अथ अष्टमो वादः
अथ यदि अस्ति विशेषे प्रमाणं, युक्तस् तर्हि तद्-अभ्युपगमः । तद् एव नास्त्य् अन्-उपलम्भात् । अत्र केचिद् आहुर् मध्वाः — तन्तवः पटः, शुक्लः पटः इत्य्-आद्य्-अ-युत-सिद्ध-बुद्धिर् एव विशेषे प्रत्यक्ष-रूपा प्रमाणम् — तथा हि — शुक्लः पटः; अयं घटः, गजाश्वादि-सेना, पत्रं ताटकः इत्य्-आदि-प्रत्यक्ष-बुद्धिर् अपि उक्त-विध-बुद्धीनां भू-तलं घटः इत्य्-आदिनायुत-सिद्ध-बुद्धितो वैलक्षण्यस्यावश्यकत्वात् । न च पटादेस् तन्त्व्-आद्य्-अ-भेद एव । इत्थं बुद्धय्-उदय-हेतुर् इति तद्-विषयकत्व-कृतम् एव इतर-वैलक्षण्यम् इति वाच्यम् । घटः कलश इत्य् अपि धी-प्रसङ्गात् । तद्-धेत्व्-अ-भेदस्य तत्रानपायात् । अ-भेद-व्यवहार-योग्य-वस्तुत्वाभावात् घटे न तथा धीर् इति चेत् — तर्हि तद्-योग्य-वस्तुत्वाद् एव तन्त्व्-आद्य्-अ-भिन्न-पटादिषु तन्तवः पटः इत्य्-आद्य्-अ-भेद-धीर् इति वाच्यम् । अतो युत-सिद्धि-प्रतीति-वैलक्षण्याय योग्यता-ऽवच्छेदक-भूतो विशेषो ऽपि उक्त-विधाभेद-प्रत्यक्ष-बुद्धि-विषय इति प्रत्यक्षम् एव विशेषं प्रमाणम् । अनेन भेदाभेद-व्यवहारयोर् अप्य् उक्त-स्थलेष्व् अविरोध इति साम्प्रदायिकाः इति ॥ — तद्-इदम् अत्यन्त-भ्रम-विलसितम् । प्रकार-द्वयं तद्-अवच्छिन्नैक-प्रकारि-विषयता-मात्रेण उपपन्नायास् समानाधिकरण-प्रतीतेः विशेष-सद्-भावे प्रामाण्यासम्भवात् । तन्तवः पट इत्य् अत्र हि तन्तुत्वावस्था पटत्वावस्था चेति प्रकार-द्वयं तद्-अवच्छिन्नं द्रव्यं तद्-ऐक्यम् एव विषयः । तत एव युत-सिद्ध-वैलक्षण्यम् अपि । यः आकारः प्रतीत्य्-उल्लिखितः स एव ह्य् अस्याः प्रतीत्य्-अन्तरात् भेदकः । त्वद्-अभिमत-विशेषस् तु न तथेति न तासां विशेषे प्रमाणता । उक्तं च अभियुक्तैः —
एकस्मिन् धर्मिणि अवस्था-द्वय-सामानाधिकरण्यम् आकृतिः अन्या चान्या च । द्रव्यं पुनस् तद् एवेति । अयं घटः इति त्वद्-उक्त-दृष्टान्ते ऽपि इदं त्व् अ-घटत्वयोर् एकनिष्ठता स्पष्टा । गजादि-सेना, वृक्षा एव वनम् इत्य्-आदि-धीष्व् अपि गजत्वाद्य्-आकारावच्छिन्नानाम् एव एकदेशावच्छिन्नानां सेनात्वाकार-विशिष्टत्वम् अपीति व्यक्तम् एव तयोर् आकारयोः एक-निष्ठत्वम् । प्रकार-द्वय-विरहाद् एव घटः कलशः इति सामानाधिकरण-प्रतीत्य्-उदयः । प्रतीत्य्-अन्-उल्लिखितत्वाद् एव हि अयुत-सिद्धेर् वा सम्बन्ध-नियमस्य वा नोक्त-प्रतीति-विषयत्वम्
इति हि त्वद्-ग्रन्थः । तत्त्वं विशेषे ऽप्य् अ-विशिष्टम् इति न क्वचिद् विशेषो विशेषांश-पक्ष-पातस्य ॥
[[P107]]
न च अ-भेदे भेद-प्रतीतिः भेदाभेदयोर् विरोधोपशमाय च विशेष एवादरणीय इति तस्योक्त-प्रतीति-विषयतेति वाच्यम् । भेदस्य प्रकार-गतत्वात् अ-भेदस्य प्रकारि-गतत्वात् तयोः एक-निष्ठत्वाभावात् । घटे नैल्यम् इति प्रतीतिः नैल्य-घटयोर् भिन्नत्वाद् एव । शुक्लः पट इति प्रत्यक्ष-बुद्धाव् अपि न शौक्ल्य-पटयोर् अ-भेद-भानम् । प्रत्युत जाति-गुणयोः द्वयोः एकस्मिन् द्रव्ये प्रकारतया भानात्वेन तस्याः शाब्द-बुद्धि-सारूप्यस्य सर्वानुभव-सिद्धस्य दुरपह्नवत्वात् । अतः पट इत्य् अंश इव शुक्ल इत्य् अंशो ऽपि धर्मि-पर्यन्तः । न च तद्-अंशस्य शुक्ल-गुणाश्रयता-विषयकत्वे शुक्ली-पट इत्य् आकारा धीः स्याद् इति वाच्यम् । प्रतीतेः निराकारत्वात् । शुक्ल-शब्दस्यापि द्रव्य-पर्यन्तत्वे
गुण-वचनेभ्यो मतुपो लुग् इष्यते
इति लुग्-अनुशासनेन प्रत्यक्ष-प्रतीतौ शुक्ली-पट इत्य् आकारस्य न किञ्चिद् आपादकम् । अथापि निष्कर्षकेतर-शुक्ल-शब्दो मतुब्-अर्थोल्लेखि-प्रतीति-जनक एव इत्य् अभियुक्ताः । केचन नियत-निष्कर्षकाः शौक्ल्यम् इत्य्-आदयः । शुक्लादयश् शब्दाः वैवक्षिक-निष्कर्षकाः । पटस्य शुक्ल इति प्रयोगे शुक्ल-शब्दो वैवक्षिक-निष्कर्षिकः । शुक्लः पट इत्य् अत्र तु निष्कर्ष-विवक्षा ऽस्ति । एवं च सर्वथा शुक्लः पट इति शाब्द-प्रतीति-तुल्या एव शुक्लः पट इत्य्-आदिकाः प्रत्यक्ष-धियः गुण-गुण्यादेर् भेदैक-विषयाः । अत एव न तयोर् भेद-प्रसक्तिर् अपीति भिन्न एव भेद-व्यवहारो नाभिन्न इति । अतो न कथम् अप्य् उक्त-प्रतक्ष-बलाद् विशेष-सिद्धिः ॥
इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये विशेषे प्रत्यक्ष-प्रमाण-भङ्गो ऽष्टमः
[[P108]]