१३ षड्-द्रव्यातिरिक्त-द्रव्यान्तरम्?

अ-व्याकृताकाश-रूप-षड्-द्रव्यातिरिक्त-द्रव्यान्तर-वाद-भङ्गः॥

अथ त्रयोदशो वादः

यत् पुनर् उक्तं अ-व्याकृताकाशस्य द्रव्यान्तरस्य सत्त्वात् उक्त-सङ्ख्या-ऽयोगः । न च तत्र मानाभावः ।

यावान् वा अयम् आकाशः तावान् एषो ऽन्तर्-हृदय आकाशः

आकाशवत् सर्व-गतश् च नित्यः

अन्-आदिर् वा अयम् आकाशः एवम् अन्-अन्त आत्मा वेदितव्यः

इत्य्-आदीनां सत्त्वात् । न च तत्र आकाश-शब्दः परमात्म-परः । उपमानोपमेय-भावस्य भेद-नियतत्वात् ॥

न च “गगनं गगनाकारम्” इत्य् अत्र व्यभिचारः । तत्र सदृशान्तर-व्यवच्छेद-परत्वेन सादृश्य-परत्वासिद्धेः न च अत्रापि तथेति युक्तम् । स्व-रस–सिद्ध-सादृश्य-परत्व-योगात् । न चैवं त्वन्-मते आकाशिकरणे अन्-अन्तत्वादि-लिङ्गेन आकाशाद् एवेत्य्-आदि-वाक्यस्य विष्णु-परत्व-साधनम् अ-युक्तं स्यात् । अन्-अन्तत्वस्य अ-व्याकृताकाशे ऽपि सत्त्वाद् इति वाच्यम् । गुणतो ऽप्य् आनन्त्यस्य अन्-अन्त-शब्दार्थत्वेन तेन तस्य विष्णु-परत्व-निर्णयासम्भवात् । परोवरीयस्त्वादि-धर्मान्तरेण विष्णु-परत्व-सिद्धेश् चेति तद् अप्य् अ-समञ्जसम् । शुद्ध-सत्त्व-गताकाश-भूताकाशाभ्याम् अतिरिक्तव्याकृताकाशे मानाभावात् ॥

न च सर्व-गतत्व-नित्यत्वादित्व-शून्य-लोकत्वानन्तत्व-धर्मकता तयोर् इत्य् अन्यस् तथा भूताकाशः ताभिः श्रुतिभिः समधिगत इति वाच्यम् । “प्रसिद्धस्य नासिद्धं निदर्शनम्” इति न्यायेन “अन्तर् बहिश् च तत् सर्वम्” “नित्यो नित्यानाम्” “सत्यं ज्ञानम् अन्-अन्तम्” इत्य्-आदिभिर् एव अन्-अन्तत्वावगमेन गगन-कुसुमायितोपमान-मुखेन उक्त-धर्माणं भगवत्य् अन्-उपदेश्यत्वात् । तेनैव त्वद्-उदाहृत-श्रुतीनां त्वत्-कल्पितत्व-निर्धारणाच् च । प्रमाणान्तर-सिद्धस्यैवोपमानत्वेन निर्देश्यतया तद्-अ-सिद्धे अस्मिन्न् उपमानत्वेन निर्देशायोगाद् अपि कल्पितता स्फुटा । “अन्-आदि वा ऽयम् आकाशः” इत्य् आकाशानुत्पत्ति-श्रुतिश् च द्वितीयस्य तृतीये पादे “गौण्यसम्भवात्” इति सूत्रेण गौणीति त्वयैवोक्ता । अतो न सा ऽप्य् अत्र प्रमाणम् । यदि भगवति प्रसिद्धाकाशो नोपमानत्व-योग्य इति श्रुतिभिर् उक्ताभिः तद्योग्याकाश-सिद्धिर् इत्य् अभिमतम् । तर्हि “ज्योतिर् इवाधूमकः” “वृक्ष इव स्तब्धः” इत्य्-आदिष्व् अप्य् अ-व्याकृत-ज्योतिर् आद्य्-अ-सिद्धि-प्रसङ्गः ॥

[[P131]]

किं च त्वद्-अभिमताकाशे “स यथा” इति प्रसिद्ध-निर्देशो ऽपि न घटते । तस्य प्रमाणान्तरेणासिद्धत्वात् । सर्व-गतत्वादि-श्रुत्य्-अनुपपत्तिर् एव यद्य् अत्र प्रमाणम् इत्य् अभिमन्यसे तर्हि तच्-छ्रुत्य्-अर्थापत्ति-मानकस्य तस्याम् एव श्रुतौ प्रसिद्धवन्-निर्देशासम्भवः । अन्यथा वन्ध्या-सुतवद् अतिसुन्दरो ऽयम्, अन्धकारवत् शुक्ल-भास्वरं तेजः, शान्ताङ्गार इव पुर-प्रकाशको दिन-कर इत्य्-आदिभिः अतिसुन्दर-सत्य-वन्ध्या-सुत-शुक्ल-भास्वरान्धकार-ज्योतिर्मय-शान्ताङ्गारादि-सिद्धि-प्रसङ्गात् । यदि कल्पित-वाक्यैः नैवं भूतार्थ-सिद्धिर् इति तर्हि तुल्यं त्वद्-इतर-त्रय्य्-अन्त-निष्णातैः त्वद्-उदाहृतानां क्वचिद् अप्य् अन्-उदाहृतत्वात् ॥

किं च अयं कारण-स्थ-भावः कार्य-कारणानुभय-स्वभावो वा ? नाद्यः; कार्यानुपलम्भात् । अवकाश-प्रदानं हि आकाश-कार्यम् । तच् च “तद्-अक्षरे परमे व्योमन्” “सो ऽश्नुते” इत्य्-आद्य्-उक्तम् । मुक्तादीनां तेन इह च भूताकाशेन च पर्याप्तम् । यदि सर्वत्र त्वद्-अभिमत-आकाश एव अवकाश-प्रद इति वदसि तर्हि भूताकाश-परम-व्योम्नोर् नैरर्थक्यात् तत्-पर-श्रुति-नैरर्थक्य-प्रसङ्गः ॥

द्वितीये तस्य नितरां नैरर्थक्यम् इति त्वद्-उक्ता श्रुतिर् अ-कल्पिता चेत् “गौण्यसम्भवात्” इति न्यायेन प्रसिद्धाकाशार्थैव स्यात् । “यावान् वा ऽयम्” इति श्रुति-गताकाश-शब्दश् च परमात्म-पर एवोचितः । हृदयावच्छेद-निबन्धन-भेदस्य स्व-वाक्य–सिद्धतया एवोपमानोपमेय-भाव-सम्भवात् । अल्पत्व-निवृत्त्य्-आदिना धर्मेण सादृश्य-परम् अपीदं वाक्यं भवति । तथा च “गगनं गगनाकारम्” इतिवद् इह सदृशान्तर-व्यवच्छेदो ऽपि सिद्ध्यति ॥

[[P132]]

एवं च “स यथा ऽनन्तो ऽयम्” इत्य् अपि वाक्यं तद्-एकार्थम् एव स्यात् ॥

किं च “स यथा ऽनन्तो ऽयम् आकाश’ इत्य् आकाश-विषयकम् अन्-अन्त-पदं मुख्यम् अ-मुख्यं वा ? आद्ये त्वदीयम् आकाशाधिकरणम् अ-समञ्जसम् । “स एष परोवरीयान् उद्गीथः” “स एषो ऽनन्तः” इति वाक्य-श्रुतानन्तत्व-लिङ्गस्य त्वद्-अभिमताकाशे व्यभिचरितत्वात् ।

अन्-अन्तो भगवान् ब्रह्म वासुदेवादिभिः परैः ।
प्रोच्यते विष्णुर् एवैकः परेषां उपचारतः ॥

इति ब्राह्म-वचन-विरोधश् च ॥

द्वितीये भूताकाश-परैव सा श्रुतिः स्यात् । न च गुणतो ऽप्य् आनन्त्य-रूपं अन्-अन्त-शब्दोक्तं लिङ्गम् अव्-यभिचरितम् एवेति वाच्यम् । गुणानन्त्य-रहिताकाश-दृष्टान्तेन आनन्त्य-प्रकारम् अतिदिशता त्वद्-उदाहृत-वाक्येन “सत्यं ज्ञानम् अन्-अन्तं ब्रह्म” इति ब्रह्म-लक्षणस्य ब्रह्मण्य् अन्-अन्तत्वांशे गुणेषु अ-सम्भव-सम्पादनम् एव फलम् इति पर्यवसानात् । यथा ब्रह्मण्य् अपि गुणानन्त्यं स्व-गुणानन्त्यम् एव वाच्यम् इति आकाशे ऽपि तथा सम्भावित–स्व-गुणानान्त्यम् आदाय आनन्त्य-प्रकारातिदेशकता युक्ता इत्य् अ-व्याकृताकाश-सिद्धिः स्यात् । तदा ब्रह्म-लक्षणम् अन्-अन्तत्वं तत्र अतिव्याप्तं स्यात् । आकाशाधिकरणम् अ-व्यभिचरित-लिङ्ग-बोधकम् अन्-अर्थकं च स्यात् ॥

न च परोवरीयस्त्वादिम् एव तत्र लिङ्गतया विवक्षितम् इति त्वया सुवचम् । तद्-भाष्ये अन्-अन्तत्वस्यापि लिङ्गत्वेनोक्तत्वात् । परोवरीयस्त्वादिम् अपि तत्-सामानाधिकरणत्वात् निरतिशयत्वाविशेषितत्वाच् च । “ब्रह्मा हि परः परो हि ब्रह्मा” इति वाक्येन हिरण्य-गर्भे ऽपि मनुष्येभ्यः परेभ्यः इन्द्रादिभ्यः वरीयस्त्वाम्नानात् उद्गीथ-शब्दस्य साम्नो द्वितीय-भाग एव उद्गातृ-प्रमुख-प्रसिद्ध्या उच्चत्वात् गीतत्वाच् च उद्गीथ इति त्वद्-अर्थ-विशेषितस्य हिरण्य-गर्भादिषु व्यभिचरितस्य इतराप्रसिद्धस्य त्वदीय-सङ्केत-मात्र-सिद्धस्य पूर्व-पक्षिणं प्रति लिङ्गत्वेन उपन्यसनायोगाच् च परोवरीयस्त्वादि-धर्मान्तरेण अस्य विष्णु-परत्व-सिद्धेश् चेति अन्-उपपन्नम् ॥

[[P133]]

अत एव मदीयो भगवान् भाष्य-कारः “सर्वाणि ह वा” इति वाक्योक्त-निखिल-जगद्-एक-कारणात्वादिक्म् एव अ-व्यभिचरितत्वाल् लिङ्गम् इत्य् अनुजग्राह । अतो भूताकाशम् आदायैव “यावान् वा अयम् आकाश” इत्य् उपमानोपमेय-भावस्य अल्पत्व-निवृत्ति-रूप-धर्म-सादृश्य-मात्रेण उपपन्नतया चरितार्थत्वात् । कल्पित-वाक्यानाम् उक्त-विधया ऽसमञ्जसत्वेन अ-प्रमाणत्वात् । अ-कल्पितत्वे ऽपि “गौण्यसम्भवात्” इति न्यायेन भूताकाश एव त्वद्-व्याख्यानानाम् अप्य् अ-सामञ्जस्य-परिहाराय चरितत्वात् न त्वद्-अभिमत-व्याकृताकाश-सिद्धिः ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये अ-व्याकृताकाश-रूप-षड्-द्रव्यातिरिक्त-द्रव्यान्तर-वाद-भङ्गः त्रयोदशः

[[P134]]