अथ द्वादशो वादः
इत्थं परमते निरसनीय-द्रव्याद्रव्य-भेदम् अनुरुध्य प्रसक्तान्य् अपि निरस्तानि निरसनीयानि । इत्थम् अ-द्रव्य-भिन्नं द्रव्यं प्रकृतिः कालो जीवः ईश्वरः धर्म-भूत-ज्ञानं नित्य-विभूतिश् चेति षड्-विधम् एवेति सिद्धान्तम् अ-सहमहानेन — “द्रव्यं षड्-विधम्” इत्य् अ-युक्तं वर्णात्मक-शब्दादेः द्रव्यान्तरस्य सत्त्वात् “यस्य वेदाः शरीरम्” इति वेदानां ब्रह्म-शरीरतोक्त्या द्रव्यत्व-सिद्धेः । त्वन्-मते अ-द्रव्यस्य शरीरत्वायोगात् । न च तेषां शरीरत्वं गौणं, पृथिव्यादीनाम् अपि तथात्वापातात् । “तस्य प्रकृति-लीनस्य” इत्य् अत्र “सर्व-वेद-प्रकृतिः ओंकारः” इत्य्-आद्य्-अर्थं वदता त्वया वर्णेष्व् अपि द्रव्यत्वस्य अभ्युपगन्तव्यत्वाच् च । न च तत्र प्रकृति-शब्दितोपादानत्वं गौणम् इति वाच्यम् । “मायान्तु” इत्य्-आदाव् अपि तथात्वापातात् ॥
वस्तुतस् तु वर्णात्मक-शब्दानां नित्य-सर्व-गतत्वेन द्रव्यत्वं दुर्वारम् । “वाचा विरूप-नित्यया”
यावद् ब्रह्म-विष्ठितं तावती वाक्
इत्य्-आदि-श्रुतेः इति यद् उक्तं तद् अ-युक्तम् । अन्-एक-श्रुत्य्-आदि-बाधितार्थेष्व् अ-निरूपकस्य एक-भ्रम-जनकैक-श्रुति-मात्रेण वस्तु–स्व-रूपान्यथा करणायोगात् । अन्यथा त्वदीय-भाष्ये
श्रुतीनां युक्ति-सहित-श्रुति-विरोधापाकरणार्थे द्वितीयस्य चतुर्थे पादे “प्राणा नित्या” इति काषायण-श्रुतौ प्राणानाम् अन्-उत्पत्ति-श्रवणे ऽपि “एतस्माज् जायते प्राण” इति श्रुति-बलात् “तथा प्राणा” इति सूत्रे प्राणानाम् उत्पत्ति-निर्धारणं “गौण्यसम्भवात्” इति सूत्रेण
प्राणानाम् अ-नादित्व-श्रुतिर् गौणी
इति निर्धारणं च अ-समञ्जसं स्यात् । तथा “नित्यं मनो-ऽनादित्वात्” इति गौपवन-श्रुतौ मनसः स-युक्तिकान् उत्पत्ति-श्रवणे ऽपि “तत्-पूर्वकत्वाद् वाच” इति सूत्रेण
एतस्माज् जायते प्राणो मनस् सर्वेन्द्रियाणि च
इति श्रुति-बलेन मनसि नानुत्पत्तिर् युज्यते
इति निर्धारणम् अन्-उचितं स्यात् ॥
[[P123]]
तथा
वाग् वा नित्या न ह्य् एषोत्पद्यते
इति पौष्यायण-श्रुतौ वाग्-इन्द्रियानुत्पत्ति-श्रवणे ऽपि “तत्-पूर्वकत्वाद् वाच” इति सूत्रेण
तस्मान् मन एव पूर्व-रूपं वाग्-उत्तर-रूपम्
इति मनः-पूर्वकत्वाद् वाचः अन्-उत्पत्तिर् इत्य् उक्तिर् अ-युक्तं स्यात् । तथा “दिवि चक्षुर् आततम्” इति चक्षुरादीनां व्याप्ति-श्रवणे ऽपि “अणवश् च’ इति सूत्रेण
अणुमिः पश्यति अणुमिः शृणोति
इति कौण्डिन्य-श्रुतेः
तद् यथा अणु, नश् चक्षुः प्रकाशे व्याततम् एवम् एवास्य पुरुषस्य प्रकाशो व्याततः अणुर् ह्य् एष पुरुषो भवति
इति शाण्डिल्य-श्रुतेश् चक्षुरादेर् अणुत्व-निर्धारणम् अन्-उपपन्नं स्यात् ॥
तथा द्वितीयस्य तृतीये पादे “गौण्य्-अ-सम्भवात्” इति सूत्रेण “आत्मन आकाशस् सम्भूत” इति बहु-श्रुति-बलात् “अनादिर् वा ऽयम् आकाश” इत्य् आकाशानुत्पत्ति-श्रुतिर् गौणी इत्य् अपि निर्धारणम् अन्-उपपन्नं स्यात् । तस्मात् तथा वर्णात्मक-शब्दस्य शरीरत्व-प्रकृतित्व-नित्यत्व-विभुत्वादि-श्रुतयश् च गौणाः । “तस्य प्रकृति-लीनस्य”
ऋचस् सामानि जज्ञिरे । छन्दाँसि जज्ञिरे तस्मात् । यजुस् तस्माद् अजायत ।
तथा तेभ्यस् तपस्-तेपानेभ्यः त्रयो वेदा अजायन्त । अग्ने ऋग्-वेदः । वायोर् यजुर्-वेदः । आदित्यात् साम-वेदः ।
इति बहुधा वर्णात्मक-शब्दोत्पत्ति-श्रवणात् । भेद-नित्यत्व-श्रुतिर् गौणी समानानुपूर्वीकत्व-मात्रार्थकत्वात् तस्याः ॥
किं च शाब्दिकैर् वेद-लक्षण-परैश् च “वकारस्य दन्तोष्ठम्” इत्य्-आदिना वर्णानाम् उत्पत्ति-स्थान-विशेष-निर्धारणात् इदानीम् उत्पन्नो गकारः नष्टो गकारः इति प्रत्ययात्, स्व-सत्ता-काल एव उपलब्धि–स्व-भावानां वर्णानाम् अन्-उपलब्धेः । स्वाभावम् आदायैव उपपादनीयतया ब्रह्म–स्व-रूपवत् विभुत्वे तद्-अ-योगेन ब्रह्मणा व्याप्त-प्रकृति-तत्-कार्येषु अ-योग्येषु तिर्यगादिषु च तद्-बाधाच् च । विभुत्व-श्रुतिर् अपि सत्यां सामग्र्यां तद्-उत्पत्ति-सम्भव-परा ॥
[[P124]]
अत एव अभिव्यक्तिर् एव वर्णानां नोत्पत्तिर् इति वादो ऽपि भग्नः । स एवायं ग-कार इति प्रत्यभिज्ञा ऽपि समान-ताल्व्-आदि-जन्यत्व-कृता । अन्यथा पूर्वोत्तर-ग-कारयोः तारत्व-मन्दत्व-परुषत्वादि-विरुद्धानन्द-विशिष्टतया श्रोत्र-ग्राह्यत्वानुपपत्तेः । तारत्वादि-व्यञ्जक-धर्म एव न वर्ण-धर्म इति सर्व-सम्प्रतिपन्नम् । तस्मात् न नित्यत्व-विभुत्व-श्रुति-बलात् वर्णात्मक-शब्दस्य द्रव्यत्व-सिद्धिः । नापि शरीरत्व-श्रुति-बलात् तस्यापि शब्दत्वेन अन्यतर-भूत-संसृष्ट-भूत-पञ्चकान्यतम-धर्मत्वावश्यं भावात् । तच् च ध्वन्य्-आत्मक-शब्दवत् गुणत्वेनैव ॥
अत एव वायोः षड्-जादि-स्वर-गुणकत्वम् ।
वेणु-रन्ध्र-विभेदेन भेदः षड्-जादि-संज्ञितः ।
अ-भेद-व्यापिनो वायोः
इत्य् अनेन यथा प्रतीयते तथा
तस्य महतो भूतस्य निःश्वसितं एतत् यद् ऋग्-वेदः साम-वेदः
नमस्ते वायो । त्वम् एव प्रत्यक्षं ब्रह्मासि
इति वायु-विशेषस्य ब्रह्म-गुणकत्वम् आम्नायते । तद्-गुण-सारत्व-निबन्धनो ह्य् अयं तद्-व्यपदेशः ॥
अत एव हि सर्वैर् अपि नाभि-देशान् निर्गत एव वायुस् ताल्व्-आदि-स्थान-विशेष-सङ्घट्टनात् तत्-तद्-वर्ण-रूप-गुण-विशेषण-सङ्घट्टनात् तत्-तद्-वर्ण-रूप-गुण-विशेष-विशिष्टतया परिणत इत्य् उपलभ्यते ॥
अत एव वेणु-वीणादाव् अपि संयोग-विशेषाद् वायु-विशेषो वर्ण-विशेष-गुणक उपलभ्यते । अत एव भूत-पञ्चकम् आदाय विशेष एव वर्णात्मक-शब्दोपलब्धिः । तस्मात् ध्वन्य्-आत्मकवत् वर्णात्मको ऽपि शब्दः भूत-पञ्चकान्यतम-गुणः “त्वम् एव प्रत्यक्षं ब्रह्मासि” “निःश्वसितम् एतत्” इति सामानाधिकरण्यं तयोः कार्य-कारण-भावात् गुण-गुणि-भावाच् च रक्तः पट इतिवत् वर्णात्मक-शब्दोपलब्धेः वाय्व्-अन्वय-व्यतिरेकानुविधानात् रक्त-शब्दवद् एवात्र वेद-ब्रह्म-शब्दव् अपि तद्वद् वाय्व्-अर्थकौ ग्राह्यौ ।
[[P125]]
अन्यथा सामानाधिकरण्य-निर्वाहात् वर्णात्मक-शब्दो ऽपि शब्दत्वेन ध्वन्य्-आत्मक-शब्दवत् गुण-सामान्यवत्वे सति तद्-ग्राहकेन्द्रिय-मात्र-ग्राह्यत्वात् ॥
अत एव “त्वम् एव प्रत्यक्षं ब्रह्मासि” इत्य्-आदि-श्रुत्या वेद-सामान्य-कारणत्वेन प्रमिते वायुः वेद-विशेषं प्रत्यपि हेतुर् आम्नायते । “वायोर् यजुर्-वेदः” “अग्ने ऋग्-वेदः” “आदित्यात् साम-वेदः” इत्य् अग्न्य्-आदि-देवता-ऽधिष्ठितत्वात् वायोः तत्-तद्-वेदोत्पत्त्य्-अर्थकः ।
एवं च वर्णात्मक-शब्दो वायु-गुणः, ध्वन्य्-आत्मकस् तु पञ्चानाम् अपि भूतानाम् । अत एव शब्दत्वेनैव भूत-पञ्चक-गुणत्वं भगवत्-प्रणीततया भगवत्-प्रतिपादकतया च सात्त्विकतमे — श्री-वराहे — प्रपञ्चिते वेद-तुल्य-प्रामाण्य-श्री-पाञ्च-रात्र-स्थायां पाद्म-संहितायां ज्ञान-पद्रे प्रथमे ऽध्याये —
प्रभवन्ति यतो लोकाः प्रलयं यान्ति यत्र च ।
भगवंस् तद् अ-शेषेण ज्ञातुम् इच्छामि शंस मे ॥
इति चतुर्-मुख-कर्तृक-सामान्य-प्रश्नस्य भगवतैवोक्त-विशेषोत्तरे —
प्रकृतिस् त्रि-गुणा ब्रह्मन् अन्-आदिर् अ-विनाशिनी ।
पुरुषाधिष्ठिता सूते स्थावराणि चराणि च ॥
गुण-साम्यात्मनस् तस्मात् पुरुषाधिष्ठितात् पुनः ।
अजायत महत्-तत्वं त्रि-विधं त्रि-विधैर् गुणैः ॥
अहङ्कारस् ततो जातः तस्य तिस्रो विधास् स्मृतः ।
वैकारिकस् तैजसश् च भूतादिश् चेति ता विधाः ॥
वैकारिकाद् अहङ्कारात् सात्त्विकात् पञ्च जज्ञिरे ।
ज्ञानेन्द्रियाणि पञ्चैवं राजसात् तैजसात् पुनः ।
कर्मेन्द्रियाणि भूतानि भूतादेस् तामसाद् अथ ॥
शब्द-तन्मात्रम् अभवत् तच्चाकाशम् अजीजनत् ।
स्पर्श-मात्रं तथा ऽऽकाशात् तस्माद् वायुर् अजायत ॥
रूप-मात्रं तथा वाचोः तस्माद् अग्निर् अजायत ।
रस-तन्मात्रम् अजन्य् अग्नेस् तस्माद् आपः प्रजज्ञिरे ।
गन्ध-तन्मात्रम् अद्भो ऽपि गन्ध-मात्रात् ततो मही ॥
इत्य्-आदिना अन्त-स्थ-तन्मात्रेन्दिय-सृष्टिकां भूत-सृष्टिम् उक्त्वा
शब्दैक-गुणम् आकाशं शब्द-स्पर्श-गुणो ऽनिलः ।
शब्द-स्पर्शौ तथा रूपं तद्वानग्निर् उदाहृतः ॥
शब्द-स्पर्शौ रसो रूपं चातुर्गुण्यम् अपां स्मृतम् ।
शब्द-स्पर्शौ रसो रूपं गन्धः पञ्च-गुणा मही ॥
इति शब्द-सामान्यस्य भूत-पञ्चक-गुणत्वं विस्पष्टम् उक्तं भगवतैव ॥
[[P126]]
तत्र वायोर् वर्णात्मकश् शब्दो गुणः इतरेषाम् अपि भूतानां वायु-साहित्य एव ध्वन्य्-आत्मक-शब्द-गुणकत्वम् अपि । तत्र वायु-विशेषस्य वर्णात्मक-गुणकत्वम् अभिप्रेत्यैव — “त्वम् एव प्रत्यक्षं ब्रह्मासि”
निःश्वसितम् एतत् यद् ऋग्-वेदः अग्ने ऋग्-वेदः वायोर् यजुर्-वेदः आदित्यात् साम-वेदः
इत्य्-आदि-श्रुतयो वर्णात्मक-शब्द-गुणक-वायुत्वेन कार्यत्वं वायु-विशेषत्वेन कारणत्वं च पुरस्कृत्य प्रवृत्ताः ॥ तथा च इत्थं गुण-भूत-वर्णात्मक-शब्दस्य “यस्य वेदाः शरीरम्” इति श्रुतिः युग-चतुष्टयाभिमानि-देवतावत् भगवत्-पाद-पीठतया ऽन्वित-वेद-चतुष्टयाभिमानि-देवता-चतुष्टयस्य भगवच्-छरीरत्व-परा ।” यथा
तं पृथिव्य् अब्रवीत् — आपो वा अकामयन्त ।
ते हेमे प्राणा अहं श्रेयसे विवदमाना ब्रह्माणं जग्मुः
इत्य्-आदयः । न यथा श्रुतार्थाकाः । किन्तु अभिमानि-देवता-पराः ॥
अत एव पाद्मे चर्या-पादे भगवत्-प्रीठाराधन-प्रकरणे युग-चतुष्टयवत् वेद-चतुष्टयस्य च पुरुषाकृतित्वेन भगवत्-पाद-पीठतया ऽन्वितत्वम् आम्नायते ।
युगश् चतर्स्रः पूर्वाद्याः तथा वेदाश् चतुष्टयाः ।
चतुर्-भुजास् सिंह-वक्त्राः सिताः पूर्वे ऽरुणः परे ॥
इति प्रथम-श्रुतो ऽप्य् अयं वेद-शब्दः चरम-श्रुत-शरीरत्वानुपपत्त्या तद्-अभिमानि-देवता-पर इति । अयम् अर्थो न्याय-सिद्धः ।
छन्दो-ऽभिधानान् नेति चेन् न तथा चेतो ऽर्पण-निगमात् —
इति सूत्रे “गायत्री वा इदँ सर्वम्” इति वाक्य-स्थ-प्रथम-श्रुत-गायत्री-शब्दस्य गायत्री-छन्दसि प्रसिद्ध-प्रकर्षवतो ऽपि छन्दो-मात्रे “इदं सर्वम्” इत्य्-अनन्तर-श्रुत-सर्वत्मकत्वस्यानुपपत्त्या ब्रह्म-परत्वम् एव न तद्-अर्थकत्वम् इति त्वदीय-तत्-सूत्र-भाष्ये ऽपि
सर्व-छन्दो-ऽभिधा ह्य् एषा सर्व-वेदाभिधो ह्य् असौ ।
सर्व-लोकाभिधो ह्य् एष तेषां तद्-उपचारतः ॥
[[P127]]
इति वामन-वचनम् अपि विलिख्य इत्थं निर्धारणात् नैतावता उपसंहार-प्राबल्य-सिद्धिर् माध्वस्य । शरीरत्वं द्रव्यत्व-लिङ्गं सर्वात्मकत्वं ब्रह्मत्व-लिङ्गं श्रुति-लिङ्गयोर् विरोधेन
आनर्थक्य-प्रतिहतानां विपरीतं बलाबम्
इति न्यायात् । लिङ्गम् एवेदं ……… श्रुतिभ्यां प्राबल्यम् इति व्यवस्थापनात् । एक-वाक्यस्य समभिव्याहृत-पदयोः उपक्रमोपसंहार-भावो ऽप्य् उपक्रमाधिकरण-रीति-विरुद्धः । तस्मात् शरीरत्व-श्रुति-रूप-लिङ्ग-बलाद् अपि न वर्णात्मक-शब्दस्य द्रव्यत्व-सिद्धिः । नापि प्रकृति-पद-श्रुति-रूप-लिङ्ग-बलात् द्रव्य-विषयक-प्रकृति-पदस्यैव उपादानार्थकत्वेन प्रकृति-बलाद् एव उपादानत्वासम्भवात् अन्यथा प्रकृतिवद् विकृतिः कर्तव्येति चोदक-कर्मणोः प्रकृति-विकृति-पद-श्रवणात् । उपादानोपादेय-भाव-प्रसङ्गः । अ-जहत् स्व-स्व-भावत्वाभिप्रायेण । “प्रकृतिं स्वाम् अवष्टभ्य” “सम्भवाम्य् आत्म-मायया” इत्य्-आदाव् अपि प्रकृति-शब्द-प्रयोगात् । तस्मात् “वेदादौ” इति मन्त्रे ऽपि अकारे ऽपि प्रकृति-शब्दो नोपादानात्मकः । गुणेषु परस्परम् उपादानोपादेय-भावायोगात् । किं त्व् औपचारिकः । अकारात्मिक-वर्ण-रूप-शब्द-गुणक-वायु-शरीरकत्वात् । परस्मात् ब्रह्मणः प्रणवात्मक-शब्द-गुणक-वायु-शरीरक-ब्राह्मण उत्पत्त्या “तस्य प्रकृति-लीनस्य” इत्य् उक्तिः ॥
अत एव
भूर् इत्य् एव ऋग्-वेदाद् अजायत । भुव इति यजुर्-वेदात् सुवर् इति साम-वेदात् तानि त्रयाण्य् अभ्यवपतत् । तेभ्यो ऽभितप्तेभ्यः त्रयो वर्णा अजायन्त अकार-उकार-मकार इति
इति श्रुतिर् अप्य् उपपन्ना ॥
[[P128]]
अत एव
अकारं चाप्य् उकारं च मकारं च प्रजा-पतिः ।
वेद-त्रयान् निर्बृहद् भूर् भुवस् सुवर् इत्य् अपि ॥
इति प्रजा-पति-शब्द-वाच्यात् परस्माद् ब्रह्मण एव अकाराद्य्-उत्पत्तिर् युक्तम् इति उपवर्णिता । तथा
अकारात्मा हि ऋग्-वेदः उकारात्मा यजुः-श्रुतिः । साम-वेदाद् उकारात्मा अनुस्वारो ह्य् अर्थ-र्वणः ॥
इति सामानाधिकरण्य-लब्ध-कार्य-कारण-भावो ऽप्य् उक्त-विधयैव वर्जनीयः । एवं ध्वन्य्-आत्मक-शब्दो ऽपि अ-व्यक्त-परिणाम-विशेष-शरीरकः परमात्मैव पूर्वावस्थया कारणताम् उत्तरास्थया कार्यताम् अनुभवतीति स एव कारण-भूतः । उभयत्राप्य् उपादानोपादेय-भावः तत्-तद्-अवस्थ-द्रव्ययोर् एवेतीह तद्-गतोपादानत्वस्य तद्-गुणे उपचार-मात्र-शब्दस्यावस्थावत्त्वाभावेनाद्रव्यत्वात् । तारत्वादि च तार-गकारादेर् एव अ-साधारणो धर्मः । न तस्य कदा ऽपि मन्दत्वम् । मन्दस्यापि न तारत्वम् इत्य् एकत्र काल-भेदेन तयोर् अ-प्रसक्त्या तारत्वादेर् नावस्थात्वम् । येन तेनावस्थावत्त्वेन द्रव्यत्वं प्रसज्येत । न हि रूपादिर् गुणः । आतपादिना कालतश् च आपाततः उत्कर्षापकर्षयोर् अ-प्रसङ्गतः तेषाम् अवस्थावत्त्वाभावाद् अ-द्रव्यत्वम् एव । एवं ध्वन्य्-आत्मक-शब्दे ऽपि शब्दाच् छब्दान्तरोत्पत्त्या अ-द्रव्यत्वम् एव । उच्चे नीचत्वम् एव । उच्चत्व-नीचत्वयोर् नैक-शब्दान्वय इति नावस्थावत्त्वोपपादन-सम्भवः । एवं वर्णात्मक-शब्दस्य प्रकृतित्वोक्तेः औपचारिकत्वम् एवेति सिद्धे ऽपि स्व-सिद्धान्ते कवि-कथक-कण्ठी-रवः प्रौढ-वादम् अवलम्ब्य न्याय-सिद्धाञ्जने स्व-सिद्धान्तम् एव प्रतिष्ठापयितुं वर्णानाम् उपादानत्वादिर् यथार्थ एवेति वा काल्पनिक इति वा दृष्टि-विधिर् इति वा उपचार इति वा तत्-तन्-मत-भेदान्य् उपन्यस्य एवं स्थिते पञ्चमः पक्ष उच्यत इत्य् अप्य् अनुगृहीतवान् । क्वचिद् याथार्थं क्वचिद् भ्रान्तिः क्वचित् दृष्टि-विधिः क्वचिद् उपचारश् चेति तस्य पक्षस्य उपपत्तिर् अप्य् उक्ता । अ-बाधिते प्रथमः बाधिते निर्मूले च द्वितीयः ।
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत
इत्य्-आदिवत् प्रणवाद्य्-अक्षरं सर्व-वर्णोपादानत्वेन उपासीत इत्य्-आदि-ध्यान-विधौ सति प्रायशस् तुतीयः बाधिते स-मूले सम्बन्ध-शालिनि चतुर्थ इति द्रव्य एवोपादानत्वादिर् याथार्थः अ-बाधितार्थत्वादि-हेतु-बाधाद् एव न प्रथमः । इत्य् अ-बाधिते प्रथम इत्य् उक्तेः । आदि-पदाच् छरीरत्व-ग्रहः अत्र च शब्द-मात्रस्य गुणत्व-परया पाद्म-संहितया “त्वम् एव प्रत्यक्षं ब्रह्मासि” इति सामानाधिकरण्ये अन्यथा ऽनुपपत्त्या च बाधात् “तस्य प्रकृति-लीनस्य” इत्य्-आदिभिः स-मूलत्वात् दृष्टि-विध्य्-अ-दर्शनात् । सम्बन्ध-शालित्वाच् च पारिशेष्यात् अकारादौ
[[P129]]
प्रकृतित्वादि-वादः औपचारिक एवेति न प्रत्यक्षं तत्र प्रमाणम् । योग्यानुपलब्धि-बाधिते तद्-अ-प्रसरात् । नाप्य् अनुमानम् । तद्-व्याप्य-लिङ्गाभावात् । नापि क्रमिकाणाम् आशु-तर-विनाशिनाम् अर्थ-प्रत्यायकत्वानुपापत्तिः । शब्द-स्फुटी-करणे ऽपि उक्त-विध-वर्णादेर् अ-सामर्थ्यात् । येनोपायेन तैर् एव शब्द-स्फुटी-करणं तेनैव लाघवाद् अर्थ-प्रत्यायकत्व-सम्भवाच् च । अत एव अर्थ-प्रतिपादकत्वेन व्याकरण-व्युत्पन्ना एक-बुद्धि-ग्रहेण सङ्घी-भूता वर्णा एव पदं — तेनैव एकार्थ-प्रत्ययः । अतो नार्थापत्तिर् अपि स्फोटे प्रमाणम् ॥
किं च अन्-अभिव्यक्तस्यैव स्फोटस्य वर्णाद्य्-उपादानत्वे सर्वत्र सर्वदा च वर्ण-पद-वाक्य-श्रवण-प्रसङ्गेन श्रुत-वर्णाद्य्-अभिव्यक्तस्य वर्णाद्य्-उपादानत्वोक्तेर् अ-सम्बद्धत्वेन वैपरीत्य-प्रसङ्गेन च अन्योन्याश्रयाच् च अ-सङ्गत एव स्फोट-वादम् अवलम्ब्यापि शब्दस्य द्रव्यत्व-वादः । एतेन पदाद् अर्थं प्रतीम इत्य् एकत्वेन शब्द-प्रतीत्या एकः शब्दः स्फुट्यते इति कल्पनम् अप्य् अपास्तम् । एक-बुद्ध्य्-अवसितत्वकतैक्यम् आदाय पदाद् अर्थं प्रतीम इत्य् एकत्वेन शब्द-प्रतीत्य्-उपपत्तेः । “शब्द-ब्रह्मणि निष्णातः” इत्य् अपि ऋग्-आदि-भेद-भिन्न-प्रत्यक्ष-शब्द-राशिम् एवाभिधत्ते । वेर्णेषु शब्देषु च या अर्थावबोधन-शक्तिः सैवार्थ-प्रकाशकत्वात् स्फोटः तस्याः भगवद्-अधीनत्वेन भगवति “स्फोटस् त्वं वर्ण-जुष्ट” इति भारतोक्तिश् च । अतः स्फोटे प्रमाणाभावात् तन्-मुखेन वर्णात्मक-शब्देन प्रकृत्य्-आदि-पद-मुख्यतेति अनुपादानत्वाद् अवस्थावत्त्व-विरहात् संयोग-रहितत्वात् सामान्यवत्त्वे सति ध्वन्यात्मक-शब्दवत् बाह्यैकेन्द्रिय-ग्राह्यत्वाच् च वर्णात्मकश् च शब्दो ऽपि अ-द्रव्यम् एवेति उक्त-विधया द्रव्य-षाड्-विध्योक्तेः न किञ्चिद् अपि बाधकम् इति दिक् ॥
इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये वर्णात्मक-शब्द-द्रव्यत्व-वाद-भङ्गो द्वादशः
[[P130]]