१४ अन्धकारस्य द्रव्यान्तरत्वम्?

अथ चतुर्दशो वादः

यच् च अन्धकारस्य द्रव्याप्योपगमात् कथं षड्-विधत्वम् इत्य् उक्तिः । न तावत् तस्य प्रकृति-रूपत्वम्; साम्यावस्थायाः प्रकृतेः अ-चाक्षुषत्वोपगमात् । एतस्य चाक्षुषत्वात् । नापि तद्-अवस्था-रूपत्वं; महद्-अहङ्कारेद्रिय–तन्-मात्र–भूतानाम् एव तद्-अवस्था-रूपत्वोपगमात् । एतस्य प्रकृत्य्-अवस्था-ऽन्तरे

चतुर्-विंशति-सङ्खातम् अ-व्यक्तं व्यक्त्म् उच्यते

इति श्रुति-विरोधः । तन्-मात्रेष्व अन्तर्-भावे चाक्षुषत्वम् अन्-उपपन्नम् । तेषां त्वन्-मते अ-चाक्षुषत्वात् ।

स्व-च्छन्देनागमेन[[??]] प्रकृति-महद्-अहङ्कार–तन्-मात्र–सिद्धिः नाध्यक्षेणाप्रतीतेः न पुनर् अनुमया व्याप्ति-लिङ्गाद्य्-अ-सिद्धेः ।

इति त्वद्-उक्तेः । नाकाशे ऽन्तर्-भावः । विद्यमाने ऽपि तस्मिन् सौरालोकादिना अन्धकार-नाशात् । न वायौ चाक्षुषत्वात् । न तेजसि तद्-विरुद्ध-स्वभावत्वात् । नापि जले नील-रूपाश्रयत्वात् । न पृथिव्यां निस्पर्शत्वात् । न च नील-प्रभा-सहचरित-नील-भागवद् एव पृथिवी-रूपतेति वाच्यम्; इन्द्र-नील-प्रभायाम् एव नैल्य-सम्बन्धेन तादृश-नील-भावस्याकल्पनीयत्वात् ॥

“न च यत् कृष्णं तद् अन्नस्य” इति श्रुतेः अन्धकारः पृथिव्य्-अन्तर्-गत इति वाच्यं; पृथिवी-वैलक्षण्यस्य प्रबल-प्रमाण-सिद्धत्वेन अन्धकार-व्यतिरिक्तं “यत् कृष्णं तद् अन्नस्य” इत्य् एव वाच्यत्वात् कथं द्रव्यं षड्-विधम् एवेत्य् उक्तिर् इति । तच् च स्वकीयेषु गौरव-निर्वाहाय विलेखन-मात्रम् । पूर्व-पक्षतया त्रय्य्-अन्त-देशिकोपन्यस्त-पारिशेष्यागम-क्रमस्यैव त्वया त्वत्-सिद्धान्ततया उपन्यसने दृढतर-युत्त्क्य्-आदेः तत्रानुपन्यासात् । तस्य पृथिव्याम् एव अ-बाधित-नीलादि-प्रत्यय-विषयत्वेन अन्तर्-भावस्य मद्-गुरु-वराभिमतत्वात् ॥

[[P135]]

न च अ-बाधित-द्रव्य-चाक्षुष-धी-मात्रे विषय-संयुक्तालोकः कारणम् इति तम् अन्तरेण जायमानत्वात् तमो-विषयक-नीलादि-प्रत्यये अ-बाधितता नेति वाच्यम् । आलोक-विषयकाबाधित-ज्ञाने विषय-संयुक्तालोकम् अन्तरेण जायमाने त्वद्-व्याप्तेः व्यभिचारात् । त्वद्-व्यतिरिक्तत्वे सति आलोकाभाव-दशा-जायमानत्वं बाधितत्व-व्याप्तम् इति चेत्, मैवम्; आलोकाभाव एव तम इति पक्षे अ-बाधिते तद् अ-ज्ञाने तद् इतर-मत-रीत्या द्रव्य-विषये उक्त-हेतु-सत्त्वेन व्यभिचारात् । ननु अ-भाव-रूपान्धकार-ग्रहणे ऽपि यदि घटादि-ग्रहः इहालोकः सामग्री-चक्रानुप्रविष्टः स्यात् तर्हि तस्य कदा ऽपि आलोक-समवधानाभावात् चाक्षुषत्व–स्व-रूपयोग्यतैव न स्यात् । आलोक-सत्त्वे तद्-अ-भाव-रूप-विषयस्याप्य् अ-भावेन इतर-सामग्री-साकल्य-रूप-सहकारि-योग्यता ऽप्य् अवगता स्यात् इति तद्-उभय-लाभाय अ-भाव-रूपान्धकार-ग्रहे ऽपि इतर-मत-रीत्या तस्य द्रव्यत्वे ऽपि न तद्-अपेक्षेति आलोकाभाव-दशा-जायमानत्वस्य बाधितत्व-व्याप्ततायां विशेषेणायम् इति चेत् तर्हि नीलत्व-बहुलत्व-विरलत्वादिना भाव-रूपत्वेन चक्षुषा प्रतीयमानानन्धकारस्यापि तद्-उभय-योग्यता-सिद्ध्य्-अर्थं तत्-प्रत्यक्षेण न आलोकापेक्षेत्य् अपि पश्य । न हि यत् क्वचिद् यद्-अपेक्षं तत्-सर्वत्र तद्-अपेक्षम् इत्य् अस्ति नियमः । स्वेदादि-शैत्य-ग्रहे वायु-सापेक्षस्य स्पर्शनस्य बह्व्-औष्ण्य-ग्रहे तत्-सापेक्षत्वाभावात् । अतो नीलं तम इति अ-बाधित-नील-प्रत्यय-विषयत्वाद् एव

तमो नाम द्रव्यं बहल-विरलं मेचक-चलं प्रतीमः केनापि क्वचिद् अपि न बाधश् च दृश्यते । अतः कल्प्यो हेतुः प्रमितिर् अपि शाब्दी विजयते निरालोकं चक्षुः प्रथयति हि तद्-दर्शन-वशात् ॥

इति तत्त्व-सारे वरद-गुरुभिः निर्णीतया रीत्या तमो द्रव्यम् एव तच् च पृथिव्याम् एवान्तर्भवति । न च निस्स्पर्शत्वान् न तद्-अन्तर्-भाव इति वाच्यम् । अ-प्रयोजकत्वात् पर-मते परमाणूनां मन्-मते ऽप्य् अतिसूक्ष्म-त्र्य्-अणुकानां पार्थिवानां निस्स्पर्शत्वात् । अत एव यद् भूत-रूपवत् तत् उद्भूत-स्पर्शवत् इति न नियमः । जालक-रन्ध्र-निष्क्रान्त–द्यु-मणि–किरणोपष्टब्ध अतिसूक्ष्म-त्र्य्-अणुकस्य उद्भूत-रूपवत्त्वे ऽपि अन्-उनुद्भूत-स्पर्शवत्त्वात् । इत्थं प्राचीन-पद्धति-निर्णीतायां तमः-पदार्थ-पार्थिवतायां ममैवं प्रतिभाति स्पर्शाकाश-रहितं पञ्ची-करण-कृत-समागमत् पृथिव्य्-अंश एव तम इति भूतान्तरे भूतान्तर-संहति-समागमौ ।

नाना वीर्याः पृथग्-भूताः ततस् ते संहतिं विना ।
नाशक्नुवन् प्रजास् स्रष्टुम् अ-समागम्य कृत्स्नशः ॥

इति पराशराचार्यैर् अपि निर्णीता । अत एव सन्तमसस्य निस्पर्शनत्वं निस्स्पर्शाकाशेन संहति-सामगमवत् । पृथिव्य्-अंशत्वात् तेनैवास्य तमसः यावत्-कार्य-प्रकृति-व्यतिरिक्तत्वम् अभिव्याप्तत्वम् अस्य च तेजसा नक्षत्र-गणनाम् इव अन्-अभिभव एव न नाशः । नापि चलनं तमश् चलतीति प्रत्ययश् च अभिभावकालोक-व्यापनेन अ-व्यवहित-गृहीत-तमोंशाग्रह-कृतः । अस्य च ज्ञेय-विशदावभास-विरोधि-तमो-गुणवद् एव स्वेतर-चाक्षुष-विशदाव भास-विरोधित्वात् तमस्त्वेन व्यवहारः ॥

[[P136]]

एवं पञ्ची-करण-सिद्धाकाशान्तर्-गत-पृथिव्य्-अंशस्यैव तमस्त्वम् अभिप्रेत्य कवि-कथक-कण्ठी-रवेण न्याय-सिद्धाञ्जने

अस्तु वा किञ्चिद् अभिनव-घनावली-मलीमसम्-अनाघ्रात-स्पर्श-रस-गन्ध-काराभिधानं अवस्थान्तरं प्रकृतेः

इत्य् अनुगृहीतम् । प्रकृतेर् एव सद्-वारकम् अवस्थान्तरम् इत्य् अर्थः । पञ्ची-कृताकाश एव यत्र लोक-शून्यता तत्र कार्य-प्रकृति-देशो यद्य् अन्यो ऽस्ति तत्रान्धकारः । अस्ति चेद् अन्ध-द्वारकम् एव प्रकृतेर् अवस्थान्तरम् अन्धकारः स्यात् ।

न चतुर्-विंशति-सङ्ख्यातम् अ-व्यक्तम् । व्यक्तम् उच्यते ।

इति श्रुतिस् तु कार्य-प्रकृति-मात्र-परा यदि नास्ति स देशः तत्रान्धकारो ऽपि नास्ति चेत् तर्हि निरर्थक एव तवापि तद्-विषयो हि विचारः ॥

एतेन अ-निर्धारित-विशेषम् एवान्धकाराभिधानं द्रव्यम् इति प्रलापो ऽपि निरस्तः । अतो बाधक-विधुर-प्रत्यक्ष-सह-कृत-परिशेषाद् एव अत्र पृथिव्य्-अंशो ऽन्धकारः न पृथग् द्रव्यम् । अत एव इन्द्र-नील-मणि-प्रभा-सहचरित-नील-भागो ऽपि पृथिव्य्-अंश एव । अन्यादिष्व् अपि त्र्य्-आत्मकत्व-दर्शनेन “त्र्य्-आत्मकत्वात् तु भूयस्त्वात्” इति सूत्रितत्वाच् च यथा मणि-गत-नील-भागः तथा प्रभा-सहचरितो ऽपि । प्रभायाम् एव नैल्य-सम्भवात् इति च त्वद्-अभिधानम् अतिमन्दम् ।

तेजो-द्रव्य-मात्रस्य शुक्ल-भास्वरत्वात् यत् कृष्णं तद् अन्नस्य

इति श्रुति-विरोधाच् च । एवं च इन्द्र-नील-मणि-प्रभा-नील-भागः पृथिव्य्-अंश एव अ-बाधित-नील-धी-विषयत्वात् मणि-गत-नील-भागवत् । अतो नील-भागवच् चायं निस्स्पर्शत्वे ऽप्य् अन्धकारः पृथिव्य्-अंशः । तस्मात् नैतेनापि द्रव्य-षाड्-विध्योक्ति-भङ्ग इति ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये अन्धकारस्य द्रव्यान्तरत्व-भङ्ग-वादः चतुर्दशः

[[P137]]