०५ आनन्द-तारतम्ये नानुमानम्

अथ पञ्चमो वादः

यानि चात्र आधुनिक-हैतुकानाम् अनुमानानि —

अपवर्ग-सुखं तरतम-भावापन्नं, तरतम-भावपन्न-साधन-साध्यत्वात्, अग्नि-होत्र-दर्श-पूर्ण-मास-ज्योतिष्टोम-साध्यापवर्गवत्

इति, तत्र यत् प्रथमानुमानम् — तन् न सत् । अ-खण्ड-ब्रह्मानुभवस्यैव मुक्त-सुखत्वोपपादनेन तत्-तारतम्य-साधने — “सर्वं ह पश्यः पश्यति”

रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति

इत्य्-आदि-मुक्त-मात्र-पर-श्रुत्यैव बाधात् । वैषयिक-सुख-पक्षीकारे मुक्तौ तद्-अ-भाव-बोधक “रसँ ह्य् एवायं लब्ध्वा” इति श्रुत्यैव आश्रय-बाधात् आश्रय-सिद्धिः । मुक्तस्य “कामान्नी” इत्य्-आदि-श्रुति-बोधिताः सदेह त्व् आयत्ता जक्षणादि-व्यापाराः तद्-विषयाः तत्-कामना च स्व-तन्त्र-शेषित्वेन एतैर् अपि स-शरीरतया भोक्तुर् ब्रह्मण एव इच्छाम् अनुसृत्य अ-वर्जनीय-स्वानुषङ्गिक-तत्-तुल्य-भोग-फलकाः तद्-भोक्तृत्वोपकरण-भूताः तत्-तद्-विशिष्टतया ब्रह्मानुभव-रूपाखण्ड-ब्रह्मानुभव-विश्रान्ता इति न का ऽपि श्रुतिर् अस्मन्-मते मुक्तस्य ब्रह्म-व्यतिरिक्त-विषयानुभव-परा दरीदृश्यत इति प्राग् एव प्रपञ्चितम् अस्माभिः । अतो मुक्तस्य ब्रह्म-व्यतिरिक्ततया त्वद्-अभिमत-विषयानुभव-रूप-सुख-गन्धाभावात् तत्-पक्षीकारे आश्रयासिद्धिर् एव । एवम् एव ब्रह्मणो ऽप्य् ऐन्द्रियक-हेय-विषय-भोगाप्रसक्त्या ब्रह्मैव अ-खण्डितं ब्रह्मणो मुक्तस्य च भोग्यम् इति तद्-अन्तर्गतैक-देश-विषयाः “सत्य-कामः सत्य-सङ्कल्पः” “कामान्नी” इत्य्-आदयः ब्रह्मणि मुक्ते च इत्य् एव हि अस्मत्-सिद्धान्तः ।

[[P92]]

हेतुर् अप्य् अ-सिद्धः । अस्य जीवस्य एतावती प्रीतिः मोक्षायेति तत्-तद्-विद्या-प्रकरणेष्व् अ-श्रवणेन “यम् एवैषः” इति श्रुत-निरतिशय-प्रीति-रूप-भक्तेः सर्व-साधारण्योक्त्या च मुक्ति-साधन-भक्तौ तरतम-भावस्यैवाभावेन सुखे त्वद् धेत्व्-अ-सिद्धेः । “अ-स्थूलम् अनणु” इत्य्-आदि-श्रुति-बोधित-प्रपञ्च-प्रत्यनीकाकाराणां सत्यत्वादि-गुण-षट्कस्य च

ब्रह्म–स्व-रूप-निरूपकतया तेषां कारणत्वोपयुक्तानां च सर्व-विद्या-साधारण्येन निरूपित–स्व-रूप–विशेषण-भूत-गुणेषु तत्-तद्-विद्या-प्रतिनितेषु न्यूनाधिक-भावस्य तत्-तद्-विद्या-शरीर-निष्पादकस्य भक्ति-शरीर-भेद-मात्र-प्रयोजकस्य भक्तित्वाकार-तारतम्याप्रयोजकतया च साधने तत्-कृत-तारतम्य-सिद्ध्या ऽपि तत्र त्वत्-सिद्धेः । न हि रस्य-विशेष-तारतम्य-युतातिरस्य-बह्व्-अल्प-भक्षयोर् अस्ति तृप्ति-तारतम्यं, येन मुक्ति-साधन-भक्ति-तारतम्यं स्यात् । ब्रह्मादयो हि तारतम्येन बहु-भक्षक-स्थानीयाः मनुष्याश् च अल्प-भक्षक-स्थानीया इति हि भक्ति–स्व-रूपाभिज्ञास् सङ्गिरन्ते ।

किं च आनन्दादि-रूपाणां यावद्-ब्रह्म-गुणानां त्वन्-मते ब्रह्माभिन्नतया कथं कृत्स्नैकदेश-विषयकत्व-कृतम् उपासन-गत-साधन-तारतम्यम् ? अग्नि-होत्रादि-तरतम-भाववत् ब्रह्म-व्यतिरिक्त-विषयानुभव-फलकतया तरतम-भाववत्, बहु-वित्त-बह्व्-आयास-साध्यतया च स्व-रूपतस् साधन-भावतश् च तारतम्यवद् इति तत्-कृत-फल-तारतम्यवद् एव, भक्तिस् तु नैवम् इति दृष्टान्तो ऽप्य् अतिविषमः । यज्ञ-दानादि-विधुर-संन्यस्त-त्वद्-गुरु-पङ्क्ति-भक्तिषु यथा दृष्टान्त-साधन-तारतम्यस्य त्वया ऽपि दुरुपपादत्वात् । तस्माद् असद् एव प्रथमानुमानम् ।

अत एव अस्मिन्न् एव साध्ये बह्व्-अल्पास-साध्य-सुखत्वाद् इति द्वितीयो ऽप्य् असद्-धेतुः । बह्व्-अल्प-भक्षक-न्यायेन तत्-तच्-छक्त्य्-अनुगुणायासेषु सर्वेष्व् अपि बहुत्व-पौष्कल्यता । स्व-स्व-शक्त्य्-अनुगुणत्व-रूपम् अल्पत्वं ब्रह्म-विद्या-ऽऽयासेष्व् अप्य् अ-विशिष्टम् इति अ-प्रयोजकत्वम् अस्याधिकं दूषणम् ।

यच् च

मुक्तानन्दः त्वद्-अभिमत-ब्रह्मानन्द-साम्य-रहितः जीवानन्दत्वात्

इति तृतीयो हेतुः — सो ऽपि अ-खण्ड-ब्रह्मानुभवस्यैव ब्रह्मानन्दत्व-निर्धारणात्, तेन मुक्तस्य परम-साम्य-परया “यदा पश्यः” इति श्रुत्या “सो ऽश्नुते” इत्य्-आदि-तर्कोत्थाभिः श्रुतिभिश् च प्रत्यक्षे बाधित-वह्न्य्-अन्-उष्णत्व-हेतुवत् बाधितः । अ-प्रयोजकश् च पूर्ववत् विषम-दृष्टान्तकश् च सः ।

[[P93]]

साध्यानन्दस्य दुर्विषय-कृतत्वात् बाधितत्वाप्रयोजकत्व-विषमत्वैर् एव — ब्रह्मानन्दः त्वद्-अभिमत-मुक्तानन्द-साम्य-रहितः; अ-मुक्तानन्दत्वात्, संसार्यानान्दवद् इति चतुर्थो ऽपि हेतुर् विध्वस्तः ।

अत एव मुक्तानन्दः परम-साम्य-रहितः आनन्दत्वाल् लौकिकानन्दवद् इति पञ्चमश् च हेतुः गर्भ-स्रावेणैव गतः । ज्ञानादि-पक्षकोक्त-साध्य-साधक-हेतूनाम् अप्य् एते दोषा दुर्निवाराः । स्व-सजातीय-मुक्तानन्दान्तरे मुक्तानन्द-साम्य-रूप-प्रतियोगि-प्रसिद्धाव् अपि त्वन्-मते आनन्दान्तरे ब्रह्मानन्द-साम्याप्रसिद्ध्या तन्-निरूपित-साध्याप्रसिद्धिर् अपि । सजातीयान्तर-सत्त्व एव साम्य-शब्द-प्रयोगात् । “गगनं गगनाकारम्” इत्य्-आदेर् आलङ्कारिक-मात्र-सरणितया तस्याः प्रतिवादिनं प्रत्यनुमान-प्रयोगे अ-किञ्चित्करत्वात् ।

यश् च निरतिशयानन्दो न मुक्त-गामी ब्रह्म-लक्षणत्वात् जगत्-कारणत्ववद् इति षष्ठानुमानं, तद् अपि अ-सत् । उक्त-बहु-श्रुति-बाधात् । निरतिशयानन्दः किं ब्रह्म-लक्षण-पर्याप्त्य्-अधिकरणम् इति तस्य लक्षणत्वम् अभिमतम्, उत लक्षणान्तर्गत-नियमेषु एक-देशत्वाद् इति ? यद् वा तस्यैव लक्षणत्वेन श्रुति-बोधितत्वाद् इति ? नाद्यः; अन्-अन्तत्वस्यैव तथात्वात् । तच् च देशतः कालतो वस्तुतः स्व-गत–यावद्-गुणतश् च परिच्छित्ति-रहितत्वम् । अतः न तस्य लक्षणत्व-पर्याप्त्य्-अधिकरणत्वम् । न द्वितीयः अ-प्रयोजकत्वात् । न हि त्वया देशतः कालतः स्व-रूपतश् च अ-परिच्छिन्नत्वं न ब्रह्म-गुण-गामीति वक्तुं शक्यम् । न हि तस्य तद्-गामित्वे ब्रह्म-लक्षणम् अतिव्याप्तं भवति । विध्वस्तो हि ब्रह्मण्य् अपि गुण-गुणिनोर् अ-भेदः । नापि तृतीयः; तन्-मात्रस्य लक्षणत्व-पर-श्रुतेः क्वचिद् अप्य् अ-दर्शनात् ।

[[P94]]

यद् अपि ब्रह्म–स्व-रूप–गुणादिकं न मुक्त-भोग्यम् अ-तदीयत्वात् । यत् अ-तदीयं तत्र तेन भोग्यं, यथा अ-देवदत्तीय-मातृ–स्व-रूप–गुणादिकं देवदत्तस्येति — सम्पमानुमानात् । तत् तु दृढतर-विषय-वासना-ऽधिष्ठितस्य तत एव अन्ध-तमो-योग्यस्य तवैव रोचते । यद्य् अत्र तदीयत्वं तच्-छेषत्वं तर्हि राज-पत्नी-भोग्ये राज्ञि व्यभिचारः । भोगो हि स्वानुकूलत्व-प्रकारक-साक्षात्-कारः । तद्-विषयत्वम् एव भोग्यत्वम् । तच् च दासं प्रति स्वामिनि शिष्यं प्रत्याचार्ये पुत्रं प्रति मातरि पितरीव सर्वानुभव-सिद्धम् ।

न वै देवा अश्नन्ति न पिबन्ति एतद् एवामृतं दृष्ट्वा तृप्यन्ति

इति तृप्ति-कर-दर्शन-विषयत्वम् एव हि दृश्यानां मुक्तं प्रत्यपि भोग्यत्वम् इति श्रुति-शत-समधिगतम् ।

रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति

“रसो वै सः” “सर्व-गन्धस् सर्व-रसः” इति निरतिशय-भोग्यत्वं ब्रह्मणि निस्सन्दिग्धम् आम्नायते । तल्-लाभस्यानानन्दित्वं च । तथा “भूमैव सुखम्” “यत्र नान्यत् पश्यति” “कं ब्रह्म” “खं ब्रह्म” “सदा पश्यन्ति सूरयः” “प्राज्ञेनात्मना सम्परिष्वक्तः”

आत्म-रतिर् आत्म-क्रीडः आत्म-मिथुन आत्मानन्दः

“आनन्दो ब्रह्म” इत्य्-आदिना मुक्तं प्रति ब्रह्मणि सुखत्वादिकं विस्पष्टम् उक्तम् । त्वया ऽपि “अम्बुवद्-अग्रहणात् तु” इति सूत्रे अम्बुनीव भगवति प्रीत्य्-अ-भावात् । स्व-गत–भगवत्-सादृश्यम् अद्य नाभिव्यज्यत इत्य् उक्तम् । अन्नमयत्वं च आनन्दमयाधिकरणे त्वद्-उक्तं भोग्यत्वम् एव तस्य दर्शयति । अतः तच्-छेषत्वादि-हेत्व्-अर्थ-विवक्षायाम् अ-प्रयोजकता च । यदि तत्-सम्बन्धित्वम् एव चेत् तदीयं तर्हि स्व-रूपासिद्धो हेतुः । गुण-विशिष्टम् एव ब्रह्म–स्व-रूपम् इति गुणादेर् भोग्यत्वम् अपि निर्व्यूढम् । विभूत्य्-आदीनाम् अपि भोग्यत्वं स्वे भोगे ब्रह्म-विभूत्य्-आदेर् एव स्वानुकूलत्व-कृतम् इति न क्वचिद् अप्य् अ-तदीयत्व-रूप-हेतु-सिद्धिः । किं च —

निरस्तातिशयाह्लाद-सुख-भैकलक्षणा ।

परस्परानुकथनं पावनं भगवद्-यशः ।
मिथो रतिर् मिथस् तुष्टिः निर्वृत्तिर् मिथि आत्मनः ॥
स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् ।

भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ।

या प्रीतिर् अ-विवेकानाम्

इत्य्-आदिभिर् अपि बाधित-साध्यकस् त्वद्-धेतूः ।

[[P95]]

किं च प्रथम-द्वितीययोर् हेत्वोः दुर्विषयानुभव-सुखत्वं, तृतीये चतुर्थे पञ्चमे च प्राकृतानन्दत्वम् उपाधिः । तथा ज्ञानादि-पक्षकेष्व् अपि कर्म-वश्य-ज्ञानत्वादिम् उपाधिर् एव । षष्ठो ऽपि हेतुः द्वितीय-विवक्षायां पुष्कल-ब्रह्म-लक्षणत्वेन सोपाधिकः । सप्तमो ऽपि हेतुः प्रथम-विवक्षायां तुच्छत्वेन सोपाधिकः ।

यानि चात्र प्राचीनानि माध्वानाम् अनुमानानि —

ईश्वरानन्दो मुक्तानन्दाद् उत्कृष्टः शेष्यानन्दत्वात्, तथा मुक्त-जीव-भोग ईश्वर-भोगान् निकृष्टः जीव-भोगत्वात्, तथा अस्मद्-आदि-मुक्त-भोगः मुक्त-चतुर्-मुख-भोगान् निकृष्टः अस्मद्-आदि-भोगत्वात्

इत्य्-आदीनि; — तत्र ईश्वरानन्द-शब्देन स-विभूतिक–स-गुण–स्व-विषयक–साक्षात्कार-ग्रहणे साध्यस्य मुक्ते “सर्वं ह पश्यः पश्यति” इत्य्-आदिभिः अ-न्यूनानतिरिक्तत्वावसायिनीभिर् एव श्रुतिभिर् बाधितः । तद्-आनन्दानुप्रविष्ट-जगत्-सृष्ट्य्-आदि-व्यापार-विवक्षायां तस्य मुक्तानन्दानुप्रविष्ट-साङ्कल्पिक-पित्रादिम-सर्गाद् उत्कर्षस्य सिद्धत्वात् सिद्ध-साधनम् । अथ साध्ये ऽपि को ऽयम् उत्कर्षः? यदि कालापरिच्छेदः तदा मुक्तानन्दस्य पूर्वावधि-विधुरतावैधुर्येण सिद्ध-साधनम् । अथ देशापरिच्छेदः तदा ऽपि स्व-सिद्ध–साधनता आनन्दयोः अणु-परिमाण-जीवाश्रिततया अ-परिच्छिन्न–स्व-रूपाश्रिततया च अस्मद्-इष्टत्वात् । अथ स्व-रूपापरिच्छेदो विषयितापरिच्छेदो वा — तदा “सो ऽश्नुते” “सर्वं ह पश्यः पश्यति” इत्य्-आदिभिर् एव बाधः । “स चानन्त्याय कल्पते” इत्य् आनन्त्यस्य विशेष्ये बाधेन प्रातिस्विक-विशेषणे धर्म-भूत-ज्ञाने ऽपि सङ्क्रमात् मुक्तस्याखण्ड-ब्रह्मानुभव एव ह्य् आनन्द इति प्राग् एव प्रतिपादितः । अत एव विषय-गतेयत्ताया अपि मुक्तं प्रति निवृत्तिः । हेतुर् अपि गुणाष्टक-प्रतिद्वन्द्वि-धर्म-व्यतिरेक इव मुक्तानन्दे निष्कर्ष-व्यतिरेकेणाप्य् उपपन्नतया विपक्ष-बाधक-तर्कभावाद् अ-प्रयोजकः ।

[[P96]]

किं च मुक्तानन्दो निकर्ष-शून्यः अ-कर्म-वश्यानन्दत्वात्, ईश्वरानन्दवद् इत्य् अनेन फलतस् सत्-प्रतिपक्षितश् च ।

ईश्वरानन्दो दुःख-मिश्रः चेतनानन्दत्वात्, बद्ध-जीवानन्दवत्

इत्य्-आदि न समान-योग-क्षेमश् च । इक्षु-क्षीरादि-सेवन-जनितो राजानन्दः सेवक-तद्-आनन्दाद् उत्कृष्टः राजानन्दत्वात्, यद् एवं तद् एवं, यथा साम्राज्य-प्रयुक्तानन्द इत्य् आभास-समान-योग-क्षेमता ऽपि । उक्त-पक्षके अस्मिन्न् एव साध्ये तद्-अवश्य-तन्-नियामकानन्दत्वात्, यद् एवं तद् एवं, यथा सेवकानन्दात् सेव्यानन्दः" इत्य् अप्य् अनुमानम् उक्त-यावद्-दूषण-ग्रस्तत्वाद् अ-सम्बद्धम् । कालानवच्छेदक-रूपोत्कर्षस्य साध्यत्वे सिद्ध-साधनात् । देशानवच्छेदस्योत्कर्षत्वे अ-चेतने प्रपञ्चे चेतनेषु बद्ध-मुक्तादि-रूपेषु तद्-अ-भावेन बाधात् । धर्मताप्रयोजक-सम्बन्ध-प्रतियोगि-धर्मि-गतोत्कर्ष(निबन्धनोत्कर्ष)-विवक्षायां तु तस्या एव सिद्ध-साधनतायाः पुनरुन्मज्जनात् । स्व-रूपत एव परस्पर-निरूपितोत्कर्ष-निकर्षयोः विवक्षा ……… (ग्रन्थ-पातः) ………

सङ्कल्प-विश्रान्त-जगद्-व्यापार-रूप-मात्र-विरततया स्वकीय-नित्य-सिद्ध-ज्ञानानन्दान्यतर-विषयकत्वाभावात् । न हाचदश्चतोर्भाव्यवस्था[[??]] विषयिणो प्रेप्सा स्वानन्दादि-विषयिणी भवति । नित्य-परिपूर्ण-ज्ञानानन्दे तद्-अ-योगात् । स्वावतारादि-विषयिण्य् अपि सा न स्वानन्दार्था; किन्तु स्वाश्रितानन्दार्थैवेति सर्वथा हेत्व्-अ-सिद्धिर् दुरुद्धरैव । न हि ब्रह्म आनन्दी स्याम् इत्य् ऐक्षत अ-कामयतेति वा श्रूयते । अपि तु “लोकान्नु सृजै बहुस्यां प्रजायेय” इत्य् एव । अतः श्रौत-भवन-व्यपदेशाः सर्वे ऽपि अन्यथा सिद्धाः न त्वदीय-हेतु-सम्पादकाः । ईश्वरानन्द-परीवाहाश् शेषित्वानुगुणाः जगद्-व्यापारान्तर्गता जगन्-नियमनादयः । मुक्तानन्द-परीवाहास् तु शेषत्वानुगुणाः शेष्य्-अभिप्रायानुगुण-बहु-विध-किङ्कर-वृत्तयः । एवं च न उभयोर् अपि ज्ञानानन्द-विषयक-प्रेप्सायास् सम्भव इति गगन-कुसुमायमान एवायं हेतुः ॥

[[P97]]

यच् च अस्मद्-आदि-मुक्त-भोगे अस्मद्-आदि-मुक्त-भोगत्वेन मुक्त-चतुर्-मुख-भोगान् निकर्ष-साधनं — तद् अप्य् असत् । अस्मद्-आदि-मुक्त-भोगस्य विशिष्टासिद्धाव् आश्रयासिद्धेः । सिद्धौ च “सो ऽश्नुते” “रसँ ह्य् एवायं लब्ध्वा” “सर्वं ह पश्यः पश्यति” इत्य्-आदिभिर् एव तद्-बाधः । एतच्-छ्रुति-सिद्ध-भोगत्वस्यैव हेतुत्वे दृष्टान्ते साधन-वैकल्यं विरुद्धता च । अनुमान-शरीरानुप्रविष्ट-भोग-शब्द-त्रयस्यापि प्रतिनियता-प्राकृत-ब्रह्मानुभव-प्रविष्ट-विषय-भोग-परत्वे ऽपि तस्य सत्य-सङ्कल्प-कृततया आविर्भूत-गुणाष्टकत्वस्य सर्व-मुक्त-तौल्येन तद्-आकारानुरूपाभिमत-भोगेषु तारतम्य-प्रसञ्जकाभावेन निष्कर्ष-साधने बाधः । हेतोर् अ-प्रयोजकत्वं च । कर्म-वश्य-भोगत्वम् उपाधिश् च । अस्मद्-आदि-मुक्त-भोगः मुक्त-चतुर्-मुख-भोगान् निकृष्टः अ-कर्म-वश्य-भोगत्वाद् ईश्वर-भोगवद् इति प्रतिपक्षोपहतश् च ॥

यच् च जीवानन्दः पर-तन्त्रानन्दत्व-साक्षाद् व्याप्य-धर्मेण स्व-सजातीयानन्द-प्रतियोगिक-तारतम्यवान्, जीवानन्दत्वात्, तदीय-वैषयिकानन्दवत्, इत्य् अनुमानं, तद् अपि एक-जातीये दर्श-पूर्णमास-ज्योतिष्टोमादि-जन्य-सुखे शास्त्रीये साधन-तारतम्य-शून्यतया तारतम्य-रहिते व्यभिचारि । यदि ज्योतिष्टोमादि-जन्यानन्दो न पक्षः — किन्तु स्व-रूपानन्द एवेति, तत् तारतम्य-सत्वात् न व्यभिचार इति मन्यसे? तर्हि — तत्र हेतुः किं षष्ठ्य्-अर्थ-गर्भकः उत जीवाभिन्नानन्दत्वाद् इत्य् अर्थकः? आद्ये, हेत्व्-अ-सिद्धिः । द्वितीये, दृष्टान्तस्य साधन-विकलता । स्व-मतेन तत्-परिहारे ततः “एवं धर्मान्” इति श्रुति-बलेन गुणानां गुण्य-भेदात् अणु–स्व-रूपतायास् सर्व-जीव-साधारणतया तारतम्यस्यापि स्व-रूपाभेदात् । बाध–स्व-रूप–मात्र-साधने सिद्ध-साधनता । तत्-परिहाराय स्व-रूप–भिन्न-धर्माङ्गीकारे अपसिद्धान्तः । अनभ्युपगम्यैवं साधने आश्रयासिद्धिश् च । गुण-साध्यकानुमानेषु गुणान्तर-हेतुकेषु हेतु-साध्ययोस् त्वन्-मते पक्षाश्रितत्वासिद्ध्या बाध–स्व-रूपासिद्ध्योः प्रसङ्गेन सर्वो ऽपि त्वद्-अनुमान-प्रपञ्चः गन्धर्व-नगर-प्रतिभास-प्राय एव ॥

[[P98]]

यच् च

प्रकृति-बन्ध-निवृत्तिः स्व–स-जातीय–बन्ध-निवृत्य्-आश्रय-प्रतियोगिक-तारतम्यवन् निष्ठाबन्ध-निवृत्तित्वात् । निगल-बन्ध-निवृत्तिवत्

इत्य् अनुमानं — तत् अत्यन्ताभासम् । तत्र किं बन्ध-निवृत्त्य्-आश्रयत्वं प्रति विशिष्टस्यैवेति तत्-प्रतियोगिकत्वं विशेषण-मात्र-प्रतियोगिकत्वम् आदाय विश्रान्तम्? उत विशेष्यस्यैवेति तन्-मात्र-प्रतियोगिकत्वम् आदाय वा ? आद्ये प्रकृति-बन्ध-निवृत्तिर् एव तारतम्यवती स्याद् इति निश्शेष-तन्-निवृत्त्य्-अ-भावात् न मुक्त-तारतम्य-सिद्धिः । अ-मुक्त-जीव-विशेष-सम्बन्धि-तारतम्यम् आदाय अर्थान्तरम् । तस्यास् तद्-आश्रय-प्रतियोगिकत्वाभावात् बाधश् च । द्वितीये च विशेष्य-मात्रे ज्ञान–स्व-रूपतायां गुणाष्टके अणु-परिमाणे च अ-न्यूनानधिक-भावावगमकान् एक-प्रमाण-बाधः । साध्य-वैकल्यम् । काल-कृत-तारतम्यम् आदाय दृष्टान्तश् चेद् इह तद्-विवक्षायां सिद्ध-साधनम् । तस्य बन्ध-निवृत्त्य्-आश्रय-प्रतियोगिकत्वाभावात् अभिमतासिद्धिः बाधो ऽर्थान्तरं च । निगल-बन्ध-निवृत्तिम् आदायैव चेत्, तर्हि पक्षे च तद्-आनुगुण्यात् अ-मुक्त-जीव-विशेषाश्रित-प्रकृति-बन्ध-निवृत्ति-तारतम्यम् एव सिद्ध्येत्, न मुक्त-तारतम्यं, तस्य बन्ध-निवृत्त्य्-आश्रय-प्रतियोगिकत्वाभावात् । पक्षे बाधः । दृष्टान्ते साधन-वैकल्यं च । समान-जातीय-समान-वयस्क-निगल-बन्ध-निवृत्तौ व्यभिचारश् च अ-प्रयोजकश् च हेतुः ॥

एतेन मुक्त-भोगाः परस्पर-तारतम्यवन्तः फलत्वात् स्वर्गादिवत् । मुक्त-भोगत्वं स्वाश्रय-प्रतियोगिक-तारतम्य-समानाधिकरणं पुरुषार्थता ऽवच्छेदकत्वात् स्वर्गत्ववद् इत्य्-आदीन्य् अपि निरस्तानि । भोग-शब्देन अ-खण्ड-ब्रह्मानुभव-रूप-भोग-ग्रहणे उक्त-बहु-श्रुति-बाधात् । क्षुद्र-भोग-ग्रहणे तत्र तद्-अ-सिद्ध्या आश्रयासिद्धेः । प्रतिनियता-प्राकृत-ब्रह्मानुभवानुप्रविष्ट-विषय-भोग-ग्रहणे अ-न्यूनातिरिक्त-सर्व-विध-पौष्कल्यवद्-धर्म्य्-अनुभवेषु एक-जातीय-ज्योतिष्टोमादि-साध्येषु तथाविध-लौकिक-भोगेषु च व्यभिचारः । हेतोर् अ-प्रयोजकत्वं च । ज्ञानादितः स्व-रूप–तौल्येन स्व-सङ्कल्पायतेष्व् अ-प्राकृतेषु स्वाभिमतानुरूप-भोगेषु तारतम्य-प्रसञ्जकान्तराभावश् च । मन्द-मध्यमोत्तम-कर्म-सिद्ध-प्राकृत-भोगत्वम् उपाधिश् च ॥

एवम् इतो ऽप्य् अधिकोत्प्रेक्षितानाम् अप्य् अनुमानानां उक्त-विधयैवाभासत्वात् उक्त-श्रुति-निकराद् एव अनन्यथासिद्धाद् अ-बाधितार्थात् अनेकोपबृंहणोपबृंहितात् मुक्तस्य आनन्दतः परम-साम्य-सिद्धिर् इति ॥

[[P99]]

यच् च न्याय-सुधायां

स्याद् एतत् मुक्त-तारतम्यानुमानं कालात्ययापदिष्टं परमं साम्यम् उपैति इति श्रुति-विरुद्धत्वात्

इत्य् आशंक्य,

श्रुतेः श्रुति-स्मृतिभ्यां बाधितत्वेन बाधकत्वासम्भवात्

इत्य् आशयवान् मोक्ष-तारतम्य-वादिनीः स्मृतीस् तावत् पठति । “दैवीम्” इति यद् उक्तं तद् अत्यन्त-कश्मल-मति-विलसितम् । स्वावैदिकत्वावह-स्वोक्तित्वात् । न हि वैदिकः कश्चित् श्रुतेर् बाध इति वक्तुम् ईहते । त्वद्-अनुमान-बाधक-श्रुति-मात्रस्य तद्-इतर-प्राकरणिकाप्राकरणिक-सकल-श्रुति-सौहार्दस्यैव अनन्तरम् एवोपपादनेन तद्-अ-बाधकानां गगन-कुसुमाय मानत्वं च इति यत् किञ्चिद् एतत् ॥

इति श्री-पर-काल-गुरु-विरचिते विजयीन्द्र-पराजये पराभिमत-मुक्त्य्-आनन्द-तारतम्यानुमान-भङ्ग-वादः पञ्चमः

[[P100]]