मुक्त्य्-आनन्द-तारतम्यस्य श्रुति-स्मृत्य्-आदि-शब्द-प्रमाण-समधिगतत्व-वाद-भङ्गः
॥ अथ चतुर्थो वादः ॥
सायुज्यं मुक्तिर् आनन्द-तारतम्य-कथोज्झिता । सार्ष्टितेत्य् एव तां मुक्तिम् आहुर् वेदार्थ-वित्तमाः ॥ श्रीमल्-लक्ष्मण-योगीन्द्र-सिद्धान्त-स्थैकगा ऽपि सा । यतस् तद्-अन्य-सिद्धान्ते नात्म-याथात्म्य-धीर् अपि ॥ नित्य-संसारिणो माध्वाः प्रमाण-न्याय-हिंसकाः । मुक्तानन्दे ऽपि वैषम्यं प्रवदन्त्य् अभिमानतः ॥
तेषाम् एषा ऽत्र वचन-गतिः ।
शब्दैक-समधिगम्ये ऽर्थे तर्कानुगृहीत-शब्द एव प्रथमं प्रमाणम् । तद्-उपरि यद्य् अस्ति प्रमाणान्तरं तद् अप्य् एतद्-अनुग्राहकम् । तथा च मुक्तानन्द-तारतम्ये प्रमाणे सति मद्-भाष्य-कृद्-उक्त-विधया तद्-अङ्गी-कार्यम् एव । प्राह च चतुर्थस्य चतुर्थे पादे ब्रह्म-भोगान्-मुक्त-भोगस्याल्पत्वम् “अ-विभागेन दृष्टत्वात्” इति सूत्र-भाष्ये भगवान् भाष्य-कारः । इत्थं हि तत्-सूत्र-भाष्यम् —
ये भोगाः परमात्मना भुज्यन्ते ते मुक्तैर् भुज्यन्ते । यान् एवाहं शृणोमि यान् पश्यामि यान् जिघ्रामि तान् एवैत इदं शरीरं विमुच्य अनुभवन्ति
इति । दृष्टत्वाच् चतुर्-वेद-शिखायाम् । तद्-अधिकरण-रीतिश् चेत्थम् —
परमात्मानं प्राप्य मुक्तो भोगान् भुङ्क्ते
इत्य् उक्तम् “आत्मा प्रकरणात्” इत्य् अधिकरणे ।
परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते
इति श्रुतेः । तत्रायं पूर्वः पक्षः । मुक्त-प्राप्य-ज्योतिः न ब्रह्म किन्तु आदित्य एव तुल्यत्वात् ज्योतिश् शब्दादित्ये ऽपि । “सूर्यम् अगन्म ज्योतिः” इति प्रयोगात् । आथर्वणे “स तेजसि सूर्ये सम्पन्नः” इति वचसा
इति ॥ सिद्धान्तस् तु
परं ज्योतिश्-शब्देनात्र परमात्मैवोच्यते ।
“य आत्मा अपहत-पाप्मा” इति परमात्मन एवारभ्याधीतत्वेन अस्य तत्-प्रकरणत्वात् । न हि प्रकरणात् समाख्या बलवतीति प्रकृतत्वात् “य आत्मा” इति ब्रह्मैवेदं प्रतीयते । न हि प्रकरणस्येष्टे समाख्या दुर्बला तत इति । तर्हि ते भोगाः परमात्मना भुक्ता एव सायुज्य-भाग्भिर् भुज्यन्ते उतान्य इति सन्देहः । उभयथा ऽपि सम्भवः सन्देह-बीजम् । “परमात्माभुक्ता” इति पूर्वः पक्षः ।
[[P29]]
मोक्षस्य परम-पुरुषार्थत्वेन परमात्माभुक्त-भोगानाम् अपि सुलभत्वात् परमात्माभुक्ता एवेति नियमे कदाचित् सञ्जात-भोगेच्छानाम् अपि मुक्तानां भोगाभाव-प्रसङ्गात् । ईश्वरस्य नित्य-पूर्णानन्दत्वेन कदाचिद् अ-भोगस्यापि सम्भवात् । ततश् च मोक्षस्यापुरुषार्थता स्यात् । अतो भगवद्-अ-भुक्त-भोग-भोक्तृत्वं मुक्तानाम् । तस्मान् न तस्य सर्व-भोक्तृत्वम्
इति पूर्वः पक्षः । तत्र सिद्धान्त-सूत्रम् “अ-विभागेन” इति ।
ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर् भुज्यन्ते न तु तद्-अभुक्ताः । अयम् अ-विभागेति शब्दार्थः । तत्र नियामकम् उक्तं “दृष्टत्वात्” इत्य् अनेन । तथा श्रुतेर् इत्य् अर्थः । न च मोक्षस्य परम-पुरुषार्थत्वाद् एतत् कल्प्यम् । मुक्तानां परमात्म-भुक्त-भोगाङ्गीकारे ऽपि तद्-उपपत्तेः । न च कदाचिद् उक्त-रीत्या भोगाभावः; “पूर्णानन्दः पूर्ण-भुक्-पूर्ण-कर्ता” इति ईश्वरस्य पूर्णानन्दत्वे ऽपि पूर्ण-भोग-श्रवणात् । अतः परमात्मना भुक्ता एव मुक्तैर् भुज्यन्त
इति सिद्धान्तः ॥
तत्र ननु भगवद्-भुक्ता अ-शेष-भोगा मुक्तैर् भुज्यन्ते केचिद् वा? आद्ये तत्-साम्यापातः । न द्वितीयः । यान् एवेति सामान्यतस् सर्व-भोग-श्रवणाद् इति । अत्र प्रवृत्तं भविष्यद् इत्य्-आदि-भाष्यम् । भविष्यत्-पर्वणि
मुक्ताः प्राप्य परं विष्णुं तद्-भोगान् लेशतः क्वचित् ।
बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन ॥
इति विशेष-श्रुत्या सामान्य-श्रुतेस् सङ्कोच एव ।
अतो मुक्तानां भगवद्-भुक्त-भोग-भोक्तृत्वात् युक्तं तस्य स्वाधिकारातः सञ्जात-भोगेच्छा-विषय-सर्व-भोक्तृत्वम्
इति तत्त्व-प्रकाशिकायां तद्-विवरण-रीतिः । तस्माद् ब्रह्म-भोगान् मुक्त-भोगो ऽत्यल्पः ॥
तथा तृतीयस्य तृतीये पादे “व्याप्तेश् च समञ्जसम्” इति सूत्र-भाष्ये - मुक्तेष्व् अपि फल-भोगानुगुणम् उपासन-तारतम्यम् उक्तम् । तत्र
उपसंहारानुपसंहारव् उदितौ पूर्व-नये । युक्तौ न तौ विरोधाद् अधिकारि-विशेष-विरहाच् च
इति पूर्वः पक्षः अधिकार्य्-उपसंहृतौ विरिञ्चः युगपत् सर्व-गुण-प्रतीति-योग्यः इतरो ऽनुपसंहृताव् इति द्वितीयं योग्यतया समञ्जसम् इति सिद्धान्तः । युज्यते च उपसंहारो ऽनुपसंहारश् च योग्यता-विशेषाद् इति । श्रूयते च तत्र प्रमाणम्
गुणैस् सर्वैर् उपास्यो ऽसौ ब्रह्मणा परमेश्वरः । अन्यैर् यथा क्रमं चैव मनुष्यैः कैश्चिद् एव तु ॥
इति भविष्यत्-पर्वणि । तत्रैव
प्रिय-शिरस् त्व् आद्य्-अप्राप्तिर् उपचयापचयौ हि भेदे
इति सूत्रस्य फल-भेदार्थम् उपचयापचयोर् भावात् न सर्वेषां प्रिय-शिरस् त्व् आदि-गुणोपासाप्राप्तिर् इति भाष्यम् उपलभ्यते । अस्मिन्न् अर्थे प्रमाणम् अप्य् उपन्यस्तम् ।
नैव सर्व-गुणास् सर्वैर् उपास्या मुक्ति-भेदतः । विरिञ्चस्यैव यन्-मुक्ताव् आनन्दस्य सुपूर्णता
[[P30]]
इति वाराहे ॥
तथा तत्रैव
यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम्
इति सूत्र-भाष्ये – यथा अधिकारो विशिष्यते एवं मुक्ताव् आनन्दो विशिष्यते इति निर्णयः कृतः । तत्र च प्रमाणम् –
मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्यो ऋषीणां ऋषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्रात् रुद्रस्य रुद्राद् ब्रह्मणः एष ह्य् एव शतानन्द
इति चतुर्-वेद-शिखायाम् । अध्यात्मे च –
ज्ञानं चोपासनं चैव मुक्ताव् आनन्द एव च ।
यथा ऽधिकारं देवानां भवत्य् एवोत्तरोत्तरम् ॥
इति दृश्यते । एवं तत्र तत्रानन्द-तारतम्यस्य बहुधोपपादनात् तद् अप्रत्याख्येयम् । दृश्यते च उदाहृताद् अन्यद् अपि तत्र प्रमाणम् ।
उत्तमत्वं हि देवानां मुक्ताव् अपि च मानवात् ।
तेभ्यः प्राणस्य तस्माच् च नित्य-मुक्तस्य वै हरेः ॥
इति ब्रह्म-तन्त्रे ।
ज्ञानान् मोक्षो भवत्य् एव सर्वाकार्य-कृतो ऽपि तु ।
आनन्दो ह्रसते कार्यात् शुभं कृत्वा विवर्धते ॥
इति ब्रह्माण्डे ।
सर्व-दुःख-निवृत्तिस् तु ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश् च भक्त्या चानन्द-चित्रता ॥
इति बृहत्-तन्त्रे ॥
स्वाधिकानन्द-सम्प्राप्तौ सृष्ट्यादि-व्याहृतिष्व् अपि ।
मुक्तानां नैव कामस् स्याद् अन्यान् कामांस् तु भुञ्चते ॥
तद्-योग्यता नैव तेषां कादाचित् क्यपि विद्यते ।
न चायोग्यं विमुक्तो ऽपि प्राप्नुयान् न् कामयेत् ॥
इति वाराहे ॥
आत्मन्य् एव परं देवं उपास्य हरिम् अव्ययम् ।
केचिद् अत्रैव मुच्यन्ते नोत्क्रमन्ति कदाचन ॥
अत्रैव च स्थितिस् तेषाम् अन्तरिक्षे च केचन ।
केचित् स्वर्गे महा-लोके जने तपसि चापरे ॥
केचित् सत्ये महा-ज्ञाना गच्छन्ति क्षीर-सागरम् ।
तत्रापि कर्म-योगेन ज्ञानाधिक्यात् समीप-गाः ॥
सालोक्यं च स-रूपत्वं सामीप्यं योगम् एव च ।
स समादाय सर्वत्र सदा ऽऽस्ते क्षीर-सागरे ॥
तत्रास्ते ऽनन्त-शयनः श्रीमान्-नारायणाभिधः ।
वसन्ति मनुजास् तत्र वर्णाश्रम-विभेदतः ॥
क्षिति-पा मनु-गन्धर्वा देवाश् च पितरश् चिराः ।
आजान-जाः कर्म-जाश् च तात्त्विकाश् च शची-प्रियाः ॥
रुद्राश् चतुर्-मुखाश् चैव तेषु चैवोत्तमोत्तमाः ।
नित्यानन्दे च भोगे च ज्ञानैश्वर्य-गुणेषु च ॥
सर्वे शत-गुणोद्रिक्ता पूर्वस्माद् उत्तरोत्तरम् ।
पूज्यन्ते चापरैस् ते तु सर्व-पूज्यश् चतुर्-मुखः ॥
स्व-जगद्-व्यावृतिस् तेषां पूर्ववत् समुदीरिता ।
सयुजः परमात्मानं प्रविश्य च बहिर्-गताः ॥
चिद्-रूपान् प्राकृतांश् चापि विना भोगांश् च कांश् चन ।
भुञ्जते मुक्तिर् एवं ते विस्पष्टं समुदाहृता ॥
इति गारुडे ॥
साधनस्योत्तमत्वेन साध्यं चोत्तमम् आप्नुयुः ।
ब्रह्मादयः क्रमेणैव यथा ऽऽनन्दश् श्रुतौ श्रुतः ॥
इति ब्राह्मे च ॥
अस्मिन्न् अर्थे सन्तीतो ऽप्य् अधिकानि प्रमाणानि बहूनि । सर्वैर् एतैर् उपबृंहिता आनन्द-वल्ली प्रसिद्धतरा स्वार्थम् आनन्द-तारतम्यं विशदम् अवबोधयति ॥
[[P31]]
न चैवं सति “भोग-मात्र-साम्य-लिङ्गाच् च”, इति सूत्र-विरोध इति वाच्यम्;
मुक्तेषु कादाचित्क-विशेषस् तु नैव तेषां निषिध्यते ।
इति कौर्म-वचन-बोधित-भोगाविशेषो ऽपि आनन्दादि-वृद्धि-ह्रासे न कारणम् इत्य् अत्र भोग-मात्र-साम्यम् अपि लिङ्गम् इत्य् अर्थकत्वात् तस्य भोग-मात्र-साम्यं नाम मुक्त-भोगत्वेन व्यवहृत-तत्-तद्-योग्य-भोगेषु
एतम् आनन्दमयम् आत्मानम् उपविश्य न जायते म्रियते न ह्रीयते न वर्धते इति तथा नापत्तिर् न विपत्तिः
इति श्रुति-बोधित-वृद्धि-ह्रासाभाव-रूप-साम्यम् एव । एवं चायम् आनन्दादि-वृद्धिमान् भोगाविशेषत्वाद् इत्य् अपि नानुमातुं शक्यते । तद्-विपर्ययावबोधक श्रुति-बाधाद् इति भावः । तथा च वृद्धि-ह्रासवान्नेति सिद्धान्त-कोटौ उक्त-प्रत्यक्ष-श्रुतिवत् महतां प्रत्यक्षवत्-तत्-कारण-शून्यत्वात् इत्य् अनुमानवत् भोग-मात्र-साम्यम् अपि साधकम् इति सौत्रः च शब्दः । अतस् तत्-सूत्र-विरोधस्याप्य् अभावात् उक्त-श्रुत्य्-आदि-समधिगतम् आनन्द-तारतम्यम् अप्रत्याख्येयम् इति ॥
क्व वा रीतिर् मुक्तेः क्व च मतम् इदं दुर्मति-मयं
क्व तद्-धीर् बाध्यार्था श्रुति-नय-गतिः क्वा ऽत्र गहना ।
क्व सिद्धान्त-स्थैर्यं कवि-कथक-कण्ठी-रव-गुरोः
परं तद्-गर्वो ऽत्र प्रभवति तद्-अज्ञान-विवृतौ ॥
यद् उक्तं मुक्तानन्द-तारतम्ये कानिचिद् वाक्यानि प्रमाणत्वेन विलिख्य
सन्तीतो ऽप्य् अधिकानि । सर्वैर् उपबृंहिता आनन्द-वल्लि
इति तद्-अनुपपन्नम् । तथा हि प्रथमं तावद् आनन्द-वल्ल्या मुक्तानन्द-तारतम्यं न बोध्यते । किं तु यथा ब्रह्मानन्दैक-देशस् स-कल-संसार्यानन्द-शीकराणां सागर-स्थानीयः । तथा मुक्तानन्दैक-देशो ऽपीति तद्-उभयानन्देयत्ता-राहित्यम् एव पूर्व-पूर्व-संसार्यानन्दात् उत्तरोत्तर-संसार्यानन्दोत्कर्ष-कीर्तनवत् पूर्व-पूर्व-मुक्तानन्दाद् उत्तरोत्तर-मुक्तानन्दोत्कर्ष-कीर्तनाभावात् ॥ यद्य् अप्य् अत्र सिद्धान्तानुगुणार्थ-वर्णन-प्रकाराः प्राचीनैर् अस्मद्-आचार्यैर् एव श्रुत-प्रकाशिका ऽऽदिषु प्रदर्शिताः । पूर्व-पक्षिणाम् अर्थोपपादन-रीतयः तन्-निरसन-प्रकाराश् चास्मत्-परमाचार्य-चरणैर् अण्णयाचार्यैर् निपुणतरम् उपपादिताः । तथा ऽप्य् अभिनव-प्रस्तुत-पर-वक्र-फणिति-विधाभेद-विध्वंसने ऽपि तान् एव निरसन-प्रकारान् सङ्घटयितुम् अयम् उद्यमः । न हि स्वयम् अतिचतुरो ऽपि स्व-जय–पराजययोः स्वकीय-सम्भृत-साधनम् अनादृत्य स्व-कल्प्य-साधन-कल्पन एव प्रयतते । अत्र प्रथमं ब्रह्मानन्द-मुक्तानन्दयोः स्व-रूपापरिज्ञान-कृत एव मुक्तानन्द-तारतम्य-वादः ।
[[P32]]
तत्र परमात्मानं प्रति भोग्यतैक-वेषस्य मुक्तस्य निरतिशय-सर्व-प्रकार-भोग्यत्वेन स-कल-गुण-विग्रह-विभूति-व्यापार-विशिष्टाखण्ड-परमात्म–स्व-रूप–साक्षात्कार एवानन्दः मुक्तं प्रति भोग्यतैक-वेषस्य ब्रह्मणो ऽपि सर्व-प्रकार-निरतिशय-भोग्यत्वेन स-कल-गुण-विग्रह-विभूति-व्यापार-विशिष्टाखण्ड-स्वात्म–स्व-रूप–साक्षात्कार एवानन्दः । अयम् एव द्वयोर् अपि भोगाशब्दितो ऽपि । विषय-विषयिणोर् इत्थम् अ-परिच्छित्त्या द्वयोर् अप्य् अयम् अ-परिच्छिन्नश् च । अयं च “स्वे महिम्नि प्रतिष्ठितः” इति श्रुतेः परमात्मनः स्वायत्तः । मुक्तस्य तु “एष ह्य् एवानन्द याति” इति श्रुतेः स्व-शेष्यायत्तः । परस्पर-भोग्यतैक-वेषयोर् अप्य् अनयोः परस्पर-भोक्तृत्वं तुल्य-शील-वयो-वृत्तादि-मतोर् दम्पत्योर् इव भवति तयोर् अपि भोगः ॥ चतुष्टय-सन्निकर्ष-जन्य-घट-साक्षात्कारवद् अ-विकल-त्वग्-इन्द्रिय-सन्निकर्ष-जन्यानुकूल-स्पर्शादि-साक्षात्कारवच् च न तारतम्यवान् बद्धे स्पर्श-सुखस्याप्य् ऐन्द्रियकत्वात् इन्द्रिय-सापेक्षः । मुक्तस्य तु ब्रह्मण इव विकसित-धर्म-भूत-ज्ञान-रूपत्वात् तन्-निरपेक्ष एव सर्व-साक्षात्कारो ऽपि ।
न वै देवा अश्नन्ति न पिबन्ति एतद् एवामृतं दृष्ट्वा तृप्यन्ति
इति श्रुतेः । एवम् अपि ब्रह्मणश् शेषित्वेन स्व-तन्त्र–भोक्तृत्वात् पति-स्थानीयत्वम् । मुक्तानां त्व् अत्यन्त-पर-तन्त्रत्वेन शेषत्वात् पत्नी-स्थानीयत्वम् । अत एवोक्तम् आचार्य-पादैः –
पारतन्त्र्यं परे पुंसि प्राप्य निर्गत-बन्धनः ।
स्वातन्त्र्यम् अतुलं प्राप्य तेनैव सह मोदते ॥
इति ।
मुक्तस्य सदेह त्व् आयत्ता जक्षणादि-व्यापाराः तद्-विषयास् तत्-कामनाश् च स्व-तन्त्र–शेषित्वेन स-शरीरतया भोक्तुर् ब्रह्मण एवेच्छाम् अनुसृत्य सर्जनीय-स्वानुषङ्गिक-तुल्य-भोग-फलकाः तद्-भोक्तृत्वैकोपकरण-भूताः । यथा पत्नी-व्यापारादयः पत्युः एवम् एव मुक्तानां शास्त्र-सिद्धाः परस्पर-व्यापारा अपि । ब्रह्मण एव सर्व-शरीरकतया शरीरिण्य् एव शरीर-भोगान्वयात् ॥
एवम् ऐन्द्रियक-हेय-विषय-भोगस्य ब्रह्मणि मुक्ते ऽप्य् अ-प्रसक्त्या ब्रह्वैवाखण्डं ब्रह्मणो मुक्तस्य च भोग्यम् । अ-खण्ड-ब्रह्मानुभव एव द्वयोर् अपि भोगः । स च द्वयोर् अपि विषय-विषयिणोर् अ-सङ्कोचाद् अ-न्यूनान् अतिरिक्तः । मानुषादि-भोगानाम् ऐन्द्रिकत्वाद् धेय-विषयकत्वाच् च कर्म-तारतम्य-कृतात् विषय-विषयि-सङ्कोचात् तर-तम-भाव-भाक्त्वम् ॥
[[P33]]
एवं वस्तु-स्थितिम् अ-जानद्भिः मुक्ताव् अपि ब्रह्म-भिन्न-विषयक-भोगम् अङ्गीकुर्वद्भिः एकाकारत्वेन सर्व-प्रमाण-सम्प्रतिपन्ने ऽपि जीव–स्व-रूपे मुक्ताव् अपि निर्निबन्धनतयैव प्रसिद्ध-जीवात्म–स्व-रूप–पर-सर्व-श्रुति-स्मृत्य्-आदि-विरोधेन योग्यताभेदम् अङ्गीकृत्यानन्द-तारतम्यम् अङ्गीकृतम् । तच् च
सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः
इति
सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता
इति
अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामान् तेषां सर्वेषु लोकेषु काम-चारो भवति
इति
यथा नद्यस् स्यन्दमानास् समुद्रे अस्तं गच्छन्ति नाम-रूपे विहाय तथा विद्वान् नाम रूपाद् विमुक्तः परात्परं पुरुषम् उपैति दिव्यम्
स यो ह वै तत्-परमं ब्रह्म वेद ब्रह्मैव भवति, यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति एवं मुनेर् विजानत आत्मा भवति गौतम ॥
यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति,
ब्रह्मणो महिमानम् आप्नोति तस्माद् ब्रह्मणो महिमानम्
इति
एष सम्प्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते,
एष आत्मा ऽपहत-पाप्मा विजरो विमृत्युर् विशोको ऽविजिघित्सो ऽपिपासः सत्य-कामस् सत्य-सङ्कल्पः,
ब्रह्मणस् सायुज्यँ सार्ष्टिताँ सलोकताम् आप्नोति
एक–स्व-रूप–भेदस् तु बाह्य-कर्म-वृति-प्रजः । देवादि-भेदे ऽपध्वस् ते नास्त्य् एवावरणा हि सः
विभेद-जनके ज्ञाने नाशम् आत्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यति ॥
“प्रत्यस्तमित-भेदं यत्” “पुमान् न देवो न नरः”
चतुर्-विधो ऽपि भेदो ऽयं मिथ्या-ज्ञान-निबन्धनः,
यद्य् अन्यो ऽस्ति परः को ऽपि
सो ऽहं स च त्वं स च सर्वम् एतद् आत्म–स्व-रूपं त्यज भेद-मोहम्
शुनि चैव श्व-पाके च पण्डितास् सम-दर्शिनः
“निर्दोषं हि समं ब्रह्म” “मम साधर्म्यम् आगताः” “भोग-मात्र-साम्य-लिङ्गाच् च” इत्य्-आदिभिः मुक्तानां ब्रह्म-साम्य-कण्ठोक्ति-परैः बहुभिर् अन्यैश् चार्थात् परम-साम्य-पर्यवसिताभेद-बोधकैः मुक्तौ देवादि-भेद-निषेधकैर् अपरैश् च प्रसिद्धतमैश् श्रुत्य्-आदिभिर् बाधितम् ॥ तेनेयम् आनन्द-वल्ली न तत्-प्रतिपादयति । अन्यथा स्वयम् एवाप्रमाण-भूता स्यात् । वाचनिकतया आर्थिकतया चानन्दतः परम-साम्य-प्रतिपादकैः मुक्ताव् आत्मनां देवादि-भेद-निषेधकैश् च बहुभिः प्रसिद्धैः प्रमाणैर् बाधित-विषयकत्वात् ॥
[[P34]]
वस्तुतस् त्व् अत्र मुक्तानन्द-तारतम्यं न वाचनिकम् । बद्धेषु पूर्व-पूर्वानन्दाद् उत्तरोत्तरानन्दस्य उत्कर्ष-कीर्तनवत् मुक्ते तद्-उत्कर्षस्याकीर्तनात् । किन्त्व् अभिनव-वक्र-मार्गानुसारणेन तत्-परत्वं कल्पनीयम् । तच् च नोन्मज्जति । “युवा स्यात्” इत्य्-आदि-पदानां प्रसिद्धार्थ-ग्रहणे बाधकाभावात् उक्तानेक-सिद्ध-प्रमाण-बाधाच् च । कल्पको ऽप्य् अस्य तवात्माकार-भेदः तन्-निबन्धन-योग्यता-भेदश् च । सो ऽपि कल्प्य एव न क्लृप्तः । तत्-कल्पनम् अपि आत्म–स्व-रूपे शुद्धे अ-शुद्धे च देवादि-भेद-निषेधकात् उपन्यस्त-प्रमाण-सङ्घाद् बाधितम् । अतो ऽस्य न क्वचिद् अपि तत्-परत्व-कल्पन-सम्भवः । विलक्षण-मत-कल्पना ऽऽग्रहेण अभिनव-वर्त्मना कल्पितः पदार्थो वाक्यार्थो वा ऽस्य न मुक्तैकान्तः ॥ एवं ह्य् अस्य त्वद्-अर्थः — “यु मिश्रणे कर्मणि क्विप्” वा शब्दो गत्य्-अर्थः । “वा गति-गन्धनयोः” इति धातु-पाठात् । एवं च युश् चासौ वा च युवा । विष्णुना युतस् सन् वाति गच्छतीति युवा । अत्र प्रमाणम् –
प्राज्ञेनात्मना ऽन्वारूड उत्सृजन् याति
इति । साधुभिर् गुणैर् युक्तस् साधु-युवा । साधुना विष्णुना युक्तस् साधु-युवा । अनुव्याख्याने
साधुना विष्णुना युक्तो मुक्तस् साधु-युवा मतः
इत्य् उक्तेः । आध्यायकः – सम्यग् अध्ययन-कर्ता । सम्यक्त्वं च मुक्त्य्-आख्याध्ययन-फलवत्त्वम् आ समन्तात् शम् अस्येत्य् आशः । अतिशयेन दृढो दृढिष्ठः । अतिशयेन बली बलीष्ठः । इदं सर्वम् अपि नित्यत्व-विशेषितम् । अब्-भक्ष[[??]] इत्य्-आदिवद्-असाधारणेन व्यपदेशा भवन्तीति न्यायात् । एवं च य एवं नित्य-युवत्वादिमान् स्याद् यदि तदा स मुक्त एवेति ह्य् अस्य वाक्यस्य तव मुक्त-प्रक्रम-परता । अत्र न को ऽप्य् अर्थो मुक्तैकान्तः । यद्य् अत्र मुक्तो वाचनिक-पद-दृष्टस् स्यात् तदा युवत्वादेर् नित्यता-कल्पनं स्यात् । परिदृष्टान्य् अ-भक्षण-वैधुर्यत्वेव ह्य् अब्-भक्ष इत्य् अ-साधारणः प्रयोगः । अतो ऽत्र कल्पकाभावात् न नित्यत्व-कल्पन-सम्भवः । नित्य-युवत्वाद्य्-अ-श्रवणाच् च । अस्य न मुक्तत्व-कल्पनं वा सम्भवति । त्वद्-अभिमत् अपि युवत्वं “प्रज्ञा-मात्राः प्राणे अर्पिताः” इति श्रुत्या
यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति
इति श्रुत्या च सर्व-जीव-साधारणम् । प्राण-शब्द-मुख्यार्थः परमात्मैवेति तवाप्य् अभिमत इति तत्-परित्यागो निर्निबन्धनः ॥
साधु-शब्दस्य विष्ण्व्-अर्थकत्व-कल्पकम् अपि पूर्ववत् मृग्यम् । साधुभिर् गुणैः युक्तत्वं च आत्म-गुण-पूर्णे ब्रह्म-विदि बद्धे सुप्रसिद्धम् । साधुना विष्णुना उपास्येन सामीप्यवत्त्वात् । साधु-युवेत्य् अपि ब्रह्म-विद्येवोक्ते सु-पुष्कलम् । अस्मिन्न् एव मुक्त्य्-आख्याध्ययन-फलवत्त्व-रूपाध्यायकत्वम् अपि फलाप्ति-निश्चयत्त्व-कृतं सुगमम् । अ-श्रुत-फल-पदाध्यायक-शब्दे लक्षणीयं हि फलम्; तल्-लक्षणाकल्पकान् उपपत्त्य्-अभावात् तत्-कल्पनम् अप्य् अ-युक्तम् ॥
[[P35]]
अतिशयेनाशः अ-शिष्ठ इति व्याख्या चायुक्ता । “कं शंभ्यां बभयुस्ति तु तयसः” इति निर्देशेन सुख-वाचिनः शम् इत्यस्याव्ययस्य मकारान्तस्यान्त-लोपे मानाभावात् । कं शंभ्याम् इति पञ्चमी–द्वि-वचनम् । एतयोर् उपरि श्रूयमाणस्य मकारस्येत्य् अर्थः । कम्ब कंभः कंयुः कंतिः कंतुः कंतः कंयः कंसः । एवम् एव शंबः शंभः शंयुः शंतिः शंतुः शंतः शंयः शंसः इति निर्देशेनेत्य् अर्थः । ड-प्रत्ययेन निर्वाहस् तु विध्य्-अदर्शनाद् अ-युक्तः मुक्तानाम् अपि प्राग्-जन्म-जरा-ऽऽदि-भाजां नित्य-पूर्ण-सुखवत्त्व-रूपाशिष्टत्व-प्रमुखाश् च युवत्वादयो बाधिताः ॥
किं च एते युवत्वादयः किं मुक्तेष्व् अपि स्व-स्वाधिकारानुगुणाः उत तेष्व् अन्यूनातिरिक्ताः? आद्ये मुक्त एव नास्य वाक्यस्य विश्रान्तिः । अधीत-स्वाध्याय-त्रैवर्णिकेषु बद्धेषु लोक-प्रसिद्ध-युवत्वादि-पौष्कल्यवत्सु मद्-उक्त-विधया त्वद्-उक्त-युवत्वादेर् अप्य् अ-कुण्ठितत्वात् । अन्ये तारतम्यस्यैव भङ्गः । वित्त-पूर्ण-सर्व-प्रथिवीकस्यापि “यथा युवानं राजानम्” इत्य्-आदिषु लोकतश् च प्रसिद्ध-युवत्वाद्य्-अभावे स मानुषानन्द एव नेति “युवा स्यात्” इत्य् आरभ्य “सर्वा वित्तस्य पूर्णा स्यात्” इत्य् अन्तं मानुषानन्द-ध्रुव-बन्ध-रूपं सत् बद्धावस्थ-मानुषानन्दम् एव स्व-प्रतिपाद्यत्वेन परिगृह्णाति । शब्दार्थ-सामर्थ्याभ्यां अनन्तर-श्रुत-युवत्वाद्य्-अवस्थ-परामर्शने हि तच्-छब्दो ऽयं स्व-रसः । जरा-ज्ञान-सुख-समृद्ध्य्-अभावाद् आढ्यार्बल-विरोध्य्-आकार-पौष्कल्य-निष्पाद्य एव हि वित्त-पूर्ण-सर्व-पृथ्वीकस्यापि मनुष्यस्यानन्दः अपि च युवा स्याद् इत्य्-आदेः प्रसिद्धार्थ-त्यागे रथ-काराधिकरण-विरोधो ऽपि भवेत् ॥ अनेन “स एको मानुष आनन्दः” इत्य् अन्तेन मुक्तामुक्तोभयोद्देश्यक-विलक्षणानन्द-द्वये प्रतिपाद्ये वाक्य-भेदश् च । सकृच्-छ्रुतयोर् मानुष-पदानन्द-पदयोः विरम्य-व्यापार-कल्पनं च ॥
“स एक” इति प्रत्यक्षैक-पद-श्रुति-बाधेन आनन्द-द्वित्व-कल्पनम् अपि न मीमांसक-सम्मतम् श्रुति-लिङ्गाधिकरण-विरोधात् । उक्तं च भवद्भिर् अपि
श्रुत्य्-आदौ पूर्व-पूर्वं च बृह्म-तर्क-विनिर्णयात्
इति । अतो ऽत्र मुक्तामुक्तोभय-प्रक्रमस्यैवानुपपत्त्या प्राथमिक-मानुषानन्द-पदयोर् एव मुक्तामुक्त-तद्-उभयानन्दानुपस्थापकताया “ते ये शतम्” इत्य्-आदिषु तयोः प्रकृतत्वम् आदाय त्वद्-अभिमत-मुक्तामुक्तोभयानन्दानुवादकतयाः का वार्ता ॥
[[P36]]
अत एव उत्तरोत्तर “ते ये शत” वाक्येषु पूर्व-पूर्व-मुक्तामुक्तयोः तद्-आनन्दयोश् चानुवाद इत्य् अपि भग्नम् । पर्यायेषु सर्वत्र स एक इति पद-श्रुति-बाधेन आनन्द-द्वय-कल्पनासम्भवः पूर्ववद् अविशिष्टः । मनुष्य-पर्याये श्रोत्रियस्य चेत्य् अनुक्त्या “ते ये शतम्” इति प्रथम-वाक्ये मुक्तामुक्त-मनुष्य-तद्-आनन्दयोर् अप्य् अनुवादो न युक्तः । अ-प्राप्तस्यानुवादासम्भवात् । “सो ऽश्नुते” इति वाक्य-स्थ-तत्-पदवत् मुक्त-सामान्योपस्थापकतयैवाभ्यस्त-श्रोत्रिय-पदस्य अ-सर्वनामत्वेन स्वार्थोपस्थापने प्रकृत-निरपेक्षस्य अन्-अपेक्षित-पूर्व-पदोपस्थापित-विशेष-पर्यवसानम् इत्य् अप्य् अ-युक्तम् । सर्वत्र विशेष-साकाङ्क्षा एव सामान्य-शब्दाः सन्निहित-विशेष-पर्यवसान्नाः नात्र तद्-आकाङ्क्षेति पण्डितं मन्यस्येह निरर्थकः तद्-उदाहरण-सम्भ्रमः ॥
एतेन पूर्व-पूर्व-मुक्तामुक्तौ उत्तरोत्तर-मुक्तामुक्तानन्दोत्कर्ष-निरूपकौ । तत्र पूर्व-मुक्ताच् छताधिकानन्द उत्तर-मुक्तः पूर्व-बद्धाच् छताधिकानन्द उत्तर-बद्धः इति च नियमः यथा औपतभृच् चतुर्-गृहीतस्य “चतुर्-गृहीतं जुहोती"ति वाक्य-बलेन
अष्टाव् उपभृति-गृह्णाति प्रयाजानुयाजेभ्यस् तत्
इत्य् अ-विशेष-श्रवणे ऽपि प्रयाजार्थम् एकं चतुर्-गृहीतम् अनूयाजार्थम् अपरम् इति नियमः इत्य्-आदि-शाब्द-रचनम् अप्य् अभित्ति-चित्र-कर्मेति ज्ञेयं बुद्धिमद्भिः । अतो नेयं श्रुतिः मुक्तानन्द-तारतम्यं प्रतिपादयति ॥
किं च एषा श्रुतिः प्रतिपर्यायं मुक्तानन्द-तारतम्यं विदधातीति तत्र प्रमाणं उतानुवदतीति? द्वितीये येन प्राप्तम् इदम् अनुवदति तद् एवेह प्रमाणतयोपन्यसनीयं नेदं; व्यर्थत्वात् । प्रकरणे ऽन्यत्र वा एतत्-प्रापकस्यादर्शनाच् च । आद्ये
सो ऽश्नुते सर्वान् कामान्त् सह ब्रह्मणा विपश्चिता
इति मुक्तस्य ब्रह्मणा आनन्दतः परम-साम्य-प्रतिपादकोपक्रम-विरोधः । तत्र काम-शब्दोक्तान् कल्याण-गुणान् ब्रह्मणा सहाश्नुत इति गुण-प्राधान्योक्त्या तद्वत् त्व् अ-कृतं गुणिनः प्राधान्यं फलितम् ॥ गुणानाम् इहोक्तत्वात् तद्-अन्य-दिव्यात्म–स्व-रूप–विग्रह-व्यापारादि सर्वं ब्रह्म-शब्द-परामृष्टं क्षीरेण सह ओदनं भुङ्क्त इतिवत् भोग्य-साहित्यम् उच्यते । अर्थात् भोक्तृ-साहित्यम् अपि लभ्यते । उभयथा ऽपि सह-श्रुतिः भोग्यतया मुक्तस्य ब्रह्मणश् च ब्रह्मानुभवः यथा व्यापकावधि तथा गुणानाम् अनुभवो ऽपीति सिद्ध्यर्था । “न पश्यो मृत्युं पश्यति” “सर्वं ह पश्यः पश्यति” इति श्रुतो मुक्तः व्यापकावधि-ब्रह्म-दर्शित्वद् एव पश्य इत्य् उक्तः । पश्यः सर्वं ह पश्यः पश्यतीत्य् उक्त्या च “सोऽ श्नुते सर्वान्” इति श्रुत्य्-अर्थ एवोक्तः ॥
[[P37]]
इत्थम् अनुकूलत्वेन दर्शनम् एव स्वीयत्व-विशेषिततया ऽपीति “सर्वम् आप्नोति” इति वाक्येनोच्यते । स्वीयत्वं च स्वानुभाव्य-स्व-भर्तृर्-भोगाद्य्-उपकरणत्व-कृतम् । सर्वश इत्य् अनेन स्वीयत्वेन दृष्टस्य सर्वैः प्रकारैस् स्वोपयोग उक्तः । एवं च मुक्त-साक्षात्-कृते अ-खण्डे ब्रह्मणि मुक्तस्य प्रीति-मोद-प्रमोदादयो दर्शिताः । एते स्व-पित्रा सह चिरं पान्थस्य तेन सहागतस्यार्भकस्य मात्राद्य्-अ-दर्शन-कर्शितस्य पितृ-भोग्यादाव् इव इहापि यथा योग्याः
माता पिता भ्राता निवासश् शरणं सुहृत् गतिः
इति श्वेताश्वतर-बोधित-सम्बन्धानुसारेणैव मुक्तस् सर्वम् अनुसन्धत्ते पश्यति च । प्रीति-मोद-प्रमोदैः मुक्तस्य सर्व-विध-भोग-लाभो ऽप्य् अ-खण्डे ब्रह्मण्य् एवेति “सर्व-कर्मा सर्व-गन्धस् सर्व-रसः” इति रस-शब्देन ब्रह्म निर्दिष्टम् । अत एव हि
रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति
इत्य् उक्तिः । ब्रह्मणो रसत्वं निरतिशय-भोग्यत्वम् । अतः एतैस् सर्वैर् अपि वाक्यैः विशदी-कृतार्थकोपक्रम-विरोधः त्वत्-पक्षे सुदुष्परिहरः ॥
तथा एकैकस्मिन् पर्याये तव यथा योग्यं पूर्व-पूर्व-मुक्तामुक्त-प्रतियोगिकानन्दोत्कर्षवत्वेन उत्तरोत्तर-मुक्तामुक्तौ द्वौ प्रतिपाद्याव् इति इत्थम् इह विधेय-भेद-निबन्धनो विंशति-धा वाक्य-भेदो ऽपि दुष्परिहरः ॥
तथा पृथक् पृथङ् निरूप्यतया तत्-तद्-वाक्यानन्तर-श्रुतस्य उद्देश्यस्याकाम-हतस्य तत्-तद्-वाक्य-स्थ-मनुष्य-गन्धर्वत्वादिना अ-विशेषणे त्वद्-अभिमतालाभः । तद्-अर्थं प्रतिपर्यायं विशेषण-विवक्षायां तत्-प्रयुक्तश् च दशधा वाक्य-भेदः । विशेष-तत्-प्रसक्तस्यापि बद्धस्य तत्-तद्-आनन्दाश्रयस्य मनुष्य-गन्धर्वत्वादिना विशेष-निर्देशे परम-प्रस्तुते मुक्ते अस्य मुक्तस्य इयान् आनन्द इत्य् अवश्य-निर्देश्यत्वात् प्रतिपर्यायं तथा ते ये शतं मुक्त-मनुष्याणाम् आनन्दाः
स एको मुक्त-मनुष्य-गन्धर्वाणाम् आनन्द
इत्य्-आदि-दशधा निर्देश-आपत्तिश् च । श्रोत्रियांशे अध्याहारेण लक्षणया वा विशेष-लाभे प्रतिपर्यायं सो ऽपि दोषः । बद्धे विशेष-निर्देशः मुक्ते सामान्य-निर्देशेति प्रतिपर्यायं शाब्द-वैरूप्यं च । अ-विशेष-श्रुत-श्रोत्रिय-वाक्यस्य प्रतिपर्यायम् अर्थतो ऽपि वैरुप्यं च । तत्-तद्-काम-हतानाम् एव भिन्नाभिन्नानन्द-परिमाणानन्द-विधेः त्वद्-अभिमततया श्रोत्रियाकाम-हत-मनुष्य-गन्धर्वाणां चेत्य्-आदि-प्रतिपर्यायं वैपरीत्येन निर्देश-प्रसङ्गश् च ॥ “स एकः”, इति पूर्व-वाक्ये मनुष्य-गन्धर्वत्वादिना कीर्तित-बद्ध-मुक्त-विशेषोभय-धर्मतया प्रतिपन्नस्यानन्द-विशेषस्य “ते ये शतम्” इत्य् उत्तर-वाक्ये ऽपि तद्-उभय-धर्मत्वेनानुवादे कार्ये तद्-विहाय एकैनैव सम्बन्धिना व्यपदेशायोगश् च ॥ योगे वा परम-प्रस्तुतत्वाद् अ-व्यव-हितत्वाच् च
ते ये शतं श्रोत्रियस्याकाम-हतस्यानन्दाः
इत्य् एव निर्देश-प्रसङ्गश् च ॥
[[P38]]
अथ
ते ये शतं कर्म-देवानाम् आनन्दाः - स एक आजानजानां देवानाम् आनन्दः - यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः,
इति बृहद्-आरण्यक-वाक्ये
स एको मनुष्य-गन्धर्वाणाम् आनन्दः - श्रोत्रियस्य चाकाम-हतस्य,
इति तैत्तिरीय-वाक्ये च एक-वचनानुपपत्तिश् च ॥ अ-काम-हतादि-शब्दानां मनुष्य-गन्धर्वाणाम् इत्य् अस्य चैक-धर्मि-निष्ठतया तव निर्निबन्धन-वचन-वैरूप्य-नियामकाभावात् । अनेक-प्रतियोगिकानेक-निष्ठानन्द-प्रतिपादने च शब्द-स्वारस्य-भङ्गश् च । त्वन्-मते हि मुक्ता मुक्तौ द्वाव् अपि मानुषादि-शब्दैः आनन्द-प्रतिकोटि-भूतौ निर्दिष्टौ । तद्-आधार-भूतौ च मनुष्य-गन्धर्वाव् अ-काम-हतौ द्वाव् इति प्रतियोग्य्-आधार-भेद-स्फुटः । देव-दत्तो धनिको यज्ञ-दत्तश् चेत्य् अत्रेव इहापि विशेष्य-भेद एव च शब्दस् स्व-रसः । तत्र घटः पटाद् भिन्नः कुड्याच् च, कुड्य-भिन्नो घटः पटश् चेति एक-निष्ठानेक-प्रतियोगिक-वस्तु-प्रतिपादनेनानेक-निष्ठैक-प्रतियोगिक-वस्तु-प्रतिपादनेन वा लोके च शब्दः स्व-रसः दृष्टः । तव च तु वसिष्ठो ब्रह्मिष्ठो ऽरुन्धती-पतिश् चेत्य् अत्रेव इह च शब्दो न तथेति प्रतिपर्यायं च शब्द-स्वारस्य-भङ्गो ऽपि दुष्परिहरः ॥
किं च “स एकः” इत्य्-आदिषु एक-शब्दस्य एकदेश-वाचित्वे पूर्व-पूर्वाच् छताधिकानन्दत्वम् उत्तरोत्तरस्याभिमतं न सिद्ध्येत् । मनुष्य-गन्धर्वानन्दैक-देश एव मनुष्यानन्द-शतकस्यापि निमग्नत्वालाभात् । एकत्व-सङ्ख्या-वाचित्वे “श्रोत्रियस्य च” इत्य् अनेन तस्य मुक्ताव् अपि तावान् एवानन्द इति तस्य मुक्त्य्-अभिलाषाद्य्-अनुदयस् स्याद् इति प्रतिपर्यायम् इदम् अपि दोष-द्वयं प्रसजेत् ॥
अपि च मनुष्याणां मनुष्य-गन्धर्वानन्द-प्राप्तिः फलम् इत्य् उत्तरोत्तरम् एवं क्रमो ऽभिमतः, उत मनुष्याणां मनुष्यानन्द एव फलम् इति तथाक्रमो वा? आद्ये प्रजा-पतेः ब्रह्मानन्द-प्राप्तिः फलं स्यात् । तच् च विरुद्धम्; जीवस्य सतः प्रजा-पतेः ब्रह्मानन्द-प्राप्त्य्-अ-योगात् । योगे वा किम् अपराद्धं यज्ञादि-परिकर-परिकर्मित-निदि-ध्यासनाभ्यास-निर्मली-कृतान्तः-करणैर् अन्यैः कर्म-बद्धैः? ब्रह्म-विद्यायां च मनुष्याद्य्-अ-विशिष्टे ऽपि
[[P39]]
ब्रह्माद्यास् स-कला देवाः मनुष्याः पशवस् तथा ॥
विष्णु-माया-महा-वर्त-मोहान्ध-तमसा ऽऽवृताः ॥
ततो हृतेषु वेदेषु ब्रह्मा कश्मलम् आविशत् ।
अहो बत महद्-दुःखं वेद-नाशन-जं मम ॥
को हि शोकार्णवे मग्नं माम् इहाद्य समुद्धरेत्
तवान्तरात्मा मम च ये चा ऽन्ये देहि-संज्ञिताः ।
सर्वेषां साक्षि-भूतो ऽसौ न ग्राह्यः केनचित् क्वचित्
प्रजापतिं च रुद्रं चाहम् एव सृजामि वै ।
तौ तु मां न विजानीतो मम माया-विमोहितौ ॥
चतुर्-मुखायुर् यदि कोटि-वक्त्रः भवेन् नरः क्कापि विशुद्ध-चेताः ।
स ते गुणानाम् अयुतैकम् अशं वदेन् न वा
यं न देवा न मुनयो न चाहं न च शङ्करः ।
जानन्ति
अ-शुद्धास् ते समस्तास् तु ब्रह्माद्याः कर्म-योनयः
इत्य्-आदिभिस् तन्-माहात्म्यावगमात् ॥
द्वितीये प्रथम-पर्याये “श्रोत्रियस्य चाकाम-हतस्य इति वाक्य-कल्पनाक्लेशः । ब्रह्म-पर्याये तद्-आनन्दाधिकारि-श्रोत्रियान्तर-कल्पना-क्लेशश् च । चतुर्-मुखाद् उत्कृष्टस्य अधिकारिणः तव दुर्लभत्वं च ॥
किं च “तं प्रजापतिर् अब्रवीत्” इत्य्-आदौ चतुर्-मुखे प्रसिद्धतर-प्रजापति-शब्दस्य दक्षादि-परत्वं हि तव कल्पनीयम् । तच् च प्रसिद्धि-प्राचुर्योपोद्बलिताबाधित-श्रुति-बाधेन [[??]]प्रसिद्धार्थ-परित्याग-दोषेण च नोन्मज्जति । झटित्य् उपस्थित एव शब्दार्थो वाक्यार्थान्वयी इति उपांशु-याजे पौर्णमासी-सम्बन्धस्य वाचनिकत्व-सिद्धये यतमानानां फणिति-विरुद्धम् अपि तत्-कल्पनम् ॥
“स एको ब्रह्मण” इत्य् अत्र ब्रह्म-शब्दश् चतुर्-मुख-पर इति कल्पनम् अपि प्रामाणिक-ब्रह्मोपस्थापक–ब्रह्म-श्रुति-विरोधाद् अ-युक्तम् । संसृताव् एतस्यैवानन्दस्य अन्यानि भूतानि मात्राम् उपजीवन्ति”[[??]] इत्य् उक्तम् अर्थं मानुषादि-चतुर्-मुखान्तेषु प्रदर्श्य सामान्येन प्रतिपर्यायं मुक्ते तत्-तद्-आनन्दान्वयोपपादन-मुखेन “स एको ब्रह्मण” इति पर्याये यथा सर्वो ऽप्य् आनन्दः ब्रह्मानन्दैक-देशः एवं मुक्तानन्दे ऽप्य् एकेदेश[[??]] इति “सो ऽश्नुते” इति प्रक्रान्तम् एव मुक्तस्य परम-साम्यम् उपपादयन्त्या ऽनया श्रुत्या उक्त-चत्वारिंशद्-अधिक-दोष-शत-दुष्ट-वाक्यार्थ-पर्यालोचनेन
ब्रह्मणस् सायुज्यँ सार्ष्टिताँ सलोकताम् आप्नोति
इति स्पष्टतयैव श्रुत्यन्तर-बोधित-फल-भूम्ना ऽपि विरुद्धम् ॥
[[P40]]
खेतराधिकरण-दैव-हतकत्व-कृत-स्वात्यन्त-फलत्वाद् इति सूत्र-खण्डो ऽपि विरोधाद् एव तव फल-सङ्कोचाव् अहम्-आनन्द-तारतम्यं यदि मुक्ताव् अप्य् अभ्युपैयाषि तदा “विकल्पो ऽविशिष्ट-फलत्वात्” इति सूत्र-व्याकोपश् च । साध्य-भेदे साधन-विकल्पायोगात् । “एकार्थास् तु विकल्पेरन्” इति हि भगवान् जैमिनिर् असूत्रयत् । “अ-विशिष्ट-फलत्वात्” इति सूत्र-खण्डो ऽपि विरोधाद् एव तव फल-तारतम्य-वादिनः अन्-उपपन्नः । विशिष्ट-फल-कामस्य नृ-सिंहाद्य्-उपासनम् अपीति तस्मिन् व्यवस्थित-विकल्प-परतया सूत्र-योजनात् । “हृद्य् अपेक्षया तु” इति सूत्रे मनुष्याणाम् अपि सर्वोपसनाधिकारावगमेन अधिकारि-विशेषम् अन्-अधिकृत्यैव तत्-तद्-उपासन-विधानेन च तत्-तद्-विद्यासु निर्निबन्धनतयैव व्यवस्थित-विकल्पनस्याप्य् अन्-उत्थितेश् च । अतः श्रुतिर् एषा न आनन्द-तारतम्ये प्रमाणम् ॥
यश् चात्र आधुनिकानाम् उपक्रम-विरोधादि-दूषण-परिहरणोद्यमः सो ऽयं भीष्मादिषु हतेष्व् अपि धृतराष्ट्रस्य दुर्बुद्धेः शल्येन पाण्डव-पराजयोद्यम-तुल्यः । तथा हि – यस् सन्दर्भः न्याय-विलेखन इव शब्द-रचनायाम् अप्य् अ-कुशलः तत्र शब्दो नानुवादार्ह इति अर्थत एव सो ऽनुवाद्य इति हि प्रामाणिकानां सरणिः तत्र “सो ऽश्नुत” इत्य् अत्र मुक्तस्य न साम्यावबोधः; “न तत्-सम” इत्य्-आदि-विरोधात् । अतो नोपक्रम-विरोध इति यत् प्रथमम् उक्तं तद्-अ-युक्तम् । “न तत्-समश् च” इत्य्-आदेः चित्त्वादिना ऽपि सम-निषेध-कत्वे जीवानाम् अ-चित्त्वापत्तेः । यदि प्रमाण-सिद्ध-धर्मेतर-धर्मेण जीवे न तत्-समश् चेत्य् उक्तिः ; तर्हि “परमं साम्यम् उपैति” इति श्रुति-सिद्ध-धर्मेतर-धर्मेणेत्य् अपि तुल्यम् । स च
सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः
इति श्रुति-विशदी-कृतः । प्रीति-मोद-प्रमोदैः ब्रह्मण इव स्व-भोग्यत्वेन ब्रह्म-तद्-गुणयोः अनुभव-रूप एव धर्मः । स च “सो ऽश्नुते” इत्य् उक्त इति दुरुद्धर एव तवोपक्रम-विरोधः ॥
“यदा” इत्य्-आदि-श्रुतेर् अयम् अर्थः । यदा- उपासन-दशायां पश्यः - उपासक-रुक्म-वर्णं पुरुषं कर्तारम् - सर्व-कार्य-कारण-भूतम् ईशं सर्व-नियन्तारं ब्रह्म-योनिम् - स्व-सङ्कल्प-विधेयैव प्रकृति-बृंहण-हेतु-भूतम् पश्यते उक्तैर् आकारैः दर्शन-समानाकारतया अनुभवति । तदा - तद्-अनन्तरम् एव । विद्वान् - उक्त-विधया ब्रह्म-समान-वेदनवान् सन्, ब्रह्म यथा इत्थं यावद् आत्म-भावि-वेदनवत् तथा मुक्तो ऽपीत्थं यावद् आत्म-भावि-वेदनवत् तया ऽनेन वेदनेन अ-न्यूनानतिरिक्तं साम्यम् उपैतीति इत्थं स्व-बोधित-विशेष-मुखेनैव परम-साम्य-श्रुति-प्रवृत्त्या
निर्दुःखित्वं परानन्दो लिङ्ग-भङ्गस् समामता
इति त्वद्-व्याख्यान-मुख-निरीक्षणेन नास्यास् सङ्कोचो ऽस्माभिर्[[??]] अङ्गीकार्यः । त्वद्-व्याख्यानम् अपि निर्दुःखित्वं लिङ्ग-भङ्गः इत्य् उक्त्या मुक्तानाम् अन्योन्य-साम्यम् एव प्रतिपादयति न तु ब्रह्मणा । अत उक्त-विधम् एव ब्रह्मणा मुक्तस्य परम-साम्यम् । अनयैव “न तत्-समश् च” इत्य् अस्यास् सङ्कोचः । “मम साधर्म्यम् आगताः” इत्य्-आदयो ऽपि परम-साम्य-श्रुतेर् एवोपबृंहण-भूताः । अतो नेह सामान्य-विशेष-न्याय-प्रसरः ॥
[[P41]]
तव जनन-व्यथा-राहित्येनैव मुक्तस्य साधर्म्य-पर्यवसाने तस्य परानन्दो ऽपि न सिद्ध्येत् । तत्-सिद्धिर् यदि ते प्रमाणान्तरेण तर्ह्य् अ-खण्डानुभवतः परम-साम्यम् अप्य् उक्त-विधया स्व-वाक्यतः समान-प्रकरण-स्थ-वाक्यतश् चेति सन्तोष्टव्यं बुद्धिमता । एवं च तट-स्थ–स्व-रूप–लक्षणतस् साम्यम् एव “न तत्-समश् च” इत्य् अनेन निषेध्यम्, न आनन्दतः ॥
ननु स्व-रूप–लक्षण-भूतो निरतिशयानन्दः कथम् अन्यत्र व्यभिचरितस् स्यात् इति चेत् — न; दिव्यात्म–स्व-रूप–गत-निरतिशयानन्दत्वस्य स्व-रूप–लक्षणत्वे ऽपि “आनन्दं ब्रह्मणः –” इति श्रुति-बोधित-धर्म-भूतानन्दस्यातथात्वात् । सुखानुभव एव हि “ब्रह्मण आनन्दः”, “कं ब्रह्म खं ब्रह्म”, “यत्र नान्यत् पश्यति”, इत्य्-आदि-श्रुति-सिद्ध-निरतिशय-विपुल-सुखत्व-योगि-भूमैव हि सुखम् । तम् एवाविकलम् अनुभवतो मुक्तस्य स एवानुभवः ब्रह्मण इवानन्दः । स चान्यूनानधिक इति हि परम-साम्य-श्रुतिर् बोधयतीति एवं भूतं भोग-साम्यं “न तत्-समश् च” इत्य्-आदि-श्रुतिर् न निषेद्धुम् अलं भिन्न-विषयकत्वात् ॥
अत एव हि इत्थं भोग-साम्यम् एव “भोग-मात्र-साम्य-लिङ्गाच् च” इत्य् असूत्रयद् भगवान् बादरायणः । तस्यान्यथैवार्थ उक्त इति चेत् सत्यम्; स न तस्यार्थः सूत्र-कृद्-अन्-अभिमतत्वात् । सूत्र-प्रवृत्तिर् एव हि त्वद्-अर्थस्य तद्-अन्-अभिमततां स्पष्टयति । प्रथमं तावत् “दर्शयतश् चैवं प्रत्यक्षानुमाने” इत्य् एतत् सूत्रं न पृथग् अधिकरणतया व्याख्येयम् पूर्वोक्त एव अर्थे प्रमाणान्तरोपन्यसन-परच-शब्दावरोधेन पूर्व-सूत्र-प्रतिपन्नार्थ-पर-गुण-सूत्रत्वावगमात् । अत्र ब्रह्म प्राप्तानां मुक्तानां भोगादिना वृद्धि-ह्रास-निरासात् अस्ति शास्त्रादि-सङ्गतिर् इत्य् उक्तवान्, जयतीर्थयतिर् इह प्रष्टव्यः । भोग-शब्दः किं ब्रह्म-व्यतिरिक्त-विषयानुभव-परः उत ब्रह्मानुभव-पर इति? नाद्यः । “यत्र नान्यत्” इत्य्-आदिनोक्तं निरतिशय-विपुल-सुख-रूपं भूमानम् आविर्भूत–स्व-रूपतया तद्-भोग्यतैक-वेषेण मुक्तेन स्वात्मानम् एव परमात्मानं सर्व-विध-भोग्यत्वेन “आत्म-रतिर् आत्म-क्रीड आत्मानन्दः” इत्य्-आदिनोक्त-विधया स्वात्मनैवानुभूय वर्तमानस्य ब्रह्म-व्यति-रिक्त-विषयानुभवाप्रसक्तेः ॥ जक्षणादयश् च स्वात्म–स्व-रूपवत् परमात्मन एव भोगोपकरण-भूतास् सन्तः परमात्मानुभव-प्रकार-भेदा इति पूर्वम् एवोक्तम् ॥
[[P42]]
द्वितीये निरतिशय-विपुलम् एव सुखं सर्वदा सर्वेषाम् अप्य् अनुभाव्यम् इति वृद्धि-ह्रासयोः कारणाभावात् । प्रकृतो मुक्त एव विषयः । सः वृद्धि-ह्रासवान्न् एवेति सन्देहस्याप्य् अन्-उत्थितेः । अत एव लोक-दर्शनम् अ-लौकिकत्वं च सन्देह-बीजम् इत्य् अपि भग्नम् । ब्रह्म-व्यति-रिक्त-विषयस्यैव त्वया लोक-दृष्टत्वात् तत्र च तद्-अ-प्रसक्त्य्-उक्तेः ॥
अत एव न पूर्व-पक्षोत्थितिश् चं । मुक्ते श्रुत-साम-गानादि-ब्रह्मानन्दानुभवाकारतया फलम् एव । तस्य साधनत्वेन उपासनतयोक्तिर् अपि पूर्व-पक्ष-सिद्धान्तयोर् अ-सम्बद्धा । साधन एवोपासन-शब्द-प्रसिद्धि-प्राचुर्यात् ।
हरेर् उपासना चात्र सदैव सुख-रूपिणी ।
न तु साधन-भावेन सिद्धिर् एवात्र साध्यते ॥
इति स्वयम् एव सिद्धि-शब्द-व्यवहृतस्य साधनाभिधायिना व्यवहारासम्भवात् ॥
किं चात्र सिद्धान्तो ऽप्य् अ-सम्बद्धः । मुक्ते “कादाचित्क-विशेषस् तु” इति कौर्म-वचन-बोधित-भोग-विशेष-सत्वे “नापत्तिर् न विपत्तिः” इति त्वत्-कल्पित-श्रुति-बाधात् तद्-अ-बाधे च व्यर्थम् एव कौर्म-वचनं स्यात् । बहु-विध-न्यूनाधिकानन्दानाम् आत्मनां ऐकाधिकरण्य-कृतासङ्कुचित-संसार-समान-धर्मतायां कियती स्व-गतापत्ति-विपत्ति-शब्दित-वृद्धि-ह्रास-कृता संसार-समान-धर्मता । यदि सा न दुःख-करी तर्हीयम् अपि तथेति विजानीहि । निर्दुःखस्य मुक्तस्य परानन्दाधिक्य-दर्शनाद् इव स्व-गत–वृद्धि-ह्रासाभ्याम् अपि दुःखाद्य्-अ-प्रसक्त्या विफलश् चेह तन्-निरासः । एकस्यैव सुखादि-वृद्धिः उक्त-प्रत्यक्ष-श्रुति-तद्-उपबृंहण-मोक्ष-धर्म-ब्रह्मवैवर्तादि-विरुद्धेति चेत् — सामान्येन विज्ञान-घनत्वेन अपहत-पाप्मत्वादि-गुणाष्टकवत्त्वेन च प्रत्यक्ष-श्रुत्याद्य्-अवगतानां तथैवाविर्भूत–स्व-रूपाणां स्व-रूप–तारतम्य-पर्यवसितानन्द-तारतम्य-कथा ऽप्य् उक्त-विधानेक-श्रुत्य्-आदि-विरुद्धेति तुल्यम् । अतो विफलम् इदम् अधिकरणम् ॥
किं च कौर्म-वचन-मूल-भूतेन तन्-मूलकेन च महतां प्रत्यक्षेण वृद्ध्य्-आदेर् एव सिद्ध्या कथं तव महतां प्रत्यक्षेण वृद्ध्य्-आद्य्-अभावस्य सिद्धिः? शब्दैक-समधिगम्ये ऽर्थे प्रत्यक्षाद्य्-उदाहरणम् अप्य् अ-सम्बद्धम् । स्वार्थ-बोधे न्याय-मात्र-सापेक्षायाश् श्रुतेः प्रत्यक्षाद्य्-अनपेक्षत्वात् । सूत्रे ऽपि न तन्-निबन्धन-सम्भवः; तत्-सापेक्षत्वे श्रुतेर् अ-प्रामाण्यापत्तेः ॥
[[P43]]
यच् च मुक्तो न वृद्ध्य्-आदिमान् तत्-कारण-शून्यत्वात् इत्य् अनुमानात् वृद्ध्य्-आद्य्-अभाव-सिद्धिर् इत्य् उक्तम्, तच् च त्वदीयम् उक्तो वृद्ध्य्-आदिमान् आनन्द-तारतम्यवत्त्वाद् इत्य् अनुमानेन हतम् ॥ किं च त्वदीयम् उक्तो न सुख-वृद्ध्य्-आदि-कारण-शून्यः कौर्म-वचनतः प्रामाणिक-भोग-विशेषवत्त्वात् इत्य् अनुमानेनासिद्ध एव त्वद्-धेतुः ॥
न चेमाम् एवाशङ्कां परिहर्तुं “भोग-मात्र-साम्य-लिङ्गाच् च” इति सूत्रम् इति वाच्यम्; अ-खण्ड-ब्रह्मानुभव-रूप-भोग-मात्रे सर्व-मुक्त-साम्य-परेणानेन तच्-छङ्कायाः परिहारात् ।
एतम् आनन्दमयम् आत्मानम् आविश्य न जायते म्रियते न हीयते न वर्धते
इत्य् अस्याः श्रुतेः “नापत्तिर् न विपत्तिः” इत्य् अस्याश् च सोपबृंहणायाः स्व-रूपाविर्भावतः प्राप्त-ब्रह्मानुभव-रूपानन्दस्य पुनर् नापत्तिर् न विपत्तिर् न हीयते न वर्धते इत्य् अर्थकतया अन्यथासिद्धतया कादाचित्क-विशेष-कृत-वृद्धि-ह्रास-निषेधाबोधनेन मदीयानुमान-द्वये ऽपि त्वदीय-श्रुति-बाधाप्रसक्तेः ॥
एतम् आनन्दमयम् आत्मानम् उपविश्य
इत्य् अस्य आत्मानम् अनुभूयेति ह्य् अर्थः । अन्यथा नित्योपविष्टे इदानीम् उपविश्येत्य् अ-योगात् । तस्मात् तस्यैवानुभवस्य प्राग् एव प्राप्तस्य पुनर् नापत्तिर् न विपत्तिर् इत्य् एवार्थः । अतस् त्वद्-अभिमत-वृद्धि-ह्रासाभाव-रूप-साम्यस्य मुक्ताव् अपि ब्रह्म-व्यति-रिक्त-विषयानुभव-रूप-भोगवताम् अ-सम्भवात् । भोग-मात्रस्य विशेषे सत्य् अपि मुक्तस्य साम्यम् एव न भोग-विशेषः तद्-वृद्ध्य्-आदौ कारणम् इत्य् अत्र लिङ्गम् इति सूत्रार्थोक्तिः तेनोक्ताशङ्का-परिहारोक्तिश् चायुक्ता ॥
मात्र-शब्दस्यात्र स्व-योग्य–विषय-भोगार्थक-भोग-पदान्वितस्य अन्न-मात्रं भुक्तम् इत्य्-आदिष्व् इव सामान्यार्थकत्वम् अङ्गीकृत्य सत्य-कामत्वादिकम् अपि स्व-योग्य–विषय-भोग-पर्यवसितम् इत्य् अभ्युपगच्छतस् तव मुक्ताव् अपि संसृताव् इव जगद्-व्यापाराप्रसक्त्या “जगद्-व्यापार-वर्जम्” इति सूत्रम् अपि तव निरर्थकम् । प्रतिकूलं च । जगद्-व्यापार-तत्-सम-नियत-धर्मातिरिक्त-धर्मेण परम-साम्यस्यैव तेन सिद्धेः । अतः अन्-उपपन्नतैक-वेषा त्वद्-अधिकरण-रीतिः बादरायणानभिमतेति अ-खण्ड-ब्रह्मानुभव-रूप-भोग-साम्यार्थकम् एव “भोग-मात्र-साम्य-” सूत्रम् । तम् एवार्थं “यदा पश्यः” इति परम-साम्य-श्रुतिर् बोधयतीति तत्-समानार्थो ऽयं “सो ऽश्नुते” इत्य् उपक्रमः ॥ तेन दुरुद्धर एव तवोपक्रम-विरोधः ॥
[[P44]]
यतो निरतिशयानन्दः परम-साम्य-श्रुति-सिद्धः न ब्रह्म–स्व-रूप–लक्षणान्तर्गतः अतो न तन्-मुखेन त्वद्-उक्तातिव्याप्तीनाम् अवकाशो ऽपि । निरुपपदानन्दमय-शब्दस्य निरूपाधिकानन्दमयत्वार्थकत्वेन “स एको ब्रह्मण” इति पर्याये ऽपि प्राचीनाभ्यस्त-यावद्-आनन्दानां मुक्तानन्दे ऽप्य् एकदेशत्वोक्त्या “यतो वाच” इत्य् उक्तापरिच्छित्तिर् मुक्तानन्दे ऽप्य् अविशिष्टेत्य् एव निरूपाधिक-विपश्चित्त्वादि-समानाधिकरण-निरूपाधिकानन्द-योग-कृतम् आनन्दमयत्वं बद्ध-मुक्त-नित्य-व्यावृत्तम् एवेति तेभ्यो ऽन्यः परमात्मेति मदीयानन्दमयाधिकरण-निष्कर्षात् न तेष्व् अन्यतमस्य तद्-अधिकरण-विषयता-प्रसक्तिर् अपीति परिशीलित “नेतरो ऽनुपपत्तेः” इति सूत्र-भाष्यः नैवम् उपपादयितुं प्रभवति । निरूपाधिकत्व-कृत-निरतिशय-दशाशिरस्कानन्दाभ्यास एव “आनन्दमयो ऽभ्यासात्” इति सूत्रितः । मुक्तानन्दाभ्यासस् तु निरूपाधिकत्व-कृत-निरतिशय-दशाशिरस्को नेत्य् एव वैषम्यम् । मदीय-भाष्ये
परिमित-सुख-लव-भागिनि जीवात्मनि
इत्य् उक्तिः बद्धम् अवलोक्य न मुक्तम्; तस्यानन्दतः परम-साम्योक्तेः ॥
यच् च आनन्दमयः परमात्मा अनन्याधीनत्वात् इत्य् एवालम् न त्व् अनन्याधीनानन्दत्वाद् इति, तत्र विशेष्यांश-वैयर्थ्याद् इत्य् उक्तं तद् अप्य् अ-भद्रम् । तावन्-मात्रस्य आनन्दादि-गुणेष्व् एव व्यभिचारात् । तेषाम् आश्रयाधीनत्वे ऽपि आश्रयस्य तन्-नित्यत्वादेश् च तन्-नित्येच्छा ऽऽश्रयत्ततया अन्याधीनत्वापत्तौ तद्-विशिष्टान्यान् अधीनत्वेन आश्रयादिषु यथा ऽनन्याधीनत्व-निर्वाहः तथा आनन्दादि-गुणेष्व् अपीति नात्र कुचोद्यानाम् अवकाशः । मुक्त एव व्यभिचाराभावाय अनन्याधीन-पदं आनन्दस्यानन्याधीनत्वं नाम निरूपाधिकत्व-कृत-निरतिशय-दशाशिरस्कत्वम् । एवं विधानन्दो भगवत्य् एवेति नान्यस्य जगद्-व्यापारादि-प्रसक्तिर् अपीत्य् अतो मुक्तस्य निरतिशयानन्दत्वे न को ऽपि विरोधः ॥
न केवलं “सो ऽश्नुते” इत्य् उपक्रम-विरोधाद् एव अत्र मुक्तानन्द-तारतम्यस्य अ-विवक्षितता, किं तु “सैषा ऽऽनन्दस्य” इति वाक्ये विचार्यत्वेन ब्रह्मानन्दस्यैव प्रतिज्ञातत्वेनापि । अत एव “स एको ब्रह्मण” इत्य् अत्र परमात्मानन्द एव स्वान्तर्गतैक-लवांश-मुखेन निगमितः ॥
यद् अत्र पर-मतम् “सैषा ऽऽनन्दस्य” इत्य् अनेन ब्रह्मानन्द-विचारो न प्रतिज्ञातः किं तु
रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति
इत्य् उक्तानां अ-परिच्छिन्नानन्दत्व-शङ्का ऽऽपनोदनाय मुक्तानन्द-विचार एव । “युवा स्यात्” इत्य्-आदिना “स एको ब्रह्मण” इत्य् अन्तेन मानुषादि-ब्रह्म-पर्यन्तम् उक्तानन्दे-यत्ता-प्रतिपादनस्य क्रियमाणत्वात् ॥ अत एव “स एको ब्रह्मण” इत्य् अत्र परमात्म-निगमनस्य अन्-अपेक्षितत्वं च ॥
[[P45]]
स एको ब्रह्मण इति वाक्ये वेधाः प्रतीयते ।
प्रायः[[??]] पाठानुरोधेन हरि-नामतः[[??]] सौख्यतः ॥
इति यद् उक्तं तद् अप्य् एकार्थत्व-कृतैक-वाक्यताम् उपगतैतच्-छ्रुत्य्-उपक्रमादि-विरुद्धतया श्रुति-हिंसन-मात्रम् । इयं च आनन्द-वल्ली “युवा स्यात्” इत्य् आरभ्य “स एको ब्रह्मण” इत्य् अन्ता । “यतो वाचो निवर्तन्ते” इत्य्-आदिक “न बिभेति” इत्य् अन्त-वाक्येन उक्त-वक्ष्यमाण-वाङ्-मनसापरिच्छेद्यत्वोपष्टब्ध-निरूपाधिकत्व-विशेषित-निरतिशय-दशाशिरस्कं ब्रह्मानन्दं परिमित-सुख-लव-भागिनि बद्धे भगवद्-अधीन-निरतिशय-सुख-भागिनि मुक्ते नित्ये च अ-सम्भावितम् आनन्दमयस्य उक्त-सर्व-विध-प्रत्यग्-आत्म-विलक्षण-ब्रह्मत्व-सिद्ध्य्-अर्थं मानुषानन्दम् आरभ्य शत-गुणितोत्तर-क्रमेणाभ्यस्य प्रदर्शयन् “प्रकरणात् प्रधानस्य” इति न्यायात् परम-पुरुषम् एव समाभ्यधिक-राहित्य-निदान-भूतानन्याधीन-ज्ञानानन्दाद्य्-अनवधिकासंख्येय-कल्याण-गुणैः निरतिशय-प्रकर्षवत्त्वाद् अपि वस्त्व्-अपरिच्छित्य्-अभिधाय्यनन्त-पद-घटितसत्यादि-वाक्य-प्रतिपन्न–स्व-रूप–लक्षण-लक्षितम् आनन्दमयम् एव
तस्माद् वा एतस्माद् विज्ञानमयात् अन्यो ऽन्तर आत्मा ऽऽनन्दमयः
इति वाक्य-प्रतिपन्नम् आसाद्य विश्रान्ता ॥ अत्र मुक्तानन्दोत्कर्ष-कथनं तु प्राक्तनानन्दोत्कर्ष-कथनवत् प्रशंसायां द्वार-मात्रम् । ब्रह्मानन्दानुसन्धायि-मुक्तानन्दस्य चतुर्-मुखाद्य्-आनन्दाद् उत्कर्षे कथिते तस्य ब्रह्मानन्दोत्कर्ष-कथन-रूपत्वात् ॥
एवम् एकार्थत्व-कृतातिसरल-प्रवृत्तिकैक-वाक्यत्व-भञ्जनेन अत्र प्रसक्ति-गन्ध-रहितोक्त-चत्वारिंशद्-उत्तर-दोष-शतक-दुष्टम् उक्तानन्द-तारतम्योपपादनाग्रहेण प्रसक्तम् इह बहु-मुखं वाक्य-भेदं विचारित-पूर्व-मीमांसा-रीतिर् न वक्तुम् अर्हति ॥
यद्य् अप्य् उक्तं न्याय-सुधायाम् — “नन्व् एवं वाक्य-भेदो दोषस् स्यात्” इत्य् आशङ्क्य
नैवम्; ज्ञापक-सद्भावात् । च शब्दो ह्य् अयं समुच्चयस्य द्योतकः प्रतीयते
इति । तथा ऽपि तद् एव वाक्यम् अ-युक्तम् इति ब्रूमः । प्रसिद्ध-वैदिक-रीतिम् अनुसृत्य विनैव वाक्य-भेदं प्रकृतार्थोपपादन-सम्भवे च शब्दो ऽस्तीत्य् एव बहु-मुख-वाक्य-भेदम् अपि सोढ्वा अ-प्रकृताप्रसक्तोपक्रमादि-बाधितम् उक्तानन्द-तार-तम्य-विधेः मीमांसक-पथ-विरुद्धत्वात् ॥
[[P46]]
यदि मुक्त-सामान्ये तत्-तद्-आनन्दवत्ता-मात्रानुवादि-वाक्य-गत-च-शब्द-श्रुति-बलाद् एव वाक्य-भेदम् अङ्गीकृत्य मुक्तानन्द-तार-तम्य-विधिम् अनुमन्यसे, तदा किम् अपराद्धं पृथक् पद-श्रुतिमद्भिः पृथग् आख्यात-युक्तैर् अष्टा-कपालादि-वाक्यैः । तत्रापि निरपेक्षाष्टा-कपालादि-संस्कृत–तत्-तत्-पुरोडाश-द्रव्यक–तत्-तद्-अपूर्वेष्टि-विधिर् इति तान्त्रिकाः किम् इति नोक्तवन्तः । अतो ऽनुवाद-गताष्टा-कपालादि-पद-श्रुतिवत् पृथग् आख्यात-श्रुतिवच् चायम् अपि च शब्दो ऽनुवाद-गतः न वाक्य-भेदम् आपादयेत् ॥
यच् चात्र परस्य मते - अ-मुक्त-मानुषादिषु उत्तरोत्तरम् आनन्द-तार-तम्य-विधिवत् मुक्तेष्व् अप्य् उत्तरोत्तरम् आनन्द-तार-तम्य-विधिर् अवश्यम् अङ्गीकार्यः ।
स यो मनुष्याणां राद्धः समृद्धो भवति अन्येषाम् अधिपतिः सर्वैर् मानुष्यकैर् भोगैस् सम्पन्नतमः स मनुष्याणां पर आनन्दः”
युवा स्यात् साधु युवा ऽऽध्यायकः
इत्य्-आदि-बृहद्-आरण्यक–तैत्तिरीयक-वाक्ययोः मुक्तामुक्तोभय-प्रक्रमेणैव आनन्द-तार-तम्य-विधौ प्रवृत्तत्वात् ॥
अत एव न्याय-सुधायाम्–
राद्ध-शब्दोक्त-सम्यक्-सिद्धत्वस्य समृद्ध-शब्दार्थस्य च मुक्ताद् अन्यत्र दुःखादि-सम्भिन्ने बाधात् अन्येषाम् अधिपतिर् इत्य् अस्य मुक्तामुक्त-साधारण्याच् च साधु-शब्द-निर्दिष्ट-ब्रह्म-योग-निमित्तेन “यु मिश्रणे”, “युजिर् योगे” इति वा धातोः “अन्येभ्यो ऽपि दृश्यते” इति क्वनिपि व्युत्पन्नेन साधु-युव-शब्देन ब्रह्म-प्राप्तिमतो मुक्तस्य निर्देशात् तस्येयम् इत्य् अंशस्य बद्धावस्थ-जीव-परत्वाच् च ॥ तथा च “ते ये शतम्” इत्य्-आदाव् अपि मानुषादि-शब्दैः बद्ध-मुक्तावस्थाव् उभाव् अपि परामृश्येते इत्य् अनुगृहीतम्
इति; तद् अपि प्राग् एव “युवा स्यात्” इत्य्-आदेः त्वद्-अभिमतार्थ-कल्पकाभावस्य कल्पितानाम् अपि बद्ध-साधारण्यस्य प्रसिद्धार्थ-त्यागे रथ-काराधिकण-विरोधादेश् चोपपादनेन बृहद्-आरण्यक-तैत्तिरीयकयोः मुक्तामुक्त-क्रमस्यैव निर्मूलिततया तन्-मुखेन मुक्तानन्द-तार-तम्य-वार्तायोगोपपादनेन निरस्तम् ॥
किं च अमुक्तेष्व् अपि उत्तरोत्तरानन्द-तार-तम्यं न विधेयम्; पूर्व-पूर्व-पर्यायोक्तेभ्यः उत्तरोत्तरोक्तानां प्रमाणान्तर-सिद्धोत्कर्षवतां तत्-सामर्थ्यातिशय-लब्ध-साधन-तार-तम्येन फल-तार-तम्यस्य न्यायत एव सिद्धत्वात् । न्याय-लब्धे च न विधेस् तात्पर्यम् इति हि तान्त्रिकाः ॥
अत एव “अग्निहोत्रं जुहुयात् स्वर्ग-कामः” इति वाक्यस्य न स्वर्ग-प्राप्तौ व्यापारः । “तत् सर्वार्थम् अन्-आदेशात्” इति विश्वाजिद्-अधिकरण-पूर्व-पक्ष-न्यायेनैव सर्व-फल-साधारण्येन स्वर्ग-प्राप्तेः । नापि स्वर्गेतर-परिसङ्ख्यायाम्;
सस् स्वर्गस् स्यात् सर्वान् प्रत्यविशिष्टत्वात्
इति तत्-सिद्धान्त-न्यायेनैव तस्या अपि लाभाद् इति हि तेषां सरणिः । विधि-प्रत्यवत्य् एव[[??]] चेद् एवम् तद्-रहिते ऽत्र प्रत्युत पूर्व-पूर्वस्माद् उत्तरोत्तर-संसार्य्-आनन्दाधिक्य-कीर्तनवत् पूर्व-पूर्वस्माद् उत्तरोत्तर-मुक्तानन्दोत्कर्ष-कीर्तन-लेश-विधुरे कथं तद्-विधि-सम्भवः ?
[[P47]]
तस्माद् इह पूर्व-पूर्व-संसार्य्-आनन्द-शीकर-सागर-स्थानीय-मुक्तानन्दस्य “सो ऽश्नुते” इत्य्-आदि-वाक्य-प्राप्तस्य अवयवशो ऽनुवाद-मुखेन मुक्तानन्द-कन्दल-स्यन्दोह-मूल-कन्दस्य ब्रह्मानन्दस्यैव प्रशंसां कुर्वन् तन्-मुखेन सर्व-विध-प्रत्यग्-आत्म-व्यावृत्त-परम-प्रकृत-प्राप्य-भूतानन्दमयस्य निरवधिक-निरतिशयानन्द-प्रचुरत्व-रूपेकार्थ्य-कृतम् “एकम् एव” इतीदं वाक्यं सम्भवत्य् एक-वाक्यत्वे वाक्य-भेदायोगात् ॥
अत एव प्रथमे ऽध्याये औदुम्बराधिकरणे “औदुम्बरो यूपो भवति” इत्य्-आदि-वाक्ये यूपौदुम्बर-सम्बन्धे उदुम्बर-फल-सम्बन्धे च विधेये वाक्य-भेदापत्त्या सर्वो ऽयम् अर्थ-वाद इति सिद्धान्तितम् ॥ तथा तत्रैव “पूर्ववन्तो विधानार्थाः’ इत्य् अधिकरणे
वैश्वानरं द्वादश-कपालं निर्वपेत् पुत्रे जाते । यद् अष्टा-कपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति यन् नव-कपालस् त्रिवृतैवास्मिंस् तेजो दधाति, यद् दश-कपालो विराजैवास्मिन्न् अन्नाद्यं दधाति, यद् एकादश-कपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति, यद् द्वादश-कपालान् जगत्यैवास्मिन् पशून् दधाति, यस्मिन् जात एताम् इष्टिं निर्वपति पूत एव तेजस्य् अन्नाद इन्द्रियावी पशुमान् भवति
इति वाक्ये प्रकृत एव वैश्वानर-यागे अष्टा-कपालादयो गुणा विधीयन्ते अथ वा द्वादश-कपाल-यागं वैश्वानर-वाक्य-सिद्धम् आश्रित्य फलायाष्टा-कपालत्वादयो गुणा विधीयन्त इति नाम त्वत्-पक्ष-निराकरण-पूर्वकं पूर्व-पक्षे प्राप्ते सम्भवत्य् एक-वाक्यत्वे वाक्य-भेदायोगात् “पुत्रे जाते”, “यस्मिन् जाते” इत्य् उपक्रमोपसंहारैक-रूप्यावगतैक-वाक्यता-भङ्गेन न गुण-विधयः न वा गुण-फल-विधयस् सम्भवन्ति । अष्टा-कपालादीनि तु वाक्यानि भग्न-रूढ्य्-अर्थानि लक्षणया यद् अवयव-भूता अपि एकैक-फल-सम्बन्धिनः तदा अवयविनो द्वादश-कपालस्य सर्व-फल-साधनत्वे कस् सन्देह इति स्तुति-द्वारा एक-वाक्यताम् अनुभवन्तीति राद्धान्तितम् ॥ तद् उक्तं वार्तिके —
अष्टत्वाद्य्-अ-विधेयत्वात् व्यर्थेयं तत्-प्ररोचना ।
तस्माद् अवयव-द्वारा द्वादशत्वं प्ररोच्यते ॥
इति ॥
[[P48]]
द्वितीये ऽध्याये “पौर्णमासिवद् उपांशुयाजस् स्यात्” इत्य् अधिकरणे
जामि वा एतद् यज्ञस्य क्रियते यद् अन्वञ्चौ पुरोडाशाव् उपांशुयाजम् अन्तरा यजति विष्णुर् उपांशु यष्टव्यो ऽजामित्वाय, प्रजा-पतिर् उपांशु यष्टव्यो ऽजामित्वाय, “अग्नीषोमीयाव् उपांशु यष्टव्याव् अजामित्वाय”
इति वाक्ये विष्ण्व्-आदि-वाक्य-त्रयस्य स्पष्ट-विधि-प्रत्ययस्य याग-त्रय-विधायकत्वम् । अन्तरावाक्यं तु समुदायानुवादः वर्तमानापदेश-सरूपत्वात् । अन्यथा प्रत्येकम् अजामित्वोपसंहारानुपपत्तेः इति पूर्व-पक्षे प्राप्ते — जामित्वोपक्रमाजामित्वोपसंहाराभ्याम् एक-वाक्यत्वावगमात् न तद्-बाधेन याग-त्रय-विधानं युक्तम् । अ-प्राप्तार्थकत्व-बलेन लेशत्व-कल्पनान्नविधानानुपपत्तिः देवतासु प्रत्येकम् अजामित्व-साधन-शक्ति-प्रदर्शनाय पृथग्-उपसंहारो नोपक्रम-विरोधायालाम् इति राद्धान्तितम् ॥
तृतीये ऽपि निवीताधिकरणे
निवीतं मनुष्याणां प्राचीनावीतं पितृणाम् उपवीतं देवानाम् उपव्ययते देवलक्ष्मम् एव तत् कुरुते
इति श्रुतस्य निवीतस्य उपवीत-तुल्य-श्रुतितया विधित्वम् आशङ्क्य उपव्ययत इति विध्य्-एक-वाक्यतया स्तावकत्वम् एव सिद्धान्तितं “विधिना वैक-वाक्यत्वात्” इति सूत्रेण ॥
चतुर्थे च
द्रव्याणि त्व् अ-विशेषणानर्थक्यात् प्रतीयेरन्
इत्य् अधिकरणे “एतानि वै दश यज्ञायुधानि” इति वाक्यम् उदाहृत्य आग्नेयादि-वाक्योक्त-कर्माणि गुण-विधिर् अयं यज्ञ-शब्दस्याग्नेयादि-परत्वोपपत्तेः गौणेनायुध-शब्देन साधन-मात्र-लक्षणया पुरोडाशादिभिस् समुच्चयेन विकल्पेन वा स्फ्यादि-द्रव्याणां विधि-सम्भवाद् इति पूर्व-पक्षे प्राप्ते “यज्ञायुधानि सम्भरन्ति” इति सन्निहितेन विधिना एक-वाक्यताम् आपन्नो न वाक्यान्तरम् इति सम्भवति । तस्मात् “स्फ्येन वेदिम्” इत्य्-आदि-वाक्य-प्राप्तानुवादो ऽयम् इति सिद्धान्तितम् ॥
षष्ठे चाध्याये
पौर्णमास्याम् अ-नियमो ऽविशेषात्
इत्य् अधिकरणे
चतुर्-अहो पुरस्तात् पौर्णमास्यै दीक्षेरन् तेषाम् एकाष्टकायां क्रयस् सम्पद्यते तेनैकाष्टकां न छंफट् कुर्वन्ति
इति वाक्यम् उदाहृत्य किम् इयं पौर्णमासी याकाचित् पौर्णमासी अथवा अनन्तर-स्तुता चैत्री उत माघी ? इति संशय्य एकाष्टका-शब्दस्य “पौर्णमास्यः द्वादशाष्टकाः” इति प्रयोगात् सर्व-कृष्णाष्टमी-विषयतया या काचित् पौर्णमासी स्यात् । अथवा चैत्र्या अनन्तर-स्तुतत्वात् सामान्यतः शक्तः पौर्णमासी-शब्दः तद्-विषय एव स्याद् इति पूर्व-पक्षं प्रापय्य प्रयोग-बाहुल्येन एकाष्टका-शब्दस्य माघ-कृष्णाष्टमी-परत्वेन अन्यासु प्रयोगस्य गौणत्व-निश्चयात् “एकाष्टकायां दीक्षेरन्” इति वाक्ये “संवत्सर-पत्नीत्वस्य यां जना” इति मन्त्रोक्तस्य श्रवणात् “आर्तं वा एते संवासरस्य”, इति वाक्ये एकाष्टकायाः शिशिर-सम्बन्ध-दर्शनाच् च तन्-निश्चय-दार्ढ्ये सति एकाष्टका ऽऽश्रय-सम्पत्ति-वाक्यानुरोधात् पौर्णमासी-शब्दो माघी-परः ।
[[P49]]
संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन् फाल्गुनी पूर्ण-मासे दीक्षेरन् चित्रा-पूर्ण-मासे दीक्षेरन्
इत्य्-आदि-विधयः तद्-अर्थवादाश् च एक-वाक्यता ऽनुरोधात् “चतुर्-अहे पुरस्तात्” इति विधेर् एव कथञ्चिद् अर्थ-वादा इति
माघ्याः पुरस्ताच् चतुर्-अहे गावामयनिकी दीक्षा
इति सिद्धान्तितम् ॥
तत्-प्रतिषिध्य प्रकृतिर् नियुज्यते सा चतुस्-त्रिंशद्-वाच्यत्वात्
इत्य् अधिकरणे अश्व-मेध-प्रकरण-पठितायाः
चतुस्-त्रिंशद्-वाजिनो देव-बन्धोर् वङ्क्रीर् अश्वस्य स्वधितिस् समेति,
इत्य् अस्या ऋचः किं नियमः? उत प्राकृतम् अपि “षड्-विंशतिर् अस्य वङ्क्रय” इत्य् अध्रिगु-वचनं कर्तव्यम् इति संशये
न चतुस्-त्रिंशद् इति ब्रूयात् षड्-विंशतिर् इत्य् एव ब्रूयात्
इत्य् अस्य वैशेषिके चतुस्-त्रिंशन्-मन्त्रे पद-मात्र-निषेधेन पदान्तर-प्रक्षेपेण च उपपन्नत्वात् वैशेषिक्या एव ऋचो नियमः; न तु षड्-विंशतिर् इति । प्राकृतस्याध्रिगु-वचनस्यापि पक्षे प्राप्तिर् इति पूर्व-पक्षं प्रापय्य “एकम्” इतीदं वाक्य
न चतुस्-त्रिंशद् इति ब्रूयात् षड्-विंशतिर् इत्य् एव ब्रूयात्,
इति ॥ अत्र “न चतुस्-त्रिंशत्”, इति वैशेषिक्याम् ऋचि यदि पद-मात्र-निषेधस् स्यात् तर्हि षड्-विंशतिर् इत्य् अपि विधीयेत । न हि पदान्तरे प्रतिषिद्धे प्राकृतस्य पदस्य प्राप्तिस् सम्भवति । तथा च सति भिद्येत वाक्यम् । तस्माद् ऋच एवायं निषेधः ततश् च वैशेषिक्या निषेधे प्राप्ते प्राकृत्याश् चोदकत एव प्राप्त्या “षड्-विंशतिर् इत्य् एव ब्रूयात्” इत्य् अनुवादः । तथा चैक-वाक्यता-ऽनुगृहीता भवति ॥
न चात्रेर् आपदवत् पदान्तर-कार्ये षड्-विंशति-पद-विधानेन एक-वाक्यता ऽपि घटयितुं शक्यत इति वाच्यम् । एव कारोपहत-विधि-शक्तिकस्य “षड्-विंशतिर् इत्य् एव ब्रूयात्” इत्य् अस्य विधायकत्वासम्भवात् । अतस् तूपर-गो-मृगयोर् अश्वस्य च वक्रिणां समस्य वचनं षड्-अशीतिर् एषां वषट्क्रेय[[??]] इत्य् एवं न्याय-सत्त्वात् कर्तव्यम् इति सिद्धान्तितम् ॥ तस्मिन्न् एवाध्याये
[[P50]]
आम्नाताद् अन्यद् अधिकारे वचनात् तद्-अधिकारः स्यात्
इत्य् अत्र ज्योतिष्टोम-प्रकरण-गतेन
गिरा गिरेति ब्रूयाद् ऐरं कत्वो द्गेयम्
इत्य् अत्र यज्ञायज्ञीये किं गिरा-पदं प्रयोक्तव्यम्? उत इरा-पदम् एवेति संशये ऐरंकत्वेतीरा-पदोत्पत्ति-मात्र-परम् इदं [[??]]वचनं नोद्गान-सम्बन्ध-परं सत् स्तोत्र-परं स्तोत्र-सम्बन्ध-परं वा । प्रकरणात् तु स्तोत्र-सम्बन्ध-प्राप्तिः । तद्-वशेन च स्तोत्र-साधन-गान-सम्बद्धेरा-पदस्य काल्पनिकः गिरा-पदस्यापि काल्पनिक एव गान-स्तोत्राभ्यां सम्बन्ध इति तुल्य-बलत्वात् गिरा-पदम् इरा-पदं वा प्रयोक्तव्यम् इति पूर्व-पक्षे प्राप्ते “ऐरंकृत्वोद्गेयम्” इति इरा-पदम् उपादाय उद्गाने विनियोगात् लोक-सिद्धस्येरा-पदस्य दध्यादिवद् उत्पत्त्य्-अनपेक्षणात् ऐरम् इत्य् उच्चारणेनैव स्व-रूपस्य सिद्धस्य विनियोग-सम्भवात् प्रत्यक्षः इरा-पदस्य गान-विनियोगः । गिरा-पदस्य तु यज्ञायज्ञीय-प्रगाथैक-वाक्यतया आनुमानिकः । स्तोत्र-विनियोगस् तु इरा-पदस्य प्रकरणात् गिरा-पदस्य तु क्रम-विनियुक्त-ऋङ्-मध्य-पतितस्य क्रमाद् यज्ञायज्ञाीयस्य तृतीया श्रुत्य्-अवगत-स्तोत्र-साधनतया यात् किञ्चिद् दृग्-अक्षर-द्वारा ऽप्य् उपपत्तौ ऋग्-विशेषस्य तद्-अन्तर्गत-गिरा-पदस्य च क्रमं विना प्रमाणान्तराभावात् । ततश् च प्रबल-प्रमाणकस्येरा-पदस्य नियतः प्रयोगः न तु दुर्बलेन गिरा-पदेन वैकल्पिकः ॥
न च गिरा-पदस्याम्नातस्य निषेधेनानियतायां निवृत्तौ तद्-गतेराश्रायाकाङ्क्षायाम् इरा-पदं विधीयत इति वाच्यम् । गिरा-पद-कार्य एव इरा-पद-विधानेन गिरा-पद-निषेधस्यार्थ-प्राप्तानुवादत्वोपपत्तौ वाक्य-भेदापदकस्य अङ्गीकर्तुम् अ-युक्तत्वाद् इति सिद्धान्तितम् ॥
जर्तिल-यवाग्वा वा जुहुयाद् गवीथुक-यवाग्वा वा
इति विहितस्य
अनाहुतिर् वै जर्तिलाश् च गवीथुकाश् च
इत्य् अनाहुतित्व-वादः प्रतिषेधः । ततश् च ग्रहणाग्रहण-न्यायेन विकल्प इति पूर्व-पक्षे – राद्धान्तितम्; अज-क्षीर-विध्य्-एक-वाक्यता-ऽऽपन्नो ऽयम् अनाहुति-वादः न स्वातन्त्र्येण प्रतिषेधाय अलम् । तस्माद् अज-क्षीर-स्तुतिर् इयम् इति ॥
तथा “अत्रार्षेयस्य हानं स्यात्” इत्य् अधिकरणे “एकं वृणीते द्वौ वृणीते” इत्य् अनयोर् विधित्वे वाक्य-भेद-भयात् तयोर् अनुवादता व्यवस्थापिता । तस्माद् वाक्य-भेदापदक-श्रोत्रियानन्द-विधिः ब्रह्मानन्द-प्रकरण-विच्छेदको न न्याय-विद् वैदिकैर् अङ्गीकर्तुं शक्यते ॥
[[P51]]
स्याद् एतत् । न वैश्वानराधिकरणे उपक्रमोपसंहारैक-रूप्यावगतैक-वाक्यत्व-निर्वाहाय गुण-फल-विध्यस् त्यक्ताः; किन्तु अष्टा-कपालादि-वाक्येषु विध्य्-अश्रवणात् विधि-योग्य-पुरुष-व्यापार-मात्रस्याप्य् अ-श्रवणात् । यच्-छब्दोपबन्धनानुवादत्वस्यैव प्रत्यायनात् द्वादश-कपालाबयवत्वेनाष्टा-कपालादीनां प्राप्तेः अष्टा-कपालादि-भवन-पूतत्वादिकयोः एक-कालत्व-निर्देशेन फल-फलि-भावाप्रतीतेः । “यस्मिन्” इति वाक्ये पूतत्वादीनां समुच्चयावगमेन तेषां व्यवस्थिताष्टा-कपालादि-फलत्वायोगाच् च । अत उक्तैर् हेतुभिर् अष्टा-कपालादि-वाक्यानाम् अवयुक्त्या ऽनुवादतया अर्थ-वादत्वैव प्रतीयत इति तेषां विध्य्-अकल्पनेन बाधकानवताराद् एक-वाक्यत्वं न बाधितम् ॥
उपांशु-याजाधिकरणे ऽपि नैक-वाक्यता-मात्रावलम्बनेन विष्ण्व्-आदि-वाक्यानां विधायकत्वं त्यक्तम्, किं तु जामिता-दोष-परिहारायावश्यम् अन्तरा-वाक्ये विधाव् अभ्युपगन्तव्ये तत्रैव शाखा-भेदेन आग्नेयाग्नीषोमीय-याज्यानुवाक्या-युगल-मध्ये पठितानां वैष्णव-प्राजापत्य्-आग्नीषोमीय-याज्यानुवाक्या-युगलानां क्रम-प्रमाणेनान्वये सति तत्-तन्-मन्त्रोदितानां विष्ण्व्-आदीनां तत्र प्रयोगे देवतात्वस्य प्राप्तत्वाद् विष्ण्व्-आदि-वाक्य-स्थ-यजनासन्निहित-तद्-यागानुवादकत्व-स्वारस्याच् च विधेयाभावेन विष्ण्व्-आदि-वाक्यानां मन्त्र-वर्ण-प्राप्त-विष्ण्व्-आदि-देवतावत् तया तद्-यागस्तावकत्व-प्रतीतेर् एव निवीताधिकरणे ऽपि नैक-वाक्यता-मात्रं विधित्व-भङ्ग-हेतुः । किन्तु निवीतस्य केवलस्य पुरुषार्थत्व-दर्श-पूर्ण-मास-प्रकरण-विरोधात् क्रतु-युक्त-पुरुष-धर्मत्व-पक्षे ऽपि विद्ध्य्-आख्यात-द्वय-कल्पना-क्लेशस्य दुर्वारत्वात् शुद्ध-क्रतु-धर्मत्व-पक्षे मनुष्याणाम् इत्य् अस्यानर्थक्यात् । प्रकरणे यन्-मनुष्योद्देश्यकं कर्म तद्-अर्थत्वे ऽपि प्रकरणस्य किञ्चित् पीडनात् आख्यात-कल्पना-प्रसङ्गात् । स्व-तन्त्र–मनुष्य-प्रधानकातिथ्याद्य्-अर्थकत्वे ऽपि तद्-उपस्थापकाभावात् प्रकरण-बाध-ध्रौव्याच् चायुक्तं विधित्वम् इति तद्-भङ्गो ऽङ्गीकृतः ॥
“द्रव्याणि त्व् अ-विशेषेण” इति चतुर्थाध्यायाधिकरणे ऽपि विधि-प्रत्ययाख्यातयोर् अ-श्रवणात् उत्पत्ति-शिष्ट-पुरोडाशाद्य्-अवरुद्धेषु आग्नेयादि-यागेषु साधनत्वेन स्फ्यादि-विधौ प्रबल-प्रमाण-बाधात् । उपांशु-याजे तद्-अभावे ऽपि ध्रौवाज्येन विकल्पापत्तेश् च । यज्ञायुध-वाक्यस्य सम्भरण-विध्य्-एक-वाक्यतावत् न तस्य विधित्वं निराकृतम् ॥
[[P52]]
न एक-वाक्यता-मात्रेण पौर्ण-मास्याम् अ-नियम
इति षष्ठाधिकरणे ऽपि
एकाष्टकायां दीक्षेरन् फाल्गुनी-पौर्ण-मासे दीक्षेरन्
इत्य्-आदीनां विधित्वम् एकम् एक-वाक्यताम् अवष्टभ्य न त्यक्तम् किं तु “आर्तं एते संवत्सरस्याभिदीक्षन्ते”, इत्य् एकाष्टकाया निन्दितत्वात्
तस्यैकै॒व नि॒र्या यत् साम्मे॑घ्ये विषू॒वान्त् स॒म्पद्य॑ते।
इति फाल्गुनी-पूर्ण-मास-दीक्षा-पक्षे “तस्य न काचन निर्या भवति” इति निर्दोषता-कीर्तने ऽपि “चतुर्-अहे पुरस्तात्” इत्य् अस्य वाक्य-शेषे “तेनेष्टकां न छंवट् कुर्वन्ति” इति पक्षान्तराणाम् अ-विशेषेण एकाष्टका-तिरस्कार-रूप-दोषवत्ता-ध्वननेन चानिष्टानुबन्धित्व-प्रतीत्यैव निन्दा ऽर्थवादानां विधि-शक्ति-प्रत्याख्यायकतायाः जर्तिलाधिकरणे निर्णयात् जर्तिलाधिकरणोदाहरणम् अपि प्रत्युक्तम् ॥ वस्तुतो जर्तिल-गवीथुकानाम् अज-क्षीरेण विकल्पापत्त्या तत्र विधित्व-निराकरणम् इति ध्येयम् ॥
तत्-प्रतिषेध्येति नावमिकाधिकरणे ऽपि एव कारेण विधि-शक्ति-प्रतिबन्धात् “षड्-विंशतिर् इत्य् एव ब्रूयात्” इत्य् अस्य विधायकत्वं त्यक्तम् । षड्-विंशति-पदं हि एव कारोपसर्जनत्वात् न स्वयं विधिना सम्बध्यते, किन्तु अन्-अन्योपसर्जनत्वाद् एव कार एव । तस्य च निवृत्तिर् अर्थः । तेन षड्-विंशति-मन्त्राद् अन्यत् प्रामाणिकं “चतुस्-त्रिंशद्-वाजिनः” इति यद् वचनं तन् न कर्तव्यम् इत्य् अर्थः फलति । तथा च कथम् अनुवादकत्वं वारणीयम् । यदि त्व् एकारम् अनादृत्य एक-वाक्यत्व-निर्वाहाय यत्नो ऽयम् इत्य् उच्येत तदा “चतुस्-त्रिंशद्-वाजिनः” इति वैशेषिक-मन्त्र एव चतुस्-त्रिंशत्-पद-कार्ये षड्-विंशति-पदम् इरा-पदवद् ऽविधीयेत । चतुस्-त्रिंशत्-पद-प्रतिषेधश् च गिरा-पद-प्रतिषेधवद्-अर्थ-सिद्धः कार्यापत्ति-प्रदर्शनायानूद्यत इत्य् एव किं न स्यात्? एवम् अप्य् एक-वाक्यत्व-सम्भवाद् अनुवाद-साफल्यात् । तथा ऽनभ्युपगमे विधि-शक्ति-प्रति-बन्ध एव शरणम् इत्य् अत्रापि स एव हेतुः ॥
“आम्नाताद् अन्यत्” इति तत्रत्याधिकरणान्तरे ऽपि नैक-वाक्यत्व-निर्वाहाय प्रतिषेधकस्यानुवादकत्वाङ्गीकारः किन्त्व् अम्नानानुग्रहाय विकल्प-परिहाराय च । न खलु “यज्ञायज्ञाव” इत्य् अस्याम् ऋचि पद-मात्र-व्यावर्तनेन विधि-निषेधयोश् चारितार्थ्य-सम्भवे प्रतिषेधेन गिरा-पदं व्यावर्त्य विधिना पदान्तरम् अपि प्रापणीयम् नापि इरा-पद-मात्र-विधिं स्वीकृत्य विकल्पानवकाशी-करण-सम्भवे गिरा-पद-प्रतिषेधम् अपि स्वीकृत्य तस्य प्राप्त्य्-उपजीवकतया प्रकरण-पाठोन्नीत-गिरा-पद-विधायक-शास्त्रम् उपजीव्यम् अनुरुध्य “न चतुस्-त्रिंशत्” इत्य् अत्रेव अष्ट-दोष-दुष्टो विकल्पो ऽङ्गीकार्यः । सम्भवति च विधि-प्रतिषेधयोर् द्वयोर् अपि गिरा-पद-मात्र-व्यावर्तनेन चारितार्थ्यं विकल्पानवकाशी-करणं च । गिरा-पद-कार्ये इरा-पद-विधिः । प्रतिषेधस् तु कार्यापत्त्य्-अर्थ-सिद्धतया गिरा-पद-निवृत्तेर् अनुवाद इति कल्पनया । न चैवं गिरा-गिरेति वाक्य-वैयर्थ्यम् इरा-पदे गिरा-पद-कार्यापत्ति-बोधनस्यान्यतो ऽसम्भवतः तत्-प्रयोजनत्वात् । तस्मान् नैतान्य् अत्रोदाहरणानीति —
[[P53]]
सत्यम्; नैक-वाक्यता-मात्रेण विधित्व-भङ्गः, किं तु विधित्व-प्रच्यावक-प्रमाणान्तर-प्राप्तत्वादि-घटितेनेति तथा ऽपि नानन्दादि-विधि-प्रत्याशा सम्भवति ।
सो ऽश्नुते सर्वान् कामान्त् सह ब्रह्मणा विपश्चितेति
रसो वै सः रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति
इति मुक्त-सामान्यं प्रस्तुत्याविशेषेण सर्व-गुणानुभवस्य आनन्दवत्त्वस्य च प्रतिपादनेन क्षुद्रानन्दान्तरस्य “शतं सहस्रे” इति न्यायेनैव प्राप्तेः इतो ऽपि जघन्याम् एव प्राप्तिम् अष्टा-कपालादीनाम् अङ्गीकृत्य विधित्वं वैश्वानराधिकरणे निराकृतम् । विध्य्-अश्रवण-पुरुष-व्यापाराननुबन्धी चतुर्थ्याख्याताभावश् चाधिकः । पूर्व-पूर्व-शत-गुणितानन्दाधिक-परि-सङ्ख्या ऽपि प्राक्तन-वचन-विरोधाद् एव न सम्भवति । साधक-बाधकासंसृष्टे हि विधिः । एतेन उपांशु-याजन-वैषम्य-कथनम् अपि प्रत्युक्तम्; अन्तरा-वाक्य-स्थ-याग-तद्-देवताद्य्-अनुवादकत्वस्य विष्ण्व्-आदि-वाक्येष्व् इव ब्रह्मानन्दानुभव-प्राप्तानन्दवत्त्वानुवादकत्वस्य त्वद्-अभिमत-वाक्येष्व् ऽपि सम्भवात् ॥
यच् च निवीताधिकरण-वैषम्य-कथनम्, तद् अपि तत्रेवात्रापि ब्रह्मानन्दातिरिक्त-मनुष्य-गन्धर्वाद्य्-आनन्द-प्रतिपादने प्रकरण-विरोधात् क्षुद्र-तत्-तद्-आनन्दवत् मुक्त-भेद-कल्पने गौरवात् विध्य्-आख्यातादि-कल्पना-क्लेशाच् च सुधा-ग्रन्थ-निराकरण-प्रकरणोक्त-मनुष्य-गन्धर्वादि-शब्दार्थ-वैषम्य-दोषाच् च उपेक्षणीयम् ॥
यच् च “द्रव्याणि त्व् अ-विशेषेण” इत्य् अस्य मुख-भेदेन प्रवृत्त्य्-उपपादनम् – तद् अपि विध्य्-आख्यातयोस् तत्रेवात्राप्य् अ-श्रवणात् उत्पत्ति-शिष्ट-पुरोडाशाद्य्-अवरुद्धेष्व् आग्नेयादि-यागेषु स्फ्यादि-द्रव्यानन्वयवत् उत्पत्ति-वाक्य-भूतेनोपक्रम-गतेन “सो ऽश्नुते सर्वान् कामान्” इत्य् अ-विशेषेण मुक्त-मात्रम् अधिकृत्याम्नातेन वचनेन अवगमितया सर्व-कामनावाप्त्या ऽवरुद्ध-मुक्ते क्षुद्रानन्द-निवेशासम्भवात् तुल्य-प्रमाण-प्रापितत्वाङ्गीकारे ऽपि विकल्प-प्रसङ्गाच् च परस्य प्रतिकूलम् ॥
एतेन नावमिक-दाशमिकाधिकरणेषु विकल्पो विधित्व-भञ्जकः नैक-वाक्यत्वम् इति वैषम्य-प्रतिपादनम् अपि निरस्तम् । अत्रापि
रसो वै सः, रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति,
“सो ऽश्नुते सर्वान् कामान्”, “ब्रह्मणो महिमानम् आप्नोति” इत्य्-आदि-वाक्योक्तापरिच्छिन्नानन्द-तादृश-महिमत्वादिना त्वद्-उक्त-क्षुद्रानन्द-विकल्प-प्रसङ्गस्यावर्जनीयत्वात् ॥
[[P54]]
यच् च एव कारो विधित्व-भञ्जकः षड्-विंशतिर् इत्य् अत्राप्य् अस्तीति – तद् अपि न; अत्रापि विधित्व-भञ्जकस्य मानान्तर-विरोधस्य जागरुकत्वात् । मुक्त-जातीये क्षुद्रानन्दानां मिथो-विकल्पश् चाधिकः अत्र विधित्व-भञ्जकः ॥
यच् च षष्ठाधिकरणे निन्दा-श्रवणं विधित्व-भञ्जकम् अन्यद् अभ्यधायि तद् अपि त्वत्-प्रतिकूलम् एव; आनन्दमयाधिकरण-भूमाधिकरणयोः पूर्व-पूर्वाभ्याधिक-वस्तु-प्रतिपादनस्यापि निन्दा-द्योतन-मुखेन विधित्व-प्रच्यावकताया उररीकरणाद् इति दिक् ॥ एवं च सम्भवत्य् एक-वाक्यत्वे वाक्य-भेदस्य क्वचिद् अपि वैदिकासम्मतत्वात् इहाप्य् उक्त-विधया एक-वाक्ये नूतन-मत-कल्पनाग्रहेण बहु-मुख-वाक्य-भेद-मुखेन मुक्तेष्व् आनन्द-परिमाण-तार-तम्य-विधि-पक्षो न्याय-विद्-वैदिकस्य न रोचते ॥
यद् उक्तं “सैषा ऽऽनन्दस्य” इत्य् अनेन ब्रह्मानन्द-विचारो न प्रतिज्ञात इत्य्-आदिना – तत् “ब्रह्म-विद् आप्नोति” इत्य् आरभ्य एतत्-पर्यन्तम् अपि यद् उपदेश-वैधुर्य-कृतं “ब्रह्म-वित्” इति ब्राह्मण-वाक्ये ब्रह्म तद्-वेदनं तत्-प्राप्तिः प्राप्यं चेति चतुष्टयम् एवोक्तम् । अत्र किं तद् ब्रह्म? कीदृशी प्राप्तिः? कीदृशं च प्राप्यम्? इत्य् अपेक्षायाम् — “सत्यं ज्ञानम् अनन्तं ब्रह्म” इत्य् अनेन ब्रह्म-शब्दार्थो विवृतः । हृदय-गुहा-निहितत्व-प्रकारक-ज्ञान-प्रतिपादकेन “यो वेद निहितं गुहायाम्” इत्य् अनेन “वित्” शब्दार्थ-भूतं वेदनं विवृतम् । “परमे व्योमन् सो ऽश्नुते” इत्य् अंशेन “आप्नोति” शब्दार्थ-भूत-प्राप्तिर् विवृता ।
सर्वान् कामान्त् सह ब्रह्मणा विपश्चिता
इत्य् अनेन प्राप्यं प्रकटितम् । तत्र ब्रह्मण आनन्त्यं देशतः कालतो वस्तुतश् चपरिच्छेदोभावः । तत्र वस्त्व्-अपरिच्छेद-लक्षणम् आनन्त्यं सर्वोपादानत्व-सर्वान्तरत्व-मुखेन प्रपञ्चयितुं “तस्माद् वा” इत्य्-आदिकम् उदितम् । तत्र “तस्मात्” इत्य् अनेन “ब्रह्म-विद् आप्नोति” इति ब्राह्मणोक्ताद् इत्य् अर्थः । “एतस्मात्” इत्य् अस्य “सत्यं ज्ञानम्” इत्य् अ-व्यवहितोक्ताद् इत्य् अर्थः । तत्राकाशादि-पृथिव्य्-अन्त-वाचिनश् शब्दाः तत्-तच्-छरीरक-परमात्म-पराः । नो चेत् केवलाकाशादेर् वाय्व्-आद्य्-उत्पत्त्य्-अनुपपत्तेः । अनन्तरं
पृथिव्या ओषधयः । ओषधीभ्यो ऽन्नम् । अन्नात् पुरुषः
इति कार्यतया उक्त्वाच् छरीरम् एव पुरुष-शब्देनोच्यते ।
स वा एष पुरुषो ऽन्न-रसमयः
अन्नाद् उत्पन्नः वक्ष्यमाण-विधः अयं देहः अन्न-रसस्य परिणाम इत्य् अर्थः । एतस्यैव “तस्येदम् एव शिरः” इत्य्-आदिना पुरुष-शब्दित-मनुष्यावयवेषु पक्षत्वादि-रूपणं सौकर्यार्थम् । इत्थं पुरुष-विधया परिणतस्यान्नस्य ब्राह्मणोक्तस्य माहात्म्य-वर्णन-परः “अन्नाद् वै” इत्य्-आदिको मन्त्रः ॥
[[P55]]
एतादृशे ऽन्ने ब्रह्म-दृष्टिं कुर्वतां यावद् अन्नम् अपेक्षितं तावद् अन्न-प्राप्तिर् उक्ता
सर्वं वै ते ऽन्नम् आप्नुवन्ति ये ऽन्नं ब्रह्मोपासते इत्य् अनेन । तस्यैवान्नस्य निर्वचनम् उक्तम्
अद्यते ऽत्ति च भूतानि तस्माद् अन्नं तद् उच्यत इति
इति । अनेन एवम् आकाशादि-रसमयस्य स्थूल-शरीर-पर्यन्तस्य मन्त्र-ब्राह्मणोदित-ब्रह्मोपादनकत्वम् “आत्मन आकाशस् सम्भूतः”, इत्य् आत्म-शब्द-श्रवणात् तद्-अन्तर्यामित्वं चोक्तम् ॥
एवम् आकाशादेर् अन्न-रसमयस्य स्थूल-शरीर-पर्यन्तस्य ब्रह्मैवात्मा उपादानं च इत्य् उक्त्वा स आत्मा क इत्य् अपेक्षायां आनन्दमय एव स आत्मेति दर्शयितुं स्थूलारुन्धती-न्यायेन स्थूल-देहान्तर-वर्तिनं प्राणमयं तद्-आत्मत्वेन तद्-अन्यत्वेन च
तस्माद् वा एतस्माद् अन्न-रसमयात्, अन्योऽन्तर आत्मा प्राणमयः
इति निर्दिश्य तत्र आकाशादि-कारण-सर्वान्तर्-यामि-परमात्म-बुद्धिम् अवतार्य तद्-अनन्तरं च प्राणमयाद् अन्तरे मनोमये तद्-अनन्तरं च ततो ऽन्तरे विज्ञानमये ततस् तद्-अन्तरे ततो ऽन्यस्मिन् आनन्दमये आनन्दमयाद् अन्यो ऽन्तर इत्य् अभावात् अन्तरात्म-परम्परा आनन्दमय एव प्रतिष्ठिता । सो ऽपि पुरुष-विधत्वेन रूपितः । तत्र प्रियादिभिः शिरः-पक्षादिमान् मध्य-कायत्वेन रूपित आनन्दः । एतस्यैव ब्रह्मत्व-वेषेण पुच्छत्वम् आनन्दत्व-वेषेण आत्म-शब्दित-मध्य-कायत्वं च । एतस्यैव प्रिय-मोद-प्रमोद-शब्द-वाच्य-शिरः-पक्षता-रूपित-धर्म-भूतानन्द-प्रचुरत्वेन आनन्दमयत्वं च ॥ एतेनानन्दानन्दमय-शब्दानाम् ऐकार्थ्यम् उक्तं भवति ॥
अत एवानन्दमय-विषयके श्लोके ब्रह्म-शब्देन निर्देशः । एवं च आनन्दमयम् एव ब्रह्म आकाशादि-विज्ञानमयान्त-सर्व-पदार्थान्तर्-यामि-सर्व-कारणम् इत्य् आनन्दमय-ब्रह्म-प्रतिपादनानन्तरं “ब्रह्म-विद् आप्नोति” इत्य् उपक्रमाभिहित-प्राप्ति-विशिदीकरणाय अपकृष्ट-हृदयादि-स्थानावच्छिन्नं ब्रह्म विद्वान् इतः प्रेत्य परमे व्योम्नि उक्तं लोकं गच्छति किम् इहैव ब्रह्मान् आप्नोति वा? लोकं गत्वा भोग्य-भूतं ब्रह्म अनुभवति न वा?
[[P56]]
इति कृतान् प्रश्नान् प्रतिवक्तुं जगत्-कारणत्वादि-गुण-विशिष्टस्यैव ब्रह्मणः प्राप्यत्वादि-ज्ञापनाय च “सो ऽकामयत्” इत्य्-आदिना तस्य निमित्तत्वं तस्यैव तस्यैव “सच् च त्यच् चाभवत्” इत्य्-आदिना उपादानत्वं च प्रतिपाद्य ब्रह्मण एव सर्वोपादानतया सर्व-भावे विकारास्पदत्व-शङ्कायां प्राप्तायां “निरुक्तं च” इत्य्-आदिना “सत्यम् अभवत्” इत्य् अन्तेन स-कल-चेतनानां नाम-रूप-भाग् भवद् अपि ब्रह्म “सत्यम् अभवत्” निर्विकारम् एवाभवत् इत्य् उक्त्वा अस्यैवानन्दमयस्य ब्रह्मणः कार्यत्वं कारणत्वं च इति प्रकटयितुम्
असद् वा इदम् अग्र आसीत्
इति श्लोकेन तस्यैव प्राग्-अ-विभक्त-नाम-रूपत्व-कृतासच्-छब्दिततया कार्यतां चोपपाद्य यथा दर्शनं प्राप्त-निमित्तोपादान-भेदम् इह निराकर्तुं
तद् आत्मानँ स्वयम् अकुरुत
इति स्वात्मानम् एवोपादानत्वेन स्वीकृत्य “स्वयम् एवाकुरुत” इत्य् उक्त्वा
तस्मात् तत्-सुकृतम् उच्यत
इत्य् अनेन यत एव स्वयम् एव स्वस्य कार्यम् अत एव तद्-ब्रह्म सुकृतं अ-क्लिष्टं कार्यम् । स्वाभिन्न-कार्य-निर्माणे हि क्लेश-प्रसक्तिः । ब्रह्म च स्वयम् एव कार्यम् अभूत् । अतस् तत्-सुकृतम् अपि । एवं सुकृत-शब्दितानन्दमयस्य उपास्यत्व-प्राप्यत्वोपपादनाय “रसो वै सः” आनन्दमयः रसः आनन्दत्वाश्रयः खल्व् इत्य् अर्थः । मुक्तस्यानन्दित्वम् अपि तल्-लाभाद् एवेत्य् आह “रसँ ह्य् एवायं” इति । लब्ध्वा अनुभूय आनन्दं ब्रह्म लब्ध्वैवायम् आनन्दी, न तु तद् अन्यान् विषय-भोगान् इत्य् अर्थः । अनयैव श्रुत्या मुक्तौ विषय-भोग-रूपानन्द-निरासात् तत्-तारतम्य-वादो निर्मूली-कृतः । सर्वेषाम् अपि मुक्तानां अ-खण्डानन्दमय-रस-लाभोक्त्या परम-साम्य-श्रुतिर् अपि विवृता ॥
एवं-भूतस्यैवानन्दमयत्वं सांसारिकापवर्गिक-सर्व-विधानन्द-हेतु-कृतत्वम् अपि इत्य् आह “को ह्य् एवान्यात्” इति ॥ एतेन प्राप्यत्वम् उपास्यत्वं चास्यानन्दमयत्वाद् एवेत्य् उक्तं भवति । एतस्मिन्न् आनन्दमये य उपासकः उभय-साधन-भूतां प्रतिष्ठां निरन्तर-स्मृति-लक्षणां निष्ठां लभते अभयं प्राप्नोतीत्य् उक्तम् ॥
“यदा ह्य् एवैष” इति वाक्येन तस्याश् च विच्छेदे भयं भवतीत्य् उक्तम् । “यदा ह्य् एवैष” इत्य् अनेन वातादयश् च देव-प्रवराः उक्त-भयाभय-हेतोर् आनन्दमयस्यैव शासनातिवृत्तौ किं भविष्यतीति भीत्या स्व-स्व-कर्मसु जागरूकाः इत्य् उक्तं “भीषा ऽस्मात्” इति श्लोकेन ॥
एवम् अ-भय-प्राप्ति-साधन-भूत-जगत्-कारणत्वाद्य्-औपयिक-गुण-विशिष्ट-विषयता-ऽवच्छिन्न-वेदनेन प्राप्यस्य आनन्दमयस्य ब्रह्मणः आनन्दमय-शब्द-प्रवृत्ति-निमित्त-भूत-निरूपाधिकानन्द-प्राचुर्य-प्रदर्शनाय “सैषा ऽऽनन्दस्य” इत्य् उपक्रमः ॥
[[P57]]
एवम् अ-भय-प्राप्ति-साधन-भूत-वेदन-विषयान्दमयस्य ब्रह्मणः “सैषा ऽऽनन्दस्य” इत्य् उपक्रम्य मीमांसितम् आनन्दं विद्वान् “न बिभेति कुतश् चन” इत्य् उपसंहारः । एवं च यद् आनन्दोत्कर्षस्य वागाद्य्-अपरिच्छिन्नतोच्यते तद्-आनन्दैक-भागोत्कर्ष-वर्ण-नानुगुण-निकर्ष-काष्ठा-रूप–मानुषानन्द–निकर्षारम्भोपयुक्तस्य “सैषा ऽऽनन्दस्य मीमांसा भवति” इत्य् अस्य तद्-उत्कर्ष-काष्ठैक-भाग-कणिकाम्बुध्य्-अपारिच्छित्ति-पर्यवसन्नतया परम-प्रकृत-ब्रह्म-प्रकरणाविच्छेदेन ब्रह्मानन्दस्यैव “सैषा ऽऽनन्दस्य” इत्य् अनेन मीमांस्यत्वेन प्रक्रमः न मुक्तानन्दस्य; तस्याप्रकृतत्वात् । सैषा प्राप्यतया वेद्यतया “ब्रह्म-विद् आप्नोति” इति प्रकृत-ब्रह्मानन्द-सम्बन्धिनीति सेत्य् अस्यार्थः । मानुषादि-तत्-तद्-आनन्द-स्थानेष्व् एव ब्रह्मानन्दैक-देशान्तर्गतोत्तराधिकांशेषु मानुषद्य्-आनन्द-मुखेन गुणितत्व-पर्यवसायिनीति एषेत्य् अस्यार्थः “स एको ब्रह्मणः” इति वाक्ये प्राग्-गुणितानन्दानां ब्रह्मानन्दैक-देशत्वोक्त्या सिद्धः ॥
अत एवाभ्यासो ऽपिः ब्रह्मानन्दैक-देशांशे पर्यवसितः । वस्तुतस् स्वांश-मुखेनाभ्यस्तता ब्रह्मानन्दैक-देशस्येत्य् अभिप्रेत्य श्रुत-प्रकाशिका ऽऽचार्यैः
स एको ब्रह्मण इत्य् अस्यार्थम् अभिप्रेत्य अभ्यस्यमान इत्य् उक्तम्
इत्य् उक्तम् । अत्रार्थाभ्यासो विवक्षित एव सौत्राभ्यास-शब्द-सार्थक्यं भवति, न शब्दाभ्यासे । ब्रह्म-शब्दस्यानन्य-परत्वे ब्रह्म-शब्दाद् इत्य् अत एव प्रतिज्ञात-निर्वाहात् । न चेत् सहस्रशो ऽभ्यस्तस्यापि अ-समर्थतैवेत्य् उक्तम् ॥
एवं च हेतु-मुखेन प्रतिज्ञात-निर्वहणाय प्रवृत्ते सूत्रे धूम-विशेषण-नील-पदवत् ब्रह्म-विशेषण-भूताभ्यास-पद-वैयर्थ्यात् व्यर्थ-विशेषणता हेतोः माध्व-मत इव पुच्छ-ब्रह्म-वादे ऽप्य् अ-विशिष्टा ॥
[[P58]]
किं च आनन्दमयस्यैवेह पक्षी-कृतत्वात् तद्-अधिकरणे अन्नमयादि-चतुष्टयम् अपि ब्रह्मेत्य् उक्तेः न मूलम् इह किञ्चित् पश्यामः । अभ्यास-रूप-हेत्व्-अ-विशेषाद् वा अन्नमयादि-निरुक्ति-बलाद् वा अन्नमयादि-प्रकरणस्य स्व-रूप–लक्षणान्तर्गतस्यादि-शब्दार्थ-विवरण-रूपत्वाद् वा तथोक्तिः? आद्ये ऽप्य् अभ्यास-शब्देन “असन्न् एव” इति श्लोक-स्थ–ब्रह्म-शब्दाभ्यास एव विवक्षितः, उत “ब्रह्म-विद् आप्नोति” इत्य् आरभ्य प्राकरणिक-यावद्-ब्रह्म-शब्दाभ्यासो ऽपि वा? आद्ये “असन्न् एव” इति श्लोकस्य आनन्दमय-प्रकरणस्थत्वात् न अन्नमयादेर् ब्रह्मता-प्रसङ्गः । द्वितीये अन्नमय-प्राणमय-पर्याययोः “ये ऽन्नं ब्रह्मोपासते” “ये प्राणं ब्रह्मोपासते” इत्य् एव सकृत् श्रवणेन मनोमय-पर्याये तस्याप्य् अभावेन विज्ञानमय-पर्याये
विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठम् उपासते
इत्य् अत्र ज्येष्ठ-पद-बलेन ब्रह्म-शब्दस्य प्रधानार्थकतया प्रजा-पति-विद्योक्त-रीत्या तस्माज् ज्येष्ठं जीवात्मानं य उपासते इत्य् एव तद्-अर्थ-पर्यवसानेन “विज्ञानं ब्रह्म चेद् वेद” इत्य् अत्र सामानाधिकरण्येन विज्ञान-पद-ब्रह्म-पदयोः एक-विशेष्यक-प्रतीत्या ब्रह्म-शब्दस्यापि जीवार्थकत्वेन हेत्व्-अ-भाव एव । अन्यत्र-स्थो ऽप्य् एकैक-ब्रह्म-शब्दः तत एव न हेत्व्-आकर्षक इति ततो ऽपि हेत्व्-अ-सिद्धिर् एव ॥ त्वया “स एको ब्रह्मणः” इत्य् अत्र ब्रह्म-शब्दस्य चतुर्-मुख-परत्वोक्त्या प्राकरणिक-ब्रह्म-शब्द-मात्रस्य अनन्य-परत्व-विरहेण तत्-कृत-हेत्व्-आकर्षणं विपरीत-फलं च ॥
नाप्याद्य-विकल्पे द्वितीयः । “अद्यते ऽत्ति च भूतानि” इत्य्-आदि-निर्वचनस्य
अन्नाद् वै प्रजाः प्रजायन्ते याः काश् च पृथिवाँ श्रिताः
इति विशेषोपादानेन “ओषधीभ्यो ऽन्नम्” इति प्रकृतौषधि-विकारान्न-परतया प्रसिद्धेष्व् एव अन्न-प्राणादिषु प्राकरणिक-निर्वचनानुपपत्त्या निरुक्तीनां ब्रह्म-परत्व-कल्पकाभावात् । प्रत्युत तत्-कल्पन एव प्रसिद्धि-प्रकर्ष-सिद्ध-प्राकरणिक-बहु-साधक-सद्भावाच् च ॥
अत एव न तत्र तृतीये ऽपि ॥ यच् च सत्यादि-पदानां त्वदीय-कृतम् अर्थान्तरं तत् अभिनव-मत-कल्पकाग्रह-कृताम् अज्ञताम् एव वक्तुर् व्यनक्ति । “यतो वा” इत्य्-आदि-कारण-वाक्येनैव कारणत्व-लक्षणतः प्रतिपन्ने ब्रह्मणि पुनस् तेनेह तद्-उपादानस्य फलम् अस्ति? यत् कारणं तत्-सकलेतर-व्यावृत्तम् इति ह्य् अत्र ब्रह्म स्व-रूप–लक्षणतः निरूप्यते । सद्-भावे साधु-भावे च सद् इति प्रयोगात् सच्-छब्दो जन्म-वाची अस्ति देव-दत्त इत्य् उक्तेर् जीवति इति प्रत्ययात् जीवन-वाची । “षदॢ विशरण-गत्य्-अवसादनेषु” इति धातोः विशरण-वाची च । एवं च जन्म-जीवनं विशरणं च भूतानां यापयतीति सत्यम् इत्य् उक्त्या कारणत्वम् एव लक्षणम् उक्तं स्यात् । तच् च “यतो वा”, इत्य् अनेनैव प्रतिपन्नम् इति इह व्यर्थस् तद्-अंशः ॥
[[P59]]
एतस्यैव वैय्यर्थ्यं नालम् इति अन्नमय-प्राण-प्रकरणयोः सत्य-शब्दार्थोपपादकत्व-वर्णनम् इति परिहासोपकरणम् एव । प्रसिद्धार्थ एव तद्-उभय-निरुक्ति-समन्वयस्य उपपादितत्वेन सूत्र-कृता आनन्दमयस्यैव परमात्मत्वोक्त्या च ब्रह्मणि तयोर् इहानारोहश् च ॥ प्रसिद्धम् एव ह्य् अन्नं भूतानाम् उपजीविनायादन-विषयं सद् अद्यते । तैः तद् एव स्वालाभाभेन अवस्थान्तरापत्त्या च वा भूतान्य् अत्ति च । प्रसिद्ध एव च पञ्च-वृत्ति-प्राणः स्वयं बन्धेन जीवन-हेतुः । एतेषां प्रसिद्धार्थ-त्यागे रथ-काराधिकरण-विरोधश् च ॥
मनोमय-विज्ञानमययोः प्रकरणं ज्ञान-शब्दार्थ-विवरण-रूपम् इति चात्यन्तासम्बद्धम् अपदार्थत्वात् । न हि सामान्य-विशेषाकारेण स्व-पर-गतम् अ-खिल-विशेष-विषयकं मनो विज्ञानं च? येन तन्मयं ब्रह्म तव तथा स्यात् । मनश्-शब्देन इन्द्रिय-विशेष-ग्रहे तन्-निर्विषयम् एव । तज्-जन्य-ग्रहे विशेषाकारेण सुखादि-रूप-विशेष-विषयकम् अपि । तद्-विज्ञानम् अपि प्रमेयम् इत्य्-आदि-रूपं सामान्याकारेण विशेष-विषयकम् । त्वन्-मते जीव-परयोः स्व-रूपातिरिक्त-ज्ञानादि-रूप-वास्तव-धर्म-शून्ययोः स्व-पर-गताखिल-विशेष-विषयतोक्तिर् अ-यथार्थैवेति त्वद्-रीत्या ऽपि ब्रह्मणः मनोमयत्वं विज्ञानमयत्वं च दुरुपपादम् ।
एतेषु ब्रह्मणि मयड्-अर्थो ऽप्य् उपहास्यः । स्वार्थिकत्वे मयड्-वैयर्थ्यात् । कारणमय-शब्देन कारणस्य ज्ञानमय-शब्देन ज्ञानस्याव्यवहारेण तथा भूते अन्नमयादि-शब्दासामञ्जस्यात् । न हि घटो घटमय इति कश्चिद् व्यवहरति । विकारार्थत्वे निर्विकारत्व-भङ्गः । प्राचुर्यार्थकत्वे स्व-रूपातिरिक्त-वास्तव-धर्माभ्युपगमापत्तेः ॥ आनन्दमय-प्रकरणेन च अन्-अन्त-पद-विवरणम् इति चाभव्यम् । देशतः कालतो वस्तुतश् चापरिच्छिन्नत्वार्थकस्य स्व-गत-यावद्-गुणापरिच्छित्त्या ऽपि वस्त्व्-अपरच्छित्तिं बोधयतः । पूर्णानन्दत्व-प्रतिपादन-मात्रेण विवरणासम्भवात् । अतो ऽनन्तत्वं न पूर्णानन्दत्व-मात्र-कृतम् । “न जायते म्रियते वा विपश्चित्” इति मुक्तस्यापि विपश्चित्त्वेन निर्दिष्टस्य “सर्वं ह पश्यः पश्यति” “सो ऽश्नुते सर्वान् कामान्” इत्य्-आदिना विवृत-विपश्चित्त्वस्य विपश्चित्त्वेन निर्दिष्ट-ब्रह्म-तुल्य-पूर्णानन्दत्वे संशयाभावात् ॥
एवम् एक-मात्र-गुणापरिच्छित्तिमान् अयं स्व-गत–सर्व-गुणापरिच्छित्तिमान् न निरूपाधिक-विपश्चिद् अपि नेति तद्-घटितम् आनन्त्यं न कुत्राप्य् अतिप्रसक्तम् इत्य् उक्तं प्राग् एव ॥
[[P60]]
अत एव सम्यक् प्रसीदति येन पूर्णानन्दत्वेनेति सम्प्रसादः; तेन सर्वाधिकत्वोपदेशात् ब्रह्मणो भूमत्वम् इति भूमत्वं पूर्णानन्दत्वे हेतूचकारेत्य् अप्य् अ-सङ्गतम् । “यत्र नान्यत् पश्यति” इत्य्-आदिना भूम्नो लक्षणाभिधानेन तत एव ब्रह्मणः भूमत्वोक्तेः । किं च “कामान्” इति स्रक्-चन्दन-वनिताद्य् उच्यत इति वक्तुः तव “यत्र नान्यत्” इत्य्-आदिनोक्तं भूम्नो लक्षणं भूम्नि ब्रह्मण्य् असम्भव-हतम् एव स्यात् । त्वद्-अनुभाव्य-ब्रह्माधीन-कामानां स्व-योग्य-स्रक्-चन्दन-वनिता-ऽऽदीनां ब्रह्मान्यत्वेन त्वद्-अभिमततया “यत्र नान्यत्” इति ब्रह्म-लक्षणस्य त्वयैव भग्नत्वात् स्त्र्य्-आदेस् तादधीन्यम् एवादाय तत्र तल्-लक्षणोषपादने पत्न्य्-आदि-काम-दपत्य्-आदिष्व् एव तल्-लक्षणम् अतिव्याप्तं स्यात् । अतः एवं सूत्र-व्याख्यानानुव्याख्यान-तद्-व्याख्यान-न्याय-सुधा-ऽऽदीनाम् अपहसितार्थकत्वात् “ब्रह्म-विद् आप्नोति” इत्य् आरभ्य अ-विच्छिन्न-प्रकरण-प्राप्य-भूत-वेद्यतमानन्दमय-ब्रह्मानन्दस्यैव “सैषा ऽऽनन्दस्य” इत्य् अनेन मीमांस्यत्वेन प्रक्रमः । एतद् आरभ्य मीमांसितम् अ-भय-प्राप्ति-साधन-भूत-वेदन-विषयानन्दयय-सम्बन्ध्य्-आनन्दं “स एको ब्रह्मण आनन्दः” इत्य् अनेन एकांशत्वेन निश्चित्य तद्-अंश-कणिकाम्बुधि-भूतं निरूपाधिकम् अ-खण्डम् आनन्दं “यतो वाच” इत्य् अनेन निगमितम् आनन्दय-ब्रह्मण्य्-अन्विन्तं विद्वान् न बिभेति कुतश्चनेत्य् एव निष्कण्टको ऽयं घण्टा-पथः ॥
अतः “सद् एव” इत्य्-आदिषु सच्-छब्दवत् “ब्रह्म वा इदम्” इत्य्-आदौ ब्रह्म-शब्दवच् च विशेषोपस्थापनाक्षम-सामान्य-शब्दात् “असन्न् एव” इति श्लोक-स्थ–ब्रह्म-शब्दस्यापि । तद्-अभ्यासो ऽत्र आनन्दमयस्य परमात्मत्व-निर्णये न हेतुर् इत्य् अभिप्रेत्य निरूपाधिकत्व-पर्यवसित-निरतिशय-दशाशिरस्कानन्दाभ्यास एव तद्-हेतुर् इत्य् अभिप्रेत्य “आनन्दमयो ऽभ्यात्” इत्य् असूत्रयत्; अन्यथा अन्नमयाद्य्-अभ्यासाद् इति वा आनन्दमयान्तो ऽभ्यासाद् इति वा सूत्रं स्यात् ॥
एवं च “सैषा ऽऽनन्दस्य” इत्य् अस्य प्राकरणिकानन्दमय-पर्यवसित-ब्रह्मानन्दाभ्यासोपक्रमतया प्रक्रान्ताभ्यासस्य वाग्-आद्य्-अपरिच्छिन्नाखण्डानन्दे नियमयितुम् अ-शक्यत्वात् तद्-अन्तर्-गताभ्यस्तानन्द-शिखर एव तद्-अभ्यास-निगमन-परम् “स एको ब्रह्मण आनन्दः” इति वाक्यम् इत्य् अभिज्ञैर् अभ्युपगन्तव्यम् इत्य् अभिप्रेत्य श्रुत-प्रकाशिकायां “स एको ब्रह्मण” इत्य् अस्य चतुर्-मुखानन्द-विषयत्वेन “यतो वाचः” इत्य्-आदि-वाक्यस्यैव ब्रह्मानन्द-परत्वाङ्गीकारे अभ्यासाद् इति हेतोर् व्यधिकरणता स्याद् इत्य् अनुगृहीतम् । अन्यथा ब्रह्मानन्द-परत्वेन त्वद्-अभिमत “यतो वाच” इति वाक्ये आनन्द-प्रतिसम्बन्धि-वाचि-षष्ठ्य्-अन्त-ब्रह्म-पद-श्रुति-समानैवेयम् आनन्द-पद-श्रुतिर् यद्य् अन्यार्था स्यात् तदा सा ऽपि चतुर्-मुख-परा किं न स्यात् ।
प्राय-पाठो हि लिङ्गम् । तच् च निगमन-वाक्यान्तर-रहित उपक्रमापेक्षित-निगमन–वाक्य-स्थां श्रुति-समानां तां नान्यथयितुम् ईष्टे । किन्तु एषैव श्रुतिः स्वान्वितम् एक-पदं एक-शिखरार्थकतयैव स्वोत्तर-पूर्व-वक्याऽनुगुण्यात् व्यवस्थापयति ।
[[P61]]
तथा च यथा उपरिनतं पूर्वं च वाक्यं अ-योग्यं परित्यज्य प्रकृतम् एव ब्रह्म स्व-बोध्यत्वेन गृह्णाति । चतुर्-मुखस्यैवम् अभ्यस्तानन्द-शीकरवद्-आनन्दाब्धि-विधुरत्वात् प्रकृतस्यैव ब्रह्मणः तथाविधत्वाच् च तद्-आनन्द-शीकरस्येत्थं परिच्छित्तिर् अ-खण्डानन्दापरिच्छित्तेर् न विरोधिनीति तम् आदाय एतद् एव बाध्यत्व-पौष्कल्यवद् एव प्रकृतं ब्रह्म । प्रजापतिश् चात्र चतुर्-मुख एव ।
प्रजापतिश् शतानन्दो ब्रह्मा कमल-सम्भवः
इति पाद्मोक्त्या एक-वचनेन च तस्यैव तत्र योग्यत्वात् पूर्वस्य “यतो वाच” इत्य् अस्य मनोमय-श्लोकत्वे ऽपि ब्रह्मानन्दस्य विशुद्ध-मनो-गोचरत्व-प्रतिपादकत्वाद् एव तस्य मनोमय-विषयकतया तस्य कथं ब्रह्म-प्रतिपादकत्वम् इत्य्-आदीन्य् अपि कुचोद्यानि प्रकरण-बलेनैव निरस्तानि ॥
यच् च ब्रह्मण्य् आनन्द-प्राचुर्यस्य ब्रह्मेतरत्वावच्छिन्नानन्दाल्पत्व-निरूप्य निर्बन्धान् न मुक्तस्य आनन्दतः परम-साम्यम् इति तद्-अ-युक्तम् — “अथ खलु क्रतुमयः पुरुषः” इत्य्-आदौ उपस्थिते पुरुषे क्रतुमयत्वस्य तद्-इतरत्वावच्छिन्न-निष्ठ-क्रत्व्-अल्पत्व-निरूप्यत्वादर्शनेन इहापि तन्-निर्बन्धासम्भवात् । न हि रवेस् तेजः-प्रचुरता स्वेतरत्वावच्छिन्न-तेजो-ऽल्पत्व-निर्वाह्येति निर्बन्धो ऽस्ति? सुदर्शनादेर् अप्य् अल्प-तेजस्त्व-प्रसङ्गात् । न हि वा राज्ञस् सुख-प्रचुरता तद्-इतरत्वावच्छिन्न-सुखाल्पत्व-निर्वाह्या । राजाधीन-सुखेष्व् एव प्रचुर-सुखत्वोपलम्भात् ॥
अस्मिन् प्रकरणे ब्रह्मात्मानन्दमय-पदानाम् ऐकार्थ्येन प्रयोग-व्यतिकर-दर्शनेन “स एको ब्रह्मण” इत्य् अत्र ब्रह्म-शब्दस्य नपुंसकत्वे ऽपि अर्थतस् समर्थेन तेनैव प्रकृततयोपस्थितानन्दमयाभिप्रायेण “स यश् चायम्” इति तच्-छब्दस्य अ-व्यवहित-प्रकृत-परामर्शित्व-सम्भवे व्यवहितान् वेषणाप्रसक्त्या अर्थतो ऽसमर्थ-विषयक-वार्तिक-तद्-व्याख्येयानन्तार्य-सूत्र-विलेखनम् इत्य्-अन्तं निरर्थकम् ।
स प्रजापतिर् एकः पुष्कर-पर्णे समभवत्
इत्य्-आदिषु चतुर्-मुखे प्रसिद्धि-प्राचुर्यवान् एक-वचनान्तः प्रजा-पति-शब्दः इह चतुर्-मुख-वाचकः इत्य् उक्ते दक्षादिषु प्रजा-पति-शब्द-प्रयोग-विलेखनम् इह न चतुर्-अश्रम् । तत्रापि तच्-छब्द-प्रयोगस्यास्मद् इष्टत्वात् । तथा च “स एको ब्रह्मण” इति वाक्यस्य” इत्य् आरभ्य
भगवतो ऽपरिच्छिन्नानन्दत्वम् अर्थ-सिद्धम्
इत्य् अन्तेन “स एको ब्रह्मण” इति वाक्यस्य चतुर्-मुखानन्द-विषयकत्वम् इति त्वन्-मते यत् दूषण-जातम् उक्तं श्रुत-प्रकाशिका-ऽऽचार्यैः तत् वज्र-लेपायत इति तद्-ग्रन्थ-विषये यत् “न श्रद्धेयम्” इत्य् उक्तं त्वया तत् नेत्रातुरस्य दीपवत् पित्तोपहतस्य क्षीरवच् च त्वद्-दोष-कृतम् एव नार्थ-दोष-कृतम् ॥
[[P62]]
यच् च आनन्दाभ्यासे अ-विशेष-पुनश्-श्रवण-रूपत्वाभावात् सौत्राभ्यास-शब्दास्वारस्यम् इत्य् उक्तम् तत् शब्दाभ्यासस्यैव तद्-रूपत्वाद् इह च तद्-अ-श्रवणात् पुनः श्रवणे मनने च अभ्यास-शब्दात् आलम्बन-संशीलने च तत्-प्रयोगात् तद्वद् आनन्दाभ्यास एवेति निरर्थकम् ॥ अतः “स एको ब्रह्मण” इति वाक्ये वेधाः प्रतीयत इत्य्-आदिकं मुक्ताव् अपि स्वस्यैवाल्प-फलत्व-पर्यवसित-वैषयिक-भोग-विश्रान्तत्वाद् दैवहत-कृत्व-कृतम् इत्य् उपेक्षणीयम् ॥
यच् च “सो ऽश्नुते” इति उपक्रम-वाक्ये किं सर्वान् इति विशेषण-महिम्ना ब्रह्मणा सहोक्ति-महिम्ना वा मुक्तस्य परम-साम्यावगमः इत्य्-आदिना निरर्थक-शब्द-प्रपञ्चनम् — तद् अपि तथा उभयथा ऽपि तद्-अवमान् न समीचीनम् । न हि त्वन्-मत इवास्मन्-मते मुक्तानन्दो विषय-भोग-कृतः? येनेह योग्यता-ऽऽदिना सर्व-पदं सङ्कुचितं स्यात् । किन्तु
रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति
इत्य् उक्ताखण्ड-ब्रह्मानुभव-कृत एव । स तु
सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः,
न जायते म्रियते वा विपश्चित्
इति च मुक्तं प्रत्यसङ्कुचितः प्रतिपन्न इति “सर्वेभ्यः कामेभ्यः” इत्य्-आदिष्व् इव योग्यता-ऽऽदिकस्य सङ्कोचकस्याभावात् “स्वेन रूपेण” इत्य् अस्य “अपहत-पाप्मा” इत्य्-आदि-प्रजापति-वाक्योक्त-रूपेत्य् अर्थकतया तस्य सर्व-साधारण्येन त्वद्-भ्रम-मात्रेण तस्यास्य च सङ्कोचकत्वाभावेन अ-सङ्कोचे बाधकाभावेन च नेह सर्व-पद-सङ्कोचावकाशः ॥
यच् च भगवत्–स्व-रूपादिकं परकीयम् उपभुञ्जानस्य दासस्य स्वकीयम् उपभुञ्जानेन स्वामिना सह भोग-साम्यानुपपत्त्या सङ्कोच इत्य् उक्तम् — तच् च “सायुज्यँ सार्ष्टिताम्” इति श्रुत्या
यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूँ स्वाम्,
इति श्रुत्या च भोग-साम्य-सूत्रेण च भोग-साम्यस्य स्वामिनैव स्व-प्रीति–विषयं प्रति स्व-स्व-रूपाद्य्–अनुभव-प्रदानस्य च सिद्धतया स्व-स्वामित्वेन तदीयत्वेन च सर्वस्यापि स्वीयत्वेन परकीयत्वाभावस्य परस्परानुरागवतोः पति-पत्न्योः स्वामित्वेन दासत्वेन च सम्प्रतिपत्तिमतोः सर्वानुभव-सिद्धतया
प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः,
“ज्ञानी त्व् आत्मैव मे मतम्” “सदा पश्यन्ति सूरयः”, इत्य्-आदिभिः तद्-रूपतया ऽवगतयोः मुक्त-परमात्मनोः न भोग-साम्यानुपपत्तिर् अपीति न ततो ऽपीह सर्व-पद-सङ्कोचावकाशः ॥
[[P63]]
अत एव यदि वाचनिकं भोग-साम्यं तदा सर्वानुपपत्ति-परिहारो भवेद् इत्य् उक्तिर् अपि व्यर्था । “नारायण-सायुज्यम् अवाप्नोति”,
ब्रह्मणस्-सायुज्यँ सार्ष्टिताँ समान-लोकताम् आप्नोति,
इत्य् अस्यैव वाचनिक-भोग-साम्य-प्रतिपादकत्वात् ययोर् भोग्यम् अ-न्यूनाधिकम् अ-विशिष्टं तयोर् एव सयुक्त्वात् । युजोर् भावश् च सायुज्यं सार्ष्टिता च अ-न्यूनानधिक-समान-भोगः । अत एवोक्तं श्रीमद्-भिर्-वेदान्त-देशिकैः–
सायुज्यम् उभयोर् अत्र भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य तारतम्य-विहीनता
इति । अतः सर्वान् इति विशेषण-महिम्ना ऽपि मुक्तस्य भोगतः परम-साम्यम् इह सिद्धम् ॥
तथा सहोक्ति-महिम्ना ऽपि । ब्रह्म–स्व-रूप–गुणादि न मुक्त-भोग्यम् अ-तदीयत्वाद् इति वदता त्वया अमृतेन सहेतिवत् भोग्यत्वेनैव ब्रह्मणस् साहित्योपपत्तेः इति वक्तुम् एव न शक्यते । स्व-व्याघातम् अप्य् अ-जानता तथोक्ताव् अपि ब्रह्म स्व-स्व-रूपेण सह स्व-गुणादिकम् अनुभवति न वा? आद्ये सिद्धम् एव तेन मुक्तस्य भोग-साम्यम् । द्वयोर् अपि भोग्यैक्यात् । द्वितीये तु अज्ञं ब्रह्म त्वन्-मते स्याद् इति महद् इदम् आपादनम् । विपश्चित्त्वोक्ति-भङ्गश् च ॥
यच् च काम-पदेनैव काम्यत्वेन वा गुण्य्-अनुभवम् अन्तरेण गुणानुभवायोगेन वा ब्रह्मणो ऽपि भोग्यत्व-प्राप्त्या भोग्य-साहित्यार्थे सहोक्ति-वैयर्थ्यम् उक्तम् — तत् उपात्त-गुण्य्-अर्थक–वाक्य-स्थ–काम-पदस्य केवल-गुणाभिधायित्वात् ब्रह्मणो ऽपि भोग्यत्व-सिद्ध्य्-अर्था क्षीरेण सहोदनं भुङ्क्ते इत्य् अत्र एव अत्र गुणेभ्यो ऽपि ब्रह्मण्य् एव रस्यता-ऽतिशय-सिद्ध्य्-अर्था चेति सार्थक्य-निरूपणासमर्थ्य-कृतम् ।
य इहात्मानम् अनुविद्य व्रजन्ति —
इति वाक्ये च शब्द-स्वारस्य-सिद्धो हि गुणेभ्यो ऽपि दिव्यात्म–स्व-रूपस्य रस्यताऽतिशयः । किं च विग्रहानुगुण-गुणानां ब्रह्मणा सहानुभव एव कल्याणतेति तत्-कल्याणत्व-सिद्ध्य्-अर्था च सहोक्तिः । इतरथा दुःख-हेतुषु तेषु कल्याणत्वास्फुरणात् ॥
[[P64]]
अत एव सर्व-शब्द-सार्थक्यायासः । “ब्रह्मणा सह सर्वान् कामान् अश्नुते” इत्य् अपि हि वचन-व्यक्तिः । तदा दिव्यात्म–स्व-रूप–व्यतिरिक्तत्वेन गुणाश् च सर्व-शब्द-क्रोडी-कृता इति तेषु गुणानां प्राधान्याद् इहानुभाव्यता-सिद्धिस् स्यात् । बृहत्त्व-सूचित-वात्सल्यादिकेन गुणेन च “स चानन्त्याय कल्पते” इत्य् आनन्त्य-प्रापण-रूप-रक्षण-प्रधानक-बृंहण-गुणेन च विशिष्टे ब्रह्मणि तदा परिदृष्टे वात्सल्यादि-प्रधानक-गुणैर् एव रक्षणोद्युक्तस्य आज्ञाच्-छेदिषु निग्रहो ऽप्य् अनुग्रह एवेति तद्-अनुगुणाश् च गुणाः कल्याणा एव परिदृश्यन्ते । अतो भोग्य-साहित्यार्थे ऽपि इत्थं त्रेधा अर्थवती सहोक्तिः ॥
वस्तुतो ऽअत्र विपश्चितेति विशेषण-महिम्ना अर्थतो भोक्तृ-साहित्य-भानम् अप्य् अप्रत्याख्येयम् । तेनेहैव विशेषतः परम-साम्यं बोधितं स्यात् । द्वयोर् अप्य् अनुभवस्य अन्यूनानतिरिक्तानुभाव्यकत्व-प्रतीतेः । “ब्रह्मवित्” इति वाक्य-प्रस्तुतापेक्षित-फल–स्व-रूप–निरूपणस्येहैव क्रियमाणत्वात्, ब्रह्मणेति तृतीया-मात्रेण तस्य साधकतमतैव सिद्ध्येत् । सहोक्ति-सहितयैव तया मुक्त-भुजि-क्रिया-कर्तृत्व-सिद्धि-प्रतीतिर् इति न सहोक्ति-वैयर्थ्य-शङ्का ऽवकाशः ॥
ब्रह्म-पद-समानाधिकरण-विपश्चित्-पद-सिद्ध-क्रिया-ऽन्वयवद् एव इह ब्रह्म-सह-भाव-प्रतियोगीति तेनास्येह परम-साभ्यम् उक्तम् । न सहोक्ति-मात्रेण, येन त्वष्ट्र्-अधिकरण-विलेखनादिकम् इह सम्बद्धं स्यात् । यत्र क्रिया-सम्बन्धः प्रमाणान्तर-बाधितः तत्र मा ऽस्तु तस्य क्रिया-सम्बन्धः । उत्पत्ति-वाक्य-स्थेन प्रबलेन पात्नी-वतम् इति तद्-धितेन सोमे पत्नीवतो ऽग्नेर् देवतात्व-सिद्ध्या नैर् आकाङ्क्ष्य-बाधितस्य ततो दुर्बल-मन्त्र-वर्ण-बोधित-त्वष्टुः; न देवतात्वम् इति हि तस्य क्रिया-सम्बन्धस् तत्र निषिद्धः । न ह्य् अस्ति तद्वद् अत्र भुजि-क्रिया-ऽन्वय-बाधकं ब्रह्मणि मुक्ते वा प्रमाणम् । येन येन धाता गच्छति तेन तेन सह गच्छतीतिवत्, राज्ञा सह गच्छति राजा अश्वेन सह गच्छति, जामात्रा सह भुङ्क्ते, राज्ञा सह भुक्ते इत्य्-आदिवच् च प्रमाणान्तराबाधितम् इह सुस्पष्टम् एव द्वयोर् अपि क्रिया-सम्बन्ध-तौल्यम् इति नेह परकीय-दुरर्थ-कुचोद्ययोर् अवकाशः ॥
एवं च “सो ऽश्नुते” इत्य् अनेन “रसँ ह्य् एवायम्” इत्य् अनेन च ब्रह्मण एव अ-खण्डस्य मुक्त-भोग्यत्वाध्यवसायात् परकीय-सम्पद्याविर्भावाधिकरणम् अप्य् अ-सम्बद्धम् । तद्-अधिकरणार्थस्य सूत्राक्षरेणाप्य् अ-सूचितत्वात् । किं ब्रह्मातिक्रम्य भोगान् भुक्ते उत तत्-समीप एव इति हि तत्र त्वत्-सन्देहः । तत्र ब्रह्मातिक्रम्येत्य् अस्य को ऽर्थः ? किं स्व-रूपम् अतिक्रम्येति उत तद्-आज्ञाम् अतिक्रम्येति ? आद्ये ब्रह्म–स्व-रूपस्य विभुत्वाद् एव नास्य तद्-अतिक्रम-सम्भवः ॥
[[P65]]
द्वितीये “एष ह्य् एवानन्दयाति”, “अन्नादो वसु-दानः”, “को ह्य् एवान्यात् कः प्राण्यात्” इत्य्-आदि-श्रुति-शतेन तद्-अतिक्रान्त-भोगस्य क्वचिद् अप्य् अ-भावेन अ-योग्यस् तत्र तत्-सम्भवः ॥
यच् च अर्चिराद्य्-अतिक्रम्योक्तिर् गम्यत्वोक्तिश् च सन्देह-बीजम् इत्य् उक्तं, तद्-अ-युक्तम् । नाडी-विशेषाद् उत्क्रमणवत्, अर्चिरादि-गतेः प्राप्यत्वेन तद्-अतिक्रमवत्, परम-प्राप्य-ब्रह्मातिक्रमस्यायोग्यत्वात् ॥ अत एव पूर्व-पक्षो ऽप्य् अन्-उत्थिति-हतः ॥
यश् च तत्त्व-प्रकाशिकायाम् — “तथा हि” इत्य्-आदि-ग्रन्थः, सो ऽप्य् अ-सम्बद्धः । सिद्धान्ते तव प्राप्य-भूत-परमात्मार्थक-सेतु-पदान्वित-तरतेः “वेदान्तं तरति” इत्य्-आदिष्व् इव योग्यतया प्राप्ति-वचनत्व-सम्भवेन परमात्मानम् अ-विहायैवावस्थाने–स्व-रूपाविर्भावो ऽस्तीति प्रथमे तयैव स्व-रूपाविर्भाव-परया “एतं सेतुं " इति श्रुत्या परमात्मातिक्रमानन्तरम् एव स्व-रूपाविर्भावस्योक्तत्वाद् इत्य् उक्त्य्-अयोगात् । नास्तीति द्वितीये अन्-आविर्भूत–स्व-रूपस्यामुक्तत्वे ऽपि मुक्तातिक्रमस्योक्त्र-श्रुत्यैव व्याघातेन मुक्तातिक्रमाव्याघाता-प्रसक्तेः । एवम् अ-समञ्जसः तत्-पूर्व-पक्षः ॥
तथा सिद्धान्तो ऽपि । भोगान् भुङ्क्ते इत्य् अस्यासौत्रत्वात् । सूत्रे स्वेनेत्य श्रवणेन त्वद्-उक्त-तारतम्यस्य सूत्रकारानभिमतता च । सर्व-मुक्त-साधारण–प्रजा-पति–वाक्योक्त-ब्रह्म-रूपस्यैव स्वेनेत्य् अनेन विवक्षितत्वात्, मुक्तस्य ब्रह्मानति-क्रमे ऽपि स्वरूपेणाविर्भावे अ-सम्भावितम् अपि श्रुति-विरोधम् आशङ्क्य यतस् तत्र “एतं सेतुं गन्तुम् अन्यत् तीर्त्वा” इति पद-द्वयाध्याहारेण विरोध-परिहारस्याप्य् अ-समञ्जसता च । अन्-अध्याहारेणैवार्थ-वर्णन-सम्भवात् । प्राप्येतरस्मिन्न् अन्वित-तरतिः उत्तरण-वाचि-प्राप्यान्वित-वस्तु-प्राप्ति-वाच्य् एवेति हि स्वारस्य-वेदिनो मन्यन्ते ॥
इत्थं “एतं सेतुम्” इत्य् अस्यैव विशेष-श्रुतित्वेन अस्यास् सामान्यत्वम् अपि
इमां घोराम् अशिवां नदीं तीर्त्वा एतं सेतुम् आप्य
इत्य् अस्य पूर्वांशतो भिन्न-विषयकस्य इतरांशतस् समान-विषयकस्य विशेष-श्रुतित्व-कल्पनेन पद-द्वयाध्याहारतस् त्वद्-अर्थ-कल्पनम् अपि निरूपकस्य नोपपत्तिमत् । अतस् सूत्र-कारानभिमत-सम्बन्धं चेदं त्वदीयं सपद्य् आविर्भावाद्य्-अधिकरणम् ॥
[[P66]]
एवम् एव अ-विभागेनेत्य् अधिकरणम् अपि । तत्र त्वदीय-संशय-विषयो भोग-शब्दार्थः किम् इह जुगुप्सित-वनिता-ऽऽदि-भोग एव उत तद्-अनुकूलत्वेन स्वानुकूलत्व-प्रकारक-साक्षात्कार एव वा ? आद्ये त्वत्-पूर्व-पक्ष एव तव सिद्धान्त-स्थाने युक्तः । पितृ-परिगृहीतानां मातृ-तया पुत्रस्य तत्-परिग्रह-कृत-दोषाप्रसक्तेः ॥
द्वितीये तेन भुक्ता एव मुक्तैर् भुज्यन्त इति त्वत्-सिद्धान्तः परम-साम्य-पर्यवसित एव किं न स्यात् ?
यानेवाहं शृणोमि यान् पश्यामि यान् जिघ्रामि तानेवैते इदं शरीरं विमुच्यानुभवान्ति
इति चतुर्-वेद-शिखायां सर्व-भोग-श्रवणात् । यदीत्थम् अपि परम-साम्यम् अन्-अर्थकम् इति भविष्यत्-पर्वण्य् एव श्रद्दधानः, भगवद्-अ-भुक्तान् एव बहिष्ठान् तत्रापि लेशान् भोक्तुम् उद्युक्तो ऽसि, तदा उच्छिष्ट-भग्भ्यो ऽन्नादातृ-तुल्यतः ते परमात्मा स्यात् । त्वं च तत्-तुल्यः, तद्-द्त्-लेशेतरांश् चेति इत्थं तव मुक्ति-फलं स्यात् । अ-मुक्ते ऽपि त्वयैतद्-विशेषे मुक्ते ऽपि को ऽपि विशेषो नोक्तश् च स्यात् । त्वया उक्तो ऽविभाग-शब्दार्थो ऽपि त्वद्-बुद्ध्य्-अनुगुण एव । न शब्दानुगुणः । तस्माद् ब्रह्म-भोगात् मुक्त-भोगो ऽत्य् अल्प इत्य् उक्तिः तथा वक्तरि त्वय्य् एव च कर्तृता त्वय्य् एव विश्रान्ता न तु सार्ष्टितापर्यन्त-सायुज्य-प्राप्तिम् अस्त्व् इति व्यर्थ एव मुक्तानन्द-तारतम्य-परस् त्वद्-भाष्यादि-ग्रन्थः ॥ तृतीयस्य तृतीय–पाद-स्थो ऽपि फल-भेदस्यैवं विध्वस्तत्वात् उपासन-तारतम्य-प्रयोजकत्वस्य वक्ष्यमाणत्वात् ॥
किं च, “गुणैस् सर्वैर् उपास्यो ऽसौ” इत्य्-आदिकम् आनन्द-तारतम्ये प्रमाणत्वेन न श्रद्धेयम् ।
साधनस्योत्तमत्वेन साध्यं चोत्तमम् आप्नुयुः ।
इत्य् एवं मन्द-मतयो वदन्त्य अ-ज्ञान-मोहिताः ॥
मुक्तानन्दे तारतम्यं तद्-ब्रह्म-विदां मतम् ।
धी-विकासावशेषेण त्वत्-कृते तद्-अ-सम्भवात् ॥
निश्शेष-कर्म-निर्मोक्षात् नित्यासङ्कुचिता मतिः ।
सर्वेषाम् अ-विशिष्टैव ह्य् आत्माकारैक्य-निर्णयात् ॥
अनुकूलं वेदनीयम् आनन्दं ब्रह्म तद्-गुणान् ।
विषयी कुर्वती या धीः, आनन्दस् सा भवेद् यतः ॥
तस्याः कथं तारतम्यं स्याच् चेत् स्वर्ग-विमोक्षयोः ।
तारतम्यं च न भवेत् तस्मात् दुष्टम् इदं मतम् ॥
सर्वे ब्रह्म-समानन्दाः ब्रह्मद्या मनुजास् तथा ।
शीलनीयं परं रूपं स्व-रूपं च गुणांस् तथा ॥
नित्यानन्देन सम्पूर्णाः नीचोच्चत्व-कथोज्झिताः ।
ब्रह्मणा सह मोदन्ते मुक्तास् सर्व-समन्ततः ॥
पुमान् न देवो न नरो न पशुर् न च पादपः ।
शरीराकृति-भेदास् तु सर्वे मुक्तौ न सन्ति हि ॥
न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः ।
विषयानुभवायत्त-तारतम्योक्ति-कल्मषाः ॥
[[P67]]
विभेद-जनके ज्ञाने नाशम् आत्यान्तिकं गते ।
आत्मनो ब्रह्मणो भेदम् अ-सन्तं कः करिष्यति ॥
इतो ऽन्यथा ये मन्यन्ते मूर्खाः पण्डित-मानिनः ।
भविष्यन्ति त्रयी-बाह्यास् सतां मार्गस्य दूषकाः ॥
मुक्ति-दूषण-दोषेण भविष्यन्त्य् अ-सुराश् च ते ।
त्रयी-पथ-परिभ्रष्ट-कुत्सिचार-धी-युताः ॥
यस् स्व-रूपे तारतम्यं वेत्ति मूर्खो विमूढ-धीः ।
सो ऽन्धे तमसि सम्भूतो भविष्यति न संशयः ॥
स्वतस् सु-जीव-दुर्जीवाव् एक-देहे न देहिनौ ।
इति धिर्यस् स बाह्यस् सन्न् अज्ञ एव सदा भवेत् ॥
यद्य् अन्यो ऽस्ति परः को ऽपि मत्तः पार्थिव-सत्तम ।
तदैषो ऽयम् अयं चान्यो वक्तुम् एवम् अपीष्यते ॥
एक–स्व-रूप–भेदस् तु बाह्य-कर्म-वृत्ति-प्रजः ।
देवादि-भेदो ऽपध्वस्ते नास्त्य् एवावरणो हि सः ॥
चतुर्-विधो ऽपि भेदो ऽयं मिथ्या-ज्ञान-निबन्धनः ।
तस्मान् न मुक्ताव् अस्थीत्यं भेदस् स्व् आत्मापरोक्ष्यतः ॥
शुनि चैव श्वपा-के च पण्डिताः सम-दर्शिनः ।
निर्दोषं हि समं ब्रह्म
सो ऽहं स च त्वं स च सर्वम् एतद् आत्म–स्व-रूपं त्यज भेद-मोहम्
इत्य्-आदि-तत्-तद्-उत्तर–प्रकरण-स्थ–वचन-शत-विरोधात् । अतः तेषाम् अ-वैदिक-पक्षानुवादकतयैव निर्वाहो युक्तः ॥
दृश्यते च श्रुताव् अपि परपक्षानुवादः । “तद् धैक आहुः” इत्य्-आदिः । नन्व् एषां वचनानां ग्रन्थान्तरानुदाहृतानां कथं प्रामाण्यं त्वन्-मतोदाहरणस्य अन्-आश्वास-ग्रस्तत्वात् इति चेत् – न; भवदीयानाम् अपि वचनानां ग्रन्थान्तरानुदाहृतानाम् अ-खिल-वैदिक-गोष्ठी-बहिष्ठानां कथम् इव प्रामाण्यम् इत्य् अनुयोगस्य तुल्यत्वात् । न हि त्वत्–कु-मति–मात्र-कल्पिताः चतुर-कमठाद्याः श्रुतित्वेन शिष्टैः परिगृह्यन्ते । न वा प्रसिद्ध-कोशेषु त्वद्-उदाहृत-गारुड-प्रभृतीनि वचनानि सन्ति । न वा हनुमद्-भीमसेन-क्रमेण वायोः तव तृतीयावतारत्वं श्रद्दधीमहि । यद्-बलात् तद्-उदाहृतासु श्रुतिषु स्मृतिषु वा श्रुतित्वं स्मृतित्वं वा संशय-कोटिं पुरुष-गौरवाद् वा न समाटीकेत । तस्मात् “यश् चोभयोस् समो दोष” इति न्यायात्, न मद्-वचनेषु प्रामाण्य-परीक्षोपपत्तिम् इति । तस्मात् नानन्द-तारतम्यं वचन-विरुद्धम् उचितम् अङ्गीकर्तुं वेदविदाम् इति दिक् ॥
अपि च, अस्तु कथञ्चित् प्रामाण्य-सन्देह-विषयता त्वद्-उदाहृतानाम् । तथा ऽपि निश्चित-प्रामाण्यकैर् वचनैः स्वार्थे झटिति प्रमापिते प्रामाण्याप्रामाण्य-शङ्का-कबलितानां वचनानां मन्थर-प्रवृत्तिकतया प्रत्यक्षानुमान-न्यायेन विरोधाधिकरण-न्यायेन श्रुति-लिङ्गादि-नयेन च बाध एव न्याय्यो ऽभ्युपगन्तुम् ॥ अथवा अस्तु वचनानां प्रामाणिकत्वं, तथापि न “गुणैस् सर्वैः” इति वचनं साधन-तारतम्यम् एव प्रतिपादयतीति न फल-तारतम्यम् आक्षेप्तुं प्रभवति तल्-लिङ्गस्यास्य उक्त-श्रुति-विरुद्ध-साधनासमर्थत्वात् । अतो “व्याप्तेश् च समञ्जसम्” इति सूत्रस्य त्वदीय-भाष्यम् अ-समञ्जसम् इति सिद्धम् ॥
[[P68]]
यच् च “प्रिय-शिरस् त्व् आदि” सूत्र-भाष्ये “नैव सर्व-गुणाः” इति वराह-वचनतयोक्तं तत् “सो ऽश्नुते” इति सर्वेषाम् अपि सार्ष्टितयोक्त-सायुज्य-मुक्तेः एकाकारत्वोक्त्या गौण-मुक्ति-परम् । श्वेत-द्वीप-क्षीराब्धि-सत्य-लोकादि-प्राप्तिष्व् अपि मुक्ति-शब्दात् । अन्यथा मुक्ति-भेद इति प्रसिद्धवन्-निर्देश-विरिञ्च-पद-निर्देशयोः अ-मुख्यत्व-प्रसङ्गात् । न हीदं वचनं श्रुति-विरुद्धं मुक्ति-भेदं बोधयितुम् ईष्टे । न हि मुख्य-मुक्तो जगत्-सर्ग-हेतु-भूत-शरीर-विशेषवान् कश्चिन् मुक्तो ऽस्ति ? येन न विरिञ्च-पद-निर्देशस् स्यात् । अतस् सत्यादि-लोकाप्ति-रूप-मुक्ति-कामानाम् आनन्द-वैषम्य-निश्चयात् ते केचिद् एवोपास्याः । यद् वा पूर्व-प्रसक्तायां परम-मुक्तौ सर्वे गुणास् सर्वैर् उपास्याः अनुभाव्या इत्य् उक्त्वा तत्रैव कु-दृष्टि–कल्पितानन्द-तारतम्यं निराकरोति । विरिञ्चस्यैव मुक्तानन्दस्य सु-पूर्णतेति यत् तत् नैवेति तत्रापेक्षितं हेतुम् आह – मुक्ति-भेदत इति । मुक्ति-भेद-प्रसङ्गाद् इत्य् अर्थः । अतः इत्थं त्वन्-मतोत्साद-पर्यवसित-वचन-विलेखनात् तत्-सूत्र-भाष्यम् अप्य् अ-समञ्जसम् ॥
तथा यावद् अधिकार-सूत्र-भाष्य-स्था चतुर्-वेद-शिखा च वाराह-वचनवद् एव नेया । किं चात्र मुक्तानां भेद-प्रतिपादनं पूर्व-विधि-रूपं यथा ऽधिकारो विशिष्यते इत्य् उक्त-साधन-तारतम्याक्षिप्तत्वात् । आक्षिप्ते वचन-विधिः “कपालेषु श्रपयति” “त्रेधा तण्डुलान् विभजेत्” इत्य्-आदौ वाचनिकार्थ-विद् ध्य् अ-भावस्य मीमांसकैर् अभ्युपगतत्वात् । नापि नियम-विधि-रूपम् । नित्य-प्राप्ते फल-तारतम्ये तद्-अ-सम्भवात् । नापि परिसङ्ख्या-रूपम् । गन्धर्वाणाम् इवान्येषाम् अपि मानुषानन्दाभ्यधिकानन्दवत्त्वस्य स्व-वाक्योक्ततया व्याघातात् । एतद् उक्तेभ्यो ऽन्येषाम् अपि वचनान्तरेण तत्-सदृशानन्द-सिद्ध्या तद्-विरोधाच् च । परिसङ्ख्यायास् त्रि-दोषत्वाच् च । तस्माद् अनुवादो ऽयं यथा-प्राप्ति वर्णनीय इति उपासन-दशायां तारतम्यं ब्रवीति । अन्यथा प्राग्-उक्त-श्रुति-शत-विरोधान् मनुष्यादिवद्-अ-मुख्यार्थ-बाध-प्रसङ्गाच् च ॥ किं च “एष ह्य् एव” इति हि शब्दः प्रासिद्धिं द्योतयति । सा च बद्धे न । मुक्ते “चतुर्-मुखेश् शतानन्द” इत्य्-आदिना तस्यैव शतानन्द-कीर्तनात् । तथा च वाक्य-शेष-वशाद् यथाधिकारो विशिष्यत इत्य् उपक्रमानुसारात् हेतु-हेतुमतोः अधिकानन्दयोः औत्सर्गिकैक-कालत्वस्य त्यागानर्हत्वाच् च ॥
[[P69]]
मुक्ताव् इत्य् उक्तिर् अपि जीवन-मुक्ति-परा । एवं च “ज्ञानं चोपासनं चैव” इति अध्यात्म-वचनं देवानां मुक्त्य्-अ-भावे केनचिद् धेतुना शङ्किते “तद्-उपर्य् अपि” इति सूत्र-भङ्गीम् अवष्टभ्य यथा ऽधिकारं ज्ञानम् उपासनं च मुक्ताव् आनन्दः प्रीतिश् च भवत्येवेत्य्-अर्थकम् । अत एव भवेत्येवेति क्रिया-सङ्गत एव कारः सङ्घटितो भवति । स ह्य् अत्यन्तायोग-व्यवच्छेदकतया प्रसिद्धः ॥
यच् च बृहत्-तन्त्र-गतं “उत्तमत्वं च” इति वचनं तद्-अवध्य्-अवधिमद्-भाव-वैपरीत्येन सर्व-पूर्वोक्त-वचन-विरोधात्, भगवद्-आनन्दस्य परिच्छिन्नोत्कर्षवद् आनन्द-प्राय-पाठेने “यतो वाच” इत्य्-आदि-श्रुति-विरोधात् विरोधाधिकरण-न्यायेन “सो ऽश्नुते” इत्य्-आदिभिर् भूर्योभिर् बाधितम् एव ॥
“ज्ञानान् मोक्षः” इति च वचनं “नाविरतो दुश्चरितात्” “पापं प्रज्ञां नाशयति” इत्य्-आदि-श्रुति-स्मृति-बाधितत्वात् ज्ञान-प्रशंसा-मात्र-परम् ॥
“स्वाधिकानन्द-सम्प्राप्तौ” इति वाराह-वचने स्वाधिकानन्दो जगद्-व्यापार-सहचरितानन्द एव । सृष्ट्य्-आदि-व्यापार-साहचर्येण तस्यैव बुद्धिस्थत्वात् ॥
“आत्मन्य् एव” इत्य्-आदि-गारुड-वचनं
य एवम् एतद् विदुः ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते ते ऽर्चिषम्
इत्य्-आदि-मुक्ति-काम-सर्वात्रत्योपासक-साधारणार्चिर्-आदि-गत्य्-उपदेश-विरोधात् लोक-विशेष–जाति-विशेषादि-प्रतिपादनाच् च केषाञ्चिद् पापानां मुक्ति-परम् । उत्तरत्र “अत्रैव च स्थितिः” इत्य्-आद्य्-उक्त्या “नोत्क्रामन्ति” इत्य् एतद् अपि कदाचिद् अपि तेषाम् अधिक-सञ्चारो नास्ति” इत्य् एतद्-अर्थकम् ॥
“साधनस्योत्तमत्वेन” इत्य्-आदि-वचनं तु हेत्व्-आभास-ग्रस्ततया अत्रत्य-साधनादि-स्तुति-मात्र-परम् । अतस् त्वद्-उक्त-मुक्ति-तारतम्यस्यापि बाधितानन्यथासिद्ध-प्रमाणस्यानुपलम्भात् भोग-मात्र-साम्याधिकरणान्तानां त्वदीय-भाष्याधिकरणानां प्रसिद्धानेक-श्रुति-विरुद्धार्थकतया त्वद्-इतर-मीमांसकासम्मततया अ-सामञ्जस्यैक-वेषतया च बादरायणानभिमतत्वस्य सूत्र-प्रवृत्ति-विरोधासमञ्जस्योपपादनाभ्याम् उद्घोषितत्वात् मुक्तस्याखण्ड-ब्रह्मानुभव-रूप एव भोगः, स च बहु-श्रुतिभिस् सर्व-मुक्त-सम इत्य् उपपादित इति तत्-साम्यार्थकम् एव “भोग-मात्र-साम्य” सूत्रम् । तम् एवार्थं “यदा पश्यः” इति परम-साम्य-श्रुतिर् बोधयतीति तत्-समानार्थो ऽयं “सो ऽश्नुते” इत्य् उपक्रमः । तेन दुरुद्धर एव तव उपक्रम-विरोधः ॥
[[P70]]
यद् उक्तं त्वन्-मते उपक्रमोपक्रम-विरोध इति – तद् अत्यन्त-मौढ्य-विलसितम् । स्व-रूपतो गुणैश् च देशतः कालतो वस्तुतश् च परिच्छेद-रहितत्वे सति अ-सङ्ख्येय-कल्याण-गुण-गणे निरतिशय-प्रकर्षवत्त्व-रूप-वस्त्व्-अ-परिच्छिन्नत्वम् अन्-अन्त-शब्दार्थः । अयं च समुदायो भगवद्-इतर-व्यावृत्तत्वात् भगवल्-लक्षण-भूतः । यथा गुणेषु स्व-रूपतो ऽपरिच्छित्ति-सत्वे ऽपि समुदायाभावात् न तत्र लक्षणम् । तथा एकेनानन्द-गुणेनापरिच्छित्तिम् इत्य् अपि मुक्ते न तल्-लक्षणम् इत्य् अ-विशेषात् ॥
यद् उक्तम् उपक्रम-विरोधो भूयसां न दोषाय । दशभिर् अपि पर्यायैर् एकस्यैवोपक्रमस्य प्रतिबन्धाद् इति – तद् अप्य् असत् । उपक्रम-विरोधेतरैर् उदाहृतैः बहुभिः दोषैः बहूनाम् अपि त्वद्-अर्थ-प्रतिपादनाशक्ततया, “अन्धानां शतम् अपि न पश्यति” इति न्यायेन, “एकेनापि बहूनां प्रतिबन्धाच् च” इति न्यायेन च प्रसिद्धानेक-श्रुत्य्-अन्तरानुदाहृत-स्वार्थ-बोधन-स्वरसैकोपक्रमेणैव बाध-ध्रौव्यात् ॥
अत एव प्रतिषिद्ध-धर्माणां समवाये “भूयसां स्यात् स्व-धर्मत्वम्” इति द्वादशस्य द्वितीयाधिकरणोपन्यसनम् अपि व्यर्थं, विषमत्वात् । तत्रैकादशानाम् अह्नां चोदकेन ऐन्द्र-धर्मकत्वम् एव निर्ज्ञातम् । तत्र मुख्य-मात्रेणैव अग्निष्टुद्-धर्मानुग्रहे भूयसां स्व-धर्म–बाधस् स्यात् । अतस् तत्रोपसत्-कालीन-सुब्रह्मण्यानीयान्तन्त्र-भूतायां[[??]] या काचित् सुब्रह्मण्येत्य् अ-नियमो ऽपि न । आग्नेयी इति नियमो ऽपि न । किं तु सर्वार्था ऐन्द्री सुब्रह्मण्येवेति तत्र नियमस् सम्भवति । न हि तद्वद् अत्र दशानां पर्यायाणां मुक्तानन्द-तारतम्य-विषयत्वं निस्सन्दिग्धम् । प्रत्युत “युवा स्यात्” इत्य् अत्र मुक्तामुक्त-प्रक्रमालाभोपपादनेन छिन्न-मूलम् एव । “सर्वं ह पश्यः पश्यति” इत्य्-आदि-श्रुत्य्-अन्तरोपोद्बलित-निस्सन्दिग्ध-स्वार्थकोपक्रम-विरोधादि-बाधितं चेति व्यर्थ एवेह तद्-उपन्यसन-श्रमः ॥
[[P71]]
द्वैत-प्रमाणानां बहूनां निर्ज्ञातम् एव द्वैत-विषयकत्वम् । तेन त्वदीयैस् तद्-विरुद्धाद्वैत-वाक्यस्यैव बाध इति यद् उक्तं तद् अपि न प्रामाणिकम् । वेदैकदेशाप्रामाण्य-वर्णनस्यापि वैदिकत्व-प्रच्यावकत्वात् ।
द्वैतोपनिषदा सार्धं श्रुतयो द्वैत-गो-चराः ।
घटक-श्रुति-संयुक्तास् सद्-विद्याम् अनुरुन्धते ॥
इति ह्य् अस्मद्-आचार्या निरणैषुः ॥ उत्तर-वाक्य-स्थानां नाम-रूप-निर्वोढृत्वादि-लिङ्गानां निस्सन्दिग्धत्वाद् अ-बाधितत्वाच् च तैर् उपक्रम-स्था ऽऽप्य् आकाश-श्रुतिः अ-योग्यार्थेति सा बाध्यताम् उपगता न ह्य् अत्रोपक्रमस्यायोग्यार्थत्वं सम्भवति । सर्व-पदस्यासङ्कुचितत्वोपपादनात् । सहोक्ति-साफल्यस्य च त्रेधोपपादितत्वात् ।
काम-शब्दस्य त्वद्-अभिमत-विषय-भोग-परत्वस्य च मुक्तौ ब्रह्म-व्यतिरिक्त-विषय-भोगाभावोपपादनेन निरस्तत्वात् । उपात्त-ब्रह्म-पद–वाक्य-स्थ–काम-पदस्य “त इमे सत्याः कामाः”
य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामान्
इत्य्-आदि-प्रयोग-बाहुल्य-सिद्ध-श्रौत-व्युत्पत्ति-बलेन काम्यमानत्व-रूप-गुण-पौष्कल्येन च ब्रह्म-गुणेषु मुख्य-वृत्ततया ब्रह्म-शब्दस्य च परे ब्रह्मणि मुख्य-वृत्ततया च इह तद्-उभयार्थकतायां बाधकाभावात् प्रत्युत मुख्यार्थ-परित्याग एव ।
रसँ ह्य् एवायम् लब्ध्वा ऽऽनन्दी भवति
इत्य्-आदि-वाक्य-विरोधात् प्रकरण-विरोधाच् च । उपक्रमस्य सर्वतोमुखाबाधितासन्दिग्ध-स्वर-सार्थकत्वात् ॥
अत एव दश-पर्यायाणां मुक्तानन्द-तारतम्य-परत्वानिश्चये उपक्रम-वाक्यस्य स्वार्थ-परत्वं तस्मिंश् च सति दशानां पर्यायाणां तारतम्य-परत्वाभाव इत्य् अन्योन्याश्रयः इत्य् अपि निरस्तम् । अ-खण्डानन्दमय-ब्रह्मानुभव-शीले मुक्त-सामान्ये अ-विशेषित-श्रोत्रियाकामहत-पदोपस्थापिते सर्व-विध-बद्धानन्दान्वयवत् एकैकांशाखण्डानन्दवान् मुक्तः, तस्य भोग्यो ऽयम् आनन्दमय इति उपक्रमैक-वाक्यतयैव दशानाम् अपि पर्यायाणां चरितार्थतया अ-सञ्जात-विरोधस्योपक्रमस्य स्वार्थ-बोधने स्वत एव समर्थत्वात् । अतः तवैव वाक्य-दशकस्य मुक्तानन्द-तारतम्य-परत्व-निश्चये भूयो ऽनुग्रह-न्यायात् तद्-विरुद्धोपक्रम-बाधः । उपक्रमस्य बाधकत्व-निश्चये सति पर्याय-दशकस्याप्य् आनन्द-तारतम्य-विधि-परत्व-निश्चय इत्य् अन्योन्याश्रयः ॥ “युवा स्यात्” इत्य् अत्र मुक्तामुक्त-प्रक्रमे सति उत्तर-वाक्यानां मुक्तानन्द-तारतम्य-विधि-परता, तेषु तत्-परेषु सत्सु “युवा स्यात्” इत्य् अत्र मुक्तामुक्त-प्रक्रम इत्य् अन्योन्याश्रयः ॥
किं च “युवा स्यात्” इत्य्-आदेः प्रसिद्धार्थानुपपत्तौ हि त्वद्-अभिमतार्थकत्व-परिकल्पनम् । तद्-अ-भावाद् एव निर्मूलस् त्वद्-अर्थः । तत एव तत्र मुक्तामुक्त-प्रक्रमो निर्मूलतरः । तत एव तत्रोत्तर-वाक्येषु मुक्तानन्द-तारतम्य-विधिर् निर्मूलतम इत्य् अजानतस् अन्-आकाङ्क्षित-विधिस् तत्-कृत-प्रकरण-भङ्गश् च । अत एतैस् सह तव दुरुद्धर एवोपक्रम-विरोधः ॥
[[P72]]
[[P72 पाठ एव P73 मध्ये]]
[[P73]]
तथा सम्भवत्य् एक-वाक्यत्वे वाक्य-भेदस्य दोषतायास् सर्व-सम्प्रतिपन्नतया सो ऽप्य् अनिवार्य एव । तत्-सूचकः च शब्द इहास्तीति स न दोष इति चाष्टा-कपालादि-प्रतिवन्द्या न न्यायविद्-वैदिक-सरणिर् इति प्राग् एवोक्तम् । सिद्धान्ते दशमः पर्यायो ऽप्य् अनुवाद इति न तम् आदायापि वाक्य-भेद-वैरूप्यादेः प्रसञ्जनम् इह प्रसक्तम् ॥
यच् चात्र प्रजा-पति-शब्दस्य क्वचिद् दक्षे क्वचित् रुद्रे च प्रयोगात् तयोर् अन्यतर-परः प्रजा-पति-शब्द इत्य् अभिमानः सो ऽपि व्यर्थः; रुद्राद्य्-अपेक्षया तद्-उक्त-गुण-पौष्कल्यवति चतुर्-मुख एव वेदे भूरि-प्रयोगेण तस्यैव प्रजा-पति-शब्द-मुख्यार्थतया इह तत्-त्यागे नियामकाभावात् । तथा ब्रह्म-शब्दस्यापीह मुख्यार्थे बाधकाभावात् चतुर्-मुख-परत्वाभिमानो ऽपि व्यर्थ एव । यदि “ते ये शतं ब्रह्मण आनन्दाः” इति उत्तरत्र श्रूयेत तदेयं ब्रह्म-पद-श्रुतिर् मुख्यार्थेत्य् उच्येत, पूर्वत्रापि “ते ये शतम्” इति प्रतिपादन-शिरस्कैक-पद-श्रुते बद्धानन्दान्तर्-गतैक-भाग-परत्वात् इह तच्-छिरस्कत्वाभावेन “सैषा” “यतो वाच” इति पूर्वोपरितन-श्लोकोक्त्याखण्डानन्दाब्धि-शीकर-रूपैक-भाग-परैव इह एक-पद-श्रुतिर् वाच्या इह पठितस्याप्य् एक-पदस्य प्राक्तनैक-पद-प्रायत्वाभावात् । अत इह प्राय-पाठाप्रसक्त्या तद्-विरोधाभावात् प्राकरणिक-ब्रह्म-रूप-मुख्यार्थैव ब्रह्म-पद-श्रुतिर् इति प्रजा-पति-शब्दो ऽपि तद्-अनुगुण-मुख्य-स्वार्थं चतुर्-मुखं न जहात्य् एवेति तयोर् मुख्यार्थे बाधकाभावान् नान्य-परता-प्रसक्तिः ॥
यतः तैत्तिरीय-श्रुतिर् इयम्
स एकः प्रजा-पति-लोक आनन्दः यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः अथ ये शतं प्रजा-पति-लोक आनन्दाः स एको ब्रह्म-लोक आनन्दः - यश् च श्रोत्रियो ऽवृजिनो ऽकामहतः अथ एष एव परमानन्दः, एष ब्रह्म-लोकस् सम्राड् इति होवाच,
इति बृहद्-आरण्य-वाक्यैकार्था । ततो ऽपि प्रजा-पति-शब्द–ब्रह्म-शब्दौ चतुर्-मुख–पर-ब्रह्मार्थाव् एव ॥
तत्र लोक्यत इति लोकः । लुक् प्रकाशने । ब्रह्मैव लोको ब्रह्म-लोकः । लोकश् च स्वोपयुक्त-सर्वाधारः । तत्त्वेन ब्रह्मैव स्वेन मुक्तैश् च लोक्यत इति ब्रह्मैव लोकः । “यदा पश्यः”, “ब्रह्मणा विपश्चिता” इति श्रुतेः । उपक्रमे “एष ब्रह्म-लोक-सम्राट्” इति सम्राट्त्व-सामानाधिकरण्यात् षष्ठी-तत्-पुरुष-वैघट्यात् । गन्धर्व-लोक इत्य्-आदौ तद्-अभावात् षष्ठी-तत्-पुरुषः, समानाधिकरण-समास एव वा
तेषाम् अपि भोक्तृत्वेन स्वोपभोग्य-सर्वार्थाधारत्वात् । अन्यानि भूतानि इत्य् अत्र भूत-शब्दः भूत-पञ्चक-समुदाय-शरीर-मुक्तार्थकः ।
यतो वा इमानि भूतानि जायन्ते,
एतेभ्यो भूतेभ्यस् समुत्थाय
इत्य्-आदि-सारूप्यात् । एतानि भूतानि ब्रह्मणो महानन्दैक-बिन्दु-परमाण्व्-आदि-परिमितानन्दानुपजीवन्तीत्य् अर्थः । अतो ऽयं भूत-शब्दो न मुक्तामुक्त-परः । मुक्तेषु उक्त-भूतत्वासिद्धेः । तस्यैव तत्-पद-मुख्यार्थत्वात् तत्-परित्यागे, तत्-परित्यागान्य-परिग्रहयोर् नियामकाभावात् । “भू सत्तायाम्”, इति भगवद्-ज्ञानेन लब्ध-सत्ताकार्थकत्वे मनुष्यादि-कीर्तन-वैघट्यम् ॥
[[P74]]
राद्धः बुद्ध्या शासन-विषयः । आशिष्ट इत्य्-अर्थः । समृद्ध इत्य् अस्य दृढिष्ठः बलिष्ठ इत्य् अर्थः । अन्येषां इत्य् अंशः “तस्येयम्” इत्य्-आद्य्-उक्तार्थकः । श्रोत्रियः श्रुत-वेदान्तः । वेदान्त-श्रमण-फल-ब्रह्म-विद्या-निष्ठ इत्य् अर्थः । अ-वृजिनः – अपहत-पाप्मत्वादि-गुणाष्टकाविर्भाववान्, कामितालाभेना भग्न-मनो-रथः काम-हतः तद्-अन्यो ऽकाम-हतः । सत्य-कामस् सत्य-सङ्कल्पश् चेत्य् अर्थः । एतेन नित्य-बद्धयोर् व्यावृत्तिः । तयोश् श्रोत्रियत्वादि-प्रयुक्तावृजिनत्वादि-शून्यत्वात् । अत्रापि प्रजा-पति-शब्दः स्व-मुख्यार्थं चतुर्-मुखं बाधकाभावान् न जहातीति नान्यार्थकः ।
एतेन सर्वे ऽप्य् आनन्दाः परब्रह्मणः अ-खण्डानन्द-कणिकान्तर्-गता इति तस्यैवानन्दस्येति प्रक्रान्तानन्दाभ्यासस्य निगमन-मुखेन प्रकृत-ब्रह्म-लोक-सन्निधापकः । स एको ब्रह्म-लोक आनन्द इत्य् अंशः । मुक्तानन्दाब्धि-कणिकायाम् अप्य् एते अन्तर्-गता इत्य् अत्रापि यश् च श्रोत्रिय इत्याद्य्-अंशः । अत्रापि यश् च श्रोत्रिय इति अन्वाचय[[??]] च शब्द-घटित-वाक्य-प्रतिपन्न-मुक्तस्याप्रधानतया अत्रत्य-ब्रह्म-लोक-पद-सन्निधापित-प्रकृत-प्रधान-ब्रह्म-लोक एव “अथैष परमानन्द” इति एतच्-छब्देन परामृश्यते । तस्य सति सम्भवे सन्निहित-परामर्शित्वात् ।
अत एतच्-छब्द-स्वाभाव्याद् अपि इह ब्रह्म-लोक-शब्दः प्रकृत-ब्रह्म-लोक-पर एव । तत एव प्रजा-पति-लोक-शब्दो ऽपि चतुर्-मुखार्थकः । सति मुख्यार्थे तस्याबाधे तस्यैव च योग्यत्वे प्राकरणिकत्वे च सति तत्-परित्यज्य अ-मुख्य-बाधितायोग्य-प्राकरणिक-भिन्नार्थान्तर-ग्रहणं अन्-अभिज्ञाद् इतरस्मै न रोचते ॥
[[P75]]
अत एव नचिकेतः प्रश्ने
स त्वम् अग्निं स्वर्ग्यम् अध्येषि मृत्यो, प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्ग-लोका अमृतत्वं भजन्ते
इति वाक्य-स्थ–स्वर्ग-शब्दस्य “तस्यां हिरण्मयः कोशः” “स्वर्गो लोको ज्योतिषा वृतः”,
तेन धीरा अपियन्ति ब्रह्म-विदस् स्वर्गं लोकं अत ऊर्ध्वं विमुक्ताः अपहत्य पाप्मानम् अन्ते स्वर्गे लोके ज्येये प्रतितिष्ठन्ति,
इति तैत्तिरीयक-बृहद्-आरण्यक-तलवकारादिषु वित्तम् असि पदे प्रयोगात्, स्वर्ग-शब्दस्यान्यत्र प्रीति-विशिष्ट-द्रव्य-वचनत्वे ऽपि “नागृहीत-विशेषण-न्यायेन” प्रीति-वचनत्वे सिद्धे तस्य लोक-वेदयोः अन्-एकार्थता मा भूद् इति उक्त-त्र्यय्य्-अन्त-प्रयोगावगत-निरतिशय-प्रीति-वाचिता निर्णीता तेन सातिशये “यस्मिन् नोष्णम्” इत्य्-आदि-वाक्य-शेष-सिद्धे ऽपि प्रीति-विशेषत्व-रूपापेक्षिक-गुण-योगात् गौणीति मुख्यस्यैव वित्तमः पदस्य स्वर्ग-लोक-शब्देन ग्रहः बाधकाभाव-योग्यत्व-प्रकरणानुग्रहैर् अङ्गीकृतः ॥
तस्मात् प्रजा-पति-शब्द इह चतुर्-मुखार्थक एव । ब्रह्म-शब्दो ऽपि प्राकरणिक-परब्रह्मार्थक एवेति दशानाम् अपि पर्यायाणाम् अर्थ-वादत्वम् एवास्मन्-मते । त्वन्-मते विधित्वाद् विधेय-भेद-निबन्धनो वाक्य-भेद-दोषो दुष्परिहरः । स तु नेह भूषणम् । विधेयस्य प्रमाणान्तर-बाधितत्वाद् एक-वाक्यत्वस्यैवोपपादनाच् च ॥
तथा उद्देश्यस्य विशेषणानिर्देशे आनन्द-तारतम्यासिद्ध्या मनुष्य-गन्धर्वादि-रूपाश्रुतोद्देश्य-विशेषण-निर्देश-तद्-विवक्षाकृतो ऽप्य् अपरो वाक्य-भेदः; प्रतिपर्यायं दुरुद्धरः । मन्-मते तु कृत्स्नस्याप्य् अर्थवादत्वात् न कस्याप्य् उद्देश्यता न कस्यापि विधेयतेति न कस्यापि दोषस्य प्रसक्तिः । यत्र इतर-व्यावृत्त्या उद्देश्य-समपर्क-विशेषणम् अस्ति तादृशम् उद्देश्य-विशेषणं तत्र तत्र विवक्षितम् । इह न तथेति व्यर्थ एवात्र तद्-उदाहरण-सम्भ्रमः । विशेष-साकङ्क्षाणाम् एव आग्नेय्य्-आदि-शब्दानां प्रकरणेन सन्निहिताग्नेयी-परत्वे ऽपि इह विशेषाकाङ्क्षा-विधुराणां श्रोत्रियादि-पदानां मनुष्य-गन्धर्वादि-पद-सन्निधिर् अप्य् अ-किञ्चित्कर इति न तत इहोद्देश्य-विशेष-लाभ-प्रतिपादनम् उचितम् ॥
अत एव मनुष्य-गन्धर्वादि-पदानुषङ्गेण तल्-लाभो ऽपि भग्नः ।
राजन्यानाम् अन्येषां च उत्तमः प्रयाजः,
इत्य् उक्त्वा यथा वासिष्ठानां नाराशंसो द्वितीयः प्रयाज इत्य् अर्थो न लभ्यते किन्तु विशेष्योद्दिष्टयोर् एव विधेय-विशेष-सम्बन्ध-बोधन-रूपेण राजन्य-वासिष्ठानां नाराशंसो द्वितीयः प्रयाज इत्य् अनेनैव वासिष्ठेषु नाराशंस-लाभः । तद्धेह उद्देश्य-विशेषालाभाद् एव तत्-सम्बन्धि-विधेय-विशेष-लाभो ऽपि दुरुपपाद इति तन्-निदर्शनेनेह विधेय-विशेषालाभात् । तद्-अर्थं विधेय-विशेष-निर्देश-प्रसङ्गो ऽप्य् अनिवार्य एव । यद्यपीह च शब्दात् तल्-लाभ इति तव भ्रमः तथा ऽपि श्रोत्रिय-सामान्ये तद्-आनन्दान्वय-परतयैव सो ऽपि चरितार्थः नोद्देश्य-विशेष-विधेय-विशेष-सम्बन्धायालम् ॥
[[P76]]
एतेन “सो ऽश्नुत” इति सामान्य-वाक्य-प्रतिपन्नस्य मुक्त-फलस्य तत्-तन्-मुक्तेषु फल-विशेष-पर्याय-दशकोक्ते पर्यवसानम् इत्य् अपि गल-हस्तितम् । उद्देश्ययतः फलतश् च दशानाम् अपि पर्यायाणां विशेष-समर्पकत्वाभावस्यैव सर्व-सम्प्रतिपन्नत्वात् । “सो ऽश्नुत”, इति वाक्यस्यैव निस्सन्दिग्ध-विशेष-वाक्यत्वोपपादनाच् च ।
अत एव वाक्य-दशकस्याप्य् अर्थवादत्वे नैरर्थक्याद् वरं विधायकत्वाभ्युपगमः । विधाव् एव सति प्रवृत्ति-विशेष-लाभाद् इति पराभिमानः प्रभग्नः।
यो वेद निहितं गुहायाम् - सो ऽश्नुते,
इति वाक्य-द्वय-निष्पन्न-ब्रह्म-विद्या–ऽपेक्षित-प्राशस्त्य-समर्पकस्यास्य मानुषादि-चतुर्-मुखान्तानन्देष्व् अत्य् अल्पेषु तत्रापि तरतम-भाववत्सु निरतिशय-विरक्ति-जनन-मुखेन अपहत-पाप्मत्वादि-युक्तानन्य-भोग्यत्वादि-विशेषित-ज्ञानैकाकारस्य स्व-रूपाविर्भाव-पूर्वक-निरवधिक-महानन्द-पर-ब्रह्म-समान-भोग-फलक-ब्रह्म-विद्यायाम् एव झटिति त्वरा-विशेष-जनकतया मत्-पक्ष एवास्य प्रवृत्ति-विशेष-करत्वात् । त्वत्-पक्षे[[??]] तु
परं ज्योतिर् उपसम्पद्य स्वेन रूपेण,
इत्य् अस्य देवादि-चतुर्-विध-जीव-जातिषु अग्नीन्द्र-खर-वानर-सूकर-गो-गवय-नराधिप-नराधम-दास-दाशकित-वादि-रूपावान्तर-भेदवत्सु यो जीवो यद्-आकारस् तेन आकारेण तस्य तस्य जीवस्याभिनिष्पत्तिर् अर्थ इति त्वन्-मत-परिपाट्या इदानीम् आविर्भविष्यद्-रूप-विशेषानिश्चयेन च तत्-तद्-योग्य–तत्-तद्-विषय–भोगानुगुण-साधन-विशेष-परिग्रहासम्भवेन अन्य-योग्य-साधन-परिग्रहो ऽपि स्वाधिकानन्दालाभेन च दशानाम् अपि पर्यायाणां विधित्वे ऽपि तव साधन-विशेष-परिग्रहाननुगुणतया न कथाञ्चिद् अपि प्रवृत्ति-विशेष-करत्वम् उद्देश्ये विधेये च विशेष-निर्देशे ऽपि ॥
अतो बहु-दोष-दुष्टो ऽपि विधि-पक्षः प्रवृत्ति-विशेष-फल-विधुरो ऽपीत्य् उक्त-विधया अर्थवत्तरः अर्थवाद एवायं पर्याय-गणः । न हि प्रयोजन-वशेन प्रमाणं नेतुं शक्यम् । प्रयोजनं हि प्रमाणानुगुणं इति प्रमाण-सरणि-विदः ॥
तत्-तद्-आनन्द-विशेष-मात्रस्य उपक्रमादि-बाधितत्वात् “सहस्रे शतं”, इति न्यायेन “सो ऽश्नुत” इति वाक्यावगतापरिच्छिन्नानन्दे तत्-तद्-बद्धानन्दानाम् अन्तर्-भावस्य सिद्धत्वात् । अ-प्राप्तार्थत्वादि-कृत-विधित्व-प्रत्याशा ऽपि नात्र प्रसक्ति-मती ॥
[[P77]]
यद्यपीहानुषङ्गेण विशेष-लाभस् सम्भवति चेद् अध्याहार-लक्षणयोः न प्रसङ्गः; तथा ऽप्य् अ-सङ्कुचित-प्रवृत्तिकाकामहत-श्रोत्रिय-पदस्य निराकाङ्क्षस्यानुषङ्गातस् सङ्कोच-दैर्घट्यम् । तस्य श्रोत्रिये ऽनुषक्तस्थाप्य् एक-पदस्य तव इयानेवेत्य् अर्थकतया परिसङ्ख्या-प्रयुक्त-दोष-त्रयस्य च प्रतिपर्यायम् अनिवार्यता ॥
यद् उक्तं श्रोत्रियस्याकामहतस्य मनुष्य-गन्धर्वाणां चेत्य्-आदि-विपरीत-निर्देश-प्रसङ्ग इत्य् अत्र मुक्त-मनुष्य-गन्धर्वादीनां मुक्त-मनुष्यानन्द-शताधिकत्वस्य परम-रहस्यस्य प्रथमत एव दुरवबोधत्वात् सु-बोधं अ-मुक्त-मनुष्य-गन्धर्वाणाम् अ-मुक्त-मानुषानन्दाच् छताधिकत्वं निरूप्य तन्-मुखेन स्थूलारुन्धती-न्यायादिकम् अनुसरति । “सत्यं ज्ञानम्” इत्य्-आदौ तद्-अभावात् अत्र विधेयार्थ-ध्रुव-बन्ध एवापेक्षितः स तु “ते ये शतम्” इत्य् अनेनैव सिद्धः । तद्-अनन्तरं यथा “स एकः” इत्य् उक्तानन्द-निर्धारणम् अन्य-निरूपण-निरपेक्षं तथैव मुक्तानन्द-निर्धारणम् अपि । न ह्य् अन्नमयादि-क्रम-सापेक्षान्तरात्म-परम्परा-समापनवत् जाग्रद्-आद्य्-अवस्थयैव निष्कृष्टात्मोपदेश-समापनवद् वेह बुद्धय्-अवतरण-क्रमो ऽपेक्षितः । अन्यथा मुक्तानन्द-निर्धारणे ऽप्य् उपेक्षा स्यात् द्वयोर् अप्य् अ-लौकिकत्वाविशेषत् । अतो मुक्तानन्देयत्तायास् त्वद् अन्यानभिमतायाः निर्धारिणार्थम् एव तव प्रवृत्ता श्रुतिः प्रधान्यात् तम् एव पूर्वं निर्दिशेत् । तद्-अनन्तरम् अ-प्रधान-बद्धानन्दम् इति दुष्परिहर एव विपरीत-निर्देश-प्रसङ्गः ॥
अत एव प्रधानम् उक्तं परित्यज्य अ-प्रधान-बद्धासाधारण-शब्देन एक-सम्भन्धि-निर्देशानुपपत्तिर् अपि निर्व्यूढा । प्रधानाप्रधानयोः प्रधानस्यैव फलस्य प्रथम-निरूप्यत्वात् । यत्र उद्देश्य-विशेषणस्याविवक्षायाम् अतिप्रसङ्गः, सिद्धततम्[[??]] अर्थान्तराणाम् अनुपपत्तिर् वा तत्रैव श्रुतस्योद्देश्य-विशेषणस्याविवक्षा । इह त्व् अतिप्रसङ्गादि-तद्-अ-विवक्षायाम् अपि न प्रसक्तिमन् न वा तस्य श्रवणम् इत्य् अन्-आकाङ्क्षिताध्याहारानुषङ्गादि-तत्-कुसृष्ट्य्-अनुसरणेन [[??]] लब्धिः । विशेषस्य तद्-विवक्षा च न कस्यापि न्यायविद्स् सम्मति-प्रदेत्य् अ-वैदिक एवायं मुक्तानन्द-तारतम्य-वादः । तद्-अनुगुण-कल्पन-मात्रे प्राग् एव नैर्मूल्यस्यासकृद्-उपपादनात् । तत्र तत्र न्यायोदाहरणम् अपि विषमतया आहार्य-तद्-अनुगुणत्व-भ्रम-प्राबल्य-मात्र-विलसितत्वात् ॥
[[P78]]
एतेन
प्रक्रमे यद् अन्-अन्तत्वं ब्रह्म-लक्षणतया स्थितम् ।
विपुलानन्दता तस्य हेतुर् नान्यत्र गामि तत् ॥
भूमैव सुखम् इत्य् उक्तो नाल्पे सुखम् इति श्रुतिः ।
छन्दो-गानां यतो जीवे निषेधति सुखोन्नतिम् ॥
आनन्दमय-वाचा ऽत्र पूर्णानन्दत्वम् ईरितम् ।
रसाख्य-ब्रह्म-लाभेन जीवानन्दत्वम् ईरितम् ॥
जगच्-चेष्टाऽऽदि चाप्यस्य पूर्णानन्दतयेति च ।
उक्त्वा तथा ऽऽनन्द-यातीत्य् एवं वाण्या दृढी-कृतम् ॥
पूर्णानन्दत्वम् ईशिस्य तत्र शङ्कापनुत्तये ।
आधिकारिक-देवेषु मुक्तेष्व् अपि सुखोन्नतेः ॥
विपुलानन्दता नेति सैषानन्देति वाक्यतः ।
राजादि-ब्रह्म-पर्यन्तं सृति-मुक्त्योश् शताधिकम् ॥
उक्त्वा ऽऽनन्दे तारतम्यं यतो वाच इति श्रुतिः ।
श्रीमन्-नारायणस्येव मनो-वाचोर् अ-गोचरम् ॥
पूर्णानन्दत्वम् आचष्टे स्पष्टम् एव फलं तथा ॥
एवं ज्ञानी हि तद्-भक्तो न बिभेति कुतश्चन ॥
उपक्रमोपसंहृत्योर् ऐक-रूप्यं दृढं किल
विशिष्टाद्वैतिकस्यार्थः तस्माद् एव न शोभते ।
इत्य्-आद्य्-अ-चतुरपद-मयापहसन-पदासङ्गत-बाधितार्थक-वाक्य-तद्-अर्थ-समुदायात्मिका-सङ्ग्रह-कारिका ऽपि स्वाज्ञान-सङ्ग्रहमयीति विवृता भवति ॥
एतेन
अक्षण्वन्तः कर्णवन्तस् सखायः मनो-जवेष्व् असमा बभूवुः
इत्य् ऐतरेयक-श्रुति-बलात् मुक्तानां मिथस् तारतम्य-साधनम् अपि प्रत्युक्तम् । आनन्दातिरिक्त-तारतम्यस्यास्माभिर् अप्य् अङ्गीकारात् । आनन्द-तारतम्यस्य च तस्याम् अ-प्रतिपादनात् । वस्तुतस् तु न मिथस् तारतम्यस्याश् श्रुतेर् अर्थः । अस्मिन् ग्रामे ब्राह्मणास् समाभ्यधिक-रहिताः इत्य् अत्रेव सर्वेषां मुक्तानाम् एक-रूपोत्कर्ष-प्रतीतेः । प्रतिप्रधानं गुणावृत्ति-न्यायेन एकस्यैव विधेयस्य सर्वोद्देश्य-सम्बन्धे एक-रूपताया दुरपह्नवत्वात् । अन्यथा विधेय-भेदेन वाक्य-भेद-प्रसङ्गः । उद्देश्य-भेदस् तु न वाक्यं भिनत्ति । “गृहं सम्मार्ष्टि” इत्य् अत्रेव उद्देश्यता-ऽवच्छेदकैक्यात् ।
न च “असमा बभूवुः” इति निषेधस्य साम्यस्य स-सम्बन्धिकतया सम्बन्ध्य्-आकाङ्क्षायां “अक्षण्वन्तः” इत्य्-आदिना निर्दिष्टानाम् एव सम्बन्धित्वेनान्वये मिथस् तारतम्यम् अन्-उक्ति-सिद्धम् इति वाच्यम्; पूर्वोदाहृत-वाक्यानुरोधेन निषेधाधिकरणातिरिक्तानाम् एव सम्बन्ध्य्-आकाङ्क्षा-पूरकताया अभ्युपगन्तव्यत्वात् । व्युत्पत्ति-वैचित्र्यस्य प्रतीति-वैचित्र्यानुरोधिनो दुर्वारत्वात् । अन्यथा निषेधाधारत्वान्वय-प्रतियोगितया साम्य-सम्बन्ध्य्-उपस्थापकतया च “अक्षण्वन्तः” इत्य्-आदेः स्वार्थोपस्थापका वृत्ति-दोष-प्रसङ्गात् ।
तद् यथा पेशस्करी पेशसो मात्राम् उपादायान्यन् नवतरं कल्याणतरं रूपं कुरुते एवम् एवायम् आत्मा इदं शरीरं निहत्याविद्यां गमयित्वा ऽन्यन् नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं प्राजापत्यं वा ब्राह्मं वा अन्येषां भूतानां वा
इत्य् अनेन मुक्तानन्द-तारतम्य-सिद्धिर् इत्य् अपि निरस्तम् । अस्मिन् वाक्ये मुक्त-प्रसङ्गस्यैवाभावात् । आत्म-शब्दस्य पेशस्करी-स्थानीय-परमात्मार्थतया मुक्तौ पितृत्वादि-जाति-भेद-विरहेण शरीर-विनिहननाविद्याविनाशयोः प्राक्तक-शरीर-तद्-अनुभाव्य-कर्म-विनाश-मात्र-रूपत्वस्य कर्म-निबन्धनत्वेन सम्प्रतिपन्न-पित्र्यादि-शरीरागमनाद् एव सिद्धतया मुक्तामुक्त-परत्वस्य दुरुपपादत्वात् ॥
[[P79]]
एवम् एतस्य बद्ध-परत्वाद् एव एतत्-पूर्व-वाक्ये
तस्यैतस्य हृदयस्याग्रं प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीर-देशेभ्यः
इत्य् अ-नियत-द्वारकम् उत्क्रमणं प्रतिपादितम् । यतः तत्र
यथा प्रियया स्त्रिया सम्परिष्वक्तः न बाह्यं किञ्चन नान्तरम् एवम् अयम् आत्मा प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्
इत्य् अपि वाक्यं सौषुप्तिकम् एव परिष्वङ्गं प्रतिपादयति । अतो ऽप्य् एषा बद्ध-परा । एवं चास्मिन् वाक्ये “प्राजापत्यं वा” इत्य् अनेन दक्ष-रुद्रयोर् अन्यतरस्य, “ब्राह्मं वा” इत्य् अनेन चतुर्-मुखस्यैवाभिधानात् एतत्-समानच्-छायापन्ने
प्रजा-पति-लोक आनन्दः ब्रह्म-लोक आनन्दः
इति बृहद्-आरण्यक-वाक्ये,
ते ये शतं प्रजा-पतेर् आनन्दाः स एको ब्रह्मण आनन्दः इति तैत्तिरीयके च तयोर् एव क्रमशो ऽभिधानम् इति प्रत्याशा ऽपि निरस्ता । सर्वत्र बद्धेष्व् एव रूढ-प्रजा-पतीत्य् अन्त-शब्दानां निर्निमित्त-रुढय्-अर्थ-त्यागायोगेन बद्धैक-परत्वाध्यवसायात् ॥
किं च पेशस्करी-दृष्टान्तक-वाक्ये त्वन्-मते मुक्ताविर्भविष्यद्-रूपस्य नैजतया तस्य कृति-विषयत्वायोगात् । तद्-अभिधायिना वाक्येन बद्ध-परता स्यात् । तैत्तिरीयक–बृहद्-आरण्यकयोर् अपि प्राजापत्यान्त-शब्देन तेषाम् एवाभिधानम् इति श्रुति-त्रये ऽप्य् एतानि नामानि न मुक्ते प्रसक्तिमन्ति तत्र पर-जीवयोर् एक-कर्तृ-भावावगमात् । कर्मत्वेनेतर-सजातीय-पर-ब्रह्म-पद-निर्दिष्टस्यापि कर्मत्वेन कर्तुः परमात्मनो ऽन्यत्वावावश्यम्-भावात् । तद्-उपर्य् अपि “अन्येषां भूतानां वा” इत्य् उक्त्या च तस्य चतुर्-मुखत्वेनैव । अत्र तु प्राकरणिक-ब्रह्म-रूप-मुख्यार्थ-त्यागे नियामकाभावात् मीमांस्यत्वेनोपक्रान्त-ब्रह्मानन्दैकभाग-निगमन–वाक्य-स्थत्वाच् च “ब्रह्मणः” इत्य् एतत् “ब्रह्म-लोके” इत्य् एतच् च पर-ब्रह्म-परम् एव । अतः पेशस्करी-दृष्टान्त-साजात्य-वर्णनम् अनयोः श्रुत्योः तव विपरीत-फलम् ।
[[P80]]
यच् च “अक्षण्वन्तः” इत्य् अनेन आनन्द-प्रधानत्वेन अवश्यं ज्ञेयं तारतम्यं तावत् प्रतिपाद्यते
इत्य् उपक्रम्य, “अक्षण्वन्तः - अक्षिमन्तः, “आनो नुड्” इति नुट् । कर्णवन्तः - प्राप्त-समस्तेन्द्रिय-फलाः परस्परं सखायः - द्वेषेर्ष्यादि-रहिताः मनो-जवेषु - मनो-जवः - प्रज्ञातिशयः तेषु ज्ञानादि-गुणेष्व् अ-समाः तारतम्योपेता बभूवुर् इति” भाष्यानुव्याख्यानं सुधा-ऽऽदौ यत् तव तद्-व्याख्यानम् ।
तद् अपि विपरीत-फलम् । तथा हि —
श्रुत्वा विष्णुं कर्ण-फलं प्राप्तत्वात् कर्ण-संयुताः ।
अक्षण्वन्तो दर्शनाच् च विष्णोर् मुक्ताश् च ये गुणाः ।
तारतम्यं च तेषां हि श्रुताव् उदितम् अञ्जसा ।
भगवत्-सामीप्ये च तारतम्यम् उच्यते ।
केचिद् आदघ्नासः अमृतम् आस्यं परिमाणम् अस्येत्य् आदघ्नं, तद् एषाम् आस्य-स्थानम् इति अर्श आदिभ्यो ऽच् । आस्य-परिमाणे सुधा-निधौ विहरन्त इति दूरत्वम् उच्यते । यद् वा आ सम्यक् दध्नाः मग्ना इत्य् अर्थः । ये केचिद् उपगताः कक्षं वनम् उपकक्षाः । उ-शब्द एवार्थः । श्वेत-द्वीप-गत-वन-क्रीडा-रता एवेति मध्यत्वम् उच्यते । भ्रू….दा इव गम्भीराः परमेश्वरं ददृशुर् इत्य् अनेन केषाञ्चिद् अतिसामीप्यम् उच्यते
इति हि सुधा-ऽऽदौ एषा श्रुतिः त्वदीयैर् विवृता ।
क्षीर-सागर-दध्नास् तु केचित् तिष्ठन्ति मुक्ति-गाः ।
उपस्थिता ब्रह्म-वनम्
इत्य्-आदिकं हि तव तद्-उपबृंहणम् । तत्र अक्षण्वन्त इत्य् अस्योपलक्षणत्वेन चक्षुर्-आदीन्द्रियोपभोग्य-विषय-साक्षात्काराभिव्यक्तानन्द-बृन्दाः किल अक्षण्वन्त इत्य्-आदिना उक्ताः । तत्र विषयत्वेन किं ब्रह्म तद्-गुणा एवोच्यन्ते? उत तद्-भिन्न–स्व-स्वोपभोग्य–तत्-तद्-इन्द्रिय-विषयाणि वा ?
आद्ये सर्वेषाम् अपि विषयैक्यात् तत्-कृतानन्द-तारतम्यस्य दुरुपपादता । अन्त्ये विषयाणां विषय-वासनावतैव अनुभाव्यत्वात्, तथा तद्-अनुभव-शीलानां तेषां न मुक्ततेति गत एव मुक्तानन्द-तारतम्य-वादः ।
न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः
इत्य्-उक्तेः ।
[[P81]]
किं च स्व-रूपत एव तत्-तत्-करण-फलानुभव-शीलानां यद्य् आनन्द-तारतम्यं स्यात् तदा स्व-रूपम् एव केषाञ्चित् ब्रह्मणि च विषये ईक्षद्-अन्ध-मन्थरम् इत्य्-आदि-विभागवत् स्यात् । तच् च आत्म-नामैक-रूप्य-पर-सर्व-प्रमाण-विरुद्धम् इति श्रुतेर् मुक्त-परतैव स्यात् ।
किं च सखायः परस्परं सुहृदः हरि-साक्षात्कार-निरस्त-तारतम्य-प्रयुक्त-द्वेषेर्ष्यादि-दोषाः इत्य् अर्थे मम माता वन्ध्येतिवत् व्याहतिर् अनिवार्या । आनन्द-तारतम्यस्य द्वेषेर्ष्याद्य्-अविनाभूतत्वात् । साक्षात् कृतो ऽपि हरिः विषमानन्द-प्रदो द्वेष्य एव स्यात् । तद्-दत्तो ऽप्य् आनन्दः परमानन्दो ऽपि न स्यात् । इतो ऽपि परानन्दस्य मुक्तान्तरे ऽपि सत्त्वात् मुक्ति-संसारयोर् अ-विशेषश् च स्यात् । स्वान्यानन्दोत्कर्ष-दर्शनस्य स्व-दुःखादि-जनकत्वावश्यं भावात् ।
नरके ऽपि वसन्न् ईशो नासौ दुःख-भुग्-इष्यते ।
नीचोच्चतैव दुःखादेर् भोग इत्य् अभिधीयते
इति त्वदीये भागवत-तन्त्रे नीचोच्चताया एव दुःखत्वोक्त्या, “निर्दुःखत्वं परानन्दः” इत्य् उक्तं निर्दुःखत्वम् अपि तव मुक्तौ न सिद्ध्येत् ।
सर्वम् अप्य् एतत् तत्-तद्-आत्म–स्व-रूपाणाम् एव तथा तथा विधत्वात्, तदाविर्भावस्यैव मुक्तित्वाच् चाविरुद्धम् इति चेत् — तर्हि ब्राह्मण-क्षत्रिय-वैश्यादि-जीवानाम् इव श्व-सूकर-चण्डालादि-जीवानाम् अपि तत्-तद्-आकारत्वात् तथा तथा ऽऽविर्भूत–स्व-रूपेषु मुक्तेषु परस्पर-कुत्सनादि-प्रसङ्गः । तत्र तद्-अ-भावे इहापि तद्-अ-भाव-प्रसङ्गश् च ।
रमणीयचरणाः रमणीयां योनिम् आपद्यन्ते कपूय-चरणाः कपूयां योनिम् आपद्यन्ते
इत्य्-आदि-श्रुति-व्याकोपश् च । स्व-रूपतः श्व-सूकरत्वादिकं श्लाघ्यं कर्म-कृत-श्व-सूकरत्वादिकं कुत्सितम् इत्य् अत्र नियामकाभावात् ।
[[P82]]
अतः हरि-साक्षात्कारवताम् अपि मुक्तानां हरि-विषये परस्परं च नित्य-द्वेषेर्ष्यादि-फलैव तव मुक्तिर् इति “सखायः” इत्य् अंशो ऽपि तवानुपपन्न एव । स्व-रूपत एव तव व्याघ्र-करभयोः महिषाश्वयोर् मूषिक-बिडालयोः परस्पर-द्वेष-कृत–स्व-भाव–वैरस्य तदाविर्भूत–स्व-रूपेष्व् अप्य् अन्-अपायात् । एतेषां जीवानां कर्म-विशेषेण ब्राह्मणादि-शरीर-परिग्रह-कृत-ब्रह्म-विद्या-लाभेन त्वन्-मते मुक्तौ पेशस्करी-वाक्य-बोधित-रीत्या मुक्तौ व्याघ्रादि-नैजाकाराविर्भाव इति हि त्वत्-सिद्धान्तः । मनो-जवेषु तद्-उपलक्षित-ज्ञानादि-गुणेष्व् असमा इति तद्-अर्थे संसारिष्व् इव ज्ञान-शक्त्य्-आदि-तारतम्यम् अनिवार्यम् । तच् च स्व-रूप–कृतम् इत्य् अपि “विज्ञान-घन एव” इत्य्-आदि-जीवात्म–स्व-रूप–निष्कर्ष-पर–स-कल–शास्त्र-विरुद्धम् । तस्मात् पापीयसाम् एवेदं मतम्, अयं च श्रुत्य्-अर्थो रोचते ।
यच् च — छान्दोग्ये नामादि-मुख्य-प्राणान्तम् आधिकारिक-देवता-तारतम्यं प्रतिपाद्य सर्वोत्कृष्टतया
भूमात्वे एव विजिज्ञासितव्यः । भूमैव सुखं नाल्पे सुखम् अस्ति
इति भूम-शब्दित-परमात्मन एव पूर्ण-सुखत्वम् अल्प-शब्दित-जीवे तन्-निषेध-पूर्वकं प्रतिपादितम् इति न मुक्तस्यानन्दतः परम-साम्यम् । तथा “इन्द्रियेभ्यः परा ह्य् अर्थाः” इत्य्-आदिना “पुरुषात् परं किञ्चित्” इत्य् अन्तेन तारतम्य-प्रतिपादन-पुरस्सरम् एव भगवत्-पारम्य-प्रतिपादनात् तारतम्यम् अ-प्रत्याख्येयम् इति, — तद् अत्यन्तासम्बद्धम् । छान्दोग्ये — “नाम ब्रह्मेत्य् उपासीत” इत्य्-आदिना नामादिषु ब्रह्म-दृष्टि-रूपोपासनानाम् एव तत्-तद्-विध्य्-अनन्तर-श्रुत-फलायमानानां तया तारतम्य-गन्धाप्रसङ्गात् कु-मतिमय-त्वदीय-फणितेर् न क्वचिद् अपि श्रति-विवक्षितत्वम् इत्य् उपपादनेन इहापि भूम-विद्या-प्रकरण-विरुद्धं त्वद्-अभिमतं तारतम्यम्, अपपदार्थत्वाद् अ-वाक्यार्थत्वाच् च न प्रसक्तिमत् ।
[[P83]]
“सुखं त्व् एव विजिज्ञासितव्यम्” इति सुख-रूपतया उक्तं ब्रह्म निरतिशय-विपुल-सुख-रूपम् इति भूम्न एव परस्य ब्रह्मणः “यच् चान्यत्” इति लक्षणतो विपुल-सुखोक्तौ “नाल्पे सुखम् अस्ति” इत्य् अनेन ब्रह्म-व्यतिरिक्ते विपुल-सुखं नास्ति इत्य् एवार्थः । न हि विपुल-सुख–स्व-रूपो जीव इति मत्-सिद्धान्तः । किन्तु मुक्त आत्मा धर्म-भूतानन्दादिमत्तया अपरिच्छिन्न इति — तच् च “सो ऽश्नुते” इत्य्-आदिभिः सिद्धम् एवेति भूम-विद्या-प्रकरणे मुक्तस्य मद्-अभिमत-धर्म-भूतानन्दतः परम-साम्यम् । त्वत्-तारतम्यानुगुणं वा न किञ्चिद् अपि शब्दतो ऽर्थतो वा दृश्यते । तथा इन्द्रियेभ्यः इत्य् अत्रापि उपासकस्य वशी-कार्य-परम्पराया एव वशी-कार्य-काष्ठा-रूप-परम-पुरुष-पर्यवसितायाः तत्र दुन्दुभ्य्-आदि-दृष्टान्तेन तत्-तद्-वशी-करणोपाय-प्रदर्शन-मुखेन च प्रदर्शितत्वात् ।
यच् च भागवते —
तम् एव यूयं भजतात्म-वृत्तिभिः यथा ऽधिकाराद् अवसिच्य यत्नतः
इति दर्शनात् तारतम्य-सिद्धिर् इत्य् उक्तं — तद् अपि त्वद्-भ्रम-विलसितम्; तस्य श्लोकस्य वर्णाद्य्-अधिकारानुगुणैहिक-तत्-तत्-फल-काम-परत्वात् ।
यच् च
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मते
इत्य् अपि श्लोको भागवत-स्थत्वेन त्वद्-अनुकूलतयोक्तः — स ईषणात्रय-विनिर्मुक्तानाम् अपि यतीनां नारायण-परता-दौर्घट्य-परः, न त्वद्-अभिमत-परः ।
अक्षण्वन्तः कर्णवन्तः अदध्नासः उपकक्षासः
इत्य्-आदिना त्वया ऽपि मुक्तेष्व् एव नारायण-परायणत्वोपपादनात् । अन्यथा
परस्पर-विरोधे हि न प्रमाणान्तर-स्थितिः
इति न्यायेन त्वदीयेषु मुक्तेषु केचित् कामोपभोग-परायणास् सन्तः शिश्नोदर-परायणा भवेयुः । तच् च सायुज्य-रूप–स्व-भाव–विरुद्धं चेति न वैदिक-गोष्ठीषु शोभते ।
[[P84]]
यच् च
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः
इति गीता-वचनस्य
गर्भ-जन्म-जराद्येषु स्थानेषु प्रविभष्यतः ।
निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणा ॥
भेषजं भगवत्-प्राप्तिः एकान्तात्यन्तिकी मता
इति विष्णु-पुराण-वचनस्य च त्वद्-विरुद्धस्य
अन्-अन्यातिशयाबाध्यं परं निर्वाणम् ऋच्छति
इति खाण्डिक्य-केशि-ध्वज-संवादस्य च ब्रह्म-मुक्तानन्द-साम्यार्थकस्य
अलं बुद्धि-विषयता-ऽवच्छेदक-जाति-विशेषाभ्युपगमेन तद्-अवच्छिन्नाह्लाद-सुख-भावैक-लक्षणा
इत्य् अर्थ-वर्णनं, — तत्रापि पिपीलिका-बालक-करि-कलभादीनां स्व-स्वाधिकारानुगुण-पयः-पान-जन्य-सुख-तारतम्ये सत्य् अपि तत्-तत्-पयः-पान-जन्य-सुखेषु उक्त-विध-जाति-विशेषम् आदाय निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणत्व-दर्शनं च त्वन्-मुक्तेर् अत्यन्त-हेयतावहम् । यथा दर्शनं हि जातिः मुक्तानुभव-सुखे अङ्गीकृता । न तु श्रुत्य्-आदि-बलात् । एवं चातदीयत्वेन ब्रह्म-तद्-गुणयोः न मुक्त-भोग्यत्वं, किन्तु “स्त्रीभिर् वा” इत्य्-आद्य्-उक्त-तत्-तद्-योग्य-विषय-रूप-भोग्यानाम् एवेति त्वन्-मते ऽपि यथा लोकम् आत्माभिमानानुगुणैव पुरुषार्थ-व्यवस्था वाच्या । स च मुक्ताव् अपि तव
व्याघ्रो वा वराहो वा सिंहो वा मशको वा यद् यद् भवन्ति तथा भवन्ति
इति,
पित्र्यं वा दैवं वा गान्धर्वं वा प्राजापत्यं वा
इत्य्-आदि-त्वद्-अभिमत-बोधकत्व-भ्रम-विषय-श्रुति-समधिगत-तद्-उपलक्षिताद्यतनोपलब्धि-विषयश् च वराह-कुक्कुट-वानर-महिष-करभादि-रूपेण मुक्तौ आविर्भूतात्म–स्व-रूपाणां तत्-तद्-आत्माभिमानवताम् इह यथोपलब्धि-तृण-पुरीषादि-भोग्य-विषय-कालं बुद्धि-विषयता-ऽवच्छेदक-जाति-विशेषावच्छिन्नाह्लाद-सुख-भावैक-लक्षणताम् आदायैव अद्यतनोपलब्ध्य्-अनुसारेण परिकल्पित-भगवत्-प्राप्तेः पर्यवसानात्, सत्य-कामत्वादिकम् अपि तव तद्-अनुगुणम् इति निर्दुःखत्व-परानन्द-लिङ्ग-भङ्गैः सर्वे ऽप्य् एते मुक्तात्मानः परम-समाः, यद् वा वृद्धि-ह्रास-रहित–स्व-स्वानुगुण-तत्-तद्-भोग्य-विषय-कालं बुद्धि-विषयता-ऽवच्छेदक-जाति-विशेषावच्छिन्नाह्लाद-सुख-भावैक-लक्षणा वा । एवं भूत-भोगेषु तत्-तद्-अनुगुण-सत्य-कामत्वादि-फल-भूतेषु भोगत्व-सामान्येन समानेषु वृद्धि-ह्रास-रहितेषु अलं बुद्धि-विषयता-ऽवच्छेदक-जाति-विशेषवत्सु पर्यवसितं तव “भोग-मात्र-साम्य-लिङ्गाच् च” इति सूत्रम् इति त्वदीय-मुक्तानां त्वद्-इतर-वैदिक-मुक्त-भोग-विलक्षण एव अत्यन्त-रहस्यतया परम-ज्ञातव्य-तारतम्य-शालि-भोग-विशेषस् त्वया सम्पादितः । अत एवम् अवसितार्थकत्वायोगात् “निरस्तातिशय” इत्य्-आदि आनन्दतः परम-साम्यार्थकम् एवेति तद्-बाधितम् अपि त्वदीयम् आनन्द-तारतम्यम् ।
[[P85]]
यच् च — मुक्त-तारतम्यानभ्युपगमे “वृद्धि-ह्रास-भाक्त्वम् —” इति सूत्र-द्वय-व्याकोप-प्रसङ्ग इति — तद् अपि त्वदीयाहार्य-भ्रमस्य त्वय्य् अपि सङ्क्रमण-कृतम् । “अम्बुवद्-अग्रहणात् तु” इति तत्-पूर्व-सूत्रस्य “अम्बुनीव परमेश्वरे आत्मात्मीयेभ्यः परम-प्रीति-पूर्वक-ज्ञानाभावात् न तथात्वम् — इदानीन्तन-तत्-सादृश्यं सम्यग् अभिव्यज्यते । तथा ह्य् उक्तं पाद्मे —
तयैव व्यज्यते सम्यक् जीव-रूपं सुखादिकम्
इति । तयैव — भक्त्यैव इत्य् अर्थः । तद्-अभावाद् एव इदानीं सांसारिक-दुःख-भाक्त्वम् । तेन तन्-माहात्म्य-ज्ञान-पूर्वक-सुदृढ-स्नेह-रूप-भक्तेर् एव मोक्षाख्य-फल-हेतुत्वम् इति पर्यवसन्नार्थकताम् उक्त्वा तत्र भक्ति-ज्ञानाव् एक-प्रकाराव् एवेति शङ्कायां “वृद्धि-ह्रास-भाक्त्वम् —” इत्य्-आदि-सूत्रम् । तस्यार्थः — तयोः बुद्धि-ह्रास-भाक्त्वम् एव । कुतः ? अन्तर्-भावात् । ब्रह्मादीनाम् उत्तम-भक्तानाम् अस्मद्-आदीनाम् अधम-भक्तानां भक्त-वर्गे अन्तर्-भावात् । एवं सत्य् एव उभयान् ब्रह्मादीन् अस्मद्-आदीन् प्रति सामञ्जस्यात् — साधनानुसारेण फल-दातृत्वस्य युक्तत्वाद् एवम् इति तयोः वृद्धि-ह्रासवत्त्वम् एवेति पूर्वोक्तावधारण-दार्ढ्याय । अन्यथा तयोर् एक-रूपत्त्वे विषम-फल-दातृत्वं भगवत्य् अ-समञ्जसं स्यात् । तद् अपि कुत इति प्राप्ते “दर्शनाच् च” इति । “अथात आनन्दस्य मीमांसा भवति” इत्य् आरभ्य मोक्ष-सुख-तारतम्यस्य श्रुताव् आम्नानात् । च शब्दात्
यथा भक्ति-विशेषो अत्र दृश्यते तथा मुक्ति-विशेषो ऽपि ज्ञानिनां लिङ्ग-भेदात् इति स्मृतिः समुच्चीयते
इति हि तत्-सूत्र-द्वयस्य त्वद्-भाष्यम् — तत्-सूत्राननुगुणम् अ-स्वारस्योपहतं द्वितीय-पादासङ्गतं च ।
तृतीये ऽस्मिन्न् अध्याये उपाय-भूतोपासन-विषय-चिन्ता । तत्रोपासनारम्भाभ्यर्हितोपायः प्राप्य-वस्तु-व्यतिरिक्त-वैतृष्ण्यं प्राप्य-चिन्ता चेति तत्-सिद्धय्-अर्थं जीवस्य लोकान्तरेषु सञ्चरतः जाग्रतः स्वपतः सुषुप्तस्य मूर्छतश् च दोषाः, परस्य ब्रह्मणः तद्-रहितता कल्याण-गुणाकरत्वं च प्रथम-द्वितीय-पादयोः प्रतिपाद्यते । तत्र प्रथमे पादे जाग्रतो जीवस्य दुःखित्वं ख्यापितम् । द्वितीये तस्य स्वाप्नाद्य्-अवस्था-परीक्षण-पूर्वकं ब्रह्म-व्यतिरिक्तेषु वैतृष्णयाय तेषु दोषान् निरूप्य ब्रह्म-प्राप्ति-तृष्णा-जननाय ब्रह्मणो निर्दोषत्व-कल्याण-गुणाकरत्वं प्रतिपाद्यते ।
[[P86]]
तत्र “न स्थानतो ऽपि” इत्य् अस्य गुण-सूत्रम् —
अत एव चोपमा-सूर्यकादिवत्
इति । एतस्य च विषयः
आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् ।
तथा ऽऽत्मैको ऽप्य् अन्-एक-स्थो जलाधारेष्व् इवांशुमान् ॥
इत्य्-आदि । एवम् अस्यार्थः — यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणः न तत्-प्रयुक्त-दोष-भाक्त्वम् अत एव सूर्यकाकाशवत् तत्र तत्र स्थितो ऽपि परः परमात्मा इति शास्त्रेषु उपमा क्रियत इति ।
अत चोदनम् — “अम्बुवद्-अग्रहणात् तु” इति सूत्रम् । अस्यार्थः — अम्ब्व्-आदिषु सूर्यादेः स्थित्य्-अ-भावाद् एव दोषान् अनुषङ्गः । परस्य तु “यः पृथिव्यां तिष्ठन्” इत्य्-आदिना स्थित्य्-अवगमात् न दृष्टान्त-तुल्यत्वम् इति । अत्रोत्तरम् उच्यते — “वृद्धि-ह्रास-भाक्त्वम् —” इति सूत्रेण । अस्यार्थः विषमेषु जलाधारेषु प्रतिबिम्बितो ऽप्य् अंशुमान् तद्-गत-वृद्धि-ह्रासादिभिः यथा न स्पृश्यते, तथा सर्वान्तर्भाववान् परमात्मा ऽपीति एतावन्-मात्रेण स दृष्टान्तः । तत् कुत इत्य् अस्योत्तरम् — “उभय-सामञ्जस्याद् एवम्” इति । अस्यार्थः — आकाशांशुमतोर् उभयोर् अपि दृष्टान्तत्वम् एव चेत् समञ्जसं भवति । परमात्मनः सर्वत्र स्थितेर् अ-परमार्थत्वे सति आकाश-दृष्टान्तो न घटते । तस्माद् उभय-दृष्टान्तानुयाय्य्-आकारः वृद्धि-ह्रासादि-दोषाभाव एव ।
तत्र दृष्टान्त-द्वयोपादानं किमर्थम् इति हि प्रष्टव्यम् । तत्रोत्तरं दोषानभिष्वङ्ग एव द्वाव् अपि दृष्टान्तौ । अंशुमद्-आकाशयोः दोषानभिष्वङ्गे तद्-अभिष्वङ्ग-हेत्व्–अ-भाव एव हि निमित्तम् । तत्र देश-विप्रकर्षाद् अंशुमति दोषास्पर्शः । स्व-भाव–विप्रकर्षाद् आकाशे । उभय-विप्रकर्षो ऽपि दोषास्पर्श-हेतुर् इति दर्शयितुं दृष्टान्त-द्वयोपादानम् । दार्ष्टान्तिके परमात्मनि तद्-उभय-हेत्व्–अ-भाव–कृत एव दोषानभिष्वङ्गः । श्रूयते ह्य् अस्याकाश-दृष्टान्तो ऽपि । सर्वांशे साधर्म्याभावे ऽपि विवक्षितांश-साधर्म्य-मात्रात् दृष्टान्तोपादानात् । दृश्यते हि सिंहो माणवक इत्य्-आदौ इत्य् अर्थकः “दर्शनाच् च” इत्य् अंशः ।
[[P87]]
एवं स्वर-सङ्गतयोः सूत्रयोः त्वदीयैर् उक्तो ऽर्थस् तावत् प्रथमं सूत्राक्षराननुगुणः । अम्बुनो भक्ति-विषयत्वं न कस्यापि सम्मतम् । त्वया
महत्त्व-बुद्धिर् भक्तिस् तु स्नेह-पूर्वा ऽभिधीयते ।
तथैव व्यज्यते सम्यग् जीव-रूपं सुखादिकम्
इत्य् उदाहृत-पाद्म-वचन-सिद्ध-स्नेह-पूर्वक-महत्त्व-बुद्धि-विषयत्वस्य अ-चेतन-भूताम्बुनि दुरुपपादत्वात् ।
अत एव ग्रहण-शब्दो ह्य् अत्र न भक्त्य्-अर्थकः । ज्ञान-मात्रार्थकत्वे बाधकाभावात् । भक्ति–स्व-रूप–विचार-परत्वाद् अस्य पादस्य तत्-पर–सूत्र-स्थ–ग्रहण-शब्दः भक्ति-पर इति हि त्वद्-भ्रमः । स तावत् अन्यार्थ-प्रवृत्तं पादं सूत्रं वा नान्यथा कर्तुम् ईष्टे । मदीय-श्री-भाष्य-कार-सूक्ति-विधेयैव पादयोर् अनयोः प्रवृत्तेः ।
“न तथात्वम्” इत्य् अस्य च इदानीं न तत्-सादृश्यं सम्यग् अभिव्यज्यते इत्य् अर्थो ऽसम्बद्धः । “अत एव चोपमा” इति सूत्रे जीवात्मनां तत्-सादृश्यस्याविवक्षितत्वेन इह तद्-अ-प्रसक्तेः । सूर्यादेः परमात्मनश् च उपमानोपमेय-भावस्यैव “आकाशम् एकं हि यथा” इति प्रमाणानुसारेण तद्-विषयत्वात् ।
[[P88]]
एवं हि “अत एव च” इत्य् अस्य त्वद्-अधिकरणम् । “न स्थानतो ऽपि” इत्य् अधिकरणे तव सर्वावस्था-प्रेरकत्वेन देहे अक्ष्य्-आदि-स्थं ब्रह्म विश्व-तैजस-प्राज्ञादि-रूपं ब्रह्मणो भिन्नं, स्थान-भेदात् इति पूर्व-पक्षं प्रापय्य
स्थान-भेदे ऽपि सर्वेषु भूतेषु तम् एव ब्रह्मेत्य् आचक्षते
इत्य् अभेदाम्नानां न हि भिन्नं विश्वादि-रूपं ब्रह्मणः । यथा सूर्य-प्रतिबिम्बः सूर्येण नातिभिद्यते तद्वत् । अत्र च प्रमाणम् —
एक-रूपः परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते
इति वचनम् । अतः परमेश्वर-रूपाणां मिथो न कश्चिद् भेद इति सिद्धे
विश्वाद्यास् ते विष्णुना यद्य् अ-भिन्नाः
जीवो ऽपि स्याच् चेतनत्वाद् अ-भिन्नः ।
भिन्नस् सिद्धः प्राग् अयं न्यायतश् चेत्
भिन्नाभिन्नस् त्व् अत्र को वा विरोधः ॥
इति “अत एव” इत्य् अस्य अधिकरणस्य पूर्व-पक्षं प्रापय्य,
मैवं तत्-प्रतिबिम्बस्य तद्-अ-भेदो न युज्यते ।
सूर्यादि-प्रतिबिम्बानां बिम्बाभेदो हि नेष्यते
इति ।
तत् उभयम् अप्य् अधिकरणम् अ-सम्बद्धम् । ध्येयाकारस्य विश्वादित्वे तस्य आकारान्तरवद्-अ-सन्निहित-बिम्बापेक्षया प्रतिबिम्बत्वायोगात् । न ह्य् अ-सन्निहितस्य व्यवहितस्य बिम्बस्य प्रतिबिम्बो ऽस्ति । न चास्ति बिम्ब-प्रतिबिम्बयोर् आकारभेदः, विश्वादेः परस्य च ब्रह्मण आकार-भेदः सर्व-सम्प्रतिपन्नः । अतः न तयोः बिम्ब-प्रतिबिम्ब-भाव-प्रसङ्गः । अथापि तद्-अभ्युपगमेत्य् अधिकरण-न्यायेन विश्वादेः पर-ब्रह्म-भेदः दुर्वारः । अतो “न स्थानतो ऽपि” इत्य् अधिकरणम् अ-सम्बद्धम् ।
अत एव यस्माद् एव परमेश्वर-रूपाणां मिथो न कश्चिद् भेदः अत एव जीवस्यापि तथा स्याद् इति पूर्व-पक्षं, तस्य प्रतिबिम्बत्वम् उक्त्वा च शब्देन भेदं दर्शयति । “रूपं रूपं प्रतिरूपो बभूव”
बहवस् सूर्यका यद्वत् सूर्यस्य सहशा जले
इत्य्-आदिना तत्-प्रतिबिम्बस्य जीवस्य पर-ब्रह्माभेदायोग इति सिद्धान्त-निर्धारणम् अप्य् अ-सम्बद्धम् । नीरूपयोः निरवयवयोः जीव-ब्रह्मणोः बिम्ब-प्रतिबिम्ब-भाव-मुखेन जीवात्मनि ब्रह्म-सादृश्योक्तिर् अ-विवक्षितैव । तेन “अम्बुवत्” इति सूत्रे तद्-अ-प्रसक्त्या “न तथात्वम्” इत्य् अस्य अद्यतन-तत्-सादृश्यं सम्यग् अभिव्यज्यते इत्य् अर्थकत्वम् अ-युक्तम् ।
[[P89]]
तथा
अम्बुनीव ब्रह्मणि भक्ति-सत्त्वे तत्-सादृश्यं स्वात्मनि अभिव्यज्यते
इति भक्तेः प्रसक्तिं सम्पाद्य “वृद्धि-ह्रास-भाक्त्वम्” इत्य् अस्मिन्न् अधिकरणे
नाधिकारिकेष्व् इयं भक्तिस् तारतम्येन वर्तते ।
तस्यां तत्-कल्पना-भावात् तन्-मात्रानुक्ति-सम्भवात्
इति पूर्व-पक्षं प्रापय्य, —
मैवं; ब्रह्मादीनां मुक्ताव् आनन्द-तारतम्यस्य उपपादनाय कल्प्या स्मृता च भक्तिः तारतम्यवती
इति सिद्धान्तोक्तिर् अप्य् अ-सम्बद्धैव । “यम् एवैष वृणुते” इति श्रुतौ “यम्” इत्य् अनेन ब्रह्मणि निरतिशय-प्रीति-मत एव ब्रह्मणा वरणीयत्वस्य तस्यैव ब्रह्म-लाभस्य च उक्तत्वेन यत्किञ्चित् प्रीतिमत एव तल्-लाभे उपासन-दशायाम् एव तत्-सत्त्वेन तद्-आरम्भ-तन्-मध्यादि-समय एव तल्-लाभ-प्रसङ्गेन च भक्ति-तारतम्यवतो मुक्तिर् इति पक्षस्यैव सिद्धेः ।
यद्यप्य् अस्ति भक्तेः विषयतो विशेषः । तथापि न भक्ति-तारतम्यम् ।
महत्त्व-बुद्धिर् भक्तिस् तु स्नेह-पूर्वा ऽभिधीयते
इति त्वद्-उदाहृत-विधयास् तस्याः सर्व-समत्वावश्यं भावात् । भक्ति-विषये गुणादिषु अधिक-विषयता अस्ति चेद् अपि प्रीति-तारतम्याभावेन न भक्ति-तारतम्यस्य तत्-कृत-मुक्ति-तारतम्यस्य च सम्भवः । “यथा क्रतुः” इति श्रुति-सिद्ध-तत्-क्रतु-न्याये ऽपि तथैवेत्यतः प्रेत्य भवतीति श्रवणात् तद्-अ-प्रसङ्गात् । “सर्वं ह पश्यः पश्यति” “विपश्चित्” इत्य्-आदि-श्रुति-विरोध-प्रसङ्गाच् च ।
अत एवोक्तम् आचार्यैः —
उपासित-गुणादेर् या प्राप्ताव् अप्य् अ-बहिष्-क्रिया ।
सा तत्-क्रतु-नय-ग्राह्या नाकारान्तर-वर्जनम् ॥
इति ।
अतो न कथञ्चिद् अपि भक्तित्वाकार-भेदः; न वा मुक्ति-भेदः ।
किं च अस्मिन्न् अधिकरणे मुक्तौ परम-साम्य-वाद्य् एव पूर्व-पक्षी । तं प्रति
अथात आनन्दस्य मीमांसा भवति
इत्य् आरभ्य ब्रह्म-पर्यन्तेषु मुक्ति-कालीन-सुख-विशेष-दर्शाद् इति “दर्शनात्” इत्य् अस्यार्थम् अन्-उन्मत्तः न वक्तुम् ईहते, पर-सम्प्रतिपन्न एवार्थे दर्शनाद् इत्य् अस्य वाच्यत्वात् । न हि मुक्ति-कालीन-विषम-फल-परा सा श्रुतिर् इति तस्य सम्प्रतिपत्तिर् अस्ति । मुक्त-सामान्य एव तद्-आनन्दान्वय-बोधकतयैव तस्याः सम्प्रतिपन्नत्वात् । त्वद्-अर्थे उपक्रम-विरोधादि-रूप-दुरुद्धर-बहु-दोषाणाम् उक्तत्वाच् च ॥
[[P90]]
अत एव “च” शब्द-सूचिता त्वद्-उदाहृता श्रुतिर् अपि विरोधाधिकरण-न्यायेनोपहता न तत्र प्रमाणम् । अतः अत्र मुक्ति-तारतम्यान् अभ्युपगमे “अम्बुवद्-अग्रहणात् तु” “वृद्धि-ह्रास-भाक्त्वम्” — इति सूत्र-द्वय-व्याकोप इत्य् अप्य् आग्रह-मात्र-विलसितम् । इत्य् अलं अति-दुर्गन्ध-जीर्ण-कन्था-सदृश-माध्व-भाष्याधिकरण-गणे दोष-चिन्तनेन ॥
अतो भक्ति-तारतम्य-कृत-तारतम्यस्य एवम् अ-सम्बद्धत्वात्, तत्-प्रयुक्त-मुक्ति-तारतम्य-हेतूनाम् अप्य् आभासत्वस्य उपपादयिष्यमाणत्वात्, स्व-रूप–तारतम्य-कृत-मुक्ति-तारतम्यस्य च निरसिष्यमाणत्वात्, तैत्तिरीयक-बृहद्-आरण्यकैतरेयादि-श्रुतिभिः आनन्द-तारतम्य-प्रतिपादनस्य च भ्रमत्वात्,
दृढ-पूर्व-श्रुतो मूर्खः धर्माणाम् अ-विशारदः ।
वृद्धान् अपृच्छन् सन्देहान्धः श्वभ्रम् इव र्छति ॥
अन्यथा मन्द-बुद्धीनां प्रतिभाति दुरात्मनाम् ।
कु-तर्क-व्याल-दष्टानां विभ्रान्तेन्द्रिय-वादिनाम् ॥
इत्य् उक्त-विध एव मुक्ति-तारतम्यस्य श्रुति-स्मृति-समधिगतत्व-वादः ।
अत एवोक्तम् अस्मद्-आचार्यैः —
चित्रं विधेर् विलसितं त्व् इदम् आविरस्ति
दुष्टात्मनाम् अयम् अहो किल दुर्विपाकः ।
यत् केचिद् अत्र भवतीं श्रुतिम् आश्रयन्तो ऽप्य्
अर्थे कु-दृष्टि-विनिविष्ट-धियो विनष्टाः ॥
बाह्याः कु-दृष्टय इति द्वितये ऽप्य् अपारं
घोरं तमस् समुपयन्ति नहीक्षसे तान् ।
जग्धस्य कानन-मृगैः मृग-तृष्णिकेप्सोः
कासार-सत्त्व-निहतस्य च को विशेषः ॥
इति ।
इति विजयीन्द्र-पराजयो मुक्तानन्द-तारतम्यस्य श्रुति-स्मृत्य्-आदि-शब्द-प्रमाण-समधिगतत्व-वाद-भङ्गः चतुर्थः
[[P91]]