०६ आनन्द-तारतम्ये न सावयवत्वादि

सावयवत्वादिना जीव–स्व-रूप–तारतम्यजानन्द-तारतम्य-भङ्ग-वादः॥

अथ षष्ठो वादः

यद् अपि च मतं

जीव–स्व-रूपम् एव तारतम्यवत् तद् एवानन्द-शब्दाभिधेयम्

इति आमनुष्यम् आचतुर्-मुखम् आनन्द-तारतम्योपपत्तिर् इति । तन् न । विकल्पासहत्वात् । तथा हि — किं मनुष्य-जीवानां स्व-रूपं स्वल्पं, ततो मनुष्य-गन्धर्व-जीवानां स्व-रूपम् अधिकम्, इत्य् एवम् आचतुर्-मुखं स्व-रूप–तारतम्यम्? उत मनुष्येष्व् अपि केषाञ्चित् स्व-रूपम् अल्पं, केषाञ्चिन् महत् — इत्य् एवं वा ? नाद्यः । तथा सति त्वद्-गुरोस् तव च विपुलाविपुल-ज्ञानवतोः मुक्तावानन्द-तारतम्याभाव-प्रसङ्गात् । न चेष्टापत्तिः । साधन-तारतम्य-वैयर्थ्यापत्तेः । न च विकल्पस् त्वन्-मते सम्भवति । विकल्प-सूत्रस्य त्वया नृ-सिंहोत्तर-तापनीयोक्तोपासनस्य फल-विशेष-कामे विद्यया सङ्कलन-रूप-व्यवस्थित-विकल्प-परत्वोक्त्या मद्-रीत्या तव फल-विकल्पानवतारात् । मनुष्यत्वाद्य्-उपाधि-कृत-तारतम्य-नियमे तुल्य-न्यायेन देवत्वाद्य्-उपाधि-बलाद् अप्य् आनन्दैक्ये इन्द्र-बृहस्पति-प्राजापत्यानन्द-तारतम्याभाव-प्रसङ्गः ॥ इन्द्रत्वादिकम् अप्य् उपाधिश् चेत् — ब्राह्मणत्व-चैत्रत्वादिनाम् अप्य् उपाधिता-ऽऽपत्तौ आनन्द-तारतम्य-सङ्ख्यायाः इयत्ता-शून्यता-ऽऽपत्तिः । न चेष्टापत्तिः । मनुष्य-गन्धर्वादि-श्रौतानन्द-कीर्तन-व्यवस्थाया अ-प्रयोजकत्व-प्रसङ्गात् । मनुष्य-गन्धर्वाद्य्-आनन्द-कीर्तन-मात्रेणापि मुक्तानन्द-तारतम्य-सिद्ध्या प्रतिपर्यायं श्रोत्रियोक्ति-वैयर्थ्यं च । साधन-तारतम्य-नैष्फल्यं च ॥

एतेन श्रौतानां धर्माणां तारतम्योपाधित्वम् इत्य् अपि प्रत्युक्तं साधन-तारतम्य-वैयर्थ्यात् । वसु-रुद्रादित्य-मरुत्-साध्यादीनां विष्वक्सेनादीनां च श्रौतोपाध्य्-अ-भावेन आनन्द-तारतम्याभाव-प्रसङ्गश् च । तेषां प्रयोजकत्वे “हृद्य् अपेक्षया तु” इति सूत्र-व्याकोपश् च ॥

न द्वितीयः — मनुष्येष्व् अपि किं परिमाण-कृतं स्व-रूपम् ? तद्-गतावयव-विशेष-कृतं वा ? नाद्यः — “बालाग्र-शत-भागस्य” “बुद्धेर् गुणेनात्म-गुणेन चैव” “ह्य् आराग्र-मात्रः” “एषो ऽणुर् आत्मा” इत्य्-आदिभिः सर्वेषां जीवानाम् अ-विशेषेण अणु-परिमाण-श्रवणात् । परिमाणस्यापि गुणतया गुण-कृत-तारतम्य-पक्ष-प्रवेशाच् च । तत्-पक्षे ऽपि गुणस्य स्व-रूपात् पृथक्त्वे “एवं धर्मान्” इति श्रुति-व्याकोप-कृतस् तव अपसिद्धान्तः । स्व-रूपान् अतिरेके तत्-तारतम्यस्य स्व-रूप–तारतम्य-प्रयोजकत्वे आत्माश्रयः । नापि द्वितीयः । अणु-परिमाणस्य सावयवत्वे ऽणुत्व-व्याघातात् । किं च यदि जीवस्यावयवः स-जीवः किम् अवयवारब्धो ऽवयवी ? उतावयवा एव ? आद्ये अ-नित्यत्वात् आत्मा श्रुतेः “नित्यत्वाच् च” इति सूत्रं निर्मूलम् । श्रुतीनां प्रतिघातः । आरम्भकावयवानाम् अपि स्व-स्वावयवारब्धत्वे अन्-अवस्था च ॥ द्वितीये “सेना-वनादिवत्” इति समुदायस्य जीव-शब्द-भाक्त्वे तस्य समुदायातिरेके “एवं धर्मान्” इति श्रुति-क्षतिः । अवयव-धर्मत्वानङ्गीकारे ऽपि देहादि यत् किञ्चित् प्रतिधर्मत्वे ऽपि तद्-अ-भेद-प्रसङ्गः । यद्य् अ-पृथक्-सिद्धेषु जात्यादिष्व् एव धर्मत्वम् इति निर्बन्धः सो ऽप्य् अ-सम्बद्धः । धूमादिष्व् अपि पक्ष-धर्मत्वादि-व्यवहारेण धर्म-शब्दस्य जाति-गुणासाधारण्यानुगपत्तेः ॥ एवं च “एवं धर्मान्” इति धर्म-शब्दासङ्कोचाय शरीर-जीवयोर् अप्य् अ-भेदः स्याद् एव । यदि तु सङ्कोच इष्यते, तर्हि उक्तार्थैकैवेह श्रुतिर् इति गुण-गुण्य्-अ-भेदेन सा प्रमाणं स्यात् ।

[[P101]]

किं च समुदाय्य्-अतिरिक्ति-समुदायाङ्गीकारे ऽपि जीवावयवानाम् अ-चेतनत्वे अ-चेतन-समुदाये चैतन्य-कल्पने भूत-चतुष्टय-योगे चैतन्य-पक्षाविशेषः ।

अनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञान-घन एव

इति श्रुति-विरोधश् च । तेषाम् अपि प्रत्येकं चेतनत्वे अन्-एक-चैतन्य-कल्पन-प्रसङ्गः । एकस्मिन् देहे चैतनैकत्व-नानात्व-व्यवहार-प्रसङ्गश् च । तद्-गत-ज्ञानानाम् इच्छाद्य्-अन्-आरम्भकत्वे ज्ञानत्वाभाव-प्रसङ्गः । तद्-आरम्भकत्वे विरुद्धेच्छा-ऽऽदि-प्रयुक्त-प्रवृत्ति-मात्र-प्रतिबन्ध-प्रसङ्गः । तज्-ज्ञानानि सर्वाण्य् अपि समान-विषयाणि इत्य् अत्र न किञ्चिद् अस्ति प्रमाणम् । तथा ऽपि तत्-कल्पने न किञ्चित् कल्पकम् अस्ति । अन्-अतिरेके सर्वेषां जीवत्व-ज्ञानानन्दादि-गुणकत्व-प्रसक्तौ एकस्मिन् शरीरे एको जीव इति व्यवस्था-भङ्गः । तथा च

प्रजा-पतिः प्रजा असृजत"

सूर्याचन्द्रमसौ धाता यथा पूर्वम् अकल्पयत्

“इन्द्रस्य बृहस्पतेः” इत्य्-आदि-श्रुति-विरोधः । परस्पर-विरुद्ध-चेष्टादिना शरीर-विशरण-प्रसङ्गः । अवयवानेकत्व-कृत–स्व-रूप–महत्त्वालाभश् च । अवयवानाम् एवास्मिन् पक्षे प्रत्येकं जीव-शब्दाभिलप्यत्वात् । उभयस्मिन् पक्षे ऽपि एकस्यावयवस्य चेतनत्वात् इच्छया विश्लेषे समुदाय-नाशात् जीवान्यत्वे कृत-हानाकृताभ्यागम-जीवादि-शब्द-नानार्थकत्वादि-दोष-प्रसङ्गः । न हि प्रथम-पक्षे ऽपि अ-चेतन-समुदायस्य जीवत्व-सम्भवः । अ-दृष्ट-वशाद् अ-विश्लेष-कल्पने च अ-प्रामाणिकादृष्ट-कल्पना-क्लेशः ॥

किं च एकस्मिन् देहे सज्-जीव–दुर्-जीव-सङ्कलनं त्वद्-अभिमतम् । अत्र श्रुत्य्-आदि-प्रमाणाभावात् तत् कल्पनीयम् । तत्र शिशु-पालादेः मोक्षो ऽप्य् उपलब्धः । बह्व्-अ-कृत्याचरणं चोपलब्धम् । तत्र पाप-कर्तुर् जीवस्य मोक्षायोगात् जीव-भेद आवश्यकः इत्य्-आदिकं हि तव कल्पकम् । तत्र पाप-करण-मात्रस्य लोके ऽपि तुल्य-न्यायतया दुर्जीव-कर्तृत्वात् तस्य प्रायश्चित्ताधिकाराभावात् । सज्-जीवस्यापि पाप-प्रसक्ति-शून्यत्वेन तद्-अधिकार-विरहात् तत्-छास्त्रं कृत्स्नम् अ-प्रमाणं स्यात् । सज्-जीवे तत्-फल-प्रसक्तेः दुर्जीवस्य तत्-स्वाभाव्याच् च ॥

[[P102]]

किं च त्वन्-मते जीव-मालस्य प्रतिबिम्बांशकत्वात् मुक्त-प्रतिबिम्बानाम् आनन्दतो मिथो वैचित्र्ये बद्ध-प्रतिबिम्बेष्व् इव अनाद्य्-अ-विद्या-कर्मादि-जनितादृष्ट-रूप-नियामकाभावात् स्व-रूप–भेदस्यैव तन्-नियामकत्वे स्व-रूप–भेदाभाव-बोधकोक्त-बहु-मान-बाधात् । अन्यथा तव मते स्व-रूपांशकत्वेन सम्प्रतिपन्न-कृष्ण-रामादिष्व् अपि सङ्ख्यातो भेदावश्यंभावेन तेष्व् अपि

तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपिल इति, तस्य ह वा एतस्य परमस्य पञ्च-रूपाणि दश-रूपाणि शत-रूपाणि सहस्र-रूपाणि अ-मित-रूपाणि तानि ह वा एतानि सर्वाणि पूर्णानि

इत्य्-आदि-चतुर्-वेद-शिखा-बलात् आनन्दतः पूर्णत्वोक्तौ

सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः ।

सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता

इत्य्-आदि-बहु-श्रुति-बलात् मुक्ते ऽप्य् आनन्दतः पूर्णतायास् सिद्धेः मुक्तानन्द-पर-श्रुति-मात्रस्य तत्-तद्-योग्यानन्द-मात्र-परत्वेन निमित्त-सङ्कोचे कृष्णादिष्व् अपि तत्-तत्-पर–तत्-तत्-प्रमाण-प्रतिनियतानन्द-विशेष-मात्र-विश्रान्ततायाः तत्-पर-श्रुतिष्व् अपि वक्तुं शक्यत्वात्, दिव्य-विग्रह-दिव्यात्मनोर् अ-भेदस्य तद्-उभय-भेद-मुखेनैव सर्व-प्रमाण-प्रवृत्त्य्-उपहतत्वात्, निरंशे अ-खण्ड–स्व-रूपे स्व-रूपांशकत्वोक्तेश् च तेष्व् अ-सम्बद्धत्वात् । एक–स्व-रूपस्य अन्-एक-विग्रहकत्वेन यथा न आनन्द-तारतम्य-प्रसक्तिः, तथा अ-न्यूनातिरिक्त-समान–स्व-रूपतया प्रतिपन्नानां मुक्तानाम् अपि न आनन्द-तारतम्य-प्रसक्तिः ॥

इति श्रीमत्-प्रथम-पर-काल-महा-देशिक-विरचिते विजयीन्द्र-पराजये सावयवत्वादिना जीव–स्व-रूप–तारतम्य-कृत आनन्द-तारतम्य-भङ्ग-वादः षष्ठः

[[P103]]