०९ विशेषे न व्यवहारादि

लोकानुसारि-शास्त्रार्थ-व्यवहारान्यथा ऽनुपपत्त्या विशेष-साधन-भङ्गः॥

अथ नवमो वादः

यद् अत्र केचिद् आहुः —

गुण-गुण्य-भेद-पक्षे पटोपलम्भे ऽपि शौक्ल्याद्य्-उपलम्भान्यथा ऽनुपपत्त्या भेदाभेद-विरोधे तद्-उभय-विरोध-शमनान्यथा ऽनुपपत्त्या तयोर् अत्यन्त-भेद-पक्षे ऽपि समवायस् सम्बन्धः । सत्ता सती, भेदो भिन्नः अन्त्य-विशेषो व्यावृत्तः कालस् सदा ऽस्ति, देशस् सर्वत्र इत्य्-आद्य्-अ-बाधित-व्यवहारान्यथा ऽनुपपत्त्या च विशेषो ऽङ्गीकार्य

इति — तद् अपि विशेष-कल्पनां विना ऽनुपपन्नार्थभावात् भ्रान्ति-मात्रम् । तत्र तावद्-गुण-गुण्य-भेद-पक्षः प्राग् एव निरस्तः । “तुष्यतु” इति न्यायेन तद्-अभ्युपगन्तॄणाम् अपि शौक्ल्याद्य्-अनुपलम्भ एवासिद्धः । अभेद-पक्षे गुप्य्-उपलम्भस्यैव गुणोपलम्भत्वात् । यद्य् अपि शौक्ल्यत्वेन तद्-अनुपलम्भो ऽस्ति, तथा ऽपि तथोपलब्धिकारण-चक्षुः-संयोग-विरहात् विषयालोक-संयोग-विरहाद् वा सो ऽन्यथा सिद्धः न विशेष-कल्पनायां प्रभवति । यथा अन्धकारत्वेन अन्धकार-प्रतीताव् अपि आलोकाभावत्वेन तद्-अग्रहः प्रतियोगि-ज्ञानादि-वैकल्य-कृतः । अतः न तयोर् अ-भेद-पक्षम् आश्रित्य न तत्-कल्पना-सम्भवः । तयोः भेदाभेद-पक्षो ऽपि प्राग् एव निरस्त एव । अभ्युपेत्य ब्रुवन्तं प्रत्यपि विशेषं विना ऽनुपपन्नार्थभावात् । न तत्रार्थापत्त्य्-उपपादनासम्भवः; अन्यत्र भेदाभेदयोर् विरोधे ऽपि गुण-गुण्यादि-स्थले प्रमाण-बलेन न तयोर् विरोध इति तेनोक्ते तं प्रति विरोध-शमनान्यथा ऽनुपपत्तेर् वक्तुम् अ-शक्यत्वात् ॥

यस् तु तयोर् अत्यन्त-भेद इति मत्-पक्षः तस्मिन् न किम् अपि तत्-कल्पकं निरूपकस्य उपलभ्यते । प्रथमं समवायस्यैवाभावेन समवायः सुबद्धः इत्यस्याः प्रतीतेर् अभावात् ॥

[[P109]]

यद्यप्य् अस्ति संयोगस् सम्बन्ध इति व्यवहारः — तथा ऽपि घटत्व-द्रव्यत्वयोर् इव संयोगत्व-सम्बन्धयोर् अत्यन्त-भेदात् । तत एव उपपन्नायाः प्रतीतेः विशेष-कल्पनां प्रति न बीजत्व-सम्भवः । सामान्यतो विशिष्ट-प्रतीति-नियामकत्वम् एव सम्बद्धत्वम् । आलोकादेः घटादि-प्रकाशाप्रयोजकत्वेन द्रव्ययोर् आधाराधेय-भाव-प्रयोजकत्वेन च संयुक्ताव् इति प्रत्यय-विषय-सम्बन्धः संयोगः; तत्त्वं विशेष-रूपम् अन्यद् एव । समवायम् अभ्युपगन्तॄणाम् अपि अणुत्व-सिद्धयोः सम्बन्धत्व-रूपं समवायत्वम् उक्त-विधात् सम्बन्धत्वाद् अन्यद् एवेति तत एव सम्बन्ध इत्य् उपपन्नम् । सत्ता सती इत्य् अत्रापि सत्ता-शब्दो यदि सत्ताजात्यर्थकः तर्हि तस्याः सत्ता-देश-काल-सम्बन्ध एव । द्रव्यत्वादिवत् जातेर् अपि देश-काल-सम्बन्धित्वात् । यदि देश-काल-सम्बन्ध एव घटादेस् सत्ता, तर्हि तस्य देश-काल-सम्बन्धस्य काल एव, काल-सम्बन्धस्य तु देश एव । घटादाव् अप्य् अन्यतर-सम्बन्ध एव वैशेषिकी सत्ता । सा च सर्वत्र देशादि–स्व-रूप–रूपैवेति न अन्-अवस्था-ऽऽत्माश्रयाद्य् अपि ॥

एवं च तयोर् अत्यन्त-भेदात् तत एवोपपन्ना सा ऽपि प्रतीतिः । भेदो भिन्न इत्य् अत्रापि घटत्वादि-रूप-धर्म एव यदि भेदः तर्हि तस्य तद्-धर्म्य् एव भेदः । यद्य् अन्योन्याभावो भेदः तर्हि तस्य भिन्नत्वं तन्-निष्ठ एव क्वचिद् अन्योन्याभावः । भावाभावोभयाधिकरणकस्याभावस्य अङ्गीकार-सम्भवात् । तस्य घट-पटाभ्यां पूर्व-भेदाच् च । भेदः व्यासज्य-वृत्ति-धर्मावच्छिन्नः पृथग् एव प्रतियोगिता-ऽवच्छेदक-भेदेन अभाव-भेदात् । यावत्-प्रतीति-भेद-परम्परा-कल्पने ऽपि न दोषः । प्रामाणिक-गौरवस्यादोषत्वात् । भिन्न इत्य् अपि घट-तद्-इतर-प्रतियोगिकस्य प्रतियोगिता-ऽवच्छेदक-भेदेन भिन्नस्यापि तस्य यत् किञ्चित् प्रतियोगि-मात्र-निरूपितस्य भानाद् उपपन्नम् । अनेक-प्रतियोगिके ऽप्य् अ-भावे घटत्वस्य प्रकारतया भाने बाधकाभावात् । (यदि) घट-भेदो घट-मात्र-प्रतियोगिक-भेदवान् इत्य् अत्र का गतिः ? यदि स्वस्य स्वाश्रयतां विनेत्य् अभिधासि, तर्हि स्व-पर-निर्वाहकतया तत्र स्वाश्रयत्व-प्रतीतेर् गौणता ऽस्तु । न विशेषस् तत्र वा कल्प्यः । कल्पितस्य तस्य आश्रयाभिन्नत्वे तद्-अ-निर्वाह्य-कार्य-निर्वाहकत्वायोगात् । भिन्नत्वे तव “एवं धर्मान्” इति श्रुति-विरोधात् । भिन्नाभिन्नत्वे भेदाभेद-विरोध-शान्त्य्-अर्थं विशेषानन्तराङ्गीकारे तत्रापि तथेत्य् अनवस्थानात् ।

[[P110]]

तस्यैव स्व-पर-निर्वाहकत्वाङ्गीकारस् तु विशेषासिद्ध्य्-उपहतः । धर्मिणि सत्य् एव धर्म-सिद्धेः । इदं स्व-पर-निर्वाहकत्वं क्लृप्ते भेद एवाङ्गीकर्तुम् उचितं, धर्मि-कल्पनातो वरं धर्म-कल्पनेति न्यायात् । विशेष-रूप-धर्म-कल्पनायाम् अपि, अन्ततो गत्वा तस्य स्व-पर-निर्वाहकत्वस्य वाच्यत्वात् । प्रमाणाभावेन कल्पकाभावेन च तत्-सिद्धिर् एव अ-सिद्धेश् च । अत एव अन्त्य-विशेषो व्यावृत्त इति न प्रतीतिः । लोके प्रयुज्यमान-विशेष-शब्दस् तु सुस्थानादि-विषय एव, कालस् सदा ऽस्तीति । अस्य तु वसन्तादि-कालावच्छेदक-प्रयुक्तोपाधि-प्रवाह-नैयत्यं विषयः । देशस् सर्वत्र इत्य् अस्यापि देश-विशेष-परिदृष्टो गुण-विशेषः देशान्तरेष्व् अप्य् अस्तीत्य् एवार्थः ॥

अत एव जन्य-मात्रं कालोपाधिः, मुक्त-मात्रं दिग्-उपाधिर् इति सदा सर्वत्रेत्य्-आदि-शब्दैः घटादयो व्यपदिश्यन्ते । तेषां महा-कालादि-सम्बन्धः काल-देश-पदाभ्याम् उच्यते इत्य् एव प्राचां वादः । यत्र क्लृप्त-वस्तुनि अ-गतिकता तत्र स्व-पर-निर्वाहकता न दोषाय । अ-गतिक-स्थले दोषणां मन्दोषत्वात् ॥

अत एव

हस्तेनावद्यति स्रुवेणावद्यति स्वधितिना ऽवद्यति

इत्य् अत्र अवदान-श्रुतेः सामर्थ्य-रूप-लिङ्गानुरोधेन बाधः । स्वर्ग-कामो यजेतेत्य् अत्र स्वर्ग-भाव्यता-बोधक-वाक्यानुरोधेन पद-श्रुति-गम्य-याग-भाव्यता-परित्यागः तत्रैव प्रत्यय-श्रुति-गम्य इति इष्ट-सामान्य-भाव्यकत्वस्य वाक्य-गम्य-स्वर्ग-भाव्यकत्वानुरोधेन परित्यागः । “आग्नेय्याग्नीध्रम् उपतिष्ठते” इत्य् अत्र प्रकृताग्नेयी-ग्राहक-प्रकरणानुरोधेन आग्नेयी-मात्रस्य श्रुति-बोधितस्य त्यागः; “सहस्रं देयम् अ-परिमितं देयम्” इत्य् आधान-दक्षिणा-कल्प-भेद-श्रुतौ अ-परिमित-शब्दस्य अभिधा-श्रुति-रूपस्य सहस्र-सन्निधानेन सहस्राधिक-बहुत्व-परताम् अङ्गीकृत्यापरिमित-सामान्य-स्वीकरण-त्यागः । “वषट् कर्तुः प्रथम-भक्षः” इति षष्ठ-श्रुति-प्रापितस्य प्राथम्य-विशिष्ट-भक्षान्तरस्य यजमान-चमस-समाख्यया यजमान-चमसे कृत्स्न-विषयता-बाधः । विरोधाधिकरण-श्रुति-स्मृत्योः विरोध-श्रुतेः प्राबल्यस्य “वेदं कृत्वा वेदिं करोति” इत्य् उदाहरणे “क्षुत आचमेत्” इति स्मृत्या प्रापितम् आचमनम् अनुरुद्ध्य निरास इत्य्-आदिषु प्रबलस्यापि दुर्बलेन अ-गतिक-स्थले बाधादेर् निर्दोषतेत्य् उक्तं न्याय-विद्भिः । तथा यद्य्-उक्त-स्थलेषु विशेषं विना अ-गतिकता स्यात् तदा विशेषो ऽपि प्रामाणिकः स्याद् इति तस्य क्वचित् स्व-पर-निर्वाहकत्वं कल्प्यं स्यात् । उक्त-विधया प्रतीति-व्यवहारयोर् उपपत्तेः, त्वदीय-विशेषं विना न कस्याप्य् अनुपपत्तिर् दृष्यते ॥

[[P111]]

न च द्रव्याभिन्नस्य अ-द्रव्यस्य द्रव्य-भेद-व्यवहारान्यथा ऽनुपपत्त्या विशेष-कल्पना प्रत्याशा । द्रव्याद्रव्ययोर् भेदस्यैव बहु-प्रमाण-सिद्धत्वोपपादनात् । तत एव भेद-व्यवहारस्य सार्वजनीनत्वात् । प्रमेयत्वे प्रमेयत्वम् अपि प्रमाणान्तर-विषयत्वम् एव ।

आत्मानम् आत्मना बिभ्रद् अस्तीति व्यपदिश्यते

इत्य् अत्रापि भरण-क्रियायाम्[[??]] एकस्यां स्वात्मनिस्सिद्धवत्-कर्तृत्वम्[[??]] अ-सिद्धवत् तस्यैव कर्मत्वं विरुद्धम् इत्य् अपि न विशेष-कल्पनम् । पूर्वै-क्षणावच्छिन्नाचिन्त्याद्भुत-शक्ति-विशिष्ट आत्मा भरण-कर्ता उत्तर-क्षणावच्छिन्न-तच्-छक्ति-विशिष्ट आत्मा तत्-कर्मेति भेदेन विरोधाभावात् । “आत्मानम् आत्मना वेत्सि” इत्य् अत्र च आत्मना स्व-धर्म–भूत-ज्ञानेन स्व-धर्मि–स्व-रूपं स्वेतर-सर्व-शरीरत्वादिना वेत्सि इत्य् अर्थान् न विरोध इति न ततो ऽपि विशेष-कल्पनावकाशः ॥

यच् च अभावादाव् अस्तित्वादिः[[??]] नाभावातिरिक्तः; अभावस्य भाव-धर्मानाश्रयत्वात् । अतः स्वस्यैव विशेषण-विशेष्य-भावावगाहिनि अभावो ऽस्तीत्य्-आदि-धीः विशेषं विना अनुपपन्नेति मतम् — तच् चाप्य् अ-युक्तम् । स्व-रूप–सम्बन्धावच्छिन्न-भूतलादेर् एवाभावात् अस्तीत्य्-आदि-विधि-विषयत्वात् । तथा सर्वम् इति प्रमा-विषयत्वं सर्वस्मिन्न् इव सर्वम् इति प्रमायाम् अपीति अन्तरेण विशेषं स्वस्य स्वावृत्तित्व-विरोध-शामकः[[??]] तदा शब्दस्य हि अन्य-शब्दाभिधायकतावत् स्वाभिधायकता-विरोध-शामको ऽपि विशेष एव वाच्यः । तथा ऽभिधा-शब्द-गतायाः स्व-विषयकत्व-विरोधे स एव शामक इत्य् अपि निरस्तम् । सर्वम् इति प्रमाण-विषयता जगन्-निष्ठान्या स्व-निष्ठा चान्येति विषयता-भेदेनैव विरोध-शमनात् । घटं जानामीत्य्-आदौ कर्मत्व-निर्वाहाय अतिरिक्त-विषयता-ऽङ्गीकारात् ॥

[[P112]]

एवं च जगन्-निष्ठाद् अन्यद् एव सर्वम् इत्य्-आदि प्रमा-निष्ठं प्रमेयत्वम् । न चातिरिक्ति-विषयता-पक्षे विषयतायां विषयता-ऽन्तरम् इत्य्-आदि-विधया अन्-अवस्था-प्रसक्तिः, सा एक-ज्ञान-निरूपिता पदार्थेष्व् एकैवेति निर्णयेन तद्-अ-प्रसक्तेः । न चैवं सर्वान्तर्गतत्वेन विषयताया अपि विषयत्वे एक-विषयता-पक्षे स्वस्य स्वाधारत्व-प्रसङ्गः इष्टत्वात् । सर्व-पद-प्रवृत्ति-निमित्ताश्रयत्वेन अवच्छेदकेनाधारता । सर्व-विषयक-ज्ञान-निरूपित-विषयतात्वेन आधेयतयेत्य् अवच्छेदक-भेदम् आदाय विरोधाभावात् ॥

अत एव हि संयोग-तद्-अभावयोर् एक-वृक्ष-वृत्तित्वस्य न विरोधः । अत एव हि समूहालम्बने परस्पर-विरुद्ध-गोत्वादि-प्रकारताया अपि शब्द-शब्दे ऽपि शब्दत्व-जात्य्-आश्रयत्वेन शब्दस्यापि शब्द-पद-वाच्यता शब्द-निष्ठानुपूर्व्य्-अवच्छिन्नत्वेन वाचकेति अवच्छेदक-भेदात् न तयोर् अपि विरोधः । एवं अभिधात्व्- अ-जात्य्-आश्रयत्वेन अभिधा-शब्दस्य विषय-भावः अभिधा-पदानुपूर्वीत्वावच्छिन्नत्वेन अभिधा-शब्दस्य विषयित्वम् इति अवच्छेदकतो भेदः तत्रापि सुस्पष्टः । (यद् वा) एतेषु स्वेतर-सर्व-विषयकत्वे कः प्रत्यवायः ? तत्-तत्-स्व-रूपं तु प्रमाणान्तरेण सिद्ध्यत्य् एव । अभिधा-शब्द-गताभिधाया अपि एतेनैव शब्देन बोधन-सम्भवात् । शब्द इति शब्द इत्य् अनेन शब्द इत्य् अस्यापि न क्वचिद् अपि विशेष-कल्पननेन विना विरोधानुपशमः । एतेषु सर्वेषु विरोधाङ्गीकारे ऽपि अ-सङ्ख्यात-विशेष-कल्पना-क्लेशः । तस्य स्वाश्रयाभिन्नत्वेन (ज)गद्-अ-निर्वाह्य-कार्य-निर्वाहकत्वायोगः । भिन्नत्वे “एवं धर्मान्” इति श्रुति-बाधः । भिन्नाभिन्नत्वे तद्-उभय-विरोध-शान्त्य्-अर्थं विशेषान्तर-कल्पना । तत्रापि तथेति प्रत्याश्रयम् एवम् अ-सामाधेय-दुरवस्था-परम्परा, न निवृत्तिः ।

[[P113]]

किं च ईश्वरस्य अ-चिन्त्याद्भुत-शक्तिर् एव अ-विरोध-सङ्घटनी इत्य् अवश्यं त्वया “कृत्स्न-प्रसक्ति” सूत्रे “न स्थानतो ऽपि” इति सूत्रे “अक्षरम् अम्बरान्त-धृतेः” इति सूत्रे च अङ्गीकृततया तथैव उक्ताः सर्वाश् चार्थापत्तयो अन्यथा सिद्धा न विशेष-कल्पका भवन्ति । तथा हि “कृत्स्न-प्रसक्ति” सूत्रे यदि जीवः स्व-तन्त्र–कर्ता स्यात् तदा तस्य सिद्धान्ते तत्-स्व-रूपातिरिक्त-कार्यानुसारि-तारतम्यवच्-छक्ति-रूप-गुणाङ्गीकारात् । स्वयम् एव प्रवृत्ति-शक्ति-रूपस्य तृणादाव् अपि कृत्स्न-शक्त्या प्रवृत्तिः प्रसज्येत इत्य् अनुभव-विरोधः ॥

न च एक-देशे प्रवृत्तिः तस्य निरवयवत्वात् । अन्यथा निरवयव-शब्द-व्याकोपात् । न च “व्यतिरेको गन्धवत्” इत्य् अधिकरणे जीवस्य संशयतायाः व्यवस्थापयिष्यमाणत्वात् अंशानां बहुत्वेन अंश-विशेषैः कार्यानुगुण-तारतम्येन न कर्तृत्वोपपत्तिः । बहुत्वस्य भेद-व्याप्यत्वेन भेदस्यापि प्रसक्त्या भिन्नांश-राहित्य-प्रतिपादक-निरवयव-शब्द-व्याकोप-तादवस्थ्यात् ॥

न च विशेष-बलात् बहुत्वोपपत्तिः, भेदोपपादनीयस्यांश-बहुत्वस्य चेतने विशेषेणोपपादने घटादाव् अ-चेतने ऽपि तस्य तेनैव प्रसङ्गाद् इति । जीवस्य स्व-तन्त्र–कर्तृत्व-वादिनं पूर्व-पक्षिणं हिताकरणादि-दोषात् दोषाण्तरम् अभिधाय तस्माद् अ-चिन्त्य-शक्तिर् भगवान् एव परस्पर-विरुद्धम् अप्य् अ-भेदम् अंशांशि-कृतं बहु-विरुद्धत्वं चेतनेषु विशेषेणैव निमित्तेन समावेशयति । ततश् च अ-भेद-सद्भावात् न निरवयवत्व-व्याकोपः । बहुत्वाच् च न कृत्स्न-प्रसक्ति-रूप-दूषणम् इति तत्र अ-चिन्त्य-शक्तिर् अङ्गीकृता ।

[[P114]]

तत्र “न स्थानतो ऽपि” इत्य् अधिकरणे अन्-एकेषां पुरुषाणां स्थाने दक्षिणाक्षि-स्थाने जाग्रद्-अवस्था-प्रेरकेण “सप्ताङ्ग एकोन-विंशति-मुख” इत्य्-आद्य्-उक्त-लक्षणेन च रूपेण प्रतिस्थानं समग्रेण वा अ-चिन्त्य-शक्त्या स्थित इत्य् उक्तम् । तथा “अक्षरम् अम्बरान्त-धृतेः” इत्य् अधिकरणे “अ-स्थूलम् अन्-अणु” इत्य्-आदि-वाक्योदाहरणेन अणुर् एव विष्णुर् अ-खिल-जगद्-व्यापकश् च विचित्रयैव अ-घटित-घटना-शक्त्या यथा सूक्ष्मे कृष्ण-मुखे निखिल-प्रपञ्च-दर्शनम् इत्य् उक्तम् ॥

एवं च उक्त-विधया सर्व-विरुद्ध-धर्म-सङ्घटन-पटी यस्या परमेश्वर-शक्त्यैव त्वद्-अभिमत-विशेष-निरपेक्षया सर्व-विधानुपपत्त्य्-उपशमोपपत्तौ विशेषं विना ऽनुपपन्नः अर्थः न कश्चिद् अपि दृश्यते । एवम् अजा-गल-स्तनायमाने श्रुति-स्मृति-पथातिदूरे त्वद्-अभिमत-विशेषे अर्थापत्त्यैक-कल्प्ये न का ऽप्य् अर्थापत्तिर् इति, नैवं विधार्थापत्तयो विशेषे प्रमाणम् इति ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये लोकानुसारि-शास्त्रार्थ-व्यवहारान्यथा ऽनुपपत्त्या विशेष-साधन-भङ्गो नवमः

[[P115]]