन्-मतम् अपि सिद्ध्येद् एव । न चेद् आदित एव त्वन्-मत-बाधः त्वद्-उपन्यस्तैः प्रमाणैः ॥

तथा हि — प्रथमं तावत् निर्विकारत्वे चिद्-अचिद्-विशिष्टे प्रधान-भूत-विशेष्य-मात्र-वृत्तित्वात् न विशिष्टोपादानत्व-विरोधि-व्यधिकरणत्वात् । विशिष्टं तु न पदार्थान्तरम् अनुपलम्भात् । चिद्-अचितो ऽपि ब्रह्म-शब्दान्तर्भाव एव । “स ब्रह्मा स शिवः” इत्य्-आदि-श्रुतौ विशेष्यतया तत्-तच्-छब्दाभिधेय–तत्-तद्-आत्म-विशेषण-भूत-शरीरस्य ब्रह्मादि-शब्दान्तर्भाववत् ॥

यच् च तद्वत् चिद्-अचितोः मुख्य-शरीरत्वाभावात् शास्त्रेषु शरीरत्व-व्यपदेशः तद्-अधीनत्व-मात्रेण गौण इति चेत्, तद्-असत् । देव-मनुष्य-गज-तुरग-सर्प-जलूक-स्तम्ब-मशकादि-शरीरेषु परस्पर-विरुद्धाकारतया तेषाम् अन्योन्य-व्यभिचारेण तेषु सर्वत्र शरीरत्व-व्यपदेशस्य गौणत्वापत्तेः । यदि शरीरत्वेन श्रुत्य्-आदिषु अ-सकृत् श्रुतयोः चिद्-अचितोः ब्रह्म-प्रतिशरीरत्वं मुख्यं स्यात् तदा “तम् एवैकं जानथात्मानम्” “आत्मा वा ऽरे द्रष्टव्यः” इत्य्-आदि-श्रुति-गत आत्म-शब्दश् च ब्रह्मण्य-मुख्यः स्यात् । लोक-वेदयोः शरीर-सम्बन्धिन्य् एव आत्म-शब्दस्य मुख्यत्वात् ॥

[[P167]]

“गौणश् चेन् नात्म-शब्दात्” इति सूत्रार्थ-वर्णने

स आत्मा नित्यः शुद्धः केवलो निर्गुणश् च । अथ यो ऽनीदृशः सो ऽनात्मा

इति तलव-कार-ब्राह्मणतया,

यो गुणैस् सर्वतो हीनः यश् च दोष-विवर्जितः ।
हेयोपादेय-रहितः स आत्मत्य् अभिधीयते ॥
एतद्-अन्य-स्व-भावो यः सो ऽनात्मेति सतां मतः।

इति वामन-वचनतया उपात्तैः वाक्यैः निष्पन्नात्म-शब्द-मुख्यत्वोपाधि-विलक्षणं वायु-भीम-मध्वानन्द-तीर्थात्मादिषु अस्ति न वा? अस्ति चेत् व्यर्थ एव तत्र मुख्यात्मत्वोपाधि-ग्रथन-परिश्रमः । नास्ति चेत् तेषु तद्-विरुद्धाकार-पौष्कल्य-रूप-दोप-सम्पादानम् एव कृतं स्यात् । तच् च अहम् अर्थत्वेन तत्-तद्-अनुभव-सिद्धेषु “य आत्मनि तिष्ठन्” इत्य्-आदि-श्रुति-गण-समधिगतात्मसु त्वद्-गुण-भूतेषु कथम् अ-शुद्धत्वादिकं वदसीति न जानीमः ॥

किं च त्वद्-अभिमत-मुक्तात्मस्व् अपि व्यभिचरितो ऽयम् उपाधिः । यदि आप्नोतीत्य् आत्मेति सर्व-व्याप्तिम् अपि तत्र प्रवेशयसि । तर्हि “स यथा ऽनन्तो ऽयम् आकाश” इति त्वद्-अभिमत-श्रुति-समधिगताव्याकृताकाशे तत्-सहितो ऽपि तद्-उपाधिः व्यभिचरितः ॥

किं च ब्रह्म–स्व-रूप–गुणादिकं न मुक्त-भोग्यम् इति साधयतः तव । “सुखं त्व् एव विजिज्ञासितव्यम्” “आनन्दाद् ध्य् एव” “रसो वै सः” “अन्तर्याम्य् अमृतः” इत्य्-आदिषु श्रुत-सुखादि-शब्दानाम् अपि ब्रह्मणि गौणता स्यात् । वनिताद्य्-अनुभव-सुखादिष्व् एव तव सुखादि-शब्द-प्रसिद्धेः । मुक्तैर् अप्य् अ-भोग्ये ब्रह्मणि तव सुखत्वादि-गन्धाप्रसक्तेः । आकाश-प्राणादि-शब्दानां च ब्रह्मणि तव कैमुत्य-सिद्धैव गौणता स्यात् । तेषां भूताकाश-पञ्च-वृत्ति-प्राणादिष्व् एव मुख्यत्वात् । तर्हि तम् एव समन्वयं प्रकटयति — “आनन्दमयो ऽभ्यासात्” इत्य्-आदिना इत्य् आरभ्य प्रायेण अन्यत्र प्रसिद्धानां

[[P168]]

शब्दानां प्रथमे द्वितीये लिङ्गात्मकानां शब्दानां तृतीये तत्र चान्यत्र च प्रसिद्धानां, चतुर्थे च श्रुति-लिङ्गादिभिः अन्यत्रैव प्रसिद्धानाम् अपि शब्दानां परमात्मनि सर्व-शब्द-वाच्यत्व-लक्षण-समन्वय-परः समन्वयाध्यायः त्वया सम्यग् एव प्रतिष्ठापितः । व्युत्पत्य्-अन्तर-कल्पने समन्वय-वचनं च कल्पकाभावात् । प्रसिद्धि-प्रकर्ष-बाधात् प्रसिद्धार्थ-त्यागे रथ-काराधिकरण-विरोधाच् च अपहासनैक-पदम् । अन्नमयादयः पञ्चापि तव ब्रह्म । तत्-प्रकरणे प्रतिपर्यायं

तस्यैष एव शारीर आत्मा यः पूर्वस्य

इति ब्रह्मणि श्रुतं शारीरत्वं च तव गौणम् । “तत् त्वम् असि” “अयम् आत्मा ब्रह्म” “सर्वं खल्व् इदं ब्रह्म” “आत्मैवेदं सर्वम्” इत्य्-आदि-सामानाधिकरण्य-निर्देशाः तव गौणाः । “यः सर्वज्ञ” इत्य्-आदि-गुण-परश् च स्व-रूपातिरिक्त-गुणाभावात् गौणः ॥

“आत्मत्य् एवोपासीत” “आत्मानम् एव लोकम् उपासीत” “एतद् आत्म्यम् इदं सर्वम्” इत्य्-आद्य्-अभेदोपासन-विधयश् च गौणः । एवं सर्वेषाम् अपि तव गौणत्वे वैदिकत्वम् अपि तव गौणम् एव । अतस् त्वदीयात्म-शब्द-मुख्यत्व-नियामकस्य अत्यन्तानुपलब्धत्वात्

अन्तः प्रविष्टश् शास्ता जनानां सर्वात्मा

“य आत्मनि तिष्ठन्” इत्य्-आद्य्-उक्त-विधया तत्-तद्-अन्तः प्रविश्य नियन्तृत्वम् एव आत्मत्वम् इति परमात्मनि मुख्यात्मत्वं वाच्यम् । एवम् अयम् एव चेत् मुख्यात्मा सर्वम् अप्य् अस्य मुख्यम् एव शरीरं स्यात् — नो चेद् आत्म-शब्दो ऽपि परमात्मनि गौणस् स्याद् एव । अतो यद्-अवस्थं द्रव्यं यस्य चेतनस्य नियमेन विधेयं तस्य शरीरम् । यद् य्स्याधेयं तत् तस्य शरीरं, यद् यस्य शेष-भूतं तत् तस्य शरीरम् इति एकाकार-वृत्ति-मनसादित-लोक-वेदानुगत-शरीर-पद-व्यवहृति-विषय-प्रसिद्ध-सर्व-शरीर-साधारणं लक्षण-त्रयं सर्वानुभव-सिद्धतया श्रुति-प्रसिद्धतया च त्वदीय-कुमति-प्रत्यनीकतया च वेद-वैदिक-पुरुष-समधिगतम् । पृथिव्यादि-चिद्-अचिदात्मक-प्रपञ्चे ऽपि अ-प्रत्याख्येयम् एव । अतश् शिवादीन् प्रति तत्-तच्-छरीरवद् एव परमात्मानं प्रति व्यष्टि-समष्ट्य्-आत्मक-चिद्-अचितोः मुख्य-शरीरत्वात् तत्-तच्-छरीराणां शिवादि-शब्दार्थान्तर्भाववद् एव चिद्-अचितोर् अपि ब्रह्म-शब्दार्थान्तर्भाव एव ॥

[[P169]]

“अ-पाणि-पादम्” इत्य्-आदिकं च कर्म-कृत-देह-प्रतिषेध-मुखेन दिव्यात्म–स्व-रूपस्यैव दृश्यत्वादिना प्रतिपन्न-प्रपञ्च-वैलक्षण्य-कथनेन परिशोषकम् ॥

ननु “यद्-अम्बु वैष्णवः कायः” “तानि सर्वाणि तद्-वपुः” “तत् सर्वं वै हरेस् तनुः” “यस्य पृथिवी शरीरम्” “यस्यात्मा शरीरम्” “न तस्य प्राकृता मूर्तिः” “न भूत-सङ्घ-संस्थानो देहो ऽस्य” “हिरण्य-श्मश्रुर् हिरण्य-केशः” इत्य्-आदिना प्रतिपन्न-शरीर-निषेधकम् ॥

ननु “यस्यात्मा शरीरम्” इत्य्-आदेः शरीरत्व-व्यपदेश औपचारिकः । यथा “एतस्यैव सर्वे रूपम् अभवन्” इति मुख्य-प्राणं प्रति इन्द्रियाणां रूप-शब्देन शरीरत्वेन व्यपदेशः तद्-अधीन-प्रवृत्तिकत्व-कृत एव न मुख्यः । भगवद्-भाष्य-कृद्भिर् अपि — “शरीरम् अभवन्” “तद्-अधीन-प्रवृत्तयो ऽभवन्” इत्य् एव तत्रार्थोक्तेर् इति चेत् — मैवम्; इन्द्रियाणां प्राणावयवत्व-विधेयत्व-शेषत्वानाम् अभावेन तदीयम् अस्यातिदूरतया अ-चेतने प्राणे “यस्य चेतनस्य” इत्य् उक्त-शरीर-लक्षण-त्रय-वैधुर्य्येण तं प्रति इन्द्रियेषु शरीरत्व-व्यपदेशस्य औपचारिकत्वे ऽप्य् आत्म-पृथिव्यादिषु । उक्त-शरीर-लक्षण-त्रय-पौष्कल्येन शरीरत्वस्य, परमात्मनि उक्त-शरीर-लक्षण-पौष्कल्येन शरीरित्वस्य च मुख्यस्यासम्भवित-प्रमाणान्तर-बाध-सिद्धि-गन्धस्य अत्यादरेण अ-सकृत् सोपबृंहण-श्रुति-शत-समधिगतस्य त्यागायोगेन शरीरत्व-व्यपदेशस्य न तेषु औपचारिकत्व-सम्भवः । तथा ऽपि तस्य प्राकृत-शरीर-निषेधे प्रकृति-तद्-विकाराणां कथं परमात्म-शरीरत्वम् इति चेत् — मैवम्; “अ-जायमानो बहुधा विजायते” “इच्छा-गृहीताभिमतोरु-देहः” इत्य्-आदि-नोक्तानुग्रह-फलक-विग्रहस्यैव शुभाश्रय-भूतस्य “न तस्य” इत्य्-आदिना प्राकृतत्व-निषेधात् । अन्यथा “अ-जायमानः” “अजो ऽपि सन्न् अव्ययात्मा” इत्य्-आदिना जनन-मात्र-निषेधात् “बहुधा विजायते” “सम्भवामि” इत्य् उक्त्य्-अयोगः ।

[[P170]]

निर्गुण-वाक्याद् गुण-पर-वाक्य-बाधः । “न च मत्-स्थानि” इत्य् अनेन शास्त्रे सर्वत्र निषेधकानां विहित-निषेधकतैव प्रसजेत् । अतः परमात्मैक-धार्यत्व-विधेयत्व-शेषत्वैः शरीर-लक्षण-त्रयवत्सु पृथिव्यादिषु शरीरत्वेनैव बहुषु श्रुतिषु स्मृत्य्-आदिषु च विनष्टेषु न मुख्य-शरीरत्व-प्रत्याख्यान-सम्भवः । अतश् चिद्-अचिच्-छरीरकतया चिद्-अचिद्-विशिष्टम् एव ब्रह्म-शब्द-वाच्यम् इति विशिष्टस्य उपादानत्वे न किञ्चिद् बाधकम् । जीवो ऽपि स्तनन्धयः बालं प्रति स चार्भकं प्रति स च युवानं प्रतीत्य्-आदि-विधया पूर्व-पूर्वावस्थः उत्तरोत्तरावस्थां प्रति उपादानम् एव तस्मात् न तद्-अनिष्टम् इति त्वया प्रसञ्जनीयम् ॥

अत एव “अपीतौ तद्वत् प्रसङ्गात्” इति सूत्रेण यदि कार्य-कारणयोः द्रव्यैक्यम् अभिमतं तदा कार्यस्य जगतः ब्रह्मण्य्-अपृथक्-सिद्ध्यादिषु सत्सु ब्रह्मण एव तत्-तद्-अवस्थान्वय इति कार्य-गतास् सर्व एव अ-पुरुषार्थः ब्रह्मणि प्रसज्येरन्न् इति शङ्कापरिहारार्थे “न तु दृष्टान्त-भावात्” इति सूत्र-भाष्ये एकस्यैव अवस्था-द्वयान्वये ऽपि गुण-दोष-व्यवस्थितेः दृष्टान्तस्य विद्यमानत्वात्” इत्य् आरभ्य देव-मनुष्यादीनां स-शरीराणां क्षेत्र-ज्ञानां शरीर-गत-बालत्व-युवत्व-स्थविरत्वादयो नात्मनि सम्बध्यन्ते । आत्मगताश् च सुख-दुःखादयो न शरीरे । “अथ च देवो जातः मनुष्यो जातः” तथा

स एव बालो युवा स्थविरश् चेति व्यपदेशश् च मुख्यः । भूत-सूक्ष्म-शरीरस्यैव क्षेत्र-ज्ञस्य देव-मनुष्यादि-भाव इति

तद्-अन्तर्-प्रतिपत्तौ “इति वक्ष्यत” इति श्री-भाष्य-कृद्भिर् अनुगृहीतम् । तत्र उत्तरोत्तरावस्थां जीवं प्रति पूर्व-पूर्वावस्थ-जीवस्य उपादानत्वाभावे तद्-दृष्टान्तेन ब्रह्मण च तत्-तद्-अवस्थान्वये ऽपि गुण-दोषयोः न व्यवस्थितिर् इत्य् उपपादनस्य फलाभावेन तेन तत्-सिद्ध्य्-अवश्यं भावात् । देश-कालौ प्रति तु न किञ्चिद् अपि शरीरं न वा स्वयं मृदादिवत् घटाद्य्-आकारेण परिणति-समर्थम् इति परिणामित्वेन शरीरित्वेन वा विकाराश्रयस्यैव उपादानत्व-प्रयोजकत्वात् तयोस् तद्-अभावात् । विकाराश्रय-द्रव्यावच्छेदकत्वेन कार्यावस्थं प्रत्यपि निमित्तत्वम् एव । ततो न तत् प्रसञ्जनीयम् । आपादकाभावात् । ब्रह्मणस् तु अवस्था-ऽऽश्रयत्वं विशेष्यांशस्य शरीरत्व-कृतं शरीर-द्वारकं विशिष्टवेषस्य परिणामित्व-कृतम् इति न तत्-तौल्यम् । ब्रह्मणो जगद्-उपादानत्वे प्रत्यक्षानुमानयोः अनवकाशात् इति ॥

[[P171]]

“अपि च” इत्य् उपक्रम्य यद् उक्तं तद् अप्य् असत् । ब्रह्म तद्-धर्माणां मानान्तर-गोचरत्वे शाब्दैक-समधिगम्यत्व-पर-शास्त्र-योनित्वाद् इति विरोधेन

अ-सन्निकृष्ट-वाचा च द्रव्यम् अत्र जिहासिताम् ।
ताद्रूप्येण परिच्छित्तिः तद्-विपर्ययतो ऽपि च ॥

इति निष्कर्ष-विरोधेन च तयोस् तत्र प्रमाणत्वेन अ-प्रसक्तत्वात्, श्रुति-सिद्ध-प्रत्यक्षानुमानयोस् सत्वाच् च । संप्रज्ञात-स्तितिम् अधिगत-समाधि-पर्यन्त-योग-काष्ठा-निष्ठानां महतां प्रत्यक्षस्यैव तस्य प्रत्यक्षत्वाविशेषेण “प्रत्यक्ष-समं हि तत्” इति प्राज्ञैः निर्णीतत्त्वात् प्रमाणम् एव । त्वया “दर्शयति चैवं प्रत्यक्षानुमाने” इति सूत्रे

महतां प्रत्यक्षेण च बुद्ध्य्-आद्य्-अभावस्य निर्धारितत्वात्

इति तत्त्व-प्रकाशिकायां क्वचित् प्रमाणत्वोपन्यासाच् च । श्रुतिस् तावद् इह — “यद्-भूत-योनिं परिपश्यन्ति धीराः” “यदा पश्यः पश्यते” इत्य्-आदि च

भूत-शब्दोपलक्षित-सर्व-कार्योपादानत्वेन धीराः पश्यन्ति

इति हि तद्-अर्थः । “यदा पश्यः” इत्य् अस्यास्तु — यदा — उपासन-दशायां,— पश्यः — उपासकः रुक्म-वर्णं — रमणीय-दिव्य-विग्रह-विशिष्टं पुरुषं,

पूर्वम् एव अहम् इहासम् इति तत्-पुरुषस्य पुरुषत्वं

निरुक्ति-विधया कारण-भूतं कर्तारं स्व-शरीर-भूत-चिद्-अचिद्-रूप-जगद्-उपादान-गोचरापरोक्ष-ज्ञान-फल-भूतं बहु स्याम्

इति सङ्कल्पाश्रयम् ईशम् अन्तः प्रविश्य नियन्तारं तत एव ब्रह्म-योनिं ब्रह्म-शब्दितयोः प्रकृति-पुरुषयोः शारीरत्व-कृत-तद्-उभय-परिणति-हेतु-भूतोपादानत्व-शक्ति-युक्तं पश्यते दर्शन-समानाकारतया ऽनुभवति; तदा — तद्-अनन्तरम् एव ।

विद्वान्—उक्त-विध-वेदनवान् । पुण्य-पाप-विधूनन-पूर्वकं निरञ्जनः प्रकृति-तत्-कार्याविद्या-वासनादि-दोष-विरहितः सन् “परमं साम्यम्” “सो ऽश्नुते” इत्य्-आदिना उक्तं यावद् आत्म-भावितया प्राप्नोतीति अतो ब्रह्मोपादानत्वे श्रुति-सिद्धं प्रत्यक्षम् अस्त्य् एव । अन्यथा करणीय-त्वद्-उपन्यस्तानां यावतीनाम् अपि श्रुतीनां ब्रह्मोपादानत्वं विना तत्-तद्-अर्थानुपपत्ति-सूचकतया तस्यानुमान-रूपकत्वात् । श्रुत्य्-अर्थापत्ति-रूपम् अनुमानम् अपि तत्र अस्त्य् एव ॥

[[P172]]

यद् उक्तम् अनुपादाने ऽपि पञ्चमी-श्रवणात् “यतो वा इत्य्-आदिषु “जनि-कर्तुः प्रकृतिः” इति सूत्रानुशिष्टा ऽपि पञ्चमी नेह उपादानत्वार्थेति — तद् अपि असत् । तर्हि

पृथिव्या ओषधयः ओषधीभ्यो ऽन्नम्

इत्य्-आदिष्व् अपि सा न तद्-अर्था स्यात् । तत्रोपादानानन्तरानुपलम्भात् तेषु तत्-तद्-उपादानत्व-शक्ति-योगाच् च । तत्र न सा हेतुत्व-मात्रार्थेति चेत्, अत्रापि “तमः परे देवे एकी-भवति” “यस्य तमश् शरीरम्” “यस्याक्षरं शरीरम्” “य आत्मनि तिष्ठन्” “यो रेतसि तिष्ठन्” “एतद् आत्म्यम् इदं सर्वम्” “अन्तः प्रविष्टं कर्तारम् ईशम्” “ब्रह्म वा इदम् अग्र आसीत्” “नान्यत् किञ्चन मिषत्” “न तद् अस्ति विना यत् स्यात्” “सर्वं तं परादात्” “यो ऽन्यत्रात्मनस् सर्वं वेद” “नेह नाना ऽस्ति किञ्चन” इत्य्-आदिना कदाचित् क्वचिद् अपि अ-ब्रह्मात्मक-वस्तु-निषेधेन कार्य-कारण-दशयोः विशिष्टातिरिक्त-वस्त्व्-अन्तर-भाव-प्रयुक्तोपादानानन्तरानुपलम्भात् । “बहु स्याम्” इति बहु-सङ्कल्प-वति तस्मिन् उपादानत्व-शक्ति-योगाच् च । “यतो वा” इत्य्-आदि-पञ्चम्या अपि न हेतुत्व-मात्रार्थकतेति तुल्यम् ॥

यद् उक्तं तेजः-प्रभृतीनां नियामक-रूपैः “बहु स्याम्” इत्य् एव बहु-भवन-सङ्कल्पः न तु वियद्-आदि-रूपेणापीति तत् तुच्छम् । “एकम् एवाद्वितीयम्” इति उक्त्य्-एकत्व-प्रतिद्वन्द्वि-बहुत्वस्य इत्थं सङ्कल्प-योेग्यत्वात् ॥

[[P173]]

“एकस् सन् बहुधा विचारः ह” इत्य् उक्तं च एकत्वं दिव्यात्म–स्व-रूप–गतैकत्वम् एव । जगज्-जन्माद्य्-उपयुक्त-विचारात्मक-ज्ञानवान् इति विचारः इत्य् उच्यते । विचारः विचारवान् । हेत्य् आद्यर्थे ॥

एतत्-समानार्था — “नित्यो नित्यानाम्” इति श्रुतिः । नियामकत्व-रूप-बहुत्वं तु न सङ्कल्प-योग्यं व्यर्थत्वात् । “एको देवः सर्व-भूतेषु गूढः” इति श्रुति-विरोधाच् च । सर्व-नियामकत्वम् एव हि सर्व-भूतान्तरात्मत्वम् । तच् च दिव्यात्म–स्व-रूपेणैकेनैव अस्मद्-वाक्यात् प्रतिपन्नं न नियामक-रूप-बहुत्वम् अपेक्षते । अपेक्षते चेत् प्रत्यण्व्-अवयवं नियाम्यत्वात् एक-द्रव्ये अनेक-नियामक-रूपाभ्युपगम-प्रसङ्गः । “प्रजायेय” इत्य् अस्य “बहु स्याम्” इत्य् अनेन समान-विषयत्वे वैयर्थ्यम् । भिन्न-विषयत्वे मद्-अभिमतार्थान्तरा गत्यन्तर-विरहः ।

व्यष्टि-रूपेण बहु स्याम् तद्-अर्थं तेजो-ऽब्-अन्न-रूपेण समष्टि-रूपेण प्रजायेय

इति ह्य् अस्मत्-सिद्धान्तः ॥

किं च रूप-शब्दः संस्थान-वचनः । “इन्द्रो मायाभिः पुरु-रूप ईयते” इत्य्-आदौ तथैव निर्णयात् । तत् बहुत्वं च निरवयवस्य एकस्य स्व-रूपेण दुर्घटम् इति विग्रह-द्वारकं वाच्यम् । तच् च सामान्येन श्रुति-बहुत्वस्य मानान्तर-विषयतया सन्दिग्धस्य “सन्दिग्धे तु वाक्य-शेषात्” इति प्राकरणिक-वाक्य-शेषाद् एव विशेष-पर्यवसाने वाच्ये नियामक-रूप-बहुत्व-पर्यवसायक-वाक्य-शेषाभावात् दुर्वचम् । तत एव “गगन-कुसुम-बहुत्ववद् असच् च” इति असताम् एवेयं फणितिः, अ-प्रामाणिकत्वात् ॥

अपि च “एकम् एव अ-द्वितीयम्” इति कारण-वाक्य-श्रुतम् एकत्वं कार्यस्थ-निष्ठ-बहुत्वानुगुणम् एव वाच्यम् । तच् च नाम-रूप-व्याकरण-कृतम् । तत्र नियामक-रूपम् अपि यदि कार्यं तस्य “न भूत-सङ्घ-संस्थानः” “न तस्य प्राकृता मूर्तिः” इति निषेधेन उपादानान्तराभावात् । ब्रह्मैव कथञ्चित् तद्-उपादानम् इति तद्-उपादानत्वस्य कार्य-कारणयोः मद्-अभिमतानन्यत्वस्य च तद्-अंशे तव न प्रत्याख्यान-सम्भवः । तस्य नाम-रूप-व्याकरण-सङ्कल्प-विषयत्वम् अपि स्यात् । तत्त्वे प्रत्यक्षादि-प्रमाण-गोचर-प्रसङ्गश् च । एकत्वम् अपि एतद् अनुगुणावस्थयैव अ-विभक्त-नाम-रूप-कृतं च स्यात् । स्व-रूपैकत्वस्य नित्यतया तम् एवादय काल-विशेषे एकम् आसीद् इति उक्त्य्-अयोगात् । ततश् च महद्-आदि-कार्यं प्रत्यपि तद्वत् ब्रह्मोपादानत्वं स्याद् एव । यदि न कार्यं तदा बहु स्याम् इति सङ्कल्प-विषयत्वायोगः ॥

[[P174]]

अत एकत्वं कारण-गतं चेत् प्रत्यक्षादि-प्रमाण-सिद्ध-कार्य-गत-नाम-रूप-व्याकरणायत्त-बहुत्वानुगुणम् एव स्यात् । बहुत्वं कार्य-गतं चेत् एकत्वम् अपि तत्-कार्यानुगुणत्वात् तद्-उपादान-गतम् एव स्यात् । बहुत्वस्य कार्य-गतत्वाभावे सङ्कल्प-विषयत्वायोगः । तत्त्वे ब्रह्मोपादानत्व-निरासायोगः । एकस्यानुपादानत्वे अग्र एकत्वोक्ति-वैयर्थ्यम् । “तद् ऐक्षत्” इत्य् उक्त-सच्-छब्द-वाच्यस्यैव तन्-नाम-रूपाभ्याम् इति नाम-रूप-व्याकृतत्वोक्ति-विरोधश् च । “तद् अनुप्रविश्य” इति अपूर्वतया अनुप्रवेशाभिधान-वैयर्थ्यं च निमित्तत्व-मात्रे तद्-अनुयोगात् । स्वयम् एव विभु–स्व-रूपतया नित्यम् एव सर्वानुप्रविष्टत्वात् । जीवेनात्मना ऽनुप्रवेशो ऽपि व्यर्थः । निमित्तस्य सर्व-शक्तेः कार्य-गत-विकाराशक्तयोर् अ-प्रसक्तेः ॥

अत एव

सत्यं चानृतं च सत्यम् अभवत्

इत्य् अपि तव व्यर्थम् । जीवेन मयेति सामानाधिकरण्येन अ-भेद-निर्देशो ऽनुपपन्नः । न च मन्-नियाम्येन जीवेनेति तव सुवचम् । सिद्धानुप्रवेशो ऽर्थे वाक्य-वैयर्थ्यात् । अपूर्व इति च त्वया दुरुपपादः । नियमन-प्रवेशयोः वैलक्षण्यस्य प्राक्तनाद् दुरुपपादत्वात् । जीवेनेति तृतीया च तव व्यर्था । स्वानन्वितानुप्रवेश-व्याकरणयोः सर्व-शक्तस्य किं तेन करणेन?

[[P175]]

न च “चारेणानुप्रविश्य” इतिवद् इह साफल्यम् । अ-शक्त्य्-आदिमद् राजसम् एतद् अयोगात् आत्मनेत्य् अभेद-निर्देशस् तवानुपपन्न एव । जीवेन करणेनानुप्रवेशो जीवस्य तद्-उभय-भाक्त्वायेति च न भव्यम् । वास्यादिना दार्व्-आदिषु तक्षानुप्रवेशस्य वास्यादौ तद्-उभय-भाक्त्वानापादकत्वात् । प्रवेशो ऽन्यथा (वा) कर्तृत्वम् अन्यथा इति त्वन्-मते वैरूप्यं च । निमित्त-द्वयाश्रयैक-विशेषस्यात्र तद्-अनुपादकत्वात् । मम तु जीव-निष्ठा व्याकरण-योग्यता दृष्ट्रत्व-सङ्कल्प-विशेष-विशिष्टत्वयोः विशेष्यं ब्रह्म–स्व-रूपम् एवेति मनुष्येण मयेतिवद् उपपन्नः । सर्वो ऽपि उपपादकः । तथा अनुप्रविश्य तत् सच् च त्यच्चाभवद् इति निर्देशो ऽपि तव न घटते । त्यत्व-स्त्यत्वयोः त्वन्-मते तत्-पदार्थानिष्ठत्वात् ॥

न च यद्-अधीना यस्य सत्ता तत् तद् इत्य् एव भण्यते

इति स्मृतेः तथा निर्देशोपपत्तिः । तर्हि स्थूणाद्य्-अधीन-सत्ताकेषु गुरुतर-शिला-मन्दिरादिष्व् अपि अ-भेद-निर्देशापत्तेः । स्मृतिर् अपि त्वद्-उदाहृता —

नियमेन धारक-नियामक-शेष्य्-अधीनाधार्य-नियाम्य-शेष-सत्ता

इति च मद्-अभिमतार्थानुगुणैव । न चेद् अतिप्रसङ्गात् । अतः

इदं सर्वम् असृजत । यद् इदं किञ्च

इत्य् उक्त-कार्य-निष्ठ-कार्यत्व-समानाधिकरण-नाम-रूप-विभागायत्त-बहुत्वार्ह-शरीरस्य परस्यैव ब्रह्मणः तद्-द्वारकतया “बहु स्याम्” इति सङ्कल्पः तादृश-भाव्य्-अवस्था-विशेषवतः अ-विभक्त-नाम-रूपया प्राग्-अवस्थाया एकम् एवेति उक्तिर् इति वैदिकोक्त-मादृश-महा-मार्गानुसारिषु लेशतो ऽपि नोक्त-दोषावकाशः । सर्वम् अप्य् उक्तं वाक्य-जातं सम्यग् उपपन्नार्थं च । “सत्यं ज्ञानम्” इति मन्त्र-वर्णोक्तं यत् तत् ब्रह्म “कूट-स्थम् अ-चलं ध्रुवम्” इत्य् उक्त-निर्विकारम् एव स्व-रूपत इति स्व-रूपेणैव नोपादानम् । “यतो वा” इत्य्-आदि-लक्षण-वाक्य-विषयं चिद्-अचिद्-विशिष्टं तु ब्रह्म स्व-विशेषण-द्वारा सर्व-विकाराश्रयत्वात् नियमेन उपादानम् उपादेयं च । यथा निर्विकार एव जीवात्मा स्तनन्धयत्वादि-रूप-पूर्व-पूर्वावस्थाया उत्तरोत्तरावस्थं प्रति उपादानम् ॥

[[P176]]

न च तत्र नियामकाभावः । आत्म-षट्-कोपनिषदि

पुरुषो ह वा अयम् आदितो गर्भो ऽभवत् यद् एतद् रेतः तद् एतत् सर्वेभ्यो ह्य् अङ्गेभ्यः तेजस्-सम्भृतम् आत्मन्य् एवात्मानं बिभर्ति — तद् यदा स्त्रियां सिञ्चति — अथैनं जनयति तद् अस्य प्रथमं जन्म

इत्य्-आदिकस्यैव तन्-नियामकत्वात् । अस्यार्थः — अयं संसरन् पुरुषः “पञ्चम्याम् आहुतौ” इत्य् उक्त-विधया तत्-पूर्वायाम् आहुतौ प्रथमतो रेतो-रूपेण गर्भ-गतः अभवत् । पुरुषस्य सर्वेभ्यः अवयवेभ्यः समुत्पन्नं यद् वीर्यं तद् एव रेतः इत्य् उच्यते । तद्-रेतस्-संसृष्टतया जीवम् उत्पत्स्यमानं तत्-पिता स्वात्मनि बिभर्ति — तादृशं रेतो यदा पुमान् स्त्रियां सिञ्चति तत उत्तर-क्षणे गर्भ-रूपं जनयति । एवं भूतो निषेक एवास्य जीवस्य प्रथमं जन्मेति ॥

एवं च तद्-उत्तर-कलिल-बुद्बुदाद्य्-अवस्थं जीवं प्रति पूर्व-पूर्वावस्थो जीवः कारणम् इति सिद्धे विशिष्ट-वेषेण भाव्य्-अवस्था-विशेषवतः प्राग्-अवस्था-योगा-कृतम् उपादानत्वेनैव तत्त्वम् इति वाच्यम् । तच् च मृदादिष्व् अपि तावन्-मात्र-पर्यवसितम् । “अन्तः प्रविष्टं कर्तारम् ईशम्” “यः पृथिव्यां तिष्ठन्” इत्य्-आदिभिः तद्-अन्तर्यामितया तथा तत्-तच्-छरीरतया प्रतिपन्ने परमात्मन्य् एव यथा पर्यवस्यति तथा तत्-तद्-अवस्थ-शरीरस्यापि जीवस्य तत्-तद्-उत्तरावस्थ-जीवं प्रत्युपादानत्वम् अपि “य आत्मनि तिष्ठन्” इत्य् उक्त-तद्-अन्तर्यामि-ब्राह्मणे स्पष्टम् आम्नायते । निमित्त-मात्रत्वाय तद्-अनुप्रयोगात् । तच् च स्व-शरीरं प्रति धर्म-भूत-ज्ञानेन शरीरावस्थान्तरं प्रति हेतु-भूतेन जीवस्याप्य् अविशिष्टम् ॥

अत एव ‘

औपमन्यवादयः पञ्चेमे महर्षयः को न आत्मा किं ब्रह्मेत्य् एव विचारितवन्तः । अन्तः प्रविश्य नियन्तृत्वेन निश्शरीरक इति

को न आत्मत्य् अस्यार्थः । निमित्तत्व-मात्रे अभिमते “किं ब्रह्म” इत्य् एवालम् ॥

अत एवोद्दालको ऽपि

इमं च लोकं परं च लोकं सर्वाणि भूतानि यो ऽन्तरो यमयति

इति प्रश्नम् अकरोत् ॥

[[P177]]

किं च जगद्-ब्रह्मणोः शरीरात्म-भावस्य तत्-प्रयुक्तोपादानोपादेय-भावस्य च अनभ्युपगमे “यन् मयम्” इति मैत्रेय-प्रश्नोत्तरयोर् अप्य् अनुपपत्तिः । त्वन्-मते मयटो ऽत्र विकारार्थत्वे जगतो यच् छब्दार्थ-भूतस्य विष्णोः स्व-रूप–विकारत्व-प्रसङ्गः । अपसिद्धान्तः “जगच् च सः” इत्य् उत्तरानुपपत्तिश् च । प्राचुर्यार्थकत्वे कार्यस्य क्वचिद् अपि निमित्त-प्राचुर्यत्वम् अपि निमित्त-विकारत्ववद् असम्भव-हतम् इति बाधितार्थः प्रश्नः । “जगच् च सः” इत्य् उत्तरानुपपत्तिश् च । राजा-ऽधीन-राजवत् ।

यद्-अधीना यस्य सत्ता तत् तद् इत्य् एव भण्यते

इति त्वदीय-भ्रम-जनक-स्मृति-परिपाठ्या चेद् उत्तरं तदा मयड्-वैयर्थ्यम् । तद्-आज्ञा-मात्राधीन-सत्ताकस्य तत्-प्रचुरत्व-मुख्यत्वार्थासम्भवात् । तद्-आत्मकत्व-कृत-तत्-प्राचुरत्वस्य त्वया ऽनङ्गीकारात् । अङ्गीकारे तु जगद्-ब्रह्म-शरीरम् एव स्यात् । तेन तज्-जगद्-उपादानम् अपि स्याद् एव । यदि स्वार्थिकः तदा ऽपि मयड्-वैयर्थ्यम् एव । तदा ऽपि तव “जगच् च सः” इत्य् उत्तरानुपपत्तिः । तथा प्रतर्दन-विद्यायाम् “उपास्व” इति “तद् धैतत्” इति वाक्ये वाम-देवस्य “अहं मनुर् अभवम्” इत्य्-आदि-प्रह्लादस्य “सर्वगत्वाद् अनन्तस्य” इत्य्-आदिना “मत्तस् सर्वम् अहं सर्वम्” “मयि सर्वम्” इत्य्-आदि च । प्रत्यगात्मनः परमात्म-शरीरत्वाभावे न कथञ्चिद् अप्य् उपपद्यते । इन्द्रादेः मुमुक्षूपास्यत्वनुपपत्तेः । अतः प्रमाणान्तर-सिद्धं शरीरत्वं पुरस्कृत्य आकृत्य्-अधिकरण-न्यायेन अ-पृथक्-सिद्ध-विशेषणं भूतेन्द्रादि-वाचिनः शब्दाः तन्-मुखेन अन्तर्यामिणम् एव अभिधास्यन्ति इत्य् एव निर्वाहः सु-शोभनः । न हि परमात्मा इन्द्राद्य्-अधीन-धारणः येन प्राणाधीन-धारणत्वात् इन्द्रियेषु प्राण-शब्द-व्यपदेशवद् वा “माम् उपास्व” इत्य्-आदि-निर्वाहः स्यात् ॥

न च तद्-अधीन्य-मात्रेणैव एवं भूत-निर्देश-निर्वाहः तर्हि कुलाम् आनयेत्य् अर्थे घटम् आनयेत्य् अपि स्यात् । तद्-उत्पत्ति-स्थित्य्-आदेः तद्-अधीनत्वात् । गृहिणम् आनयेत्य् अर्थे गृहम् आनयेत्य् अपि प्रसजेत् । “अयम् आत्मा ब्रह्म” इत्य्-आदिषु अपि एवं तव निर्वाहे ऽपि अयम् अतिप्रसङ्गः समानः । तथा सति कुलालो घटः इत्य्-आदि-प्रयोग-निवारकाभावः ।

[[P178]]

किं च “स्वाच् छरीरात् प्रवृहेन् मुञ्चादिवेषीकाम्” “सो ऽभिध्याय शरीरात् स्वात्” इति श्रुति-मनु-वचनयोः शरीर-पद-वैयर्थ्यं स्यात् इति अनेनैव तादधीन्य-सिद्धेः ॥

किं च “यन् मयम्” इति श्लोके “यतश् चैतत्” इत्य् अनेनैव ताद्-अधीन्य-सिद्ध्या “यन् मयम्” इति तव व्यर्थम् एव स्यात् । अतः “सो ऽहम् इच्छामि” इति श्लोके यथा बहव इत्य् अयं प्रश्नः कारण-सामान्य-प्रश्न-सङ्ग्रह-रूपः । यथा भविष्यतीत्य् अनेन जगतः प्रश्न-कालावधिकोत्तर-काल-स्थित-प्रवृत्य्-आदयः लय-प्रकार-लय-स्थानादयश् च सङ्ग्रहेण पृष्टाः । इत्थं सङ्ग्रह-प्रश्न-सङ्गृहीत-यावद्-विशेष-प्रश्न-रूपो “यन् मयम्” इति श्लोकः । “यन् मयम्” इति सङ्ग्रह-प्रश्न-सङ्गृहीतं प्रश्नान्तरं

येनान्तर्यामिणा धारकेण प्रचुरम्

इति तद्-अर्थः । अस्य च उत्तरं “जगच् च सः” इति । इदं च तादात्म्यं यदि तादधीन्य-मात्र-कृतं तदा “यन् मयम्” “जगच् च सः” इति प्रश्न-प्रतिवचनयोः व्यर्थतैव भवेत् । तद्-व्यतिरिक्त-प्रश्न-प्रतिवचनाभ्याम् एव तत्-सिद्धेः । अतः “जगच् च सः” इत्य् उक्तं तादात्म्यम् अन्तर्यामिणा आत्मतया व्याप्ति-कृतम् । तस्मात् “अन्तर्-बहिश् च” इति श्रुत्या जगतः ब्रह्म-शरीरकत्व-कण्ठोक्त्या च जगत्-ब्रह्म-प्रचुरम् एवेत्य् उक्तं भवतीति अस्मत्-पक्ष एव तयोस् सार्थक्यम् । सामञ्जस्यं च, कार्यस्य निमित्तोपादानादि-सर्व-कारणापेक्षत्वात् । इहोपादान-कारण-विषय-प्रश्न-प्रत्युत्त्य्-अनन्तरादर्शनात् ॥

तन्त्रेण “यतश् चैतत्” इति सर्व-कारण-प्रश्नः । विष्णुर् एव जगत्-सर्व-कारणम् इति तस्य तन्त्रेण उत्तरं “विष्णोस् सकाशाद् उद्भूतम्” इति । अतो “यतो वा” इत्य्-आदि-श्रुति-गता पञ्चमी एतद्-उपबृंहितत्वात् प्रमाणान्तर-सिद्धोपादानत्वोचितार्थ-सामर्थ्यवद्-विशिष्टोपादानत्वोचितार्थ-सामर्थ्यवद्-विशिष्ट-ब्रह्म-निष्ठ-हेतुत्वार्थकत्वात् तन्त्रेण ब्रह्मणः सर्व-विध-हेतुत्वाभिधायिन्य् एव ॥

[[P179]]

अत एव “जनि-कर्तुः प्रकृतिः” इति सूत्रम् अपि नास्यानुपादानत्व-सम्पादकम् । प्रकृति-शब्दस्यानुपादाने अनुशासनाभावात् प्रत्युत अनेनैव सूत्रेण औषध्याद्य्-उपादानेषु पृथिव्यादिषु “पृथिव्या ओषधयः” “ओषधीभ्यो ऽन्नम्” इत्य्-आदिभिः उपादानत्वेनैव अपादान-संज्ञा-सिद्धेः । अन्यथा एतत्-सूत्र-वैयर्थ्यं हेतोर् अपादानत्वादर्शनात् । अपादान-संज्ञायाः अनियत-विषयत्वाच् च । “ध्रुवम् अपाये ऽपादानम्” इति । अपाय-संज्ञित-विश्लेषे साध्ये यद्-अवधि-भूतं कारकं तस्यापि अपादान-संज्ञित्वात् । अतो “जनि-कर्तुः प्रकृतिः” इति सूत्रस्य जायमानस्य प्रकृतिः हेतु-भूतम् उपादानम् इति वृत्ति-मात्रेण “यतो वा” इत्य्-आदि न ब्रह्मण्य् उपादानत्वे निवृत्तिः । प्रकृति-शब्दस्य उपादान एव मुख्यत्वात् ॥

अत एव “तादर्थ्ये चतुर्थी” इति सूत्रस्य नियमेन सा प्रकृति-विकार-भाव एव भवतीति वार्तिकेन “यूपाय दारुः” “कुण्डलाय हिरण्यम्” इत्य्-आदौ दार्व्-आदेर् उपादानतां वार्तिक-कारः प्रकृति-शब्देन प्राह ॥

अत एव सर्वाचिद्-विकृत्य्-उपादान-काष्ठा-भूतत्वाद् एव प्रधाने प्रकृति-शब्दः । क्वचित् स्व-भावार्थको ऽपि प्रकृति-शब्दः तद्-उपादानम् एवाभिधत्ते । अत एव भगवान् भाष्य-कारः पशु-शृङ्ग-लोमादिकम् एव केशादि-प्रकृतितया उदाजहार । सूत्र-कारो ऽपि ब्रह्मोपादानत्वाय “प्रकृतिश् च” इत्य् असूत्रयत् ॥

[[P180]]

यत् तु अनुपादाने प्रकृति-शब्दः तत्र सः प्रकृतित्वाध्यासाय तत्-कार्योपादान-निष्ठ-कारणत्व-गुण-लेश-योगात् गौणो वा । अतः “ब्रह्मणः प्रजा जायन्ते” “पुत्रात् प्रमोदो जायते” इत्य्-आद्य्-उक्त-चतुर्-मुखादिषु “जनि-कर्तुः प्रकृतिः” इति सूत्रोदाहरण-विशेषेष्व् इव इह च तव उपादानत्वस्य प्रमाणान्तर-बाधितत्व-भ्रान्त्या तत्रत्य-प्रकृति-शब्देनोपादानत्वाबोधने ऽपि “ओषधीभ्यो ऽन्नम्” इत्य्-आद्य्-उदाहरणोक्तोषध्यादिवत् चिद्-अचिद्-विशिष्ट-ब्रह्मोपादानत्वस्य अवस्थान्तर-भाक्त्व-रूपस्य बाधक-प्रमाण-विधुरत्वात् मानान्तर-गोचरत्वाच् च अनन्यथा-सिद्धेः

सद् एव सोम्येदम् अग्र आसीत् एकम् एवाद्वितीयम्

“ब्रह्म वनम्” ‘तदात्मानँ स्वयम् अकुरुत” “तद् ऐक्षत बहु स्याम्” “सो ऽकामयत बहु स्याम्” “तन् नाम-रूपाभ्यां व्याक्रियत” “सच् च त्यच् चाभवत्” “सत्यं चानृतं च सत्यम् अभवत्” इत्य्-आदिभिः समधिगतस्य प्रकृति-शब्द-मुख्यार्थस्य “यतो वा” इत्य्-आदिष्व् अपि नियामकाभावेन तद्-बोधिते ब्रह्मणि “जनि-कर्तुः प्रकृतिः” इति सूत्र-स्थ-प्रकृति-शब्दस्यान्यथा-सिद्धि-कथनम् अनेक-श्रुति-विरुद्धत्वात् “प्रकृतिश् च” “योनिश् च हि गीयते” इत्य्-आदि-प्रकृत्य्-अधिकरण-यावत्-सूत्र-विरुद्धत्वात् “यथोर्णनाभिस् सृजते गृह्णते च” “यथा पृथिव्याम् ओषधयस् सम्भवन्ति”

यथा पुरुषात् केश-लोमानि भवन्ति तथा ऽक्षरात् सम्भवति इह विश्वम्

यथार्द्रेधाग्नेः पृथग्-धूमा विनिश्चरन्ति यथा सुदीप्तात् पावकाद् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते स-रूपाः तथा ऽक्षराद् विविधाः सोम्य-भावाः प्रजायन्ते तत्र चैवापियन्ति

इत्य्-आदि-रूपेणोपादानत्वेन सजातीय-दृष्टान्त-घटित-वाक्य-विरुद्धत्वाच् च अत्यन्तावैदिकतया वैदिकैः वेद-बाह्योक्तिवद् अन्-आदरणीयम् ॥

भाष्य-कारः पशु-शृङ्ग-लोमादिकम् एव केशादि-प्रकृतितयोदाजहार । वस्तुतः पितुः विकृतिः पुत्रः “आत्मा वै पुत्र-नामासीत्” इत्य्-आदि-श्रुतेः परंपरया प्रकृतिर् एव प्रमादं प्रति धाता च प्रजाः प्रतीति तद् अप्य् उदाहरणं नास्मद्-विरुद्धम् । अतो “जनि-कर्तुः प्रकृतिः” इति सूत्रेणापि “यतो वा” “आत्मन आकाशः” इत्य्-आदिषु श्रुत-पञ्चमी-बलेन अर्थ-सामर्थ्य-सहितेन ओषध्य्-आदीन् प्रति पृथिव्यादिवत् चिद्-अचिद्-विशिष्ट-ब्रह्मणो जगद्-उपादानत्वं सिद्ध्यत्य् एव ॥

एतेन “यद् भूत-योनिम्” इत्य्-आदिषु योनि-शब्दस्यापि “शास्त्र-योनित्वात्” इत्य्-आदिषु अर्थान्तर-परत्वात् न तेन ब्रह्मोपादानत्व-सिद्धिर् इति प्रत्युक्तम् । यत्र बाध्यः तत्र अर्थान्तर-परत्वे ऽपि अत्र बाधकाभावेनोपादानार्थकत्व-सम्भवात् । न हि ब्रह्म-शब्दः

तस्माद् एतद् ब्रह्म-नाम-रूपम् अन्नं च जायते

इत्य्-आदिषु प्रधानार्थक इति ब्रह्म-विद्या-ऽऽदिष्व् अपि तद्-अर्थको भवति? अतो ऽन्यत्र अर्थान्तर-परत्वम् । अत्रापि तत्-परत्वे अ-प्रयोजकम् एव ॥

[[P181]]

एवम् अपि योनि-शब्दस् त्वद्-अभिमत-लाभे ऽप्य् अ-प्रयोजकः इति न भ्रमितव्यम् । अन्यत्रास्य स्व-मुख्यार्थ-बाधकवति कारण-मात्र-परत्वे ऽपि अत्र “मम योनिर् महद् ब्रह्म” “तासां ब्रह्म महद् योनिः” इत्य्-आदिष्व् इव चिद्-अचिद्-विशिष्टे ब्रह्मणि तद्-अभाव-सहितैः “यथोर्णनाभिः” इत्य्-आदि-दृष्टान्तैर् एव अस्य स्व-मुख्यार्थोपादानत्वार्थकत्व-स्फोरणात् । न हि निर्जीवं शरीरे ऊर्णनाभिर् भवति सृष्ट्य्-आद्य्-उपादानं वा ॥

अत एव “ब्रह्म-वनम्” इत्य् अपि तस्य जगद्-उपादानत्वे साक्षात् प्रमाणम् । जगद्-ब्रह्मणोः वृक्ष-वन-स्थानीययोः तद्-उपादेयोपादान-भाव-सिद्धेः । पञ्च-वत्सरात् प्राक् वृक्षत्वम् उपगम्य परस्परासंसृष्ट-संस्थानानि तान्य् एव हि नितरां परस्पर-संसृष्ट-संस्थानतया अद्य वनत्वम् उपगतानि । तथा ऽपि चिद्-अचिद्-विशिष्टे विशेषणांश-प्रकृत्यैव सा श्रुतिश् चरितार्थेति चेत् — मैवं मंस्थाः । तत्र किं जगत्? तस्य किम् उपादानम्? तत्-सिसृक्षोः कान्य् उपकरणानीति लोक-दृष्ट्या पृष्टे “यतो द्यावा-पृथिवी निष्टतक्षुः” इति प्रसिद्धवत् निर्देश-रूप-वाक्य-स्मारित “यतो वा इमानि भूतानि” इत्य्-आदि-कारण-वाक्य-प्रतिपन्न-लक्षणस्य-भूतस्य सिसृक्षोर् नारायणस्य ब्रह्मण एव वन-शब्दोपलक्षित-जगद्-आकारत्वं तद्-उपादानत्वं स्वापेक्षितोपकरणत्वं चेति हि प्रकृतिः ॥

एवं च अत्रत्य-ब्रह्म-शब्दस्य प्रकृति-परत्वे यत इति वाक्यैक-देश-स्मारित “यतो वा” इत्य्-आदि-कारण-वाक्य-सारूप्य-भङ्गः । निर्निमित्त-ब्रह्म-शब्द-मुख्यार्थ-त्याग-दोषः । चिद्-आत्मकस्यापि जगद्-अंशस्य वन-शब्दोपलक्षितत्वेन तं प्रति प्रकृतेर् उपादानत्वायोगात् । तद्-अंशस्य प्रश्नासङ्गृहीतत्वे निर्निमित्त-सङ्कोच-दोषः । सङ्गृहीतत्वे प्रत्युत्तरस्य तद्-विरुद्धता । तरतम-भावापन्न-ज्ञान-सङ्कोच-विकासानां प्रकृत्य्-उपादानकत्वात् । चिद्-अंश-कालादृष्टादीनां प्रकृत्य्-अनात्मकानाम् अपि उपकरणतया “यद् अध्यतिष्ठत्” इति उपकरण-प्रश्नस्य “ब्रह्माध्यतिष्ठत्” इत्य् उत्तरानुपपत्तिः ।

[[P182]]

एतद्-ब्रह्म-शब्दस्य अन्यार्थकत्वे ब्रह्म-शब्द-त्रय-वैरूप्य-प्रसङ्गः । “यतो वा” इत्य्-आदि-लक्षण-वाक्यस्य कारणत्व-प्रापक “सद् एव सोम्य” इत्य् अस्य “ब्रह्म वा इदम् अग्र आसीत्” इत्य्-आदि-कारण-वाक्यानां च प्रकृति-परत्व-प्रसङ्गश् च । “ब्रह्म वनम्” इत्य् अस्यैव प्रकृति-परत्वे “सर्वं खल्व् इदं ब्रह्म” “ब्रह्मैवेदं सर्वम्” “इदं सर्वं यद् अयम् आत्मा” “ऐतदात्म्यम् इदं सर्वम्” इत्य्-आदि-वेदान्त-मात्रस्य प्रकृति-परत्व-सम्भवात् । सर्व-वेदान्त-व्याकुली-भावश् च । त्वया प्रकृतेर् अनन्तत्वासङ्कोचोक्त्या आत्नोतीत्य् आत्म-शब्दस्यापि तद्-अर्थकत्व-सम्भवात् ॥

अत एव तेषां प्रकृति-परत्वे यद् अस्ति बाधकं जातं तत् सर्वम् अप्य् अतत्-परत्वे ऽपि अ-विशिष्टम् इत्यस्य अ-बाधितत्वार्थकत्वाय सर्व-विध-कारण-वाक्य-सारूप्याय ब्रह्म-शब्द-त्रयावैरूप्याय च परमात्म-परत्वम् एव ॥

एवं च परस्पर-नैरन्तर्यात्मैक-संस्थानवत् वृक्ष-शरीरक-जीव-सङ्घ एव वनम् । तथात्व-योग्य-संसृष्ट-वृक्ष-शरीरको जीव-सङ्घ एव वृक्ष-शब्दितश् चेति तयोर् जीव-सङ्घयोर् एव अन्वय-व्यतिरेकाभ्यां स-शरीरत्व-निबन्धनोपादानोपादेय-भावः । यथा वृक्ष-वनयोः तथा वन-शब्दोपलक्षित-स्थूल-चिद्-अचिद्-विशिष्टं ब्रह्मैव जगत् वृक्ष-शब्दोपलक्षित-सूक्ष्म-चिद्-अचिद्-विशिष्टं ब्रह्मैव जगद्-उपादानम् । तत्-तत्-काल-तद्-अन्वित-चिद्-अचिद्-वस्तु-शरीरक-प्रीत्याद्य्-अनुगुण-सङ्कल्प-विशेष-विशिष्टं च सत् ब्रह्मैव तत्-तत्-कार्यानुगुणोपकरण-जातं निमित्तं चेति ब्रह्मैव कार्यम् । ब्रह्मैव कारणं निमित्तम् उपादानम् उपकरणं च । उभयोर् अपि स्व-शरीर-द्वारा भाव्य्-अवस्था-विशेषवतः प्राग्-अवस्था-योगित्व-तौल्येन एतच्-छ्रुति-बोध्यापादानत्वस्य निर्बाधत्वात् । “कूट-स्थम् अचलं ध्रुवम्” इति बोधित-निर्विकारत्वं तु “सत्यं ज्ञानम् अनन्तम्” इत्य् उक्त-लक्षणवत् स्व-रूप-मात्र-निष्ठम् ॥

[[P183]]

न च मृदादिवत् साक्षाद् विकारानाश्रयस्य कथम् उपादानत्वम् इति चेत् ईश्वरवद्-उपादानादि-गोचर-ज्ञानाश्रयस्य कुलालादेः तद्वद् अपि तद्-अनाश्रयस्य दण्डादेर् वा कथं निमित्तत्वम् । न ह्य् एक-रूपं कार्येषु कार्यत्वं कारणेषु कारणत्वं वा? अचिद्वत् स्व-रूपान्यथा-भाव-विधुराणां चेतनानां कार्यत्वस्य मृद्-आदि-कारण-विलक्षणानां कालादीनाम् अपि कारणत्वस्य च मुख्यत्वेनैव सर्व-सम्प्रतिपन्नत्वात् । तथोपादानत्वम् अपि तद्वद् एव चेत् किं नश् छिन्नम्? प्रमाण-सम्प्रतिपन्नार्थ-परित्यागेन तवावैदिकत्व-रूपानर्थवत् तत्-परिहारेणानर्थान्तराभावात् ॥

न चैतावता कालादेर् अप्य् उपादानत्व-प्रसक्तिः । शरीर-द्वारा साक्षाद् वा भाव्य्-अवस्थोपयोग्य्-अवस्था-ऽऽश्रयं तद्-उपादानम् इत्य् उक्तेः । कालादि च न साक्षाद् आश्रयं न वा कञ्चित् प्रतिशरीरि । अतो न कथञ्चिद् अपि कुलालादेर् उपादानत्व-प्रसक्तिः ॥

यद्य् एवम् अपि विशिष्ट-विशेषणावस्था-ऽऽश्रययोः जीव-ब्रह्मणोः साक्षात् तद्-अभावात् उपादानत्वम् औपचारिकम् एव । न मुख्यम् इत्य् अभिमन्यसे । तर्हि घटादि-रूप-प्रपञ्च-कारणत्वम् अपि ब्रह्मण्य् अमुख्यम् एव स्यात् । कुलालादि-द्वारकत्वात् । तथा अण्डान्तर्गत-शैलाब्धि-धरादि-कारणत्वम् अपि तस्यामुख्यं स्यात् चतुर्-मुखादि-द्वारकत्वात् तस्य रूपादि-तत्-तद्-धर्म-धारकत्वम् अप्य् अमुख्यं स्यात् तत्-तद्-धर्मि-द्वारैव तत्-तद्-द्धारकत्वात् । “बहुधा विजायन्त” इत्य् उक्तोत्पत्तिर् अपि तस्यामुख्या स्यात् । तस्यास् तत्-तच्-छरीर-द्वारकत्वात् । भू-धरादि-तत्-तद्-धर्मि-धारकत्वम् अप्य् अमुख्यं स्यात् । तत्-तद्-धारकतया प्रत्यक्षादि-सिद्ध-द्रव्यान्तर-द्वारकत्वात् । त्वद्-अभिमत-रीत्या सत्-कार्य-वाद-निरन्वय-विनाशयोः मुख्यता । न चेत् तयोर् अप्य् अमुख्यता । तद्-अङ्गीकारे तु बुद्ध-सिद्धान्तानुप्रवेशः ॥

एवं जगद्-उपादान-प्रविष्ट-चिद्-अचिन्-मात्र-कार्यत्वस्य शरीरादि-द्वारकया अमुख्यत्वे तत्-कारणम् अपि ब्रह्मण्य् अमुख्यम् एवेति कृतं कारणत्व-पर-वाक्य-गणेन । तस्य लक्षणत्व-परेण तद्-विषयक-जन्मादि-सूत्रेण त्वदीय-भाष्येण च ॥

[[P184]]

किं च ब्रह्मणो महद्-आद्य्-उपादानत्वं स्व-शरीर-द्वारकता-मात्रेण नामुख्यम् । निर्वाहक-व्यवहितत्वात् । काष्ठैः पचतीति बोधित-पाके ज्वालाव्यवहितस्य काष्ठस्य कारणत्ववत् । न च उपादाने निर्वाहक-व्यवहितत्वम् अप्य् अमुख्यता-प्रयोजकम् इति निर्बन्धः । नालीकेरोदकादिषु प्रसिद्ध-जलस्य उपादानत्वाभाव-प्रसङ्गात् । तथा खर्जूरादि-फलेषु तद्-आधार-पृथिव्याद्य्-उपादानत्वाभाव-प्रसङ्गश् च । तयोः वृक्ष-तद्-अवयवादि-द्वारकत्वात् । अशितान्न-मध्य-भागस्य “यो मध्यमस् तन् मांसम्” इति श्रुति-बोधितस्य मांसोपादानत्वाभाव-प्रसङ्गश् च नाडी-व्यवहितत्वात् । स्व-शरीर-द्वारक-निर्वाहकत्वं नामुख्यम् । निर्वाहक-व्यवहितत्वात् । कर्त्र्-आदि-कारकान्तरवत् । अन्यथा कुलालस्य घटं प्रति कर्तृत्वं न सिद्ध्येत् । बाह्य-व्यापार-दण्ड-चक्रादि-हेत्व्-अन्तर-व्यवहितत्वात् । रवेः प्रकाशत्वं न मुख्यं स्यात् । किरण-व्यवहितत्वात् । तथा जलं वहतीत्य् अत्र जलस्य कर्मत्वं न सिद्ध्येत् घट-व्यवहितत्वात् । “आदित्याज् जायते वृष्टिः” इत्य्-आदौ आदित्यादीनां वृष्ट्याद्य्-उपादानत्वं न स्यात् किरण-व्यवहितत्वात् । “इक्ष्वाकूणाम् इयं भूमिः” इत्य्-आदौ स्वातन्त्र्य-लक्षण-सम्बन्धो ऽपि न सिद्ध्येत् अवान्तर-राज-स्वातन्त्र्य-व्यवहितत्वात् । पर्यङ्के शेते इत्य् अत्र पर्यङ्कस्य अधिकरणत्वं न सिद्ध्येत् आस्तरण-व्यवहितत्वात् । एवं हेतु-मात्रस्य मुख्यस्यैव सद्वारकोत्पत्तेः तद्-अवान्तर-विशेष-निमित्तवत् । उपादानत्वम् अपि सद्वारकं मुख्यं कार्याश्रयत्वस्यैव उपादानत्व-रूपत्वात् । तच्-छरीरत्व-कृत-तद्-आश्रयत्वं च नातिप्रसक्तिर् इति प्राग् एवोक्तम् । नापि तन्-निर्वाहक-व्यवहितत्वं तद्-आश्रयत्व-विरोधि-कुम्भोदर-सम्भृतम् अम्भः प्रति पुरुषस्येव ब्रह्मण एव महद्-आदि-सर्वावस्थाश्रयत्वात् । तत्र अम्भः पुरुष-धार्यं न चेत् श्रमातिशयो न स्यात् । धार्यं चेत् कुम्भस्य यथा न तद्-व्यवधायकता तथा शरीर-भूत-महद्-आदेर् अपि नावस्था-विशेष-व्यवधायकतेति कार्यावस्था-विशेष-मात्रस्य परमात्मा-ऽऽयत्त-स्थितित्वात् महद्-आदि-शरीरके परमात्मनि महद्-आद्य्-अवस्थाश्रयत्वम् अपि मुख्यतयैवोपपन्नम् इति न ब्रह्मणः उपादानत्वानुपपत्तिः तस्य अमुख्यत्वं वा ॥

[[P185]]

किं च ब्रह्म सदा चिद्-अचिद्-विशिष्टम् एव । विशिष्टस्य वस्तुनो विशिष्टम् एव स्व-रूपम् । यावद्-द्रव्य-भाव्य्-अपृथक्-सिद्ध-प्रकारणां स्व-रूपान्तर्भावात् । तत्र विशेषणांशस्य निर्विकारत्वे ऽपि विशिष्ट-ब्रह्म–स्व-रूपस्य साक्षाद् एव सर्व-विकाराश्रयत्वम् इति न तस्य व्यवधान-गन्धो ऽपि । विशिष्टं च विशेषणान्वितं विशेष्यम् एव । तथा ऽपि कार्यत्वोपयुक्ता शक्तिः शक्तित्वेन व्यासक्तेति “ऋतं पिबन्तौ” इतिवत् विशिष्टम् उपादानम् इत्य् उक्तिः उपादानत्वोपादेयत्वान्वय-व्यतिरेकयोः शरीरात्म-भाव-सम्बन्ध-सङ्घटित-विशेषण-विशेष्योभयान्वय-व्यतिरेक-प्रयुक्तत्वात् मुख्यैव । इत्य् अव्यवहितम् एव चिद्-अचिद्-विशिष्टस्य अवस्थाश्रयत्वम् इति अलम् अ-वैदिक-बहु-मुख-प्रत्युक्ति-विस्तरेण ॥

तस्मात् “ब्रह्म-वनम्” इति श्रुतिः साक्षाद् एव ब्रह्मोपादानत्वे प्रमाणम् । तथा “बहु स्याम्” इति कार्य-रूपेण भावि-बहुत्वावस्थावतः

सद् एव सोम्येदम् अग्र आसीद् एकम् एव

इत्य् अपि श्रुतिः तद्-उपयुक्तापृथक्-सिद्ध-नाम-रूपत्व-रूपैकत्व-बोधिका साक्षाद् एव ब्रह्मोपादानत्वं बोधयति ।

तथा

स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्यः येनाश्रुतं श्रुतं भवति अमतं मतम् अविज्ञातं विज्ञातम्

इत्य् एकेन ब्रह्मणा विज्ञातेन सर्वम् अपि विज्ञातं भवतीति छान्दोग्ये प्रतिज्ञा-वाक्यम् ।

यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्, यथा सोम्यैकेन लोह-मणिना सर्वं लोहमयं विज्ञातं स्यात्, यथा एकेन नख-निकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्

इति दृष्टान्त-वाक्यं च सत्-तर्कानुगृहीतं सत् ब्रह्मोपादानत्वम् एव दृढयति ॥

आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्

इति बृहद्-आरण्यक-श्रुतिर् अपि तथैव ब्रह्मोपादानत्व-बोधेनैकार्था ।

कस्मिन् नु भगवो विज्ञाते सर्वम् इदं विज्ञातं भवति

इति ।

यथोर्णनाभिः सृजते गृह्णते च

यथा पृथिव्याम् ओषधयस् सम्भवन्ति

यथा सतः पुरुषात् केश-लोमानि भवन्ति

‘तथा ऽक्षरात् सम्भवतीह विश्वम्

इति दृष्टान्तोपन्यासश् च मुण्डक-श्रुति-गतः साक्षाद् एव ब्रह्मोपादानत्वं विशदयति ॥

[[P186]]

तथा “तद् ऐक्षत” इत्य् अनेन

ईक्षितुर् एव बहु-भवनाभिधानात् यत् प्रयन्ति

“आकाशं प्रत्यस्तं यन्ति” इत्य्-आदिना उत्पत्ति-कारणस्यैव लयाधारत्वोक्तेः “सच् च त्यच् चाभवत्” इति ब्रह्मण एव विकारात्मना परिणाम-श्रवणात् “तदात्मानँ स्वयम् अकुरुत” इति कर्तुः सतः कर्मत्वस्यापि वर्णनात् “भूत-योनिम्” इति ब्रह्मणि उपादानत्व-वाचक-योनि-शब्द-श्रवणात् अन्यत्र कतिपय-कार्य-कर्तुः कार्यन्तराकर्तृत्वे अपि ब्रह्मणः सर्व-कर्तृत्वाभ्युपगमवत् अन्यत्र निमित्तस्य अनुपादानत्वे ऽपि “परा अस्य शक्तिः” इति प्रतिपन्न-कर्तृ-शक्तिकस्य निमित्तस्यैव ब्रह्मणः सद् एव “ब्रह्म-वनम्” इत्य्-आदि-प्रमाण-प्रतिपन्नोपादानकत्वस्य प्रमाणान्तराबाधितस्य नितराम् अभ्युपगन्तुम् उचितत्वाच् च । सर्वम् एतद् अभिप्रेत्य भगवता बादरायणेन “प्रकृतिश् च” इत्य्-आदिभिः सप्तभिः सूत्रैः उपादान-वाचि-प्रकृति-पदेनैव ब्रह्मोपादानत्व-निर्धारणाच् च अवैदिक एव ब्रह्मणो निमित्त-मात्रत्व-वादः ॥

यच् चात्र आनन्द-तीर्थीयं प्रकृत्य्-अधिकरणान्तं समन्वयाधिकरण-शेषम् अधिकरण-जातं तच् च विचित्र-व्याघातोपहतत्वाद् असम्बद्धम् इति सिद्धम् । किं विचार्य वाक्य-गत-पद-मात्रस्य ब्रह्मणि प्रत्येकम् अवयवार्थ-समन्वयो ऽध्यायार्थः उत यत्-पदार्थ-प्रधानकं वाक्यं सो ऽर्थः परमात्मनि न चेत् यदि तात्पर्य-लिङ्ग-षट्कं विरुद्धं स्यात् तदा सो ऽर्थः परमात्मैव नान्य इति तत्-तद्-वाक्यस्य ब्रह्मणि समन्वयः? आद्ये सूत्र-मात्रस्य न्याय-निबन्धन-रूपत्वाभावात् यावत्-सूत्र-गति-विरोधः तत्-तद्-विषय-वाक्य-मात्रस्य स्व-रूपानतिरिक्त-धर्मक एक-मात्रार्थक-पर्याय-पद-समुदाय-रूपतया अनन्वितार्थकत्व-प्रसङ्गश् च । न चायम् आद्यः कल्पो ऽनभिमत इति वाच्यम् । तर्हि उद्गीथादि-शब्दानां साम्नो द्वितीय-भागादिषु प्रसिद्धानाम् अपि अध्यायान्तरे उच्चत्वाद् गीतत्वाच् च उद्गीथः परमात्मेत्य्-आद्य्-अर्थ-कल्पनस्य निरर्थकत्व-प्रसङ्गः ॥

[[P187]]

द्वितीये आकाश-प्राण-ज्योतिर्-आदि-शब्दानां प्रसिद्धार्थत्वे तात्पर्य-लिङ्ग-विरोधवत् त्वदीय-प्रकृत्य्-अधिकरण-विषय–वाक्य-स्थ–प्रकृति-शब्दस्य परमात्म-वाचित्वाभावे तद्-विरोधाभावात् त्वयैव “अभिध्योपदेश” सूत्र-भाष्ये

मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम्

इति प्रकृति-शब्दस्य महेश्वरातिरिक्त-परत्व एव श्रुत्य्-उपन्यसनाच् च । प्रकृति-शब्द-वाच्यो ऽपि स एवेति निर्धारणस्य अत्यन्तासमञ्जसत्वम् ॥

यच् च

सो ऽभिध्या यः प्रज्ञा, स आनन्द

इति श्रुतेः अभिध्या च स्व-रूपम् एवेति निर्धारण-मुखेन परमात्मनः प्रकृति-शब्द-वाच्यत्वाभिधानं — तत् “मायिनं तु महेश्वरम्” इति श्रुत्यैव प्रतिहतम् । “सो ऽभिध्या” इति श्रुतेः त्वद्-अकल्पितत्वे उपासकाभिध्यादेः ब्रह्मणश् शरीरत्वेन सामानाधिकरण्येन प्रमाणता । त्वत्-कल्पितत्वे तु उक्त-श्रुत्या प्राग् एव गुण-गुणिनोर् भेदोपपादनाच् च बाधितैव ॥

किं च सूत्र-कारैः प्रकृतित्वम् एव निर्धार्यते । त्वद्-उदाहृत-प्रतिज्ञा-दृष्टान्त-विषया श्रुतिस् तु सर्व-नाम-विषयतया प्रवृत्ता । न हि प्रकृति-पद-मात्र-वाचित्वे निर्धारणीये निरूपकः सामान्यां श्रुतिम् उदाहरति । “न हि घटो ऽस्ति न वा”? इति उक्ते द्रव्यम् अस्तीति प्रत्युक्तिस् सङ्गता भवति । अतस् तत्-सूत्र-व्याख्यानम् अप्य् असमञ्जसम् । यदि इहैव सर्व-पद-वाच्यत्व-मुखेन प्रकृति-पद-वाच्यत्वं निर्धार्यते तर्हि पूर्वोत्तराधिकरण-गण-वैयर्थ्यम् । यद्य् अत्र स्त्री-शब्दा अपि तस्मिन्न् एवेति निर्धार्यते तर्हि चकारो व्यर्थः । स्त्री-शब्दानां पुन्-नपुंसक-शब्द-प्रतिद्वन्द्वितया पुन्-नपुंसक-शब्द-पर-प्राक्तनानन्तर-सूत्र-…. विरहात् । सर्व-व्याख्यानाधिकरण-वैयर्थ्यं च । शून्य-तुच्छाभावादि-शब्दानाम् अपि तत्-प्रतिज्ञा-दृष्टान्त-वाक्य-सङ्गृहीततया अत्रत्य च शब्दस्य तव तत्-सङ्ग्राहकत्वावश्यंभावात् ॥

[[P188]]

अत एव “साक्षाच् चोभयाम्नानात्” इति सूत्र-व्याख्यानम् अप्य् असमञ्जसम् । च शब्देन पुरुष-ग्रहणे आकाशाद्य्-अधिकरण-वैयर्थ्यात् । अनेकाम्नान-रूप-श्रुत्य्-उदाहरणस्याप्रयोजकत्वाच् च ॥

किं च “पुरुष एव प्रकृतिः” इति पैङ्गि-श्रुतौ पुरुषादि-शब्द-सामानाधिकरण्यस्य शरीरात्म-भाव-निबन्धनतया तस्याः प्रकृति-शब्द-वाच्यत्व-प्रतिज्ञा-ऽननुगुणत्वं च । प्रकृत्य्-आदि-शरीरकत्वेन स्वाधीन-प्रकृत्य्-आदिकत्वेन वा प्रकृत्य्-आदि-शब्द-वाच्यत्वं न प्रत्येकं न्यायतः शिक्षणीयम् । तात्पर्य-लिङ्गोपोद्बलित-शास्त्र-योनित्व-निर्धारणाद् एव सर्व-शब्द-वाच्यत्व-सिद्धेः । “पतिं विश्वस्य” “सर्वस्य वशी सर्वस्येशानः” “यस्याव्यक्तं शरीरम्” इत्य्-आदिनैव तादधीन्यादि-बोधन-मुखेन सर्व-नाम्नां गतिः “विष्णुर् एव प्रकीर्तितः” । “वेदाक्षराणि यावन्ति” इत्य्-आदिभिर् एव न्याय-निरपेक्षतया सर्व-शब्द-वाच्यत्व-सिद्धेश् च ॥

किं च यस्य शब्दस्य प्रसिद्ध-श्रुति-गतस्य अन्य-परत्वे तात्पर्य-लिङ्ग-विरोधः । तत्-परिहाराय स शब्दः परमात्मा ऽर्थकः इत्य् एव न्याय-निबन्धनात्मक-सूत्रस्य फलं न तु तस्य तत्-तच्-छब्द-बोध्यत्व-प्रकारो ऽपि तस्य निरुक्ति-निघण्ट्व्-आदिनैव सिद्धत्वात् । न ह्य् अनन्तानां शब्दानां प्रत्येकं तत्-तत्-पद-वाच्यत्वम् अपि निरूप्यं विवादाभावात् । अन्यथा गर्दभ-चण्डाल-सूकरादि-शब्द-वाच्यत्वम् अपि सूलतः प्रत्येकं निबद्धव्यं स्यात् ॥

यच् च

प्रकर्षेण करोतीति प्रकृतिर् इति योगाच् च प्रकृताव् अनुप्रविश्य तां परिणमय्य तत्-परिणामेषु स्थित्वा आत्मनो बहुधा धारणात्

इति “आत्म-कृतेः परिणामात्” इति सूत्र-भाष्यम् — तत् तु व्यभिचरिताप्रयोजक-हेतु-निबन्धन-रूपं त्वद्-विपरीत-फलम् । कुलाल-कुविन्दादिष्व् अपि त्वद्-उक्त-योगार्थ-सत्त्वात् ।

अद्य हैष आत्मा प्रकृतिम् अनुप्रविश्य आत्मानं बहुधा चकार —

[[P189]]

तस्मात् प्रकृतिः तस्मात् प्रकृत्य्-आचक्षते —

अविकारो ऽपि परमः प्रकृतिं तु विकारिणीम् ।

अनुप्रविश्य गोविन्दः प्रकृतिश् चाभिधीयते

इति त्वद्-उक्त-बालेय-श्रुति-नारदीय-वचनाभ्यां बोधितो ऽनुप्रवेशः । न प्राक्तन-सर्वव्याप्ति-रूपः। तस्यानेन काल-परिच्छिन्नत्वावगमात् । किं त्व् आत्मनो बहुधाकरणानुगुणो अपूर्वः स्यात् । सो ऽपि यदि जीवेनात्मना साक्षाद् वा । द्वितीये काल-परिच्छिन्नत्वोक्त्य्-अयोगः तस्यात्मनो बहुधा-करणाननुगुणत्वं च । कारण-दशा-साधारणत्वात् । कार्यनुगुण-सम्बन्ध-विशेषस्यैव अनुप्रवेशत्वे कुलालादेर् अपि स एव मृत्-पिण्डाद्य्-अनुप्रवेश इति भाल्लवेय-श्रुतिर् एव तेषाम् अपि मृत्-पिण्डादि-पद-वाच्यत्वं व्यवस्थापयेत् । स्वाधीन-वस्तु-बहुधा-करणस्यैव स्व-बहुधा-करण-रूपतया तस्याप्य् अंशस्य कुलालादि-साधारणत्वात् । अश्वेन ग्रामम् अनुप्रविष्टवच् चेत् नात्मनो बहुधा-करण-सम्भवः । तादृशानुप्रवेशस्यात्मनो बहुधा-करणाप्रयोजकत्वात् । जीवानाम् अनेकत्वे ऽपि “एको देवः” इत्य्-आदिना एकत्वेनैव निर्णीतात्म-स्व-रूपस्य बहुधा-करणम् अत्यन्तासम्बद्धम् । यदि नियन्तृ-रूपेण बहुधा-करणं त्वद्-विवक्षितं, तर्हि प्रकृत्य्-अनुप्रवेशः तत्-परिणामेषु स्थितिश् चानर्थकः । नियन्तृ-रूपाणाम् अप्राकृतत्वात् । त्वन्-मते दिव्य-रूपात्मनोर् अभेदाभ्युपगमाच् च । प्राकृतत्वे “न भूत-सङ्घ-संस्थानः” “न तस्य प्राकृता मूर्तिः” इत्य्-आदि-वचन-बाधः । यदि पित्रादि-रूपम् एव प्रत्यक्ष-परिदृष्टं तस्य नियन्तृत्व-रूपम् इत्य् अभिमन्यसे तर्हि “आत्मानं बहुधा चकार” इति चिद्-अचितोश् शरीरतां परमात्मस् तदात्म-भावं च पुरस्कृत्य तस्य कार्य-रूपेण बहुधा-भावम् एव “तदात्मानँ स्वयम् अकुरुत”

तद् अनुप्रविश्य सच् च त्यच् चाभवत्

इत्य्-आदि-श्रुति-बोधितं नाम-रूप-व्याकरणायत्त-मुक्त-विधासामञ्जस्य-परिहाराय बोधयेत् तर्हि ब्रह्मणः कार्य-रूपेण बहुत्वोपयुक्तम् एव कार्य-वाक्य-श्रुतम् एकत्वम् इति तद्-एकार्था बलेय-श्रुतिर् अपि । त्वदीय-तद्-विवरण-भाष्येण सह भाव्य्-अवस्था-विशेषवतः प्राग्-अवस्थावत्व-रूपम् उपादानत्वम् एव ब्रह्मणि प्रपञ्चापेक्षया बोधयेत् । अतस् त्वद्-उदाहृत-श्रुति-तद्-विषय-सूत्र-तद्-भाष्य-वाक्यैर् अपि बाधिता । ब्रह्मोपादानत्वासहन-कृतया त्वदीय-रीतिः ॥

[[P190]]

अत एव पुरुषः एव प्रकृतिर् एष आत्मा एव ब्रह्म-लोकः एष आलोकः यो ऽसौ हरिः विश्व-रूपः

इति पैङ्गि-श्रुतिर् अपि अन्न-रसमय-पुरुषादि-शरीरकतया तत्-पद-वाच्यतां न्याय-नैरपेक्ष्येणैव बोधयतीति तद्-अन्तर्गत-प्रकृति-पद-मात्र-वाच्यत्वं सूत्र-निबद्ध-न्यायेन नेह निरूपणीयम् अवशिष्यते । यद्य् अस्मिन्न् अध्याये तत्-तत्-पद-वाच्यत्वम् एव सूत्र-काराभिमतं स्यात् तत्-तत्-पद-प्रवृत्ति-निमित्तम् एव तत्-तद्-अधिकरण-सूत्रेषु निबद्धव्यं स्यात् ॥

“योनिश् च हि गीयते” इति सूत्रं नितरां व्यर्थम् । त्वन्-मते योनि-शब्दस्य कारण-मात्रार्थकतया कारणत्वस्य जन्मादि-सूत्रत एव निर्णयात् । स्त्रीत्वम् अत्र निर्णीयते इति च न भव्यम् ।

ब्रह्म ब्रह्म-दासा ब्रह्मेमा कितवा उत

“स्त्रियो ब्रह्म उत वा पुमान्” “सर्वं खल्व् इदं ब्रह्म” इत्य्-आदिनैव स्वाधीन-सर्वकत्वेन सर्वत्वस्यान्यत्र सिद्धौ तत्रैव स्त्रीत्वस्यापि सिद्धेः । असिद्धौ अत्रापि “न स्त्री न पुमान्” इति श्रुति-बलेन तद्-असिद्धेर् एव । योनि-शब्दस्य स्त्री-शब्द-पर्यायत्वाभावेन च अत्र विशिष्य न तत्-सिद्धिः ॥

यच् च

सूतिम् अव्यवधानेन स्त्रीत्वम् आहुर् मनीषिणः

इति ब्रह्माण्ड-वचनयोक्तं तद्-अप्य् अण्डान्तर्गत-कार्येषु तस्य तद्-अभावात् प्रत्यक्षेण शब्देन च व्यवधानोपलम्भात् बाधितम् । अण्ड-कारणत्वेन चेत् तत्त्वं अग्नित्वेन अनुष्णत्व-वादवत् अपहसितम् । अण्डान्तर्गतापेक्षया तस्य बाधात् । भाष्ये द्वार-पदं च व्यर्थम् । उत्पत्ति-हेतुत्वम् इत्य् एव तद्-उक्ति-सम्भवात् । घटादिकं प्रति कुलालादेर् अप्य् अवधानेन उत्पत्ति-हेतुतया स्त्रीत्व-प्रसङ्गश् च । “यदि पञ्चम्याम् आहुतौ” इत्य् उक्त-पुरुषादि-वचस्त्वानुगुणावस्थत्वम् एव उत्पत्तिः । तस्य तथोत्पत्ति-द्वार-भूत-पृथिव्यादिषु स्त्रीत्वाभावेन तद्-वाचि-शब्द-वाच्यत्व-प्रसङ्गः । अत इत्थं सर्व-विधासामञ्जस्योपहतत्वात् आनन्द-तीर्थीयं प्रकृत्य्-अधिकरणं न सूत्र-काराभिमतम् ॥

[[P191]]

तथा सर्व-व्याख्यानाधिकरणम् अपि न हि शून्य-तुच्छ-भ्रष्ट-पति-चण्डालामङ्गल-पातः हेयादि-पद-वाच्यत्व-व्यवस्थापनेन ब्रह्मणि कश्चिद् अतिशयो लभ्यते । येनायम् आनन्द-तीर्थः ब्रह्मणि अतिशयाधायकस् स्यात् । न च यत्र क्वचिच् छक्यत्वादिकं तद्-अधीनम् इत्य् एव शून्यादि-शब्द-वाच्यत्वम् अपीति भगवति कल्याणैक-ताने तद्-व्यवस्थापनार्थम् इदं सूत्रं प्रवृत्तम् । अतः स्व-कल्पितासम्बद्ध-मतानुगुणतयैव तद्-अनुगुणाति-हेय-श्रुति-कल्पन-मुखेन सर्वम् इदं सूत्र-जातं स्वानर्थावहतयैवान्यथेत्थं योजितम् इति अलम् अलक्ष्य-लक्षक-निरसन-प्रपञ्चेन । एवं चिद्-अचिद्-विशिष्टं ब्रह्म जगद्-उपादानम् इत्य् अस्य न किञ्चिद् बाधकम् इति ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये जगद्-ब्रह्मणोः उपादेयोपादान-भावासहन-वाद-भङ्गो विंशः ॥