१५ अ-खण्ड-कालः?

अथ पञ्चदशो वादः

यद् अप्य् उक्तं क्षण-लवाहो-रात्र-मास-र्तु-संवत्सरादि-सूक्ष्म-खण्ड-काल-व्यतिरेकेण अ-खण्डः कालो नाभ्युपेयः प्रमाणाभावात् । न च

कालं स पचते तत्र न कालस् तत्र वै प्रभुः,

“कालः कलयताम् अहम्”, “काल–स्व-भावो नियतिः” इत्य्-आदि-प्रमाणं तत्रेति वाच्यं, सूक्ष्म-काल-विषयत्वेनैव तेषाम् उपपत्तेः । न च

नदीव प्रभवात् काचित् अक्षय्यात् स्यन्दते यथा ।
तां नद्यो ऽभिसमायान्ति सोरुस् स न निवर्तते ॥
एवं नाना-समुत्थानाः कालाः संवत्सरं श्रिताः ।
अणुशश् च महाशश् च सर्वे समुपयन्ति तम् ।
स तैः सर्वैः समाविष्टः उरुस् सन् न निवर्तते ॥

इत्य्-आदि-श्रुत्या क्षण-लवाद्य्-अतिरिक्त-काल-सिद्धिर् इति वाच्यम् । तस्याः काल-प्रवाहाविच्छेद-परत्वेन त्वद्-अभिम्ते प्रमाणत्वायोगाद् इति तद् अप्य् अ-युक्तम् ।

अनादिर् भगवान् कालः नान्तो ऽस्य द्वि-ज विद्यते ।

इत्य् अस्यैव तत्र प्रमाणत्वात् । न ह्य् अनादित्वानन्तत्वानि क्षण-पक्ष-मासादिषु सम्भवन्ति ॥

किं च

कला-मुहूर्तादिमयश् च कालः न यद् विभूतेः परिणाम-हेतुः

इति च अ-खण्ड-विभूति-द्वय-व्याप्त-काल-बोधकतया ऽस्तु तत्र प्रमाणं; तस्य च कला-मुहूर्तादिमयत्वम् आकाशस्य अ-खण्डस्य घटाद्य्-आकाशता-ऽऽदिवत् अ-खण्ड-पृथिव्याः घट-पटादिमयतावद् एव तत्-तद्-उपाधि-कृतम् । अत एव “कालः कलयताम् अहम्” इति त्रैकालिक-सर्व-देशीय-पदार्थ-निर्वाहकत्वाया एकः कालो विभुत्वेन भगवतोक्तम् । एवं नित्य-भूत एव अ-खण्डे काले पक्ष-मासादि-व्यवहार-हेतु-तत्-तद्-उपाधि-प्रवाहः परिवर्तत इत्य् अर्थका “नदीव प्रभवात्” इति श्रुतिर् अपि तत् प्रमाणम् ।

यथा सुदीप्तात् पावकाद् विष्फुलिङ्गाः सहस्रशः प्रभवन्ति विरूपाः तथा ऽक्षराद् विविधास् सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति

इति वाक्य-तुल्या हि “नदी वा” इति श्रुतिः । न हीदं वाक्यं विस्फुलिङ्गातिरिक्ताग्न्य्-अ-भाव-परं; सर्व-भावातिरिक्ताक्षराभाव-परम् इति कश्चिद् वैदिकः प्रतिपादयितुम् ईहते । तत्र संवत्सर-शब्दः अ-खण्ड-काल-परः ।

[[P138]]

अन्यथा अणुशश् च महशश् च सर्वे समरयन्तीत्य् उत्तर-वाक्यानुपपत्तेः । क्षणाय्-अणु-काल-मात्रस्य दिनादि-महत्-काल-मात्रस्य च एक-संवत्सरान्वयानुपपत्तेः । “सद् एव सोम्येदम् अग्र आसीत्” इति कारण-वाक्य-प्रतिपन्नाग्र-शब्द-वाच्यस्य “नाहो न रात्रिः” इति अहो-रात्रादि-निषेधाधिकरणत्वेन प्रतिपन्नतया तस्यापि “महशश् च” इत्य् उक्ति-विषयतया तस्यापीह संवत्सरे अन्वयस्य वाच्यत्वात् । त्रैकालिकानेक-संवत्सर-ग्रहणे तु एक-वचनानुपपत्तिः । तस्य जात्य्-एक-वचनत्वे ऽपि वाक्यानुपपत्तिः समाना । न्यून-कालस्य अधिक-काले ऽन्तर्गतत्ववत् अधिक-कालस्य न्यून-काले ऽन्तर्गतत्वायोगेन “महशश् च” इत्य् अनेन सङ्गृहीताहरादि-शून्य-संवत्सराधिक-कालस्य संवत्सरे ऽन्तर्गतत्वायोगात् । तेषां संवत्सर-जात्य्-अन्तर्-भावम् आदाय अ-खण्ड-कालापलापे न्यूनानाम् अधिकानां च यावतां कालानां क्षण-जात्य्-अन्तर्-भाव-सम्भवेन क्षणातिरित्क्ताधिक-काल-मात्रापलाप-प्रसङ्गः । न च संवत्सरे रूढ-श्रुत-संवत्सर-पदस्य अ-खण्ड-काल-परत्व-वर्णनम् अन्याय्यम् इति वाच्यम् । वाक्यावयव-विरोधेन अ-योग्यार्थ-पद-श्रुति-मात्रस्य तत्-परित्यागेन योग्यार्थ-परत्वस्य प्रमाणान्तरानुसारेण कारण-वादि-वाक्य-स्थाकाशादि-पदेषु तवापि सम्प्रतिपन्नतया “अन्-आदिर् भगवान् कालः” इत्य्-आद्य्-उक्त-प्रमाणान्तरानुसारेण संवत्सर-शब्दस्य इह अ-खण्ड-कालार्थकत्वस्य न्याय्यत्वात् ।

किं च “न वियद्-अ-श्रुतेः” इति अधिकरण-गुण-सूत्र-भूते “शब्दाच् च” इति सूत्रे त्वदीय-भाष्य-कारेण नित्य-पदार्थेयत्ता-निर्धारणाय

अथ ह वाव नित्यानि पुरुषः प्रकृतिर् आत्मा कालः

इति काल-नित्यत्व-परा हि भाल्लवेय-श्रुतिर् उपात्ता । अनेन यथा भूराद्य्-अतिरिक्ताखण्डा प्रकृतिः नित्यतया सिध्यति तथा क्षणाद्य्-अ-नित्य-कालातिरिक्त-नित्य-कालो ऽपि सिद्ध इति प्रामाणिकेन त्वया ऽभ्युपगन्तव्यः । अतः सा ऽपि श्रुतिर् अ-खण्ड-काले प्रमाणम् । इत्थं यथा प्रमाणम् अ-खण्ड-कालानभ्युपगमे तत्-प्रमाण-बाधितानाम् अन्-आदित्व-विभुत्वादिनां कालत्व-सामानाधिकरण्यस्यापि बाध-प्रसङ्गः । तथा कार्य-कार-पदार्थ-प्रवाहातिरिक्तं प्रकृतित्वम् अप्य् अ-खण्डं किञ्चिन् न सिध्येत् । अर्चा-ऽऽदि-रूपेण परिदृष्ट-प्रवाहातिरिक्तम् अन्तर्-बहिश् च व्याप्ताखण्ड-ब्रह्मत्वम् अपि न सिद्ध्येत् । घटाकाशादि-प्रवाहातिरिक्ताखण्डाकाशो ऽपि न स्यात् । यदि तत्-प्रतिपादक-वाक्येषु विभुत्व-नित्यत्वादि-श्रुत्य्-अन्यथा ऽनुपपत्त्या अ-खण्ड-प्रकृत्य्-आदिकम् अप्य् अभ्युपगन्तव्यम् । तथा इहापि सन्तोष्टव्यम् आयुष्मता ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये अ-खण्ड-कालानभ्युपगम-भङ्ग-वादः पञ्च-दशः

[[P139]]