अथ सप्त-दशो वादः
अथ यद् उक्तं नित्य-विभूति-रूपम् अण्डाद् बहिर् भूतम् अ-प्रमाणकं देश-मात्रस्य मूल-प्रकृतित्वाभावात्
महान्तं च समावृत्त्य प्रधानं समवस्थितम् ।
अन्-अन्तस्य न तस्यान्तः-सङ्ख्यानं वा ऽपि विद्यते ॥
तद्-अन्तम् अ-सङ्ख्यात-प्रमाणं चापि वै मतः ।
इत्य्-आदिना प्रकृत्यानन्त्योक्त्या तत्-सिद्धेः । “तमसः परस्तात्” इत्य्-आदिकाश् च श्रुतयः ब्रह्मणः प्रकृत्य-वश्यत्व-प्रतिपादन-पराः । न तु प्रकृत्य्-अतिरिक्त-स्थान-विशेष-सद्भाव-निर्धारण-पराः । अत एव मुक्तानाम् “अदघ्नासः” “उपकक्षासः” इत्य्-आदिना इहैव केषाञ्चित् स्थितिर् आम्नायते । अत एव तद्-उपबृंहणम् —
क्षीर-सागर-दघ्नास् तु केचित् तिष्ठन्ति मुक्ति-गाः ।
उपस्थिताः ब्रह्म-वनम्
इत्य्-आदि श्रूयते । अतः अण्डाद् बहिर्-भूत-शुद्ध-सत्त्वाख्य-द्रव्यस्याप्रमाणकत्वात् न तम् आदाय द्रव्य-षाड्-विध्योक्तिर् युक्तेति ॥
तद् अपि दैव-हतकत्वायत्त-बुद्धि-मान्द्य-कृतम् । तिमिर-तेजसोर् इव अतिविरुद्ध-स्व-भावयोः प्रकृति-शुद्ध-सत्त्वयोः अन्योन्य-व्यापनासम्भवात् । प्रसिद्धा हि प्रकृतिः सर्वाविगीततया जडत्वेन बन्धकत्वेन पाप-प्रवर्तक-रजस्-तमो-गुणकतया ताभ्याम् एव यथावस्थितत्व-ज्ञान-प्रतिबन्धकतया स्व-विषयक-भोग्यता-बुद्धि-जनकतया तद्-उपाधिकाहङ्कार-ममकार-जनकतया विषय-वासना-विषयानुरागादि-विवर्धकतया च “तमसः परस्तात्” “तमसस् तु पारे” इत्य्-आद्य्-अवगतं शुद्ध-सत्त्वं तु एवम् उक्ताकार-विरुद्धकारतया शास्त्र-सिद्धम् । एवं भूतस्यास्य कथं तया व्यापन-सम्भवः ? सत्यम् एव तथाप्य् उक्ताद् एव विभुत्व-बोधकात् व्याप्तिर् अपि वाच्येति चेत् न; तद्-विरुद्ध–स्व-भावस्य तद्-व्यापनासम्भवात् ॥
[[P145]]
किं च
आदित्य-वर्णं तमसः परस्तात्
इत्य्-आदि-प्रत्ययेन,
आदित्य-वर्णं तमसस् तु पारे
इत्य् अनेन च तमश्-शब्द-वाच्यायाः प्रकृतेः देशतस् सावधित्वेन तमो-रहित-देश-विशेषः स्फुटतरम् अवगतः।
जहत्य् एनां भुक्त-भोगाम् अजो ऽन्यः
इति मुक्तस्य स्व-रूपतः तत्-स्थानं च श्रूयते । तस्माद् अ-सङ्कुचितानन्त्यायोगे
लोकं वैकुण्ठ-नामानं दिव्यं षाड्-गुण्य-संयुतम् ।
अ-वैष्णवानाम् अ-प्राप्यं गुण-त्रय-विवर्जितम् ॥
अ-प्राकृतं सुरैर् वन्द्यम् अयुतार्क-सम-प्रभम् ।
प्रकृष्ट-सत्त्व-राशिं तम् ।
इत्य् उक्त-शुद्ध-सत्त्वाभिधान-वैकुण्ठ-लोकात् अधो-देश-मात्र-व्याप्तत्वम् एव “अनन्तरस्य” इत्य्-आदेर् अर्थ इति वाच्यम् ॥
अन्यथा प्रकृति-व्याप्ते देशे दिव्यत्वादि-धर्माणाम् अ-योगेन तस्य तावद् धर्म-परानेक-शास्त्र-बाध-प्रसङ्गात् । न हि तेजस्-तिमिरयोर् इव सर्वाकार-परस्पर-विरुद्ध–स्व-भावयोः मेलन-सम्भवः । अतः प्रकृतत्वानन्त्यस्य उक्त-विध-सङ्कोचम् आदायैव प्रमाण-द्वयानुग्रहः स्यात् नान्यथा — न चेत् — “भूयसां स्यात्” इति न्यायेन प्रकृतित्वानन्त्य-परस्य बाध एव स्यात् । भूत-पञ्चकस्यापि क्वचित् परस्पर-व्याप्तिः एक-प्रकृति-विकारत्वात् । परस्पर-कार्य-कारण-भावात् कार्य-निष्पत्तौ अन्योन्य-सापेक्षत्वाच् च । न ह्य् एवम् अस्ति अनयोः, येन तथा परस्पर-मेलनं सम्भाव्येत । अत एव
तद् अक्षरे परमे व्योमन्,
यो वेद निहितं गुहायां परमे व्योमन्
इत्य् अत्र प्राकृत-गगनातिरिक्तम् एव व्योम तत्रत्यतया ऽऽम्नायते । किं च धर्म्य्-अ-नतितिरिक्ततया अभिमताः प्रकृति-धर्मा जडत्व-बन्धकत्वादयः तत्र व्याप्त-प्रकृतौ सन्ति न वा? आद्ये मुक्तेर् एव मुक्तिः । अन्त्ये तद्-विरुद्ध-धर्मत्य् एव सेति नास्याः प्रकृतेः तत्र व्याप्तिर् उक्ता स्यात् । शुद्ध-सत्त्व-शब्दवत् विशेषणम् । तस्यैव प्रकृतिर् इति नामान्तरम् एव त्वया कॄतं स्यात् । यद्य् अप्य् अ-खण्डः कालः शुद्ध-सत्त्वम् अप्य् अभिव्याप्त इत्य् एव मन्-मतम् । तथा ऽपि स न त्वद्-विरुद्ध-धर्मकः । प्रकृति-तत्-कार्य-भिन्नत्वात् । अतः तत्र तत्-तत्-पदार्थ-परिपाकासमर्थो ऽपि कालः तत्-तद्-अर्थ-सत्तादि-व्यवहृतये स-प्रयोजन इति तद्-व्यापनम् अर्थवत् ।
[[P146]]
प्रकृतेस् तु व्यापनं न कथञ्चिद् अप्य् अर्थवत् । प्रत्युतानर्थकरं च । यद्य् अप्य् अस्याम् एव प्रकृतौ नित्य-मुक्तेश्वराः शुद्ध-सत्त्वमय-दिव्य-विग्रहाः । शिष्ट-परिपालनादि-कार्याधिकृताः सन्तः सञ्चरन्ति । तथापि ते प्रकृत्य्-अभिभावक-शक्ति-युक्ताः । न हि तथा शुद्ध-सत्त्वाभिभावक-शक्ति-युक्ता प्रकृतिः येनेयं शुद्ध-सत्त्वे ऽपि अभिव्याप्ता स्यात् । वस्तुतः शुद्ध-सत्त्वम् एव परम-पुरुषादि-दिव्य-विग्रह-रूपं प्रकृत्य्-अभिभावन-शक्तिम् इति इह तद्-अनुप्रवेशः। “न भूत-सङ्घ-संस्थानः” इत्य्-आदि-स्फुटतर-प्रमाण-सिद्धत्वात् सु-सङ्गतः । “अदध्नासः” इत्य् उक्त-विधायाः प्रकृत्य्-अवश्यतया प्रकृताव् एव स्थितेः मुक्तत्वे प्राकॄत-देश-विशेषस्यैव मुक्त-प्राप्यत्वे च “त्रि-पादस्यामृतं दिवि” “अथ यद् अतः परो दिवो ज्योतिर् दीप्यते” “तद्-अक्षरे परमे व्योमन्”
यो वेद निहितं गुहायां परमे व्योमन्
एकान्तिनस् सदा ब्रह्म-ध्यायिनो हि ये
तेषां तत्-परमं स्थानं यद् वै पश्यन्ति सूरयः
“किम् आत्मको लोकः”
स्व-सत्ता-भासकं सत्त्वं गुण-सत्त्वाद् विलक्षणम्
इत्य्-आदिना द्योतमानत्वार्थकेन दिवीत्य् अनेन मुक्त-प्राप्य-देशस्य स्व-प्रकाशत्व-ज्ञानत्वस्य सत्ता-भासकत्वादिना वैलक्षण्य-बोधक-प्रमाण-गण-विरोधः । अर्चिरादि-गत्य्-उपदेश-पर-प्रमाण-विरोधश् च । मुक्त-प्राप्य-देशस्याण्डान्तर्गतत्वे मुक्त-गति-परतया
शीर्ष-कपालं भिनत्ति, अण्डं भिनत्ति, अक्षरं भिनत्ति, तमो भिनत्ति
इत्य्-आदिकया श्रुत्या,
दिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेयं चागमैर् गम्यम् आद्यम्
“अ-प्राकृतं सुरैर् वन्द्यम्” “ज्ञानानन्दमया लोकाः”
जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः
अपेत्याहम् इमाः कृत्स्नां संश्रयिष्ये निरामयम्
“क्षयन्तम् अस्य रजसः पराके” “तमसः परस्तात्” इत्य्-आदि-प्रमाण-विरोधः । उक्तं च हरि-वंशे ऽपि —
आदित्य-वर्णं विमलं तमः-पारे प्रतिष्ठितम्
इति । तथा
तत्रानन्दमया लोकाः ज्ञानानन्दैक-लक्षणाः
अनन्दा नाम तल् लोकं परमानन्द-संज्ञितम्
इति स्मृति-विरोधश् च ॥
[[P147]]
महा-भारते मोक्ष-धर्मे —
अमूनि यानि स्थानानि वेदादीनां परात्मनाम्
इत्य् आरभ्य
एते वै निरयास् तात स्थानस्य परमात्मनः
कालं स पचते तत्र न कालः तत्र वै प्रभुः ।
आत्मा केवलतां प्राप्तो यत्र गत्वा न शोचति
अत्यर्कानल-दीप्तं तत् स्थानं विष्णोर् महात्मनः ।
तस्य स्थान-परस्येह सर्वे निरय-संज्ञिताः ।
प्रकृतिं चाप्य् अतिक्रम्य गच्छन्त्य् आत्मानम् अव्ययम् ।
परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम् ॥
इत्य्-आदिना अण्डाद् बहिर्-भूतम् एव प्रकृत्य्-अतिरिक्तं स्थानं प्रतीयते ।
तत्र सुप्तस्य देवस्य नाभौ पद्मम् अजायत ।
तत्राण्डम् अभवद् धैमं कोटि-सूर्य-समप्रभम् ॥
इत्य्-आदिनोक्ताण्डस्य अ-जरत्वाद्य्-अ-योगात् । तथा ब्रह्माण्ड-पुराणे भगवद्-वचनम् —
अण्ड-कोशात् सावरणाद् अमुष्मात् परतः प्रभो ।
वसामि परम-व्योम्नि अ-प्राकृत-शरीरवान् ॥
इत्य्-आदीनि मुक्त-स्थानस्य प्रकृत्य्-अतिरिक्त-तत्त्वाण्डाद् बहिर्-भूतत्वादि-पराणि बहूनि विस्तर-भयान् न लिख्यन्ते । “अदघ्नासः” इत्य्-आदिकं तु क्षीराब्धि-प्रभृति-प्राकृत-देशस्योपासन-परम् । एवं शुद्ध-सत्त्वस्य अनेक-प्रमाण-सिद्धतया तेन सह द्रव्य-षाड्विध्योक्तेः न बाधकम् इति ॥
इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये शुद्ध-सत्त्व-रूप-द्रव्यानभ्युपगम-वाद-भङ्गः सप्त-दशः
[[P148]]