०७ आनन्द-तारतम्ये न विशेषः

विशेषाभ्युपगमेन सावयव-जीव–स्व-रूप–तारतम्य-कृत-मुक्तानन्द-तारतम्य-वाद-भङ्गः॥

अथ सप्तमो वादः

ॐ यद् अपि मतं — ज्ञानानन्दादि-रूपा जीवांशः परस्परम् अ-भिन्नाः जीव-भावम् आसादयन्तः भगवत्-सङ्कल्पायत्तेन विशेष-नाम्ना प्रदाथेन प्रशासितांशानैकत्व-कृत–स्व-गत–भेद-प्रसक्तयः अंश-भूयस्ता-प्रसञ्जित–स्व-रूप–भूमानः तद्-आपादित-भेद-व्यवहार-मात्र-विषय–स्व-रूपाभिन्न–ज्ञानानन्दाद्य्-उत्कर्ष-लब्ध-चतुर्-मुखादि-संज्ञाः संसृताव् इव मुक्ताव् अपि ज्ञानानन्दाद्य्-अल्पांश-भाग्भ्यो ऽन्येभ्यः क्षुद्र-जीवेभ्यः महान्तम् आनन्दं स्व-रूपाभिन्नम् अनुभवन्तीति निर्बाधम् इहेव मुक्ताव् अप्य् आनन्द-तारतम्यम् इति । तद् इदम् अत्यन्तासम्बद्धम् । विचित्र-व्याघातोपहतत्वात् । तथा हि अंशी कश्चिज् जीवः तस्यांशाः केचनेति विभागो ऽस्ति, न वा ? आद्ये किम् एतैर् अंशैः? तेनैव शरीर-धारण-सम्भवात्, अंशाभ्युपगमो निरर्थकः । द्वितीये जीवांश इत्य् उक्ति-व्याघातः । परैः पृथिव्यादि-परमाणु-पुञ्जत्वोक्तिवत् अवयव-पुञ्जा जीव एव इत्य् उक्तं स्यात् । तथा ऽपि अवयवानां परस्परम् अ-भेदः किं निबन्धनः ? यदीश्वर-सङ्कल्प-मात्र-निबन्धनः तर्हि किम् अनेन विशेषेण ? यदि विशेष-निबन्धनः, तर्हि स विशेषः किं प्रत्यवयवं भिन्नः उत द्वित्ववद् एक एव ? आद्ये स्वतो भिन्नावयवानां स्वयम् अपि परस्परं भिन्नः तेषां कथम् अ-भेदम् आदध्यात् ? गुण-गुण्यादौ भेद-व्यवहाराधायकस्य वा कथम् इह अ-भेदाधायकत्वम् ? द्वितीये न क्वचिद् अपि पर्याप्त-वृत्तिक इति स्वाश्रययोर् अ-भेद-साधक-द्वित्वादिवत्, अयम् अपि नाभेदम् अवयवानाम् आदध्यात् । यदि स्व-रूप–धर्मत्वेन स्व-रूपाभिन्न एव विशेषः स्व-पर-निर्वाहकत्वात् स्वस्य स्वाश्रय-भेदम् अवयवानां परस्पर-भेदं च प्रत्याययतीति मतं — तद् असत् । स्व-रूपाभिन्नस्य विशेषस्य स्व-रूपानिर्वाह्यावयवानेकत्व-तद्-अ-भेदयोः विरुद्धयोः निर्वाहकत्वाद्योगात् । गुण-गुणि-स्थले भेद-कार्यकरतया विशेषः भेद-प्रतिनिधिर् इति ब्रूषे । जीवावयवेषु अ-भेद-कार्यकरणार्थम् अ-भेद-प्रतिनिधिर् अपीत्य् अभिदधासीति महद्-इदं साहसम् । विशेषेणैव भेदाभेद-विरोधो ऽपि शमयितुं शक्य इति चेत् तर्हि अनेनैव सप्त-भङ्गी-विरोधो ऽपि शमयितुं शक्य इति जितं जिनैः । तथा सद्-विलक्षणत्वासद्-विलक्षणत्वयोर् अपि विरोध-शामको ऽयं स्याद् इति जितं प्रपञ्च-मिथ्यात्ववादिभिर् अपि ।

[[P104]]

किं च जीवात्मन्य् अ-च्छेद्यत्व-नित्यत्वाणुत्व-निरवयवत्वादि-ग्राहक-प्रमाणेषु जागुरूकेषु कथं जीवस्य सावयवत्व-कल्पनम् ? तत्र श्रुत्य्-आद्य्-अ-भावात् । किं च भेद-प्रयुक्त-व्यवहार-मात्र-सम्पादकतया त्वयेष्यमाणो विरोधः एकत्वानेकत्व-रूपार्थ-सम्पादको ऽपि यदि स्यात्, तर्हि स्व-सिद्धान्त–विरोधः । गुण-गुणिनोर् अवयवावयविनोस् सम्बन्धस्य तत्-प्रयुक्ताश्रयाश्रयि-भाव-सम्बन्धस्यापि प्रसङ्गात् । न चायं त्वन्-मते ऽङ्गीक्रियते ।

अस्मत्-पक्षे गुणाद्याश् च तद्वन्तो हि विशेषतः ।

इत्य् अनुव्याख्यान-कारिका-खण्डस्य “तद्वन्तः” इत्य अस्य विवरणे न्याय-सुधायां —

भेद-सम्बन्ध-कार्यकरो हि विशेष इति भेद-सम्बन्ध-प्रतिनिधित्वाविष्करणेन गुण-गुणिनोः भेदस्येव सम्बन्धस्यापि प्रख्यातत्वात् । ब्रह्म-धर्माणाम् अ-भेदे धर्म-धर्मि-भावेन युक्त इत्य् आशङ्का-परिहारार्थे

उभय-व्यपदेशात् त्व् अहि-कुण्डलवत्

इति त्वदीयाधिकरणे विशेष-बलेनैव तत्-समाधानस्य कृतत्वात् । अन्यथा हि सम्बन्धेन धर्म-धर्मि-भावो हि वर्ण्येत, समुदायि-निराकरण-स्थले गुण-गुण्यादीनां सम्बन्धो नास्तीति व्यवस्थापनात् ।

अयं पटः एतत्-तन्तु-सम्बद्धः एतद्-आश्रितत्वात् एतद्-आश्रित-तृणादिवत् —

इत्य् अनुमानस्य न्याय-सुधायां स्व-रूपासिद्ध्या दूषितत्वाच् च ।

अनन्यत्वात् नानावस्था-भेदो नाशो भवेत् तथा

इति पूर्वोक्त-कारिकोत्तरार्ध-व्याख्याने न्याय-सुधायां यथा भेद-साधकानां व्यपदेश-भेदादीनां विशेषाश्रयेणैव अन्यथा सिद्धिर् उक्ता । तथा सत्य् अपि तस्मिन् अ-सत्त्वस्यापि विशेषेणैव निर्वाहः क्रियतां किम् अवयवावयवि-भेदाभ्युपगमेन ॥

मैवम् — विशेषस्य भेद-कार्य-व्यवहार-मात्र-निर्वाहकत्वेन अ-सत्त्वं प्रत्यनिर्वाहकत्वात् । स-कल-भेद-कार्यकरत्वे विशेषो भेद् एव न प्रतिनिधिः । स्याद् इति शङ्का-परि-हाराभ्यां व्यवहारातिरिक्त-तत्-प्रयोजनार्थ-सम्पादकत्वाभावस्यैव स्थिरीकरणाच् च ॥

[[P105]]

एवं च तथैव जीवांशनाम् अपि अयं विशेषः एकत्व-भेदो न सम्पादयतीति कथं परस्परम् अ-भिन्नत्व-प्रयुक्त–स्व-गत–भेद-प्रसक्त्य्-अ-भावः कथं वा विशेषाभ्युपगम-मात्रेण एकस्यैवाच्छेद्यस्य निरवयवस्याणु-भूतस्य अंश-भूयस्तः प्रसञ्जित–स्व-रूप–भूमानः केचिज् जीवा इति सम्भवः । विशेषस्यांश-भूयस्त्व-व्यवहार-मात्र-कल्पकत्वोक्ताव् अपि तद्-भूयस्त्वाकल्पकत्वात् ॥

किं च अपरो ऽपि विशेषः विशेष एवेति सो ऽपि किम् इति अंश-भूयस्त्वाकल्पको न स्यात् । विशेषे विशेषान्तराभ्युपगमे सो ऽपि विशेषो ऽन्यत्रापि प्रसजेद् एव । सो ऽप्य् अन्यत्रापि इत्य् अन्-अवस्था । अतः सावयव-जीव-वादे अवयवानाम् अपि प्रत्येकं ज्ञानादि–स्व-रूपत्वे तेषाम् एव पृथग्-जीव-भावो दुरुपह्नव इति एकत्वेन त्वद्-अभिमतस्यापि जीवस्य अन्-एकत्वाप्रसङ्गेनापसिद्धान्तः । प्रत्येकं ज्ञानादि–स्व-रूपत्वाभावे अ-चेतन-समुदाये चैतन्य-कल्पने भूत-चतुष्टय-योगे चैतन्याभिव्यक्ति-पक्ष-विशेषः । ज्ञानादीनां व्यासज्य-वृत्तित्वाभ्युपगमेन यदि पृथग्-जीवत्वम् अंशानां नेति ब्रूषे, तर्हि धर्माणं ज्ञानादीनां धर्मि-भेदं तव “एवं धर्मान्” इति श्रुति-विरोधः । द्वितीये अ-व्यासज्य-वृत्तिभिर् अंशैः व्यासज्य-वृत्ति-ज्ञानादेः ऐक्य-सम्भवः । तस्मात् यौक्तिक-बाधक-वलितो ऽयं विशेषाभ्युपगमे ऽपि सावयवत्व-कृत-जीवानन्द-तारतम्य-वादो मुक्ताव् इति ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये विशेषाभ्युपगमेन सावयव-जीव–स्व-रूप–तारतम्य-कृत-मुक्तानन्द-तारतम्य-वाद-भङ्गः सप्तमः

[[P106]]