अथ अष्टादशो वादः
अथ यद् उक्तं
सत्त्वं खल्व् ईरितं विषमत्वं प्रयाति रजः खल्व् ईरितं विषमत्वं प्रयाति तमः खल्व् ईरितं विषमत्वं प्रयाति
इति सत्त्व-रजस्-तमसाम् अपि ईश्वर-प्रेर्यत्वावस्था-योगित्वयोः प्रतिपादनात् न अ-द्रव्यत्वम् इति — तद् अपि तत्-तत्-पदार्थ-तत्त्व-ज्ञानोदय-प्रतिबन्धक-भगवन्-निग्रह-विलसितम् । सर्वेष्व् अपि शास्त्रेषु बहुषु सत्त्वादेर् गुणत्वेनैव व्यवहारात् । यद्य् अपि
सत्त्व-रजस्-तमसां समूहः प्रकृतिर्
इति साङ्ख्यास् सङ्गिरन्ते, तथापि ते जीवात्मनो निर्व्यापारत्वं विभुत्वं प्रकृतेर् एव कर्तृत्वम् इत्य्-आदिकम् अपि वदन्तीति त्वया ऽपि तथा ऽभ्युपगन्तव्यम् । अतः तत्र प्रमाणेष्व् एव परिशीलनीयेषु गुणत्वेनैव तेषां व्यवहारः ।
तस्माद् अव्यक्तम् उत्पन्नं त्रि-गुणं द्वि-ज-सत्तम
इति महा-भारते,
प्रकृतिस् त्रि-गुणा ब्रह्मन् अनादिर् अ-विनाशिनी
इति पाद्म-संहितायां च
प्रकृतिस् त्रि-गुणेति सामानाधिकरण्यात् प्रकृतित्वाव्यक्तत्त्वयोः गुण-त्रय-सामानाधिकरण्यम् एक-द्रव्ये प्रतीयते । नीलत्वोत्पलत्वयोर् इव तेन नैल्यस्येव सत्त्वादेर् अ-द्रव्यत्वे न को ऽपि विवादः । किं च तत्त्वादि-गुण-वैषम्यतो देवा भवन्ति देवभ्यो लोका
इति च श्रुतिर् उपबृंहिता ॥
श्री-गीतोपनिषदि —
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
प्रकृतेर् गुण-सम्मूढाः सज्जन्ते गुण-कर्मसु ।
त्रिभिर् गुणमयैर् भावैः
दैवी ह्य् एषा गुणमयी ।
सत्त्वं रजस् तम इति गुणाः प्रकृति-सम्भवाः ।
कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ।
य एनं वेत्ति पुरुषं
प्रकृतिं च गुणैस् सह ।
कैर् लिङ्गैस् त्रि-गुणान् एतान् अतीतो भवति प्रभो ।
किम् आचारः कथं चैतान् त्रीन् गुणान् अतिवर्तते ।
मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥
इत्य्-आदिना । एवं गुणत्वेनैव सर्वत्र व्यवहृतस्य कथं द्रव्यत्व-प्रत्याशा ॥
[[P149]]
ननु ज्ञानादिषु “अवबोधायो गुणाः” इत्य् उक्तेष्व् अपि द्रव्यत्वं त्वद्-इष्टम् । “तद्वत्वं सत्त्व-रजस्-तम” इति अव्यक्तस्यावयवा विद्यन्त इति उपपन्नं तेषाम् अपि द्रव्यत्वम् इति चेत्, मैवम्;
अहम् अर्थ-धर्म-भूत-ज्ञानस्य यथा न क्रियते ज्योत्स्ना मल-प्रक्षालनान् मणेः ।
इति मणेः ज्योत्स्नया निदर्शितत्वात् विषयासम्बन्ध्य्-अणु-भूताहम् अर्थस्य विषय-प्रकाशकत्वायोगात् । तत्-सम्बन्धितया तत्-सम्बन्धाद् अर्थान्तरे तद्-धर्म-व्यवहार-हेतुत्वेन तत्-स्व-प्रकाशकत्वस्य सर्व-वैदिकेष्टत्वात् । तस्य सङ्कोच-विकास-रूपावस्था-योगित्वात् तत एव स्वाश्रयाद् अन्यत्रापि वर्तमानत्वात् चिकीर्षा-प्रयत्नादिकं प्रति ज्ञानस्योपादनत्वात् अद्वैतिभिर् अपि इदं प्रमाण-ज्ञानम् इत्य् अनुमाने तस्य स्व-निवर्त्य-वस्त्व्-अन्तर-पूर्वकत्वे द्रव्य-भूत-प्रदीप-प्रभाया एव दृष्टान्तितत्वात् । ज्ञान-विषययोः संयोगस्यैव प्रत्यक्ष-स्थले विषय-विषयि-भाव-नियमत्वेन वाच्यतया संयोग-सङ्ख्या-पृथक्त्वैः विषय-व्यवहार-शक्त्या च गुणि-क्रियत्वेन च द्रव्य-लक्षण-पौष्कल्याद् एव ज्ञानानन्दयोः द्रव्यत्वाभ्युपगमः। न हि तद्वद् अस्ति सत्त्वादिषु द्रव्यत्व-नियामकम् ॥
किं च प्रकृतेः द्रव्य-भूत-सत्त्वाद्य्-अवयव-समुदायत्वेन तद्-उपादानक-प्रत्यक्ष-विषयोपादेय-भूत-पञ्चक-तत्-कार्येषु सत्त्वादि-द्रव्यम् अनुवर्तते न वा? आद्ये अयं सत्त्व-द्रव्यांश इत्य्-आदिनापि प्रत्यक्षापत्तिः । प्रत्यक्षोपादेयान्वितोपादानेषु तत्-तद्-अ-साधारण-धर्म-प्रकारक-प्रत्यक्षस्य सर्वत्र दुर्निवारत्वात् । द्वितीये — द्रव्यत्वेन तेषाम् उपादानत्वान्वयो न युक्तः । योग्यानुपलब्धेः । अतः सत्त्वादिः द्रव्य-प्रकारतैक-स्व-भावत्वात् लाघवादि-रूप-द्रव्य कार्यानुमेयत्वात् गुरुत्वादिवत् गुण एव । यथा च आम-घट-निष्ठं कुलालेरित-रूप-रस-गन्ध-स्पर्श-गुरुत्व-शब्दादिकं पाकेन विषमत्वं प्रयातीत्य् उक्तिः । शब्दादेः साक्षात् प्रेर्यत्वावस्था-योगित्व-निबन्धन-द्रव्यत्वं न सम्पादयति । किन्तु तद्-उभय-योगिनि घटे तद्-गुण-भूत-रूपाद्य्-अन्तर-सम्बन्धिताम् एव बोधयति । तथा सत्त्वं खल्व् ईरितम् इत्य्-आद्य् अपि प्रकृतेर् एव साक्षात् प्रेर्यत्वावस्थान्तर-योगित्वम् आदाय प्राग्-अवस्थातिरिक्तावस्थान्तर-योगित्वं गुणि-भेद-निबन्धनं बोधयति । इत्थम् एवोक्तं पाद्म-संहितायाम् अपि —
गुण-साम्यात्मनस् तस्मात् पुरुषाधिष्ठितात् पुनः ।
अजायत महत्-तत्त्वं त्रि-विधं त्रि-विधैर् गुणैः ॥
अहङ्कारस् ततो जातः तस्य तिस्रो विधाः स्मृताः ।
वैकारिकस् तैजसश् च भूतादिश् चेति ता विधाः ॥
वैकारिकाद् अहङ्कारात् सात्त्विकात् पञ्च जज्ञिरे ।
ज्ञानेन्द्रियाणि पञ्चैवं राजसात् तैजसात् पुनः ॥
कर्मेन्द्रियाणि जातानि भूतादेस् तामसाद् अथ ।
इत्य्-आदिना ॥
[[P150]]
एवं च साक्षात् प्रेर्यत्वावस्था-योगित्वयोः सत्त्वादिष्व् अभावात् गुणत्वेनैव शास्त्रेषु सर्वत्र व्यवहृतत्वात् प्रकृत्यान्वित-सत्त्वादेः तत्-कार्यान्वित-गुण-वाचि-पदेनैव “लोहित-शुक्ल-कृष्णाम्” इत्य् अनेन निर्दिष्टत्वात् क्रमेण सत्त्वादीनि लाघव-प्रकाश-चलनोपष्ठम्भन-गौरव-वरण-कार्याणि तेजो भिन्नेष्व् अप्य् उक्त-कार्यैक-निरूपणीयतया गुरुत्वादिवत् गुणान्य् एव प्रकृत्य्-उपादेय-सर्वान्वितानिति । न कथम् अपि द्रव्यत्व-प्रसक्तिर् इति ॥
इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजे
सत्वादेर् द्रव्यत्व-वाद-भङ्गो ऽष्टादशः॥