१० विशेषे श्रौतार्थापत्त्यादि न

अथ दशमो वादः

ननु मास्त्व् एव विधार्थापत्तयो विशेषे मानं — श्रौतार्थापत्तिस् तु विशेषे स्यात् । तथा हि

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यन् तान् एवानुविधावति ॥

इति श्रुतौ “धर्मान्” इति धर्म-बहुत्वम् उक्त्वा तेषां

धर्मि-भेद-निषेधात् धर्म-धर्मि-भावस्यापि तत एव निषेध-सिद्धेः धर्म-धर्मि-भावोक्तेः एकत्व-बहुत्व-बोधन-बलाच् च सर्व-विरोध-शामको विशेषो ऽभ्युपगन्तव्यः । किं च “विज्ञानम् आनन्दं ब्रह्म” इत्य्-आदि-वाक्ये बोध्ययोर् विज्ञानानन्दयोः ब्रह्माभिन्नत्वेन अन्यतरापरिशेषाय विज्ञानानन्द-शब्दयोर् एकार्थत्व-प्रयुक्त-पर्यायता-वाराणाय च विशेषो ऽङ्गीकार्यः ।

किं च

गुणाश् चेद् गुण्य्-अ-भिन्नास् तेन तयोर् भेद इष्यते ।
अ-भेदे ऽपि विशेषो ऽस्ति व्यवहारस् ततो भवेत् ।

इति स्मृतेश् च विशेषो ऽङ्गीकार्य इति ॥

तद् अप्य् अत्यन्त-भ्रम-विलसितम् । गुण-गुणिनोर् गुणानां च परस्परं भेदस्यैव बहु-श्रुति-प्रतिपन्नतया “एवं धर्मान्” इति श्रुतेस् तद्-अ-भेद-प्रतिपादकत्वासम्भवे ब्रह्मणो विज्ञानानन्दाभिन्नत्वे ऽपि विज्ञानत्वानन्दत्व-रूप-प्रवृत्ति-निमित्त-भेदम् आदाय अ-परिशेषापर्यायत्वयोः सम्भवाच् च श्रौतार्थापत्तेर् अ-सम्भवात् । श्रूयते हि “आनन्दं ब्रह्मणो विद्वान्” “स एको ब्रह्मण आनन्दः”

परा ऽस्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ।

“सर्वान् कामान्त् सह” “यस् सर्व-ज्ञस् सर्व-वित्” “प्रज्ञा च तस्मात् प्रसृता पुराणी’

एष आत्मा ऽपहत-पाप्मा विजरो विमृत्युर् विशोको ऽविजिघित्सो ऽपिपासः सत्य-कामस् सत्य-सङ्कल्पः

“त इमे सत्याः कामाः” इत्य्-आदिना गुणानां गुणिनाश् च परस्पर-भेदः सुव्यक्तः । अत्यन्त-भेदवतोर् गुण-गुणिनोर् अ-भेद-गन्धाप्रसत्त्या तयोर् भेद-व्यवहाराय वा स्व-प्रकासत्वेन ज्ञान-पद-व्यवहृतस्यैव स्व-रूपस्य अनुकूल-ज्ञानत्वेन आनन्द-पद-व्यवहृततया तयोर् अपि धर्मयोः भेदाप्रसत्त्या उक्त-विधया भिन्नार्थकयोः विज्ञानानन्द-पदयोः ब्रह्मण्य-पर्यायत्वाय वा न विशेष-कल्पना-ऽवकाशः । यदि तयोः धर्मत्वेन स्व-रूपाभेदात् न अ-पर्यायता-निर्वाहकतेत्य् अभिमन्यसे[[??]] तर्हि विशेषस्यापि धर्मत्वेन स्व-रूपाभेदेन स्व-रूपानिर्वाह्य-कार्यस्य तेनाप्य् अ-निर्वाहात्, नापर्यायत्व-निर्वाहकेतेति तुल्यम् । न हि नीलम् उत्पलम् इति पदयोः अ-पर्यायत्वम् । त्वद् अन्यस्य कस्यापि विशेष-निर्वाह्यम् । तत्र यथा एक-धर्मि-निष्ठ-नीलत्वोत्पलत्व-रूप-धर्म-द्वय-कृतम् अ-पर्यायत्वं तथा ऽत्रापि एक-धर्मि-निष्ठ-प्रकाशत्वानुकूलत्व-रूप-धर्म-द्वय-कृतम् एव तत् । एतद् द्वयम् एव विज्ञानानन्द-शब्दयोः प्रवृत्ति-निमित्त-विज्ञानन्दयोः ब्रह्मणः सार-भूत-गुणत्वाद् वा तद्-गुण-सारत्वाद् वा “विज्ञानम् आनन्दं ब्रह्म” इति निर्देशः ।

[[P116]]

ननु त्वन्-मते आनन्दस्यापि विज्ञानत्वेन तद्-उभय-भेदाभावात् कथम् अ-पर्यायतेति चेत् — श्रूयताम् अवधानेन । तत् ब्रह्मणो विज्ञानं प्रकारतो विशेष्यतश् च सर्व-साक्षात्कार एव । अयम् एव विशेषः फलोपहित-स्वानुकूलत्व-प्रकारश् चेत् स एवानन्दः अयम् एवानन्दः परे ब्रह्मणि स्व-वश्य–स्व-शरीरत्व–विशेषितः मुक्ते तु स्व-शरीरात्म-शरीरत्वेन स्व-स्वाम्य्-अनुकूलतया विशेषित इति भिदा । मनुष्यादेः चतुर्-मुख-पर्यान्तस्यानन्दस्य स्वाधिकारानुगुण्याहृति-विषयेषु मध्ये स्व-स्व-भोग्य-भोगोपकरण-भोग-स्थानादिषु यथा योग्यं फलोपहितानुकूलत्व-प्रकारक-साक्षात्कार एव । स तु पूर्व-पूर्वाद् उत्तरोत्तरस्य शत-गुणितः । एवं परापरत्मनो ज्ञान-रूपो गुणः । आनन्द-रूपाद् गुणाद् भिन्न एवेति तद्-गुण-निमित्तकयोर् विज्ञानानन्द-शब्दयोः न पर्यायत्व-लेशो ऽपि । एतेन आकाश-शब्द-शब्दाश्रय-शब्दयोः अ-पर्यायत्व-निर्वाहाय विशेषो ऽङ्गीकर्तव्य इति निरस्तम् । आसमन्तात् काशन-रूपाकाश-शब्द-प्रवृत्ति-निमित्ताद् अन्यस्यैव शब्दाश्रयत्वस्य शब्दाश्रय-शब्द-प्रवृत्ति-निमित्तस्य स्फुटतया पर्यायत्वाप्रसक्तेः । आकाश-शब्दाद् अपि शब्दाश्रयत्व-प्रकारक एव बोध इति न नियन्तुं शक्यम् । आकाशत्व-प्रकारकतयैव बोधोदयात् । तद् अप्य् एतद् एवेत्य् अपि न — अ-प्रतिघ-भूतत्वं निस्पर्श-भूतत्वं वा तत्त्वम् इत्य् उक्ति-सम्भवात् ॥

[[P117]]

एतेन तत्-तद्-वस्तुषु यः स्व-भाव–विशेषः सर्वैर् अङ्गीकृतः स एवास्मद्-अभिमतो विशेष इति विवादो ऽपि निरस्तः । स्व-भाव–विशेष इति शब्दस्य षष्ठी-तत्-पुरुषतायां वस्त्व्-अ-भिन्नत्वेन तस्य स्वाभिमत-व्याघातात् । स्व-भाव एव विशेष इत्य् उक्तौ वस्तु-निर्वाहकत्वोक्ति-विरोधः । किं च आद्य-पक्षे घटादिषु शुक्लादिर् भेद-व्यवहार-हेतुः क्लृप्तेषु द्रव्यादिष्व् अन्-अन्तर्-भूतः उतातिरिक्तः ? आद्ये न द्रव्यं पृथिव्याद्य्-अन्-अन्तर्-भावात् । नापि गुणादिः तेष्व् अपि अन्-अन्तर्-भावात् । न द्वितीयः — सर्वाङ्गीकृतत्वोक्ति-व्याघातात् । तस्मात् अ-सम्बद्धो ऽयं विशेषे श्रौतार्थापत्त्याद्य्-उपन्यसन-सम्भ्रमो ऽपि । सिद्धान्ते तु पृथिव्यादीनां गन्धादिर् एव स्व-भाव–विशेषः । स तु पृथिव्यादि-भिन्न एव नाभिन्नः । सत्त्वैकस्यैव विरुद्धं विशेषणत्वं विशेष्यत्वं च निर्वोढुम् अपि न क्षम इति तस्यापि तथा त्वद्-अभिमत-विशेषतेति ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये विशेषस्य श्रौतार्थापत्त्य्-आदि-प्रमाणकत्व-वाद-भङ्गो दशमः