१६ द्रव्य-भूत-धर्म-ज्ञानम्

स्व-रूपातिरिक्त-द्रव्य-भूत-धर्म-ज्ञानानभ्युपगम-वाद-भङ्गः

अथ षोडशो वादः

यच् च त्वया चिद्-अ-चिच्-छरीरक-ब्रह्मोपादान-भाव-निरसन-प्रकरणे नित्यं धर्म-भूत-ज्ञानं नाभ्युपेयं प्रमाणाभावात्

न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते

अ-विनाशित्वात् ।

तथा हेय-गुण-ध्वंसाद अवबोधादयो गुणाः ।

प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते

इत्य्-आदिकं न नित्य-धर्म-ज्ञाने प्रमाणम् । स्व-रूपेणैव सर्व-साक्षात्-कर्तुर् ईश्वरस्य यः साक्षात्-कारः तस्य विपरिलोपो बाधो न विद्यते अ-विनाशित्वात् — नित्यत्वाद् इति । “न हि द्रष्टुर् दृष्टेः” इति श्रुतेः ईश्वर–स्व-रूप–परत्वात् तथेति स्मृतेश् च । जीव–स्व-रूपस्य साक्षितादि-नित्यत्व-प्रतिपादन-परत्वम् एव ज्ञान–स्व-रूप–जीवातिरिक्त-घटादि-विषयकानित्य-ज्ञानातिरिक्त-नित्य-धर्म-ज्ञानानङ्गी-कारे बाधकाभावात् । न च ज्ञातृत्वान्यथा ऽनुपपत्तिस् तत्र मानम् — मुक्तेश्वरयोः स्व-रूपत एव तद्-उपपत्तेः । बद्धे तु घटादि-व्यक्ष-ज्ञानेनैव जन्येन तद्-उपपन्नम् । न च स्व-विषयं स्व-रूप–ज्ञानं कथं घटादि-विषयम् इति वाच्यम् । स्व-विषयस्य धर्मि-ज्ञानस्य त्वन्-मते घटादि-विषयवद्-उपपत्तेः । अतः स्व-रूपतिरिक्ति-नित्य-धर्म-भूत-ज्ञानाभावात् न तद् आदाय द्रव्य-षाड्-विध्योक्तिर् युक्तेति उक्तम् । तद् अत्यन्त-लुप्त-शेमुषीकत्व-कृतम् । संसृति-मोक्ष-गत-सङ्कोच-विकासयोः तम् अन्तरेणानुपपत्तेः । स्व-रूपस्यैव सङ्कोचे अस्य प्रकाशता-ऽऽपत्तिः । स्व-प्रकाशत्वे मुक्ताव् इवामुक्ताव् अपि सर्व-प्रकाश–स्व-भावता ऽपि दुर्निवारः । अत्यन्ताणु-भूते जीव–स्व-रूपे अर्थ-वैशसानवकाशात् । स्व-रूपस्यैव विकासे प्राग्-अ-विद्यमान-विकास-शालि–स्व-रूपोत्पत्त्या तन्-नाशो ऽप्य् अ-वर्जनीय इति मुक्तेर् अ-पुरुषार्थता अ-नित्यता च स्यात् । अणुत्व-श्रुति-भङ्गश् च ॥

[[P140]]

किं च मुक्तौ वृत्ति-ज्ञानाभावे नान्य-प्रकाशकस्यासम्बन्धिनः प्रकाशकत्वायोगेन मुक्ताव् आत्मनस् सार्व-ज्ञे विभुत्व-प्रसङ्गः । तद्-अ-भावे त्व् अज्ञतैव दुर्निवारेति मुक्तेर् आभासता । संसृति-वैलक्षण्याभाव-प्रसङ्गश् च ॥

किं च अणोर् जीवस्य स्व-शरीर–व्याप्तिः अणुत्वावेदन–स्व-रूपेणेति धर्म-ज्ञान-गतैव सा वाच्येति धर्मि-ज्ञान-सिद्धिः । यच् च हरि-चन्दन-बिन्दु-दृष्टान्तेन अणोर् अपि जीवस्य सर्व-शरीर-व्यासिर् युज्यत इति “अ-विरोधश् चन्दनवत्” इति सूत्रस्य त्वदीय-भाष्यम् — तद्-उत्क्रमिष्यति जीवे यद् अवच्छेदेन शैत्यं सञ्जातं तद् अवच्छेदेन तद्-विप्रुषो ऽपि अ-ज्ञानेन तद्-आयत्त-सुखादर्शनाद् धर्म-ज्ञान-व्याप्त्य्-अवच्छिन्न-हेत्व्-अंश एव तद्-अ-ज्ञानेन तद्-दर्शनाच् च । स्व-कार्य–मुखेन स एव दृष्टान्तः त्वद्-अन्-अङ्गीकृतं धर्म-ज्ञानं सङ्कोच-विकासार्हम् अङ्गीकारयतीत्य् अ-सम्बद्धम् । अत एव त्वदीयम् अवस्थिति-वैशेष्य-सूत्र-भाष्यम् अप्य् अ-सम्बद्धम् । हृदि सङ्गत-चन्दन-विप्रुषो ऽपि तदा सर्वाङ्गीण-सुखानुपलम्भात् । अतो धर्म-ज्ञानम् अन्तरा अणोर् एव जीवस्य चन्दन-दृष्टान्तेन पर-मत-रीत्या अपि सर्व-शरीर-व्याप्त्य्-उक्तेः वस्तु-स्थित्य्-अननुगुणत्वात् । सूत्र-कारः स्व-मतेन “गुणाद् वा ऽऽलोकवत्” इति धर्म-ज्ञान-रूपाद् गुणाद् एव स्व-शरीर–व्याप्तिम् आह । त्वदीये ऽपि भाष्ये यथा आलोकस्य प्रकाश-गुणेन व्याप्तिः ज्योति-रूपेणाव्याप्तिः एवं

चिद्-गुणेन व्याप्तिः जीव-रूपेणाव्याप्तिर् इत्य् उक्तम् । तत्र प्रभावती ज्वालेव प्रभावान् एवालोकः । सा स च स्व-प्रभया गुणेन यथा परितो व्याप्ता, व्याप्तश् च तथा धर्म-ज्ञानेन गुणेन प्रभा-स्थानीयेन अणुर् जीवो ऽपि स्व-शरीर–व्याप्त इति तद्-अर्थः । अतो न त्वया धर्म-ज्ञानापलापः कार्यः । “चिद्-गुणस्य स्व-रूपत्वात्” इति स्कान्द-वचनं प्रभावतः प्रभेव चिद्-गुणाख्यं धर्म-ज्ञानं धर्मिणः स्व-रूपम् इति वक्तीति न तद्-विरोधो ऽपि ॥

[[P141]]

एवं धर्म्य्-अतिरिक्त-धर्म-ज्ञाने सिद्धे तद्-आयत्त एव धर्मिणश् शरीर-सम्बद्ध-प्रतिकूलानुकूल-साक्षात्कारश् च बद्धस्य स्व-परानुभव-सिद्धः । इत्थं स्पर्शेनेन्द्रिय-द्वारक इव चक्षुर्-आदीन्द्रिय-द्वारको ऽपि तद्-आयत्तम् एव अहम् अर्थस्य घटादि-साक्षात्कारो बद्धस्य । मुक्तस्य तु अ-सङ्कुचित-विकसित-धर्म-ज्ञानत्वात् नेन्द्रिय-द्वारकः तस्य कदाचिद् अ-शरीरस्यापि सर्व-साक्षात्-करण–स्व-भावत्वात् । अतो न तस्य ज्ञानं मनो-वृत्ति-रूपम्; अपि प्रकृति-कार्यस्य तस्य मुक्तेः प्रसक्त्य्-अ-भावात् । “मनसैतान् कामान् पश्यन्” इति च धर्म-ज्ञानार्थकम् । एवं च चक्षुर्-आदिवत् मनश् च बद्धे अहम् अर्थस्य विषम-दर्शनाननुगुण-धर्म-ज्ञान-प्रसरण-द्वार-मात्रम् । “कामस् सङ्कल्प” इति च श्रुतिः कामादि-रूप-धर्म-ज्ञान-प्रसरो मनो-द्वारक इति वक्ति । अतो न क्वचिद् अपि मनो-वृत्ति-रूपं ज्ञानम् अस्ति । आत्मत्वम् अहम् अर्थ एव । अन्यथा तस्य प्रत्यक्त्वासम्भवात् । अहं बुद्ध्यैव प्रत्यग्-अर्थः पराग्-अर्थाद् भिद्यते । अतो ऽहं त्वम् आत्मनः स्व-रूपम् इति । अहं त्वम् इति धीः न मनो-वृत्ति-रूपा सच्-छब्द-प्रत्यय-भाजः परस्यापि अहम् इत्य् एव

हन्ताहम् इमास् तिस्रो देवताः

इति अहङ्कारस्य सृष्टेः प्राग् अपि तस्यात्मानुभवात् मुक्तस्यापि “अहं ब्रह्मास्मि” “अहम् अन्नम्” इत्य् एव स्वात्मानुभवात् । तयोर् मनसो ऽप्रसक्तेः ॥

[[P142]]

एवं च “घटम् अहं जानामि” इति अहं त्व् अ-समानाधिकरणतया तद्-धर्मतया च ज्ञानं सर्वानुभव-सिद्धम् इति वृत्ति-ज्ञानस्य त्वद्-अभिमतस्य अन्तः-करण-परिणति-रूपतया जडस्यात्म-धर्मत्वायोगः । आत्म-धर्म-भूतम् एव ज्ञानं घट-विषयकत्वावस्थया स्वस्याहं त्व अ-सामानाधिकरण्यं तद्-अवस्था-ज्ञान-गोचरत्वावस्थेन स्वेनैव विषयीकरोतीति अस्यैव आत्म-धर्म-भूतस्य ज्ञानस्य नित्यत्वं वदन्ति ।

न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते

तथा हेय-गुण-ध्वंसाद् अ-बोधायो गुणाः ।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥

इत्य्-आदीनि । तस्मान् मणेर् ज्योत्स्नेव अहम् अर्थस्य धर्म-ज्ञान-सिद्धौ तस्य नित्यत्वात् नित्यं धर्म-ज्ञानं च सिद्धम् । तस्य बद्धावस्थायां सङ्कोच-विकासौ तद्-अनुगुण-कर्म-तारतम्य-कृतौ । तस्य तथा भूत-विकारि-द्रव्यत्वात् । बद्धः सङ्कुचित-धर्म-ज्ञानत्वाद्-अज्ञः परमात्मा तु न तथेति “ज्ञाज्ञौ द्वौ” “यस् सर्व-ज्ञस् सर्ववित्” “स्वाभाविकी ज्ञान-बल-क्रिया च”, “यस्य ज्ञानमयं तपः”, “एष हि द्रष्टा श्रोता”, “सर्वं ह पश्यः पश्यति” इत्य्-आदीनि । “एष हि द्रष्टा” इति श्रुत्य्-ऐकार्थ्यात् “न हि द्रष्टुः” इत्य् अपि श्रुतिः मुक्त-परैव । ईश्वरे तस्य कदा ऽपि विपरिलोपाप्रसक्तेः । तस्यायम् अर्थः — “आत्मा वा अरे द्रष्टव्यः” इति श्रुति-बोधितान्तिम-प्रत्ययावधिक-दर्शन-समानाकार-धर्म-ज्ञान-प्रसरयितुः मुक्तौ ज्ञान-प्रसर-रूपायाः दृष्टे ऽपि परिलोपः विषय-कृत-सङ्कोचः केषां चिद् अ-विषयी-करणाख्यः नास्ति अ-विनाशित्वात् । अतिरोहितत्वात् जीवस्य नाशो धर्म-भूत-ज्ञानस्य सम्यक् तिरोधानम् एव । तच् च विपश्चित्त्व-निष्पत्त्य्-अन्-अन्तरं “न जायते म्रियते वा विपश्चित्” इति श्रुत्या “सर्वं ह पश्यः पश्यति” “सर्वम् आप्नोति सर्वशः” इति श्रुत्या च सिद्धम् ॥

एवं च हेतु-साध्ययोर् अ-विशेषः । “न विज्ञातुर्” इत्य् अस्याप्य् अयम् एवार्थः । त्वन्-मते धर्मि-ज्ञानस्यैव सर्व-दर्शन-रूपत्वेन “न हि द्रष्टुर् दृष्टेः” इत्य्-आदि दृष्टिर् दृष्ट्रोर् भेदस्य षष्ठ्य्-अर्थस्य अ-योगात् । न च राहोश् शिर इतिवद् उपपत्तिः । निरवयवे निरंशे तद्-अ-योगात् ॥

[[P143]]

किं च वृत्तेर् न ज्ञानत्वम् । मनो-व्यापार-रूपस्य तस्य चक्षुर्-आदि-व्यापारवद् अ-स्व-प्रकाशात्वात् । अन्यथा चक्षुरादि-वृत्तेर् अपि ज्ञानत्वाऽऽपत्तिः । तम् आदायापि जानामीत्य्-आदि-व्यवहारोपपादनापत्तिश् च । अतो न मनो-वृत्तिम् आदाय जानामीत्य्-आदेर् उपपादन-सम्भवः । धर्मि-ज्ञानस्य च प्रत्यक्त्वेन स्व-मात्र-प्रकाशकत्वात् न तम् आदायापि । धर्म-ज्ञानं च स्व-सम्बन्धाद् अर्थान्तरे तद्-धर्म-व्यवहार-हेतुत्वात् स्व-प्रकाशम् इति । ततो घटम् अहं जानामीत्य्-आदिना अहं त्व् अ-सामानाधिकरण्येन ज्ञानम् उपपन्नम् ॥

किं च यदि धर्मि–स्व-रूपम् एव घटादि-दर्शन-रूपं स्यात् तदा ज्ञान-सङ्कोचवति सुषुप्त्य्-आदौ स्व-रूप–नाश एव स्यात् । स्व-रूपे सति तत्-सङ्कोचायोगात् । सत्य् अपि स्व-रूपे कदाचिद् विषयाविषयी-करणं तिरो-धान-कृतम् इति हि वाच्यम् । उत्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा । स्व-रूपस्य नित्यत्वात् स्व-रूप–तिरो-धानं स्व-रूप–नाश एव स्यात् । किं च मुक्तौ स्व-रूपत एव दृष्ट आत्मादिर् वर्तते न वा ? वर्तते चेत् किम् अनेन जड-भूत-मनो-व्यापार-रूप-जन्य-वृत्ति-ज्ञानेन । स्व-रूपेणैव अद्यापि घटादि-दर्शन-सम्भवात् । न चेत् मुक्तौ प्राग्-अ-विद्यमान-जीवोत्पत्तिर् अद्य विद्यमान-जीव-नाशश् च स्यात् । अतो ऽहम् अर्थस्याद्य स्व-रूपातिरिक्त-तिरोधेयांशो ऽस्तीति वाच्ये यथा-श्रुति धर्म-ज्ञान-रूप एव स वाच्यः ॥

अत एव त्वदीय-भविष्यत्-पर्वण्य् अपि

स्वयंभूर् भगवान् व्यासः व्याप्त-ज्ञान-महांशुमान्

इत्य् उपलभ्यते । अतो नित्य-धर्म-भूत-ज्ञानस्य “न विज्ञातुर् विज्ञातेः” “न हि द्रष्टुर् दृष्टेः” “न जायते म्रियते वा” “जानात्य् एवायं पुरुषः” इत्य्-आदि-श्रुति-समधिगतत्वात् तत्-प्रसर-भेद-रूप-ज्ञानेन विना ज्ञानावगति-संविदाद्य्-अपर-नामकत्व-योग्याहंत्व-समानाधिकरण-स्व-प्रकाश-ज्ञानानुलम्भात् मणेः ज्योत्स्ना-स्थानीयत्वात् अहम् अर्थाश्रित-धर्म-भूत-ज्ञानम् अपि तद्वत् द्रव्यम् अङ्गीकार्यम् एवेति ॥

इति श्री-पर-काल-गुरु-विरचिते विजयीन्द्र-पराजये स्व-रूपतिरिक्त-द्रव्य-भूत-धर्म-ज्ञानानभ्युपगम-वाद-भङ्गः षोडशः

[[P144]]