अथ एकोनविंशो वादः
अथ यद् उक्तम् उपादेयम् उपादानातिरिक्त-प्रत्यक्षस्यैव तत्र प्रमाणत्वात् । अस्ति तावत् स्थूलं नीलम् एकं साक्षात् करोमीति प्रतीतिः । न चैवं भूत-सूक्ष्मेषु अन्-उद्भूत-रूपेषु अनेकेष्व् अतीन्द्रियेषु च भवितुम् अर्हति । न वा निरूपायां प्रकृतौ घटस्य कपालाद्य्-उपादानकत्वे ऽपि तेषाम् अप्य् अन्ततः प्रकृति-कारणकत्वात् उक्त-दोषानिस्तारात् घट-गतैकत्वोपपादकस्य कस्याप्य् अभावाच् च ॥
किं च त्वन्-मते प्रकृतेर् एकत्वेन महद्-अहङ्कारेन्द्रिय-तन्-मात्र-भूतादीनां प्रकृति-कार्य-भूतानाम् अनेकेषां प्रकृतेः परस्परं च भिन्नत्वं दुर्वारम् अनेकस्यैकाभिन्नत्व-योगात् ॥
[[P151]]
किं च वियद्-अनिल-तेजो-ऽब्-अन्नादिषु भूतेषु घटादि-भौतिकेषु च परस्पर-संयोगादीनाम् अवच्छेदक-भेदादीनां च दृष्टत्वेन निरंशैक-प्रकृतौ तद्-अयोगात् तद् अन्यद् एव वियद्-आदि-कार्यम् । प्रकृतेः सांशत्वे परमाणु-कारण-वाद एव वरिष्ठः । “अजाम् एकाम्” इति तद्-एकत्व-प्रतिपादक-श्रुति-विरोधश् च । महद्-अहङ्कार-तन्-मात्राणां प्रकृत्य्-अंशत्वाङ्गीकारे ऽपि तेषां त्वन्-मते नीरूपत्वेन अ-प्रत्यक्षत्वेन च तद्-विरुद्धाकार-भूत-भौतिकानां न तद्-अ-भेद-सम्भवः । एवं विरुद्ध-धर्मयोर् अप्य् अ-भेदे जीव-ब्रह्मणोः जडाजडयोः तमः-प्रकाशयोर् अप्य् अ-भेद-प्रसङ्गः । यदि तत्र धर्मि-प्रयुक्तो ऽप्य् अस्ति विरोध इति नाभेदः । तदा प्रकृति-तत्-कार्ययोर् अपि तथैव धर्मि-प्रयुक्तो विरोध आवश्यक इति तथैव अनयोर् अपि द्रव्यान्तरत्वम् एव। नीरूपत्वादि च प्रकृतेः —
शब्द-स्पर्श-विहीनं तत् रूपादिभिर् अ-संयुतम् ।
प्रधानं तत् जगद्-योनिः अनादि-प्रभवाप्ययम् ॥
इत्य्-आदि-स्मृति-प्रतिपन्नम् । “अजाम् एकाम्” इत्य्-आदि-श्रुतेश् च । तेजो-ऽब्-अन्नादि-रूपेण परिणता लोहित-शुक्ल-कृष्णाकारा ऽवतिष्ठत इति त्वयैव अर्थान्तराभ्युपगमेन न तथा-विध-रूपत्त्वादि-सिद्धिः । किं च अवयवातिरिक्तावयव्य्-अनङ्गीकारे “घटो ऽयम् इति” प्रत्यख-धियां निरालम्बनता स्यात् । तावताम् अवयवानाम् इन्द्रिय-सन्निकर्षाभावात् । सन्निकृष्टावयव-मात्रस्य घटादित्वाभावात् ॥
न चावयवान्तराणाम् उपनयेन तथा धीर् इति सुवचनं सर्वत्रोपनायक-सामग्री-विरहात् । अतिरिक्तावयव्य्-अभ्युपगमे तु तेन सालम्बनता-प्रत्यक्ष-प्रमितिषु सु-वचनात् ॥
ननु अतिरिक्तावयव्य्-अभ्युपगमे अवयव-गत-गुरुत्वाद्य्-अतिरेकेण अवयविन्य् अपि गुरुत्वाद्य्-अन्तरं स्यात् । अन्य-निष्ठ-गुरुत्वादेः अन्य-निष्ठ-पतनाद्य्-अ-हेतुत्वात् । यद्य् अवयवानाम् एव गुरुत्वात् अवयविनः पतनं तर्हि अवयव-पतनम् अपि स्वावयव एव गुरुत्वात् । तद्-गुरुत्वम् अपि तथेति परमाणु-मात्र-गुरुत्व-परिशेष-प्रसङ्गः । तस्मात् पतनासमवायि-कारण-गुरुत्वान्तरवत् प्रत्यक्षाद्य्-उपयुक्त-रूप-रस-गन्धाद्य्-अन्तरम् अपि स्यात् । अतो बाधकान् नातिरिक्तम् उपादानाद् उपादेयम् इति चेत्, मैवं; तन्तवः पट इति पर्याय-शब्द-भेदैः वृत्त-चतुरश्रत्वाद्य्-आकार-भेदैः तत्-तद्-अर्थ-क्रिया-भेदैः पूर्वोत्तर-काल-भेदैः कारण-भेदैश् च कार्य-कारणयोर् भेद-सिद्धौ गुरुत्वान्तराभावस्य कार्य-गुरुत्वेन कारण-गत-गुरुत्व-नाशः प्रतिबन्धो वा इति कथञ्चिद् अपि कल्पनीयत्वात् ॥
[[P152]]
अत एव पत्र-ताटङ्कयोर् अपि भेदः परिमाण-भेदे द्रव्य-भेदावश्यं भावात् । अन्यथा यो ऽहं बाल्ये पितराव् अन्वभूवं स एवेदानीं स्थविरे प्रणप्तॄन् अननुभवामि इति प्रत्यभिज्ञायाः युव-स्थविर-भेद-विषयत्वेन तया देहातिरिक्तात्म-सिद्ध्य्-अभाव-प्रसङ्गात् ॥
न चैवं द्वयोर् भेदे कठिनयोर् द्रव्ययोः समान-देशता-विरोधात् सप्रतिघत्वम् । अ-पृथक्-सिद्धयोः कठिन-द्रव्यत्वे ऽपि समानदेशता-ऽभ्युपगमे विरोधाभावेन तद्-अ-प्रसक्तेः ॥
न च इयं मृत् अयं घट इत्य्-आदि-विधया कार्य-कारणयोः घट-मृद्-द्रव्ययोः भेद-बुद्ध्य्-अभावात् । सम्बन्धान्तराभावाच् च अ-भेद इति युक्तम् । मृदा घट उत्पन्नः, तन्तुभिः पट उत्पन्नः इति तत्रापि भेद-सत्त्वात् । संयोगाद्य्-अभावे ऽपि अन्य एव कश्चित् सम्बन्धो ऽस्तु । अन्यथा रूपादेः घटस्य च सम्बन्धाभावात् एकत्वम् एव स्यात् । तथा च घटादि-द्रव्यातिरिक्तं रूपादिकं च न सिद्ध्येत् ॥
एवम् अवयव-भिन्नम् अवयवि-द्रव्यं गोत्वादिवत् एकं प्रत्यवयवं वृत्तिमच् च । कारक-व्यापारो ऽपि त्वन्-मते यथा ऽस्वस्था ऽऽश्रय-विषयः । तथा मन्-मते तत्-समवायि-कारण-विषय इति नातिप्रसङ्गः। कार्य-कारणयोः घट-मृद्-द्रव्ययोः तद् एवेदम् इति धीः जात्य्-एक-विषया । द्रव्यस्य प्रतिक्षणं किञ्चिद् विशेषम् आदाय उपादानोपादेय-भावायत्त-भेदे ऽपि न पराभिमत-क्षणिकत्वापत्तिः । शब्द-बुद्धि-कर्म-दीपादिषु तृतीय-क्षण-वृत्ति-ध्वंस-प्रतियोगित्व-लक्षण-क्षणिकत्वाभ्युपगमेन अन्यत्रापि तद्-अभ्युपगमे विरोधाभावात् । तस्माद् उपादानाद् उपादेयं सर्वत्र द्रव्यान्तरम् एवेति — तत् अ-वैदिकत्व-मात्र-फलक-बुद्धि-कौटिल्य-विलसितम् । श्रुति-स्मृत्य्-आदिषु उपादानातिरिक्तस्यैव तद्-उपादेयेषु निरङ्कुशं श्रूयमाणत्वात् ।
[[P153]]
तमो वा इदम् एकम् आस तत् परेणेरितं विषमत्वं प्रयाति, सत्त्वं खल्व् ईरितं विषमत्वं प्रयाति, सा वैश्वदेव्य्-आमिक्षा यथा सोम्येकेन मृत्-पिण्डेन, एकेन लोह-मणिना एकेन नख-निकृन्तनेन"
आसीद् इदं तमो-भूतम् अ-प्रज्ञातम् अ-लक्षणम्
“भिन्ना प्रकृतिर् अष्टधा” “सद् एव सोम्येदम् अग्र आसीत्” इत्य्-आदिना । मध्यस्थैर् अपि
रुचका उपमृद्य स्वस्तिकाः क्रियन्ते, स्वस्तिका उपमृद्य रुचकाः क्रियन्ते,
त एव पुनः खादिराङ्गार-सवर्णे कुण्डले भवतः । आकृतिर् अन्या चान्या च द्रव्यं पुनस् तद् एति
स्फुटम् एव भाषितम् ।
इदं घट-शरावादिकं पूर्वाह्णे मृत्तिकैवासीत्
इति एवं सर्वैर् उपलभ्यते । व्यवह्रियते च तद् एवेदम् इति । उपादाने उपादेय-प्रत्यभिज्ञा च सर्व-सम्मता । एवम् अ-बाधितानन्यथासिद्धानेक-श्रुति-स्मृति-प्रत्यभिज्ञा-समधिगतो ऽयम् उपादेयस्य उपादानाभेदः केनापनोद्यः, परस्पर-विरुद्ध-स्वभावयोः अ-भेदानुपपत्ति-बलाद् इति चेत् । किम् इत्य् एवं काणादोपदेशं श्रुतवान् असि? न हि तावन् मात्रेण तेन भिक्षितेन स्व-मतम् इह सिद्ध्यति प्रमाणं विना? स्थूलं नीलम् इति प्रमाणम् उपन्यस्तम् इति चेत्, किं तेन? तथा विध-घट-तत्-साक्षात्कारयोर् एव तेन सिद्धेः । श्रुत्य्-आदेर् अस्मिन् अर्थे त्वया ऽपि नित्य-मृग्यत्वात् । उपादेयस्य उपादानात् भेदं विना अनुपपन्नार्थाभावाच् च । विलक्षण-बुद्धि-बोध्यत्वं विलक्षण-शब्द-व्यवहार्यत्वं कार्य-भेदः काल-भेदः आकार-भेदः सत्याम् एव मृदि घटो नष्ट इति व्यवहारः । सङ्ख्या-भेदः नित्यानित्य-विभागः कारक-व्यापार-वैय्यर्थ्यम् इत्य्-आदीनि उपादेयस्य उपादानात् भेदं विना अनुपपन्नान् इति चेत् — दुरुक्तं तु तत् । तद्-अनन्यत्वाधिकरणे मद्-भाष्य-कृद्भिः बुद्धि-शब्दान्तरादीनाम् उपादेय-गतानाम् उपादानस्यैव संस्थानान्तर-भाक्त्व-मात्रेण उपपत्तेर् भाषितत्वात् । एकस्यैवाश्रयस्य काल-भेदेनाकार-भेदो ऽप्य् उपपन्नः । तेनैव सङ्ख्या-भेदो ऽपि ।
[[P154]]
अन्यथा बालो युवा स्थविर इत्य्-आदि-बुद्धि-शब्दान्तर-कार्य-विशेषादिभिः एकस्मिन् एव देव-दत्ते तद्-भेदेन भेद-प्रसङ्गः । प्रत्यभिज्ञायाः तदैक्ये प्रामाण्यं च न स्यात् । पक्षि-मक्षिका-वृक्ष-यक्ष-रक्षः-प्रभृतिषु सुर-नर-तिर्यक्-तृण-गुल्म-लतादिषु च आकुञ्चन-प्रसरणादिभिः सह क्रम-सन्तत-वृद्ध्य्-उपक्षयादिमत्सु प्रपञ्चान्तर्गत-यावज्-जन्य-पदार्थेषु उत्तर-क्षणावस्थं प्रति पूर्व-क्षणावस्थत्वेन उपादानतया कारण-भूतेषु क्षण-भेदेन भेदाभ्युपगमे तेष्व् एकत्व-ग्राहि-प्रत्यभिज्ञा-विरोधः । प्रत्यवयवम् उपचयं विना अवयव्य्-उपचयायोगात् । तेष्व् अपि दीपादि-न्यायेन सन्तान-वादाभ्युपगम-प्रसङ्गः । अ-हेतुकतयैव सर्वात्राधिकारि-भेद-प्राग्-अभाव-प्रध्वंसानाम् अप्य् अभ्युपगम-प्रसङ्गः ॥
क्षणिकता-वादिभिः मुद्गराभिघाताद्य्-अनन्तर-भावितया उपलब्धि-योग्यः सदृश-सन्तानावसान-रूप-स्थूलो निरन्वय-विनाशः तस्मिन्न् एव सदृश-सन्ताने प्रतिक्षण-भाव्य्-उपलब्ध्य्-अन्-अर्हः सूक्ष्मो निरन्वय-विनाश इत्य् अङ्गीकृतः । स उभय-विधो ऽपि तव दीपादि-स्थल इव सर्वत्राङ्गीकार्यः । त्वद्-उक्तेर् अ-सत्-कार्य-वाद-पर्यवसितत्वात् । स तु न युक्तः। सतो निरन्वय-विनाशसम्भवात् ॥
एवम् अभ्युपगच्छतस् तव पराभिमत-क्षणिकत्वाभ्युपगमे किं बाधकम्? इन्द्रिय-संयोग-ज्ञान-व्यवहारादेः भिन्न-भिन्न-विषयत्व-प्रसङ्ग इति चेत् तुल्यम् । दीपवद् एव क्षण-क्षण-स्थितिकेषु उपादानोपादेय-सन्तानान्तर्गत-सन्तानिषु इन्द्रिय-सम्प्रयुक्तार्यो ऽन्यः उपादान-विषयश् च अन्य इति प्राप्तेः अयं दोषः त्वया ऽपि दीप-स्थले ऽभ्युपगन्तव्यः । तथा प्रकृते अस्तु ममेति चेत् — तत्राप्य् अस्म-उक्थार्थे भ्रान्तो ऽसि । संस्थान-भेदाद् एव तत्र ज्वालाभेदानुमानात् । न हि निर्वापितारोपित-स्थल इव तत्र ज्वालाभेदो ऽस्ति? किन्तु एकैव धर्म-भूता ज्वाला नष्ट-प्राक्तन-संस्थानान्तरा । तत एव तत्-तद्-विशिष्ट-वेषेण भिन्ना भवतीति तत्राप्य् अस्मत्-सिद्धान्तः । शब्दस्य तु गुणत्वेन अवस्था-योगित्वाभावात् उत्तरोत्तर-मन्दतया उपलम्भाच् च अन्यस्यैव ग्रहणम् ॥
[[P155]]
एवं च अस्मत्-सिद्धान्ते द्रव्यस्य न क्वचिद् अपि निरन्वय-विनाशः । इन्द्रिय-संयोगादेर् अन्यान्य-विषयत्व-दोषो वा । उत्पत्ति-विनाशाव् अपि द्रव्यस्यावस्था-विशेषा एव ॥
एतेन सत्याम् एव मृदि घटो नष्ट इति व्यवहारो ऽप्य् उपपन्नतरः द्रव्यस्य तत्-तद्-अवस्थत्वाय कारक-व्यापारो ऽप्य् अर्थवान् । कारणावस्थायां प्रकृतेर् एकत्वम् अ-विभक्त-नाम-रूपकत्व-कृतम् । कार्य-दशायाम् अनेकत्वं तु विभक्त-नाम-रूपत्व-कृतम् । अत एवोच्यते “भिन्ना प्रकृतिर् अष्टधा” इति ।
प्रकृतिर् या मया ऽऽख्याता व्यक्ताव्यक्त–स्व-रूपिणी
इत्य्-आदिना । एवं कार्य-दशायाम् अवस्थित-नाम-रूप-विभागाभावात् कारण-दशायां प्रकृतेर् एकत्वं कार्य-दशायां च नानात्वम् इति (कार्य-भेद) इत्थं काल-भेदान्तरोर् इह (?) विरोधः घटादेर् एक-संस्थानावस्थितत्वाद् एव द्वित्वादि-सङ्ख्य-द्रव्य एकत्वादि-सङ्ख्यायाः प्राथम्यादि-क्रमस्य अस्य च अन्वयवत् एक-संख्याने ऽपि सङ्ख्या-ऽन्वयान् नान्योन्याश्रय-प्रसङ्गः ॥
एतेन प्रकृति-परमात्म-काल-देशादि-गतैकत्वोपाधिकत्वं घटादि-गतैकत्वस्य आक्षिप्य यत् दूषणम् उक्तं तत् अ-ज्ञानैक-मूलकम् इति सिद्धम् ॥
यच् च “शब्द-स्पर्श-विहीनं तत्” इत्य्-आदिना नीरूपत्व-सूक्ष्मत्व-अपरिच्छिन्नत्वादिमत् प्रकृत्य्-उपादानकानां तद्-विरुद्ध–स्व-भावानां तद्-भिन्नत्वम् आवश्यकम् इत्य् उक्तम्, तत् हिरण्याद्य्-उपादानकेषु कुण्डलादिषु नीरूपत्वाद्य्-अभावेन तद्-अभेद-दार्ढ्य-करत्वात् अ-सम्बद्धम् । कथम् इत्थं विरुद्ध–स्व-भावयोः प्रकृति-तद्-विकारयोर् अभेद इति चेत् — कथं वा तयोर् उपादानोपादेय-भावः? “प्रधानं तज्-जगद्-योनि”
तमो वा इदम् एकम् आसीत् तत् परेणेरितं विषमत्वं प्रयाति
इत्य्-आदिना तत्-प्रतिपादनाद् इति चेत् — तथा “भिना प्रकृतिर् अष्टधा
प्रकृतिर् या मया ऽऽख्याता व्यक्ताव्यक्त–स्व-रूपिणी
इत्य्-आदिभिः कार्यावस्था-मात्रस्य प्रकृतित्व-तमस्त्व-सामानाधिकरण्य-बोधनात् । बालस्यैव युवत्वादिवत् काल-भेदेन अवस्था-भेदेन च नीरूपत्वादिमत् प्रकृतेर् एव रूपवत्त्वादिकम् इत्य् अभेदम् अपि तयोर् अभ्युउपगच्छ ॥
[[P156]]
अत एवोक्तं सूत्र-कृता
तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः
इति । तद्-विषया श्रुतिर् अपि च
वाचा-ऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्
इति । अस्यार्थः — आरभ्यते आलभ्यते स्पृश्यत इत्य् आरम्भणम् । “विभ्राजमानस् सरिरस्य” इत्य् अत्र सलिलस्येत्य् अर्थवत् । “वाचा” इति तृतीयान्तं पदम् । अजहल्-लक्षणेयम् । वाक्-पूर्वकेण व्यवहारेण हेतुनेत्य् अर्थः । हेतुत्वं च प्रयोजनतथा । केन स्पृश्यत इत्य् आकाङ्क्षायां पूर्व-वाक्य-प्रस्तुतेन मृद्-द्रव्येण इति तत्-पूरणम् । तथा च “घटेनोदकम् आहर” इत्य्-आदि-वाक्-पूर्वकोदाहरणादि-दिव्य-व्यवहार-सिद्धये तेनैव मृद्-द्रव्येण पृथु-बुध्नोदरत्वाद्य्-आकारत्वादि-लक्षणः विकारः संस्थान-विशेषः तत्-प्रयुक्तं च घट इत्य्-आदि-नामधेयं स्पृश्यते । उदकाहरणादि-व्यवहार-विशेष-सिद्ध्य्-अर्थं मृद्-द्रव्यम् एव संस्थानान्तर-नामधेयान्तर-भाग् भवति । अतो घटाद्य् अपि
मृत्तिकेत्य् एव सत्यम् । मृत्तिका-द्रव्यम् इत्य् एव प्रमाणेनोपलभ्यते, न तु द्रव्यान्तरत्वेन । तथैव हि प्रत्यभिज्ञा सैव मृद् अयं घटः इति । अतस् तस्यैव मृद्-धिरण्यादेः द्रव्यस्य संस्थानान्तर-भाक्त्व-मात्रेण बुद्धि-शब्दान्तरादयः न तु कारणात् कार्यान्य-द्रव्यतयेति ॥
इत्थम् एव “तद्-अनन्यत्व”-सूत्रार्थः । न त्वद्-उक्तः अ-सम्बद्धत्वात् । इत्थं त्वद्-भाष्यम् —
स्व-तन्त्र-बहु-साधना सृष्टिर् लोके दृष्टा । नैवं ब्रह्मणः, स्व-रूप–सामर्थ्याद् एव तस्य सृष्टिः । इदं हि तव तद्-विषयम् । किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमस्त्वित्-कथा ऽऽसीत् इति श्रुतौ अधिष्ठानाद्य्-अनुक्तेः; “अथ” शब्दात् युक्तिभिश् च
। युक्तयश् च
पर-तन्त्रो ऽपेक्षेत स्व-तन्त्रः किम् अपेक्षते ।
साधनानां साधनत्वं यतः किं तस्य साधनैः ॥
(“अद्भ्यस् सम्भूतो हिरण्य-गर्भ” इत्य्-आदिना) “भावे चोपलब्धेः” स्व-तन्त्र–साधन–सद्-भावे प्रमाणैर् उपलभ्यते ।
[[P157]]
अद्भ्यः सम्भूतः पृथिव्यै रसाच् च
“अद्भ्यः सम्भूतो हिरण्य-गर्भः” इत्य्-आदिना साधनान्तर-प्रतीतेः । कथम् उपलब्धेर् इत्य् उक्तिर् इत्य् अत आह — “सत्त्वाच् चापरस्य” — अपरस्य तद्-अधीनस्य साधनस्य सत्त्वात् ।
काल आसीत्, पुरुष आसीत्, पर आसीत्, तद् यद् आसीत् तदा व्रतम् आसीत्, अथ ह्य् एक एव परम् आसीत्, यस्यैतद् आसीत्
इति काषायण-श्रुतिर् इत्य्-आदिका हि त्वदीया रीतिः । न ह्य् एवं त्वद्-अन्ये वक्तारः सन्ति । स्वेतरानायत्तं कारणकं कार्यं स्वानन्यद् इति । तर्हि तत्-कुलालेतरानायत्त-कारण-जन्ये तद्-घटे तद्-अनन्यत्वापत्तेः । सो ऽपि तद्-अन्येश्वरायत्त-जन्म-जन्य इति चेत्, तर्हि स ईश्वरान्य-कुलालायत्त-जन्यो ऽपि इत्य् असम्भवात् । अपि ईहितं त्वन्-नियामकम् । यद् यद् अबाधितान्यत्व-धी-विषयम् अ-सम्भावित-प्रत्यभिज्ञं च तद् अन्यत् तद् अन्यत् स्यात् । तर्हि यद्-अकारण-विजातीय-कारणाद् एव जन्यत्वेन घटस्यापि घटानन्यत्वं किम् इति न स्यात् । द्रव्यत्वादिना घट-पट-कारणयोः साहित्यस्य सार्वजनीनत्वात् । एवं प्रयोजकेन केनचित् नियामकेन अनन्यत्वोक्तौ घटेतराप्रतियोगिकत्वेन घटाभावो ऽपि घटानन्यः स्यात् । तथा आलोकेतरानिवर्त्यत्वाद् अन्धकारस्यापि आलोकानन्यत्वं किं न स्यात्? यदि तद्-अन्यत्ववति तद्-अन्यत्वं न युक्तं तदा तुल्यं प्रकृते ऽपि ॥
एवं निमित्तत्वेन स्व-जनकेतरानपेक्षत्वात् निमित्तानन्यद् अपि कार्यम् इति सर्वतो-मुखातिप्रसक्ति-सम्पादन-मुखेन सर्व-परिहसन-पदं सर्वतस् तद्-अनन्यत्वम् इत्य् अंशस्य अर्थाभिधानम् ॥
त्वद्-उदाहृतारम्भण-शब्दादिभ्यः त्वद्-अभिमतानन्यत्वम् अपि दुरुपपादम् । “किं स्वित्” इति किं शब्दो ऽयं तव न प्रश्नार्थः । “किं स्विद् वनम्” इत्य्-आदिवत् इह अधिष्ठानानुक्तेः । नापि वितर्कार्थः । पक्षान्तरोपन्यसनाभावात् । नापि कुत्सितार्थः महद्-आदि-सर्वोपादान-भूतायां भोग-मोक्षार्थायां च प्रकृतौ कुत्सितत्वोपदेशस्य इह प्रयोजनाभावात् । नाप्य् आक्षेपार्थः ।
[[P158]]
मया ऽध्यक्षेण प्रकृतिः सूयते
तत्-परेणेरितं विषमत्वं प्रयाति
इत्य्-आदिना तद्-अपादानतायाः सिद्धतया नञ्-अर्थकेनानेन तन्-निषेधायोगात् । चतुर्धा ऽपि त्वद्-अभिमतानन्यत्वानुपपादकत्वाच् च । नन्व् अयं स्व-तन्त्राधिष्ठानादि-निषेधकस् सन् आक्षेपार्थक इति चेत्, न; “य आत्मनि तिष्ठन्” “स्वयं मृत्-पिण्ड-भूतस्य” इत्य्-आदिना “मया ऽध्यक्षेण” इत्य्-आदिना च अधिष्ठानादेर् अत्यन्त-पारतन्त्र्यस्यैव प्रतिपन्नतया कस्यापि स्वातन्त्र्याप्रसक्त्या इहाप्रसक्तस्य निषेधायोगात् । लोक-दृष्ट्या प्रसक्तस्य् इह निषेध इति चेन् न; घटादि-सृष्टेर् अपि ईश्वर-पर-तन्त्र-बहु-साधनापेक्षतयैव सर्व-दृष्टत्वात् । अतः पूर्व-पक्षस्यानुत्थानम् एव । पूर्व-पक्षिण एवाभावात् ॥
युक्तयश् चाभासाः — यथा पर-तन्त्रः पर-तन्त्र-साधनापेक्षः तथा स्व-तन्त्रः स्व-तन्त्र-साधनानपेक्षः इत्य् एव पर्यवसानात् । न हि स्व-तन्त्रम् इत्य् एव साधनं तज्-जन्यं वा स्वानन्यं भवति । तर्हि स्वान्यत्वेन प्रसिद्धानाम् अपि प्राग्-उक्त-विधया स्वानन्यत्वापत्तेः । स्व-तन्त्रस्याप्य् अस्य साधन-नैरपेक्ष्याभावात् किं तस्य साधनैः इत्य् अप्य् अ-सम्बद्धम्? दृष्टेषु स्व-तन्त्र–साधन-वादिनः पर-तन्त्र-साधनाभाव-वादिनश् च अदर्शनाद् एव त्वन्-मते “भावे च” “सत्त्वाच् च” इति सूत्र-द्वय-वैय्यर्थ्यं च ॥
किं च एक-विज्ञानेन सर्व-विज्ञानस्य प्रतिज्ञातस्य उपपादकम् इह तद्-अनन्यत्वं व्यवस्थाप्यम् । तच् च “यथा सोम्य” इत्य्-आदिना उक्त-मृत्-तत्-कार्य-दृष्टान्तेनैव निदर्शितम् इति तद्-विरोेधेन प्रतिज्ञानुपपादक-त्वद्-उक्त-तद्-अनन्यत्वस्य पराभिमतासत्-कार्य-वाद-स्वीकरणम् एव प्रयोजनम् इत्य् एवं व्यर्थतरानर्थकर-तद्-अनन्यत्व-सूत्र-कारानभिमतत्वात् ब्रह्मोपादानक-जगत-ब्रह्मानन्यद् इत्य् एव “तद्-अनन्यत्व” सूत्रस्य सूत्र-काराभिमतो ऽर्थः इति तद्-विरुद्धम् अप्य् उपादेयस्य उपादानानन्यत्वम् ॥
[[P159]]
यद् उक्तम् एवं विरुद्धयोर् अप्य् अभेदे जीव-ब्रह्मणोः जडाजडयोस् तमः-प्रकाशयोः अप्य् अभेद-प्रसङ्ग इति उपादेयस्यैव उपादानाभेदाभ्युपगमात् । येनाकाराणे उपादान-द्रव्यं द्रव्यान्तराद् व्यावृत्तं, तेनाकारेणाबाधित-विषयत्वम् एव हि उपादानस्य उपादेयानन्यत्वम् । तच् च तद् एव मृद् अयं घट, तद् एव सुवर्णम् इदं कुण्डलम् इत्य्-आद्य्-अबाधित-प्रत्यभिज्ञा-सिद्धम् एव । यथा दार्व्-अन्वित-वह्नौ दाहकत्वं तद्-रूपं च शक्त्य्-अवस्थं च सत् अनुद्भूतम् एव कारण-दशायां तन्-निर्मथनेन तस्यैव वह्नेः कार्य-दशायाम् उद्भूत-रूप-स्पर्शत्वं च सर्व-समधिगतं कार्याग्न्य्-उपादानका दीप-प्रभा च कारणाग्नाव् एव शक्त्य्-अवस्था सैव परंपरया कार्यावस्थ-दीपान्विता सती विषय-संयोग-तत्-प्रकाशकत्वादिमती चेत्य् अपि तद्वत् प्रकृतिः कारणावस्थायां शक्त्य्-अवस्थ-शब्द-स्पर्शादिमत्त्वेन शब्द-स्पर्श-विहीना ऽपि कार्यावस्थायां सैव तद्वतीति उपादानोपादेययोः भेदकत्वेन त्वद् आशङ्किताः सर्वे ऽपि एकस्यैवावस्थाभेदेन अन्यथासिद्धत्वात् न तद्-भेदकाः ॥
यद् उक्तम् अतिरिक्तावयव्य्-अनभ्युपगमे तावताम् अवयवानाम् इन्द्रिय-सन्निकर्षाभावात्, सन्निकृष्टावयव-मात्रस्य घटादित्वात् “घटो ऽयम्” इत्य्-आदि-धियां निरालम्बनता स्यात् । तद्-अभ्युपगमे तेन सालम्बनता सु-वचेति — तद् अत्यन्त-भ्रम-विलसितम् । मन्-मते इन्द्रिय-सन्निकृष्ट-संस्थान-विशेष-विशिष्ट-कपाल-द्वयस्यैव तद्-आलम्बनत्वात् । तयोर् अनन्यथा-सिद्ध-भेदकाभावोपपादनाच् च । त्वन्-मते तु तत्-तद्-अवयवावच्छेदेन तत्-तद्-अवयव-सन्निकृष्टत्वेन घटादि-प्रत्यक्ष-प्रतीत्य्-उपपत्तिर् इत्य् एव दुर्घटार्था । किं तत्-तद्-अवयविन इत्य् अनेन त्र्य्-अणुकादिक-घट-रूपावयवि-पर्यन्तावयव-परम्परा विवक्षिता । उत घट-रूपावयविना एव नानात्वं विवक्षितम्, उत एकस्यैव अवयविनः प्रदेश-भेदो विवक्षितः? आद्ये घट-रूपावयवि-भिन्नावयविनां तत्-तद्-अवयवावच्छेदेन सन्निकृष्टत्वे ऽपि न तद्-आलम्बनो घट-साक्षात्कारः । अन्यथा अ-संयुक्त-कपाल-तद्-अवयवादि-घट-प्रत्यक्षता-ऽऽपत्तिः ॥
[[P160]]
किं च अवयवि-प्रत्यक्षे अवयवेन्द्रिय-सन्निकर्षः कारणं न वा? न चेत् घटाभावे ऽपि घट-प्रत्यक्ष-प्रसङ्गः । कारणं चेत् यावतां तत्-सन्निकर्षः कारणं किञ्चिद् अवयवेन्द्रिय-सन्निकर्ष एव वा? आद्ये तेनैव घट-प्रत्यक्षासम्भवः । तावताम् अप्य् अवयवानाम् इन्द्रिय-सन्निकर्षात् । द्वितीये भू-तल-निगूढ-घटस्य तिल-सम्मितावयवेन्द्रिय-सन्निकर्षाद् अपि घट-प्रत्यक्षापातः । तृतीये एक-शब्दानुविद्ध-प्रत्यय-विरोधः नानात्वेन तत्-प्रत्यक्षापातश् च । तृतीये त्वया अवयवावयविनोः वास्तवाधाराधेय-भावानङ्गीकारात् तम् आदाय तथोक्ताव् अपसिद्धान्तः ।
अस्मत्-पक्षे गुणाद्याश् च तद्वन्तो हि विशेषतः
इत्य् अनुव्याख्यान-न्याय-सुधायां तयोः सम्बन्धस्यैव प्रत्याख्यातत्वात् ।
अयं पटः एतत्-तन्तु-सम्बन्धः एतद् आश्रितत्वात् एतद् आश्रित-तृणादिवत्
इत्य् अनुमान-न्याय-सुधायां स्व-रूपासिद्ध्या दूषितत्वाच् च ॥
अत एवोत्तरत्र
गोत्वादेर् इवावयविनः प्रत्यवयवं वृत्त्य्-अभ्युपगमात् गोत्वादि-देशत्वोपगमाच् च
इत्य् उक्तम् अपि निरस्तम् । एक-मात्र-व्यक्ति-ग्रहे ऽपि गोत्व-प्रत्यक्षवत् एक-सर्षप-परिमितावयव-मात्र-ग्रहे ऽपि घट-प्रत्यक्षापत्तिश् च । किं च गुण-गुणिनोर् अ-भेदं वदता त्वया अवयवावयविनोः भेदाभिधानम् अप्य् अ-सिद्धान्त-हतम् । तयोर् अपि भेद-व्यवहार-मात्रस्यैव विशेष-कृतत्वोक्तेः । अतस् तवापि संस्थान-विशेष-विशिष्टोपादानालम्बनैव घटो ऽयम् इत्य्-आदि-धीर् इति न तयोर् भेद-प्रसक्तिः ॥
किं च अतिरिक्तावयव्य्-अभ्युपगमे गुरुत्वाद्य्-अन्तरम् अपि स्याद् एव । अन्य-निष्ठ-गुरुत्वादेर् अन्य-निष्ठ-पतनाद्य्-अ-हेतुत्वात् अवयव-गुरुत्वाद् एव अवयविनः पतने तस्यापि तथेति परमाणु-मात्र-गुरुत्व-परिशेष-प्रसङ्गश् च । अवयविनि गुरुत्वान्तराभ्युपगमे योग्यानुपलब्धि-बाधः । तथा नियमेन रूप-रसाद्य्-अन्तरम् अपि स्यात् ॥
[[P161]]
यच् च
शब्द-भेदादिभिः अवयवावयविनोर् भेदे सिद्धे
यच् च
आरोपितावयविनि गुरुत्वाद् वैगुण्यानुपलम्भः कार्य-गुरुत्वेन कारण-गुरुत्वस्य नाशात् । प्रतिबन्धाद् वा
इति वचनं तच् च बाधितम् । कारणानुवृत्तौ तद्-धर्मान्तरवत् प्राग्-उपलब्ध-गुरुत्व-नाश-सम्भवात् । अन्यथा कुण्डलाद्य्-उपादाने वर्तुलानिर्धारणार्थ-स्व-क्रिया-व्याघातः।
प्रतिबन्धो हि द्वयोस् सतोः पतन-विशेष-रूप-तत्-कार्यस्यैव वाच्यः । स तु प्रतिघनिष्ठयोर् बाधितः । अत्यन्त-भिन्न-कालत्वात् पृथक् संस्थानत्वाच् च सिद्धम् । सप्रतिघत्वम् अवयवावयविनोः अ-पृथक्-सिद्धम् अपि निरुणद्धीति न तन्-निबन्धनतया ऽप्य् अवयव-गुरुत्वस्य प्रतिबन्ध-सम्भवः । उपादेयाद् उपादानस्यैव नाश इत्य् अपि च न भव्यम् । तद् एव सुवर्णम् इदम् इति अ-बाधित-प्रत्यभिज्ञानात् । प्रकृतौ च तस्य “गौर् अनाद्य्-अन्तवती” “अनादि-प्रभवाप्ययम्” इति श्रुति-स्मृति-बाधश् च ॥
अत एव पत्र-तटङ्कयोर् अपि न भेदः । क्षण-भेदवत् आकुञ्चनादि-भेदवत् अवस्था-परिणाम-भेदानां तद्वत् भेद-प्रयोजकत्वात् । अन्यथा क्षण-भेदाद् अपि द्रव्य-भेद-प्रसङ्गः । नित्यानित्य-विभाग-विलय-प्रसङ्गः । सजातीय-सन्तान-कृता सर्वत्र तद् एव इदम् इति धीः तत्-कृत एव व्यवहारश् चेति प्रसङ्गश् च ।
अन्यथेत्य् उदाहृतया ऽपि प्रत्यभिज्ञा देहातिरिक्तात्म-सिद्धिर् अपि काल-भेदेनानेकावस्थैक-देह-सम्बन्धि-मद्-आत्मेति एव । न तु तद्-भेद-विषयत्वेन । तस्माद् आत्मैक्यवत् देव-दत्तैक्यम् अपि हि विषयः । केश-नखादिष्व् इव देव-दत्तांशे जात्य्-ऐक्य-विषयत्वे आत्मांशे ऽपि तथैव स्यात् । वैरूप्ये नियामकाभावात् । तथा सर्वेष्व् अपि नित्येषु प्रतिक्षणं किञ्चिद्-विशेष-बलेन तत्-कृत-द्रव्य-भेद-प्रसङ्गश् च । गत्वर-स्व-भावाः पिपीलिकादयः प्रतिक्षणं तत्-तद्-द्रव्य-देश-विशेष-संयुक्ता एवेति पिपीलिकादेः तद्-देशस्य च संयोग-भेदात् तद्-अवच्छिन्न-भेदाच् च पराभिमतम् एव क्षणिकत्वं त्वद्-उक्त-रीत्या दुरपह्नवम् । मृदा घट उत्पन्नः इति प्रतीतिर् अपि मृद् एव अवस्था-विशेष-विशिष्ट-विषयिणी न मृद्-घटयोः भेद-बुद्धि-रूपा । अवस्था-विशेष-विशिष्टतैव द्रव्यस्योत्पत्तिर् इति सिद्धान्तात् ॥
[[P162]]
किं च यदि अवयवी अवयवातिरिक्तः स किं तेन भिन्न-देशः समान-देशो वा? सप्रतिघत्वाद् एव न समान-देशः । विभु-द्रव्यस्य तु उपादानत्वेन अवयव्य्-अनारम्भकत्वात् निरवयवत्वाच् च युक्ता समान-देशता सप्रतिघत्व-विरहात् । प्रकृते तु न तथेति न तत्-सम्भवः । भिन्न-देशत्वे तु अवयवानधिकरण एव अवयव-देश इति नियमात् तत्रैव एतद्-अवस्थान-प्रतीत्योः प्रसङ्गः । भेदे तयोः सम्बन्धो ऽपि नित्य-मृग्य एव । रूप-घटयोस् तु रूपी घट इति अ-बाधित-धी-बलात् विशेष्य-विशेषण-भाव एव सम्बन्धः । अवयवावयविनोः तथा प्रतीत्य्-अभावात् न सो ऽपि इति संयोगाद्य्-अभावे ऽपि अन्य एव कश्चित् सम्बन्धो ऽस्त्व् इति प्रौढि-वादो ऽपि अ-प्रामाणिकः । तयोर् आश्रयाश्रयि-भावं वास्तवम् अनभ्युपगच्छतस् तव परस्येव इह तन्तुषु पट इत्य् अपि प्रतीत्य्-अभावात् ॥
किं च अन्य-विषयेण कारक-व्यापारेण अन्य-निष्पत्तौ अन्यत्वाविशेषात् उपादानोपादेय-नियमानुपपत्तिः । त्वया ऽपि समवायानङ्गीकारात् ॥
समवायि-कारण-विषयः कारक-व्यापार इत्य् एतद् अप्य् अ-युक्तम् । यत्-कार्योपादान-शक्तं यत्-कारणं तद्-विषयेण कारक-व्यापारेण तत्-कार्य-निष्पत्ति-नियमो ऽपि निमित्त-साधारणत्वाद् अति प्रसक्तः । यद्-आकार-परिणाम-शक्ति-युक्तं यत्-कारणम् इति नियम-विवक्षायाम् एकस्मिन्न् एव अवस्था-द्वय-सामानाधिकरण्यात् उपादानोपादेय-भावः काल-भेदेनोक्तः स्यात् । अतो ऽन्यथा-सिद्ध-साधकाभावात् दुष्परिहरानेक-बाधक-सद्-भावाच् च नोपादानातिरिक्तम् उपादेयम् । किन्तु उक्त-श्रुति-स्मृति-सिद्ध-प्रत्यभिज्ञाभिः अनन्यथा-सिद्धाभिः अनतिरिक्तम् एव । यद्य् अन्यथा-सिद्धो ऽपि शब्दादि-भेदो द्रव्य-भेदकः तदा प्रयुक्ति-लक्षणे
तप्ते पयसि दध्य् आनयति सा वैश्वदेव्य्-आमिक्षा
इति श्रुतौ आमिक्षा-पद-वाच्यं पयसो ऽर्थान्तरम् एव दधि पयः संसर्ग-जन्यम् अभ्युपेयम् । पय आमिक्षेति व्यपदेश-भेदात् कठिनत्वाम्ल-रस-मिश्र-मधुर-रस-सत्त्वादि-भेदाच् च इति प्राप्ते सर्व-नाम्नः प्रकृत-परामर्शित्व-स्वभावात् तत्-पदम् आनयन-क्रियां प्रति प्रधान-कर्मतया दध्य्-आनयनाधिकरणत्वेन निर्दिष्टं पयः परामृशतीति पय एव याग-द्रव्यं तत्-पदे स्त्री-लिङ्गम् आमिक्षा-पद-सामानाधिकरण्य-कृतम् आमिक्षा-पदं तु न संसृष्ट-द्रव्यान्तर-विधायकम् ।
[[P163]]
किन्तु तत्-पदेन केवले पयसि याग-द्रव्ये विहितं तत्र दध्य्-आनयन-संस्कार-विधि-प्राप्त-दधि-संसर्गानुवादकं सत् घनी-भूत-पयो-द्रव्य-मात्र-वाचकम् — न जन्य-द्रव्यान्तर-वाचकम् — पय एव घनी-भूतम् आमिक्षेत्य् अभिधीयते । अम्ल-रसो ऽपि न याग-द्रव्य-गतः किन्तु तत्-संस्कारक-द्रव्य-गत इति पयो-रूपामिक्षा-प्रयुक्तम् एव दध्य्-आनयनं न पान-प्रयुक्तम् इति तान्त्रिक-निर्णय-विरोधः ॥
किं च
स यश् चायं पुरुषे — यश् चासाव् आदित्ये — स एक
इति श्रुति-प्रसिद्धम् अप्य् ऐक्यं न सिद्ध्येत् । आदित्य-पुरुष-रूपाधिकरण-भेदस्य तत्-प्रयुक्त-संस्थान-भेदस्य च तत्र अभावात् ॥
तथा “एको भूतस् सर्व-भूतेषु गूढः” ‘ईषते देव एकः” इत्य्-आदि-सिद्धं ब्रह्म-द्रव्यैक्यम् अपि न सिद्ध्येत् शब्दान्तर-सह-कृत-गुण-संस्थानादि-भेदाभेदस्य तत्-तद्-विद्या-प्रतिनियतस्य ब्रह्म-द्रव्य-भेदकत्व-प्राप्तेः । अत्र सर्वत्रापि तद् एवेदम् इति धीर् अपि जात्य्-ऐक्य-विषयैव स्यात् । अतो ऽवैदिक एव उपादानोपादेययोः भेद-वादः ॥
इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये उपादेयस्य उपादानद् भेद-वाद-भङ्गः एकोनविंशः ॥
[[P164]]