अथ एकादशी वादः
यद् अत्र मतं ब्रह्म–स्व-रूप–भूतयोः विज्ञानन्दयोः एक-तर-परिशेषाभावः[[??]] । प्रमेयत्वादेः स्वाश्रितत्वं वा भेदान्य-नियाम्यम्, भेदान्य-नियाम्यत्वे सति नियम्यत्वात् । यद् यद् अ-नियाम्यत्वे सति नियम्यं, तत् तद् अन्य-नियम्यं यथा घटत्व-पद-व्यवहार्यत्वं, द्रव्यत्वानियम्यत्वे सति नियम्यत्वात् । यद् यजनं सोम-हीनत्वे सति सोम-निर्वाह्य-सोम-यागत्ववत् तत् तद् अन्य-प्रतीक-रूप-निर्वाहकवत् सम्मतम् । ब्रह्म–स्व-रूप–भूतं विज्ञानानन्दादिकं वा भेदान्यैक-तरापरिशेषादि-निर्वाहकवत् भेद-हीनत्वे सति एक-तरापरिशेष-रूप-निर्वाह्यकत्वात् । यद् यद् धीनत्वे सति यन्-निर्वाह्यवत् तत् तद्-अन्य-निर्वाहकत्ववत् यथा सम्मतम् । स्वाश्रितं प्रमेयत्वादिकं वा भेदान्याश्रयाश्रयि-भाव-निर्वाहकवत्, भेद-हीनत्वे सति आश्रयाश्रयि-भाव-रूप-निर्वाह्यवत्त्वात् । यद् यद् धीनत्वे सति यन्-निर्वाह्यवत् तत् तद्-अन्य-निर्वाहकवत् यथा सम्मतम् — इत्य्-आदीन्य् अनुमानान्य् एव विशेषे प्रमाणम् इति ॥
[[P118]]
तत्र आद्ये ब्रह्म–स्व-रूप–भूतयोर् इत्य् अस्य ब्रह्मणः स्वस्यु व्यावर्तकम् इति ब्रह्म–स्व-रूप–भूतयोर् विज्ञानानन्दयोः इत्य् अभिमतम्, उत ब्रह्मणः स्वम् एव रूपं स्वाभिन्नयोः विज्ञानानन्दयोर् इति वा ? उत ब्रह्मैव स्वं तद् एव रूपम् इति ब्रह्म–स्व-रूप–भूतयोः विज्ञानानन्दयोर् इति वा ? आद्ये ब्रह्माश्रित-ब्रह्माभिन्न-विज्ञानानन्द-रूप-धर्म-द्वयाभ्युपगमे अपसिद्धान्तः । गुण-गुणिनोर् अवयवावयविनोर् वा सम्बन्धस्य तत्-प्रयुक्ताश्रयाश्रयि-भावस्य च त्वया ऽनङ्गीकारात् ।
अस्मत्-पक्षे गुणाद्याश् च तद्वन्तो हि विशेषतः
इत्य् अनुव्याख्यान-कारिका-खण्डस्य “तद्वन्तः” इत्य् अस्य विवरणे
भेद-सम्बन्ध-कार्यकरो हि विशेषः इति तद्-उभय-प्रतिनिधिर् विशेषः
इति उक्त्वा गुण-गुणिनोर् भेदतः सम्बन्धयोर् निर्वाहकत्वात् ।
उभय-व्यपदेशात् त्व् अहि-कुण्डलवत्
इत्य् अस्य त्वदीयाधिकरणे ब्रह्म-धर्माणाम् अ-भेदे धर्म-धर्मि-भावो न युक्त इत्य् आशङ्कायाः विशेष-बलेनैव तथा व्यवहारः; न सम्बन्धेन इति तद्-उभय-प्रत्याख्यानात् । तथा समवाय-निराकरण-स्थले गुण्य्-आदीनां सम्बन्धो नास्तीति व्यवस्थापनात् । तथा
अयं पटः एतत्-तन्तु-सम्बन्धः एतद्-आश्रितत्वात् एतद्-आश्रित-तृणादिवत्"
इत्य् अनुमानस्य न्याय-सुधायां स्व-रूपासिद्ध्यैव दूषितत्वाच् च ।
एवं च अवयवावयविनोर् इव गुण-गुणिनोर् अप्य् आश्रयाश्रयि-भावान् अङ्गीकारात् इह तद्-अङ्गीकारे ऽपसिद्धान्त एव । अन्-अभ्युपगमे तद्-अ-सिद्धि-निबन्धनाश्रयासिद्धिः ॥
द्वितीये ब्रह्मणस् स्वम् एव रूपम् इत्य् उक्त्वा द्विवचनोक्त्या ब्रह्माभिन्न-रूप-द्वयाभ्युपगमापत्त्या च उक्त एव अपसिद्धान्तः । अन्-अभ्युपगमे पुनः तद्-अ-सिद्धि-निबन्धनाश्रयासिद्धिर् एव ॥ तृतीये ब्रह्मैव स्वं तद् एव रूपम् इत्य् उक्तौ ब्रह्म–स्व-रूपस्य भेदासिद्ध्या पक्ष-विशेषण-द्वित्वासिद्धि-प्रयुक्ताश्रयासिद्धिः । न हि ब्रह्म विज्ञानानन्दात्मकाद् भिद्यते । “एकम् एवाद्वितीयम्” इति श्रुति-विरोधात् ॥
[[P119]]
किं च एक-तर-परिशेषाभावो नामकः किं विज्ञानानन्दयोर् द्वित्वम्, उत विज्ञानानन्द-पदाभ्यां पृथग् व्यवहारः ? नाद्यः ब्रह्म–स्व-रूपे द्वित्वासम्भवेन आश्रयासिद्धेः । द्वित्वस्य भेद-नियाम्यतया बाधः । स्व-रूपासिद्धिश् च । धर्म-भेद-प्रयुक्त-धर्मि-भेदेन तत्-परिहारो ऽपि बाधः । आश्रयासिद्धिस् स्व-रूपासिद्धिश् च । विज्ञानानन्दयोः ब्रह्म-धर्मत्वानभ्युपगमाद् अपसिद्धान्तश् च । विज्ञानानन्दत्वयोः द्वित्वस्य विवक्षायां साध्यस्य बाधः । हेतोः स्व-रूपासिद्धिः ॥
न द्वितीयः । व्यवहारस्य विज्ञानत्वानन्दत्व-रूप-प्रवृत्ति-निमित्त-नियम्यतया बाध–स्व-रूपासिद्धिभ्याम् एव पराहतत्त्वात् । सिद्ध-साधनं च स्व-रूप–भेदान्य-प्रवृत्ति-निमित्त-भेद-नियम्यत्वात् । भेदत्वावच्छिन्न-भेदान्येति विवक्षायां तादृशादृष्टेश्वरादि-नियम्यतया सिद्ध-साधनम् । तद्-वारणाय भेद-प्रतिनिम्यत्व-प्रवेशे साध्याप्रसिद्धिः । दृष्टान्तस्य साध्य-वैकल्य-व्याप्ति-ग्रहाद्य्-अभावश् च । भेदानियाम्यत्वस्यापि साध्यत्वे हेत्व्-अ-सिद्धिस् साध्य-बाधश् च । प्रवृत्ति-निमित्त-भेद-नियाम्यत्वाच् छन्द-भेद-नियाम्यत्वाच् च । साध्यस्य सिद्ध-सद्-धेतुत्व-विशेषणायोगाश् च । अथ विशेष्य-भेदानियाम्यत्वे सति इत्य् अर्थः, तर्ह्य् अ-प्रयोजको हेतुः । साध्यस्य प्रवृत्ति-निमित्त-भेदादिना ऽप्य् उपपन्नत्वात् प्रमेयत्वादेः स्वाश्रितत्वम् इत्य् अत्रापि किं प्रमेयत्व-मात्रम् एकम् उत भिन्नम् ? आद्ये स्वाश्रितत्वस्य गौणत्वेन आश्रितत्वासिद्ध्या आश्रयासिद्धिः । स्वस्य स्वाश्रयताया आवाभ्याम् अन्-अङ्गीकारात् । स्वाश्रितत्व-व्यवहारस्य पक्षत्व-परिकल्पने तस्य शब्द-भेद-तत्-प्रवृत्ति-निमित्त-भेद-नियाम्यत्वात् बाधस् स्व-रूपासिद्धिश् च । त्वन्-मते विशेष्य-निर्वाह्य-भेद-व्यवहार-स्थले आश्रयत्वानङ्गीकारेण पूर्व-पक्षे अपसिद्धान्तश् च । द्वितीये स्व-रूपासिद्धिर् बाधश् च । प्रमा-विषय-भेदायत्त-तद्-भेद-नियम्यत्वेन तद्-अ-नियाम्यत्वाभावात् । यतः प्रमा च विषयत्वानि च तत्-तत्-स्व-रूपामकानि प्रतिपदार्थं भिद्यन्ते तत एव प्रमेयत्व-भेदः सिद्धः । द्वितीयानुमाने ऽपि एक-तरापरिशेष-रूप-द्वित्व-घटितयोर् हेतु-साध्ययोः अ-सिद्धि-बाधौ । “एकम् एवाद्वितीयम्” इत्य्-आदिना स्व-रूपैक्यस्यैव प्रतिपत्तेः । भेद-हीनत्व-रूप-हेतु-विशेषणं विना द्वित्व-रूपस्य एक-तरापरिशेषस्यानिर्वाहात् हेतौ दल-द्वयस्य मिथो व्याघाताः । भेदान्यस्य द्वित्व-निर्वाहकत्वाभावात् । साध्ये ऽपि स एव व्याघातः । प्रवृत्ति-निमित्त-द्वित्वस्य एक-तरापरिशेष-शब्दार्थत्वे विशेषणांशम् आदाय साध्य-बाधः हेत्व्-अ-सिद्धिश् च । तद्-भेदस्यापि विशेषणांश-निषेधत्वे दल-द्वयस्य मिथो व्याघातः ॥
[[P120]]
अथ एक-तरापरिशेषः पद-द्वय-प्रयोगः तदा ब्रह्म–स्व-रूप-भेदान्यैकतरापरिशेष-निर्वाहक-पद-भेद-प्रवृत्ति-निमित्त-भेदवत्तया सिद्ध-साधनम् । भेदत्वावच्छिन्न-भेदान्य-निर्वाहकत्व-विवक्षायाम् अ-दृष्टेश्वरादिकम् आदाय सिद्ध-साधनम् अर्थान्तरता च । भेदान्य-भेद-प्रतिनिधि-रूप-निर्वाहकत्व-विवक्षायां भेद-निर्वाह्य एक-तरापरिशेष-निर्वाहकवद् इति विवक्षायां च पद-द्वय-प्रयोग्यस्य भेद-निर्वाह्यत्वासम्भवाद् व्याधात् । अत्रापि भेद-हीनत्वे सति हेतु-विशेषणासिद्धिः साध्य-विशेषणांश-बाधश् च । पद-भेद-प्रवृत्ति-निमित्त-भेदयोः स्फुटत्वात् । स्व-रूप–भेद-हीनत्वस्य विवक्षायां च प्रयोजकता–स्व-रूप–भेदहीनत्वे सति प्रयोग-रूप-निर्वाह्यवत्तायाः प्रवृत्ति-निमित्त-भेद-रूप-निर्वाहक-मात्रेणोपपन्नायाः भेदत्वावच्छिन्न-भेदान्य-निर्वाहकत्व-रूपं विशिष्टं साध्यं प्रत्यसाधकत्वात् ॥
स्वाश्रितं प्रमेयत्वादिकम् इति तृतीयानुमाने ऽपि पक्ष-विशेषणासिद्ध्या त्वन्-मते न आश्रयासिद्धिः । मन्-मते भेद-हीनत्वादि-घटित-हेतोः स्व-रूपासिद्धिश् च । विशेषाङ्गीकारे ऽपि व्याघातेन स्वस्य स्वाश्रयतयाः अ-योगात् बाधश् च । व्यवहारस्य पक्षत्वे पद-भेद-प्रवृत्ति-निमित्त-भेदम् आदाय अर्थान्तरं सिद्ध-साधनता च । भेदत्वावच्छिन्नेत्य्-आदि-विवक्षायाम् उक्त-विध-यावद्-दूषण-ग्रासस्य दुर्निवारता । यदि विशेषस्यैव अनुमान-त्रये ऽपि पक्ष–स्व-रूप–निर्वाहकत्वम् अभिमतं तर्हि परस्पराश्रयः । पक्ष-सिद्धौ तत्र साध्य-सिद्धिः । साध्य-सिद्धौ तद्-अधीनात्म-लाभस्य पक्षस्य सिद्धिर् इति ॥
[[P121]]
किं च साध्यतया अभिमतस्य विशेषस्य पक्षाभिन्नतया निर्वाहकवद् इति मतुब्-अर्थ-बाधात् बाधः । न हि पक्षाभिन्नस्य पक्षता-ऽवच्छेदक-सामानाधिकरण्यं तद्-व्यतिरेकेण साध्य-सिद्धिर् वा सम्भवति । अपि च सिद्धस्य पक्षत्वम् अ-सिद्धस्य साध्यत्वम् इति सिद्ध्य्-अ-सिद्ध्योर् यौग-पद्ये व्याघातः । किं च साध्य-हेत्वोः पक्षत्वावश्यं भावेन “एवं धर्मान्” इति श्रुत्या त्वन्-मते तयोर् अपि वास्तव-पक्ष-धर्मत्वासम्भवेन हेतोः पक्ष-धर्मता-बलात् तत्-समानाधिकरणं साध्यं व्याप्ति-पक्ष-धर्मता-ऽनुगृहीतं सिद्ध्यतीति विदुषाम् उपपादन-क्रमातिक्रमण-पक्षाभिन्नेन हेतुना पक्षाभिन्नस्य साध्यस्य उक्त-विशेष-साधकानुमानेषु आनन्द-तारतम्ययोः सिद्ध्य्-अर्थम् अनुमान-शरीराधर्म-धर्मिणोः पक्षता-ऽवच्छेदक-रूपयोः भेदो ऽङ्गीक्रियते, तर्हि तद्वत् गुण-गुण्यादि-भेदो ऽपि सिद्ध एव इति सिद्धं नः समीहितम् । तेषु विवादश् चोपरतः । विशेष-साधन-वैयर्थ्यं च । भेदस्यैव सिद्ध्या भेद-प्रतिनिध्य्-अङ्गीकारस्य व्यर्थत्वात् । यदि नाङ्गीक्रियते तर्हि नानुमानेन तत्-साधनासम्भवः । सर्वत्र भेदाभेदाङ्गीकारस् त्व् अ-सम्बद्धः । साधकाभावोक्तेः सप्त-भङ्गी-प्रसङ्गाच् च । यदि पक्षता-ऽवच्छेदकादेः धर्म-जातस्य पक्षादि-धर्मि-जाताद् भेदम् एव स्वीकृत्य साध्ये पश्चात् धर्म-धर्मिणोर् अ-भेद एव श्रुति-समधिगतो न प्रत्याख्येय इति मत-रहस्यं, तर्हि श्रुत्या ऽनुमानायोर् मिथो विरोधेन सर्वत्र श्रुति-बाधो दुरुद्धर इति दिक् ॥
इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये विशेष-साधकानुमान-भङ्ग एकादशः
[[P122]]