अत्र केचिन् माध्वाः मास्तु धर्म-धर्मिणोश् शुद्धाभेदः भेदाभेदस् तु स्यात् इति वदन्ति । तथा हि सर्वम् एव वस्तु-जातं प्रतीति-व्यवस्थाप्यम् । तत्र द्रव्यम् अ-द्रव्यं च भिन्नाभिन्नं प्रतीयते । रूपी घटः रूपवान् घटः इति मत्वर्थीय-प्रत्यय-सापेक्ष-सामानाधिकरण्याद् अ-भिन्नम्, नीलो घट इति तन्-निरपेक्ष-सामानाधिकरण्याद् अ-भिन्नं च । न हि शीतोष्णयोर् इव नियमेन भिन्नाधारत्वं न हि वा तमः-प्रकाशयोर् इव नियमेन सहानवस्थानं न वा तृण-दहनयोर् इव नाश्य-नाशक-भावः क्वचिद् भेदाभेदयोर् उपलव्ध-चरः । प्रत्युत नीलो घट इत्य् एकत्व-गोचर एव प्रत्ययः मृद् अयं घट इतिवत् । एवं च नीलो घट इति प्रत्यक्ष-प्रत्ययात् नीलो घट एक इत्य् एक-शब्दानुविद्ध-प्रत्ययात् प्रथम-पिण्ड-ग्रहणे अ-भेदेन ग्रहणाच् च नील-घटयोर् अ-भेदः रूपी रूपवान् इति प्रत्ययाच् च भेद इति भेदाभेदाव् अवश्याभ्युपगन्तव्यौ ॥
किं च द्रव्याद्रव्याव् अ-भिन्नौ पृथक् सिद्धि-विधुरत्वात् नियमेन सहोपलब्धिमत्त्वात् मत्वर्थीय-प्रत्यय-निरपेक्ष-सामानाधिकरण्याद् इति व्यतिरेकि-हेतुभिर् अपि गम्यः । न हि सु-सूक्ष्मम् अपि निरीक्षमाणैः इदम् अस्मात् पृथक् सिद्धम् इति द्रव्याद्रव्यौ भेदेनोपलभ्यते । यथा सम्प्रतिपन्नैक्ये एकत्व-बुद्धिर् उपजायते तथा रूपादिमत्य् अपि द्रव्ये एकत्व-बुद्धिर् अ-विशिष्टोपजायत इति प्रत्यक्षानुमानाभ्यां सिद्धे द्रव्याद्रव्य-भेदाभेद-वादे न को ऽपि दोष इति ॥
अत्रोच्यते । यस्त्व् अ-बाधितो ऽनन्यथा-सिद्धश् च प्रत्ययः स एवार्थं व्यवस्थापयति न तु तद्-विरुद्धः । अन्यथा त्वदीय-भाष्य-पूर्व-पक्ष-सिद्धान्त-प्रत्ययाभ्याम् अपि परस्पर-विरुद्धार्थ-द्वयाभ्युपगमापत्तेः । “अहम् ईश्वरः न अहम् ईश्वर” इति प्रत्ययाभ्याम् अपि जीव-परयोर् अ-भेद-भेदयोर् आपत्तेः । “तत् त्वम् असि”, “अयम् आत्मा ब्रह्म”, “य आत्मनि तिष्ठन्”,
विज्ञान-मयात् अन्यो ऽन्तर आत्मा ऽऽनन्दमयः
इति भेदाभेद-श्रुतिभ्याम् अपि जीव-ब्रह्मणोर् भेदाभेदयोर् आपत्तेश् च । अतो यथा बाधान्यथा-सिद्ध्य्-उपहतास् तयोर् अ-भेदं न सम्पादयन्ति एवं नीलो घट इत्य्-आदि-प्रत्यया अपि घटे नैल्यं घटस्य नैल्यम् रूपी घटः रूपवान् घटः इत्य्-आदि-प्रत्ययैर् अ-बाधितैः अनन्यथा-सिद्धैश् चोपहताः न त्वद्-अभिमतैक्य-साधका इति तुल्यम् ॥
[[P23]]
न चात्र विपरिवर्त-प्रसङ्गः । नीलो घट इत्य् अस्यैव नैल्य-घटयोर् विशेष्य-विशेषण-भाव-गोचरतया तयोर् भेद-ग्रहत्वात् । तथा नीलो घट एक इति प्रत्ययो ऽपि घटस्यैव एकत्व-सङ्ख्या-ऽन्वय-योग्यतया नैल्येनैव तया ऽपि घट एव विशेषित इति विशेषण-विशेष्य-भाव-प्रत्ययतया भेद-ग्रह एव । अनयोर् ऐक्यं तथैव प्रतीत्या पराहतम् इति न विपरिवर्तावकाशः । इदम् इत्थम् इत्य् एव प्रथम-ग्रहणात् तस्मिन्न् अ-भेदेन ग्रहणम् अपि बाधितम् । तस्यैव विशेषण-विशेष्य-भाव-ग्रह-रूपत्वात् । सहोपलम्भ-नियमो ऽपि भिन्नयोर् एव सह-भावात् भेद-साधकः ।
कस्माच्चित् कस्यचिद् विलक्षणत्वं हि तस्मात् तस्य भेदः । तद्-विपरीतत्वं चाभेदः । तयोस् तथाभावातथाभाव-रूपयोः एकत्व-सम्भवम् अन्-उन्मत्तः को ब्रवीति? अतश् शीतोष्णादिवद् एव भेदाभेदाव् एकत्र न सम्भवत
इति न प्रत्यक्ष-गम्यः भेदाभेदः ॥
नापि व्यतिरेकि-हेतुभिः । तेषाम् अपि घटे नैल्यम् इत्य्-आदिभिर् एव बहुभिः बाधितत्वात् । पृथक् सिद्धि-विधुरत्व-लिङ्गं तु अ-पृथक् सिद्ध-विशेषणताम् एव साधयेत् रूपादिषु न विशेष्याभेदम् । अन्यथा क्वचिद् अपि विशेष्यस्य इतर-व्यावृत्त्य्-अभाव-प्रसङ्गात् स्वाभिन्नस्य स्वेतर-भेदाप्रयोजकत्वात् ॥
द्वितीयश् च हेतुर् विरुद्धः । भिन्नयोर् एव सहोपलब्ध्य् अर्हतया तन्-नियमस्य भेद-नियम-साधकत्वात् । न च रूपादेर् धर्मिणश् च सहोपलम्भ-नियमः । पति-शङ्खादि-भ्रमे रूपान्तरेणापि शङ्खादि-ग्रहात् ॥
तृतीयश् च हेतुर् अ-प्रयोजकः । भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम् एकार्थ-वृत्तित्वम् इति तल्-लक्षणेन विशेष्यैक्य-मात्रेणैव तस्य हेतोश् चरितार्थत्वात् । भिन्नत्वेन त्वद्-अभिमत-शरीरात्मनोर् अपि देवो ऽहम् इति सामानाधिकरण्य-प्रतीति-विषयत्वेन व्यभिचरितश् च । यत्र तु सम्प्रतिपन्नम् ऐक्यं तत्राबाधितान् अन्यथा-सिद्ध्य्-एक्यावगाहि-प्रत्यक्ष-बुद्धिर् एवोपाधिः । प्रकृते चोक्तोपाधि-व्यतिरेकात् साध्य-व्यतिरेकस्यैव साधनात् तेन सत्-प्रतिपक्षतया ऽयं हेतुः ॥
[[P24]]
ननु नीलो घट इत्य् एव इह ऐक्य-बुद्धिर् इति नोपाधि-व्यतिरेक इति चेत् — न; अस्याः घटे नैल्य-रूप-विशेषण-वैशिष्ट्य-गोचरायाः तद्-उभय-भेद-गोचरत्वेन ऐक्यागोचरत्वात् । नीलो घट इति शाब्द-प्रत्ययवद् अयं च प्रत्ययः तद्-उभय-भेद-गोचर इत्य् अ-सकृद् उक्तम् । अतो हेतु-त्रयस्यापि कालात्ययापदिष्टत्व सोपाधिकत्वाप्रयोजकत्व-सत्-प्रतिपक्षि-तत्वादिभिः दुष्टत्वाद् अनुमानम् अपि न तयोर् अ-भेदे मानम् ॥
ननु त्वन्-मते यथा उपादानाभिन्नम् उपादेयम् तथा मन्-मते ऽप्य् अ-द्रव्यं द्रव्याभिन्नम् इति चेत् – तद्-उभय-भेदकत्वेन त्वद्-अभिमत-बुद्धि-शब्दान्तरादेर् अवस्थान्तरम् आदायान्यथा सिद्धतया अ-बाधित-प्रत्यभिज्ञा-प्रत्यक्षात् श्रुति-तद्-अर्थापत्तिभ्यां च उपादानाभिन्नम् उपादेयम् इति स्वावसरे उपपादयामः । न हि तद्वद् अस्ति तव किञ्चिन् मानम् अ-द्रव्यस्य द्रव्याभेदे । तत्-मानत्वेन प्रसक्तानां दूषितत्वात् ॥
यद्य् अपि कारणात्मना जात्यात्मना चाभेदः कार्यात्मना व्यक्त्य्-आत्मना च भेद इति काणादस्य भेदाभेद-प्रवर्तन-सरणिः परिदृष्टा; तथापि रूपादि-गुण-तद्-आश्रययोः जीवात्मनस् तद्-धर्माणां च दिव्यात्म–स्व-रूप–तद्-गुणयोः दिव्य-विग्रह-दिव्यात्मनोश् च भेदाभेद-वादे न का ऽपि सरणिः आकार-भेदादि-विरोध इति वादायोन्मज्जति ॥
ननु “आनन्दो ब्रह्म” इत्य् अभेद-निर्देशात् “आनन्दं ब्रह्मण” इति व्यतिरेक-निर्देशात् “विज्ञानं यज्ञं तनुते” इति जीवे ऽपि विज्ञान-शब्द-व्यपदेशात् “जानात्य् एवायम्” इति ज्ञानाश्रयत्व-व्यपदेशाच् च तथा नीलो घट इति निर्देशाद् घटे नैल्यम् इति निर्देशाच् च तेषु भेदाभेदे अभ्युपगन्तव्ये सति अ-भेद-निर्देश-कृतस् तयोर् अ-भेदः व्यतिरेक-निर्देश-कृतस् तयोर् भेद इति चेत् — मैवम्; उक्तानाम् अ-भेद-निर्देशानां आनन्दत्वादिना स्व-रूप–निर्देश-रूपतया आनन्दादि-धर्म-तद्-धर्मिणोर् अ-भेद-निर्देश-रूपत्वाभावात् प्रमाणान्तर-बाधितस्य तद्-उभयाभेदस्य एवं विध-निर्देशेन बोधयितुम् अ-शक्यत्वाच् च ॥
एवम् अ-विरोध-निर्वाहक-विधुरो भेदाभेदः सप्त-भङ्गीम् अप्य् अङ्गीकारयतीति तव तन्-मत-प्रवेशम् अन्तरा दुस्साधः । अनयोर् भेद-व्यवहार-निर्वाहक-विशेष-बलाद् एव भेदाभेदयोर् अप्य् अ-विरोध-निर्वाह इति चेत् स तयोः किं भेद-व्यवहार-मात्रस्य निर्वाहकः उत् तद्-उभय-भेदस्यापि? आद्ये न भेदाभेद-सिद्धिः, व्यवहार्य-भेदस्यावास्तवत्वात् । विशेषस्यापि तद्-अकल्पकत्वाच् च । द्वितीये त्व् अपसिद्धान्तः ॥
[[P25]]
किं च त्वदीयो विशेषः भिन्नयोर् अ-भेदयोर् अ-भेद-निर्वाहको ऽपि नेति कथं तस्माद् अ-विरोध-निर्वाहः?
किं च अयं विशेषः स्व-रूपाश्रितः उत गुणाश्रितः? स्व-रूपाश्रितो ऽपि भिन्नः उताभिन्नः? अथवा भिन्नाभिन्नः?
एवं गुणाश्रयत्वे ऽपि विकल्पनीयम् । तत्र आद्ये न प्रथमः; स्व-रूपाश्रितस्य भेद-प्रतिनिधेः तद्-उभय-भेदकत्व-प्रसङ्गात् । गुणान् आश्रितस्य तद्-भेद-व्यवहारं प्रत्यप्रयोजकत्व-प्रसङ्गाच् च ॥
न च स्व-रूपाश्रितस्यापि तद्-अ-भिन्न-गुण-भेद-कार्य-कारित्वं सम्भवतीति शङ्क्यम् । गुण-गुणि-भेद-व्यवहारकस्य तद्-अ-भेद-प्रयुक्त-कार्यनिर्वाहकत्वात् । न च गुण-गुण्य-भेदं शास्त्र-प्राप्तम् उपजीव्य स्वयं गुण्याश्रितो विशेषः स्वाश्रयाभिन्नानां गुणानां भेद-व्यवहार-मात्रं निर्वहतीति वाच्यम् । गुण-गुण्य-भेदस्योपजीवनेन गुण-गत-भेद-व्यवहार-प्रयोजकत्वे उक्त-विरोधान् उद्धारात् । तद्-अ-भेदोपजीवकस्य तद्-विरोधि-गुण-गत-भेद-व्यवहार-प्रयोजकत्वं ह्य् अन्-उचितम् ॥
किं च परस्पर-भिन्नैर् गुणैः एकस्य गुणिन अ-भेदो ऽपि न घटत इति तद्-अ-भेदोपजीवनेनेत्य् उक्तिर् अप्य् अ-युक्ता । तद्-अनुपजीवनेनैव भेद-व्यवहार-प्रयोजकत्वे तस्य गुणि-गत-भेद-व्यवहार-प्रयोजकतैव वा किं न स्यात्? गुण-गत-भेद-व्यवहारो निर्निबन्धनश् च स्यात् ॥
यदि गुणवत् गुणि-धर्मो विशेषः स्वत एव गुणि-भिन्नः, तर्हि गुणानाम् अपि तद्वद् एव गुणि-भेदस्य को निवारकः? यदि विशेषान्तरेण, तर्ह्य् अन्-अवस्था । तत्र न द्वितीयः । स्व-रूपाभिन्नस्य तद्-अ-निर्वाह्य-कार्य-करत्वायोगेन तद्-वैयर्थ्यात् । निर्वाहकत्वे स्व-रूपात् तस्य भेद एव स्यात्, तद्-अ-निर्वाह्य-निर्वाहकस्यातद्-रूपत्वात् । गुणि-धर्म इति आश्रयाश्रयि-भावोक्तौ अ-भेद-व्याघातो ऽपि ॥ नापि तत्र तृतीयः, भेदाभेदयोर् विरोधात् । यदि स्वत एव गुणि-विशेषयोः ताव् अ-विरुद्धौ तर्हि गुण-गुणिनोर् अपि स्वत एव ताव् अ-विरुद्धाव् इति विशेष-बलात् तयोर् अ-विरोध-निर्वाहकत्वोक्तिर् अ-युक्ता ॥
[[P26]]
एवं स्वत एव तयोर् अ-विरोधे सर्वस्यापि स्वत एव परस्पर-विरुद्धानेकात्मकत्वस्याप्य् अ-विरोधेन घटादाव् अपि घटत्वम् अ-घटत्वं घटाघटत्वं घटाघट-विलक्षणत्वं घटत्वे सति घटाघट-विलक्षणत्वं अ-घटत्वे सति घटाघट-विलक्षणत्वं घटाघटत्वे सति घटाघट-विलक्षणत्वम् इत्य्-आदि-विधया सर्वत्र सप्त-भङ्गी चाविरुद्धा स्यात् ॥
न च तत्रोपपादकाभावः । घटो ऽस्तीति प्रतीतेः घटोऽस्तीति वक्तुं योग्यस् स्यात् घटो नास्तीति प्रतीतेः नास्तीत्य् अपि वक्तुं योग्यस् स्यात् । अत एव घटः अस्ति च नास्ति चेति वक्तुम् अपि योग्यस् स्यात् इत्थं त्रयो भङ्गाः । अत एव अस्तीत्य् एवं वक्तुम् अ-योग्यस् स्यात् नास्तीत्य् एव च वक्तुम् अ-योग्यस् स्यात् अस्ति च नास्ति चेति च वक्तुम् अप्य् अ-योग्यस् स्यात् युगपद् एव सर्व-समुच्चयासम्भवात् इति च त्रयो भङ्गाः । अतस् सर्वथा अ-वक्तव्यश् चेत्य् एको भङ्ग इति त्वदीय-भेदाभेदोपपादन-न्यायेन सप्त-भङ्ग्य्-उपपादन-सम्भ्रमस्य विशेषम् आदाय एतद्-विरोध-परिहरणवत् तव तद्-विरोध-परिहारस्यापि सु-वचत्वात् ॥
उक्तं हि भेदाभेद-वादस्य सप्त-भङ्गी-वाद-साम्यम् अस्म्द्-गुरुभिर् भट्टारकैः –
अङ्गी-कृत्य तु सप्त-भङ्गि-कुसृतिं स्याद् अस्ति-नास्त्य् आदिकां विश्वं त्वद्-विभवं जगज्-जिन-मते ऽनेकान्तम् आचक्षते । भिन्नाभिन्नम् इदं तथा जगद्-इषे धर्मेण धर्म्य्-आत्मकं वन्ध्या मे जननीतिवत् खलु विभो रङ्गेन्द्र तद्-बाधितम् ॥
इति ॥
नापि द्वितीये प्रथमः । गुणाद् भेदे संस्थानि-गत-संस्थानवत् गुण-गत-गुणि-भेदकत्व-प्रसङ्गात् । गुणानां गुण्य-भिन्नत्वे गुण्य्-अनधिकरण-धर्माश्रयत्व-व्याघातात् तद्-अ-भिन्नस्य तद्-अनधिकरण-धर्माश्रयत्व-व्याघातात् । अथ विशेष एव गुणानां गुणि-भेदम् अप्य् आपादयन् गुणि-निष्ठं गुण-प्रतियोगिक-भेदं नापादयिष्यतीति मतम् — तद् अप्य् अ-युक्तम् । वास्तव-भेद-प्रयुक्त-गुणि-भेदस्य दुर्वारत्वात् ॥
ननु गुण-गतो विशेषः वस्तुतो गुणं न भिनत्ति येन गुण-भेद-प्रयुक्त-गुणि-भेदापदनं युक्तिमत् स्यात् । किन्तु भेद-प्रयुक्तं व्यवहार-मात्रं प्रयोजयतीति चेत् — ; किम् असौ विशेषः मोक्षे ऽप्य् अनुवर्तते उत ततः प्राग् एव निवर्तते? आद्ये शुक्ति-काया रजतात्मतेव अ-भिन्नानाम् अपि गुणानां भिन्नत्वेन मुक्ताव् अपि व्यवहारं सम्पादयन्न् असौ विशेषः उन्मादम् एव भवतां सम्पादयेद् इति त्वद्-अभिमत-मुक्ति-दशायाः भ्रम-दशात्वम् एव स्यात् ॥
[[P27]]
चरमे विशेष-निवृत्तौ गुण-गुणि-भेद-व्यवहारस्याप्य् उच्छेदे नैर्गुण्यं जीव-ब्रह्मणोर् आपद्येत । तथा च “एवम् अप्य् उपन्यासात्” इति व्याकोपः । वास्तवं नैर्गुण्यम् आदाय प्रथमे ऽपि पक्षे सूत्र-व्याकोपो दुष्परिहरः ॥
न द्वितीये द्वितीयः । गुणाभिन्नस्य विशेषस्य गुण-गुणि-भेद-व्यवहार-रूप-कार्य-करत्वे गुणानाम् एव तद्-उपपत्त्या विशेष-वैयर्थ्यात् । न च गुण-निर्वाह्य-भेद-कार्य-करत्वेन सार्थकम् । तद-अ-निर्वाह्य-कार्य-करस्य तद्-भेदायोगात् ॥
नापि तत्र तृतीयः । भेदाभेदयोर् विरोधात् । अ-विरोधे स्वानिष्ठ-भेदाभेदाविरोधवत् स्वाश्रय-निष्ठ-भेदाभेदाव् अ-विरुद्धाव् इति किम् अपराद्धं सप्त-भङ्ग्येत्य् उक्तम् अतो न कथंचिद् अपि धर्म-धर्मिणोर् अ-भेद-सम्भवः ॥
किं च त्वद्-अभिमतम् आनन्द-तारतम्यम् आनन्दाद् भिद्यते, न वा? आद्ये तद्वद् एव तत्-सामान्याद् इति न्यायेन धर्मान्तराणाम् अपि धर्मि-भेदस् सिद्धः । द्वितीये सर्वेषाम् अप्य् आनन्दः आनन्दत्व-रूपात् स्व-रूपाद् अ-विशिष्ट इति आनन्द-तारतम्यस्यैव क्वचिद् अप्य् अ-सम्भवः । आनन्दत्वे ऽप्य् एवं विकल्पे उक्त-दोषात् न तेनाप्य् आनन्द-तारतम्य-वादावकाशः ॥
द्वितीये बद्धानन्द-तारतम्यस्यापि दुरुपपादता च । अन्ततो मुक्तानन्द-तारतम्योक्तिः स्व-रूप–तारतम्य एव विश्रान्तेति चेत् तत्राप्य् एवं विकल्पित-दूषणाविशेषे गगन-कुसुमायिता तारतम्य-कथेति “यद्य् अन्यो ऽस्ति परः को ऽपि”, “निर्दोषं हि समं ब्रह्म”,
शुनि चैव श्व-पाके च पण्डितास् सम-दर्शिनः,
“ज्ञानानन्दमयस् त्व् आत्मा” इत्य्-आदिभिर् उपबृंहित-श्रुति-समधिगत–स्व-रूपाविर्भाव–समय-सिद्ध-परम-साम्यस्य न केनापि चालन-सम्भव इति धर्म-धर्मिणोर् भेदाभेदोक्ति-मुखेन च धर्माणां न धर्म्य्-अ-भेद-शङ्कोत्थितिर् इति ॥
इति रामानुज-मत-निरास-विमर्शे धर्म-धर्मिणोर् भेदोक्त्य्-उदयानुगुण-भेदाभेद-वाद-भङ्गः तृतीयः ॥
[[P28]]