इत्थं प्रत्यक्षादि-सिद्ध-भेदयोः गुण-गुणिनोर् अप्य् अ-भेद-वादः शब्दैक-समधिगम्ययोर् अपि तयोर् अ-भेद-वादोन्मज्जनायैव कृतः। स एव चेत् भग्नः किम् उतायम् इति निर्धारणाक्षमैः प्रवर्तितो ऽप्य् अत्र वादो निरस्यते । ते खल्व् एवम् आहुः ब्रह्म स्व-गुणेभ्यो न भिन्नम् “सर्वं खल्व् इदं ब्रह्म” इत्य् अनेन ब्रह्मणस् सर्व-गुणात्मकत्वाद् एव सर्वात्मकत्वोपपत्तेः । अत एव हि “प्राज्ञवत्” इति तद्-गुण-सारत्व-सूत्र-खण्डः द्वितीयस्य तृतीय-पाद-स्थः । तद्-अधिकरण-भाष्ये अस्मद्-भाष्यकारैः –
यथा सर्व-गुणात्कत्वात् सर्वात्मकत्वं ब्रह्मण उच्यते सर्वं खल्व् इदं ब्रह्मेति
इति व्याख्यातः । अयम् अस्य तत्त्व-प्रकाशिकायां विवृतो भावः
परमात्म-गुण-सदृशानन्दादि-गुण–स्व-रूपत्वेन जीवस्य गौण-वृत्त्या “तत् त्वम् असि” इत्य् अभेद-व्यपदेशः । यथा स-कल-जगद्-गुण-सदृश-गुणात्मकत्वेन “सर्वं खल्व् इदं ब्रह्म” इत्य्-आदौ परमात्मा जगद् इति व्यपदेशः
इति । अनेन परमात्मनो जीवस्य चानन्दादि-गुण–स्व-रूपत्वं सर्वस्य च स्व-गुणात्मकत्वं चोक्तं स्यात् ॥
अत एव तृतीयस्य द्वितीय-पाद-स्थे उभय-व्यपदेशाधिकरणे “अथैष एव परमानन्द” इति व्यपदिष्टस्यैव “आनन्दं ब्रह्मणो विद्वान्” इत्य् उक्तानन्दिता-व्यपदेशो ऽपि स्व-रूपेणैवानन्दादिनोपपन्नः । यथा अहिः कुण्डली । कुण्डलं च स्व-रूपेणैवेत्य् उक्तं मद्-भाष्य-कृता । एतद्-अधिकरण-गुण-सूत्र-द्वय-स्थ-दृष्टान्त-द्वयेन चायम् अर्थः स्थिरी-कृतः । तत्र “प्रकाशाश्रयवद् वा” इति सूत्रस्येत्थं भाष्यम् —
यथा आदित्यस्य प्रकाशत्वं प्रकाशित्वं च
इति । “पूर्ववद् वा” इत्यस्य तु इत्थम्
यथैक एव कालः पूर्व इत्य् अवच्छेदको ऽवच्छेद्यश् च भवतीति,
प्रकाशवत् कालवद् वा यथा ऽङ्गे शयनादिकम् । ब्रह्मणश् चैव मुक्तानाम् आनन्दो भिन्न एव तु
इति । नारायणाध्यात्मे च अयम् अर्थो दृष्टान्ततो दार्ष्टान्तिके प्रकटी-कृतः ॥
अत एव “प्रतिषेधाच् च” इत्य् एतद्-अधिकरण-गुण-सूत्रस्य गुणि-भिन्न-गुण-निषेधाय प्रवृत्तम् “एकम् एवाद्वितीयम्” “नेह नाना ऽस्ति किं च न”, इति श्रुति-द्वयं विषयतयोपात्तं भाष्य-कृद्भिः ॥ न चेत्थं सूत्र-व्याख्यानम् अ-मूलकम् इति वाच्यम्
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस् तान् एवानुविधावति ॥
इति श्रुत्यैव धर्म-धर्मि-भेद-दर्शनस्य निन्दितत्वात् ॥
[[P7]]
अत एव मुक्त-भोग-परे चतुर्थस्य चतुर्थे चिन्मात्र-शरीरो मुक्त इत्य् औडुलोमिर् आह ।
तस्य चिन्मात्रात्मकत्वात् तत्त्वं च विज्ञान-घन एव प्रज्ञान-घन एव
इत्य् अवधारणात् । अत एव
चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते
इति उद्दालक-श्रुतिः ।
शरीरान्तरवत् स्व-रूप–भिन्न-गुण-वर्गं च निषेधति
इत्य् आह बादरायणः । तथा “एवम् अप्य् उपन्यासात्” इति सूत्रेण
स वा एष एतस्मान् मर्त्याद् विमुक्तश् चिन्मात्रो भवति
इत्य्-आदिकया सौपर्ण-श्रुत्या चिन्मात्रेणाप्य् उपन्यासात् । “ब्राह्मेणे"ति जैमिन्य्-उक्तस्यापि भावाद् उभयत्राप्य् अ-विरोधं बादरायणः मन्यत इति
शरीरान्तरवत् स्व-रूप–भिन्न-गुण-निषेधो बादरायणस्याप्य् अभिमत
इत्य् आहायं बादरायणः । एवं मदीय-भाष्यकारोक्ति-बलात् पर अपरश् चात्मा न स्व-रूपातिरिक्त-गुणवान् इति निर्गलो ऽयं मार्गः । शास्त्रेषु गुण-गुणि-भेद-व्यवहारश् च ब्रह्मणि जीवे वा विशेष-बलायत्त इति ॥
तत्-सर्वं प्रच्छन्न् आद्वैत-वाद-विश्रान्ततया सूत्र-कारानभिमत्वात् श्रुत्य्-आदि-विरोधाच् च स-गुण-ब्रह्म-वादिभिः न श्रद्धेयम् ॥ तथा हि – यदि तवापि ब्रह्म स्व-गुणेभ्यो न भिन्नं तर्हि निर्गुणम् एव तद् इत्य् अद्वैतिनस् तव च को भेदः? ब्रह्म तद्-गुणानां भेदस्य मिथ्यात्वे गुणानाम् अपि मिथ्यात्वस्य कैमुत्य-सिद्धत्वात् । जीव-ब्रह्म-भेदाभ्युपगम इति चेत् — ब्रह्मणस् सर्व-गुणाभेद-बोधकत्वेन त्वद्-अभिमतया “एकम् एवाद्वितीयम्”, इति श्रुत्या “प्रतिषेधाच् च” इति सूत्र-विषयत्वेन त्वद्-उपात्तया अ-सङ्कुचित-प्रसरया जीव-ब्रह्मणोर् अप्य् अ-भेद-बोधन-सम्भवेन जीव-ब्रह्मणोर् अप्य् अ-भेदाभ्युपगमस्य निरर्गलत्वात् त्वत्–कु-मति–प्रसरासम्भवात् । तथा सति “अंशो नाना-व्यपदेशात्” इति सूत्र-भाष्यम् अप्य् एतद्-अनुगुणं भवति । इतरथा तद्-अधिकरणे त्वत्-प्रयास-वैयर्थ्यापत्तेः । इत्थं हि तद्-अधिकरणम् —
अंशा एव ह्य् अमी जीवाः अंशो हि परमेश्वरः । स्वयम् अंशैर् इदं सर्वं कालयत्य् अ-चलो हरिः ॥
इति गौपवन-श्रुताव् अंशत्वं जीवस्योपलभ्यते ।
नैवांशो न सिद्धो नापेक्ष्यो जीवः परस्य
इति भाल्लवेय-श्रुतौ । अतो ब्रवीति “अंशो नाना” इति ।
मां रक्षतु विभुर् नित्यं पुत्रो ऽहं परमात्मनः ।
यस् तद् वेद सवितुः पितासत् यस् ता विज्ञानात् सवितुः पिता सत्,
“द्वा सुपर्णा सयुजा सखाया” इत्य्-आदि नाना-व्यपदेशाद् अंशो जीवः ॥ तथा च पाराशर्यायण-श्रुतिः –
अंशो ह्य् एष परस्य यो ऽयं पुमान् उत्पद्यते च म्रियते च । नाना ह्य् एनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति च सखेति चेति । अन्यः परः अन्यो जीवः नासाव् अन्यः कुतश्चन
इति ॥
[[P8]]
अन्यथा च काषायण-श्रुतिः – “ब्रह्म दाशा ब्रह्म कितवा” इत्य् अ-भेदेन अप्य् एके अधीयते । यथा चाप्य् अग्नि-वैश्य-श्रुतिः
अंशो ह्य् एष परस्य भिन्नं ह्य् एनम् अधीयते अ-भिन्नं ह्य् एनम्
इति ।
पुत्र-भ्रातृ-सखित्वेन स्वामित्वेन यतो हरिः । बहुधा मीयते वेदैः जीवो ऽंशस् तस्य तेन तु ॥ यतो भेदेन तस्यायम् अ-भेदेन च गीयते । अतश् चांशत्वम् उद्दिष्टं भेदाभेदौ न मुख्यतः ॥
इति वाराहे च इति । तद् इदम् अ-सम्बद्धम् । तद्-उत्पत्त्य्-आदिमत्त्वेन अंशांशि-भावे घटादिः कुलालाद्य्-अंशः कुतो न स्यात्? स-युक्त्व-सखित्वयोर् अंशत्व-प्रयोजकत्वे ब्रह्मणि च जीवांशता स्यात् । तुल्यत्वेनाधिकरण-द्वयान्विताभ्यां ताभ्याम् एकत्रैवांशत्वस्य नियमयितुम् अ-शक्यत्वात् ।
माता पिता भ्राता निवासश् शरणं सुहृद्-गतिर् नारायणः
इति श्वेताश्वतर-श्रुति-बोधित-पितृत्वादिना चेत् — सों ऽशी पुत्रत्वादिमान् ,अयम् अंशः । तदा भेदस्यास्य मुख्यत्वात् भेदामुख्यत्व-कृतांशत्वानुपपत्तिः । भेदामुख्यत्वे च अ-भेदस्य मुख्यत्वावश्यं भावात् अ-भेदामुख्यत्व-निबन्धनांशत्वानुपपत्तिः । अवयव्य्-एक-देशे वा अ-पृथक्-सिद्ध-विशिष्ट-वस्त्व्-एक-देशे वा अंश-शब्दः प्रसिद्धः । जीव–स्व-रूपं च ब्रह्म–स्व-रूपस्य न तथा त्वन्-मते । मन्-मते च जीवो ऽपि शरीरत्वेन श्रुति-शत-समधिगतः विशिष्ट-वस्त्व्-एक-देशत्वाद् अंशः चिद्-अचिद्-विशिष्टस्यैव ब्रह्म-शब्द-वाच्यत्वात् । अतो न जीव-ब्रह्मणोर् अ-भेद-प्रसक्तिः ॥
भवन्-मते तु “प्रकाशादिवत् तु नैवं परः” इति सूत्रेण तेजो-ऽंश-कालाग्निवत् जलांशामृत-समुद्रवत् पृथिव्यंश-मेरुवच् च मत्स्यादिर् ब्रह्मांशः । तेजो-ऽंश-ख-द्योतवत् जलांश-मूत्रवत् पृथिव्यंश-विष्ठा ऽऽदिवच् च ब्रह्मांशो जीव इत्य् उक्त्या गौण-भेदाभेदाभ्याम् उपपादितम् अंशत्वं जीवानां महा-तेजस्य् अन्वित-कालाग्नि-ख-द्योतयोः तद्-अ-भेदवत् महा-जल-विलीनामृत-समुद्र-मूत्रयोः तद्-अ-भेदवत् महा-पृथिवी-विलीन-मेरु-विष्ठयोस् तद्-अ-भेदवच् च स्वांशतायाम् एव पर्यवसन्नम् न विभिन्नांशतायाम् इति मुक्ति-कालम् आदाय जीव-ब्रह्मणोर् अ-भेदः त्वद्-अधिकरण-विधया प्रसजेद् एव ॥
[[P9]]
तथा “यथा सु-दीप्तात् पावकात्” इत्य् अपि श्रुतिः त्वन्-मत-रीत्या जीव-ब्रह्माभेदानुगुणतया स्वीकर्तुम् उचिता । विष्फुलिङ्गानाम् अंशांशि-भावेन सु-दीप्तात् पावकाद् उत्पन्नानां तत्रैव निमग्नानाम् अ-भेद-दर्शनात् ।
अणु-भूतस्य निरवयवस्य जीवस्य च चिद्-गुणेन व्याप्तिः जीव-रूपेणाव्याप्तिर् इति च
इति “गुणाद् वा ऽऽलोकवत्” इति सूत्रे त्वदीय-भाष्यम् उपलभ्यते ।
चिद्-गुणस्य स्व-रूपत्वात् तद्-व्याप्तिश् च इति युज्यते
इति च ॥
एवं भूतस्यापि जीवस्य
स नित्यो निरवयवः पुण्य-युक्-अपाप-युक् स इमं लोकम् अमुं चावर्तते स विमुच्य स एकधा स सप्तधा दशधा
इति गौप-वन-श्रुतेः एकस्य बहु-रूपत्व-श्रुतेः, तथैव पाराशर्यायण-श्रुतौ बहु-रूपत्व-प्रतीतेश् च प्राप्ते विरोधे तत्-परिहारार्थे
व्यतिरेको गन्धवत् तथा हि दर्शयति
इत्य् अधिकरणे
यथा च पुष्पात् गन्धः पृथग् गच्छति एवम् अंशिनो जीवाद् अंशाः पृथग् गच्छन्ति - तथा एक एव सन् गन्धवद् व्यतिरिच्यते अथैकी भवति अथ बह्वी भवति तं यथा यथा ईश्वरः प्रकुरुते तथा तथा भवति
इति शाण्डिल्य-श्रुतिश् च एकस्यैव जीवस्य अंशांशि-भावे प्रमाणतयोपात्ता । पृथग्-गता जीवांशाश् च अंशिवत् चेतन्यवन्तश् च त्वन्-मते । एवं च यथा तयोर् अंशांशिनोर् अ-भेदः एवं जीव-ब्रह्मणोर् अप्य् अ-भेदस् त्वया सु-वचः ॥
“तत् त्वम् असि”, “अहं ब्रह्मास्मि” इत्य्-आदिषु परेण जीवस्याभेदश् च प्रतीयते । एवं च “सर्वं खल्व् इदं ब्रह्म”, इत्य् अनेन “एकम् एव”, इत्य् अनेन च जीव-ब्रह्मणोर् अप्य् अ-भेदः कुतो न बोध्यते? “पृथग् उपदेशात्” इत्य् अधिकरणे
भिन्नो ऽचिन्त्यः परमो जीव-सङ्घात् पूर्णः परो जीव-सङ्घो ह्य् अपूर्णः,
इति सोपपत्तिक-कौशिक-श्रुतेः जीव-ब्रह्मणोर् भेद-सिद्धिर् इति चेत् — न; अ-भिन्ने ऽपि भिन्न-शब्द-प्रयोगस्य त्वन्-मते उपपत्तेः । अन्न-मयादीनां पञ्चानाम् अपि ब्रह्मत्वम् इति त्वत्-सिद्धान्ते अन्-अन्यो ऽप्य् अन्य-शब्देन यथा तत्र व्यवहृतः तथा ऽत्रापि भिन्न-शब्देन अ-भिन्नस्यैव व्यवहृतिर् इति सा ऽपि श्रुतिः न भेद-बोधिका स्यात् । उदाहृतं हि त्वया अन्-अन्ये अन्य-शब्द-प्रयोगस्य गौणत्वे प्रमाणम् —
अन्-अन्यो ऽप्य् अन्य-शब्देन तथैको बहु-रूपवान् । प्रोच्यते भगवान् विष्णुर् ऐश्वर्यात् पुरुषोत्तमः ॥
इति वचनम् । अ-पूर्णत्वं च जीवस्याणुत्व-कृतं पूर्णत्वं च परस्य विभु–स्व-रूपत्व-कृतं नाभेद-विरोधि । जीवांशानां जीवात् पृथग्-गतानाम् अपि जीवाभिन्नत्ववत् ब्रह्मांश-जीवानाम् अपि ब्रह्मणा चित्त्वेन स्वांशत्वाभेदयोर् उपपत्तेः ॥
[[P10]]
यदि जीव-ब्रह्मणोर् भेदस्य “पृथग् आत्मानं प्रेरितारं च”, “द्वा सुपर्णा”, “ब्रह्म-जज्ञम्”,
क्षरस् सर्वाणि भूतानि कूट-स्थो ऽक्षर उच्यते । उत्तमः पुरुषस् त्व् अन्यः
इत्य्-आदि-बहु-प्रमाण-सिद्धत्वात् अन्यथा-सिद्ध-श्रुतिभिः नाभेद-प्रसक्तिर् इत्य् उच्यते, तदा गुण-गुणि भेदस्य च
अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामान् त इमे सत्याः कामाः,
आनन्दं ब्रह्मणो विद्वान् । स एको ब्रह्मण आनन्दः,
परा ऽस्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च,
सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा,
“सेयं देवतैक्षत”, “स ईक्षत लोकान् नु सृजा इति”, “यस् सर्व-ज्ञस् सर्ववित्”, “प्रज्ञा च तस्मात् प्रसृता पुराणी”, “वर्षायुतैर् यस्य गुणा न शक्याः”,
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अ-शेषतः,
चतुर्-मुखायुर् यदि कोटि-वक्त्रः भवेन् नरः क्वापि विशुद्ध-चेताः । स ते गुणानाम् अयुतैकम् अंशम्,
तवानन्त-गुणस्यापि षड् एव प्रथमे गुणाः
इत्य्-आदौ क्वचित् षष्ठ्या व्यतिरेक-निर्देशात् क्वचित् साहित्य-प्रतीत्या क्वचित् कर्तृ-प्रत्ययेन क्रिया-कर्तृ-भाव-प्रतीत्या क्वचिद् उपादानत्वोक्त्या च भेद-प्रतीतेः । अन्य-परतया प्रसिद्धैः “आनन्दो ब्रह्म”, “विज्ञानम् आनन्दं ब्रह्म”, इत्य्-आदिभिः त्वद्-अभिमतया गौण्या वृत्त्या अर्थात् “सर्वं खल्व् इदं ब्रह्म”, इत्य्-आदिभिर् अपि वा ब्रह्म-तद्-गुणयोश् च नाभेद-प्रसक्तिर् इति विभावय ॥
तथा जीव-तद्-गुणयोर् अपि
अथ यो वेद इदं जिघ्राणीति स आत्मा,
“एष हि द्रष्टा”,
रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति,
“विज्ञानं यज्ञं तनुते”, “अ-ज्ञानेनावृतं ज्ञानम्”, “विज्ञान-सारथिर् यस् तु”,
एवं वा ऽरे ऽयम् आत्मा — कृत्स्नः प्रज्ञान-घन एव,
न विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते,
“सत्य-कामस् सत्य-सङ्कल्पः”, “एवम् एवास्य परिद्रष्टुः”,
तथा हेय-गुण-ध्वंसाद् अवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥,
“जक्षत्-क्रीडन् रममाणः”, “स चानन्त्याय कल्पते” इत्य्-आदिभिः स्व-गुणाभेदः सु-स्पष्टम् अवगतः । अतस् सर्व-स्व-स्व-गुणात्मकं ब्रह्म–स्व-रूपम् अपि स्व-गुणात्मकम् इति गुण-योगात् “सर्वं खल्व् इदम्” इति श्रुत्या सर्वात्मकत्वं यथा ब्रह्मण उच्यते तथा ब्रह्म–स्व-रूपं स्व-गुणात्मकं जीव–स्व-रूपम् अपि स्व-गुणात्मकम् इति गुण-योगात् “तत् त्वम् असि” इत्य् अभेदेनोच्यत इति त्वदीय-व्याख्यानम् अन्-उचितम् ॥
[[P11]]
यदि ब्रह्म-गुणा एव ब्रह्म–स्व-रूपं तर्हि गुणेषु स्थितस्य बहुत्वस्य ब्रह्मणि स्थितस्य एकत्वस्य च कुत एकत्रान्वयः? अनेक-गुणाभिन्न-ब्रह्मणो ऽप्य् अन्-एकत्व-प्रसक्तेः एक-ब्रह्म–स्व-रूपाभिन्न–गुणानाम् अपि एकता-प्रसङ्गाच् च । “तत्-त्वम् असि” इति तद्-व्यपदेशश् च त्वन्-मते तद्-गुण-सारत्व-कृत इत्य् अपि वक्तुं न शक्यः । तस्यैव स्वान्य-गुण-शून्यत्वे त्वं पदार्थस्य तत्-सारत्वासम्भवात् । अग्नि-शब्दो हि माणवके गौणः न त्वद्-उक्त-विधया । किं तु अग्नि-गत-पैङ्गल्य-समान-पैङ्गल्य-योगात् गुण-सारत्वं गुण–स्व-रूपत्वम् इति त्वद्-अर्थस् तु सर्व-प्रमाण-बाधितः । अतस् तन्-मुखया गौण-वृत्त्या “तत् त्वम् असि”, इत्य् अ-भेद-व्यपदेश इति त्वन्-मतं त्वत्–कु-मत्य्–एक-हेतुकं न शास्त्र-स्थ–व्यवहृत-गौण-वृत्त्यादरणेनेति, एवां विधे ऽर्थे सिद्धस् तवापि कथा ऽनधिकारः ॥
यद् उक्तम् अहिः कुण्डलीतिवत् “आनन्दं ब्रह्मण” इति च स्व-रूपेणैव आनन्देनेति तद् अ-भद्रम् । नहि दण्डीतिवत् अहिः कुण्डलीति निर्देशः किन्तु गति-कालान्य-काले प्रायशः कुण्डल-समान-संस्थानकत्वाद् एव । संस्थानं च कारण-दशायाम् उपलब्धं न कार्ये, कार्य-दशायाम् उपलब्धं न कारणे चोपलभ्यत इति संस्थानिनः पृथग् एव । एवं च तेन दृष्टान्तेन स्व-रूपात् पृथग् भूतेन आनन्दाख्येन गुणेनैव “आनन्दं ब्रह्मण” इति व्यतिरेक-निर्देश इत्य् एव तद्-भाष्य-पर्यवसानात् ।
इदम् इत्थम् इति प्रतीतौ इदम् इत्थं भावयोर् ऐक्यं कथम् इव प्रत्येतुं शक्यते
इति हि मद्-भाष्यम् । स्वाश्रयस्यान्यस्मात् स्वस्य स्वाश्रयाच् च स्वयम् एव हि जाति-स्थानाभिषिक्तो भेदः । तद्-उभय-भेदो ऽप्य् अनयैव प्रतीत्या विषयी क्रियते च । अत उभय-व्यपदेशाधिकरण-रचनम् आयास-मात्रम् ॥
एतद्-अधिकरण-गुण-सूत्र-द्वय-भाष्यम् अपि व्यर्थम् एव । आदित्यस्य प्रकाशत्वं प्रकाशित्वं च स्व-प्रभयैव । सा च सङ्कुचिताद् धर्म्य्-अंशाद् इति विकसिता प्रभा-भिन्नैवेति सर्वोपलब्धि-बाधितं त्वदीयं तद्-ऐक्य-वचनम् । यद् उपाधि-कृतं पूर्वत्वं कालस्य स एव तस्य अवच्छेदकः । तपन-परिस्पन्दाद्य्-उपाधिभिर् एव हि कालो ऽवच्छेद्यः न स्वेनैव स्वयम् । अवच्छेदकत्वं च कालस्याधिकरणत्वम् एव । तत्त्वं च तस्य देशवद् एव । न हि देशो देशेनावच्छिन्नः । अङ्गे शयनम् अपि अङ्गिन एव चेद् अङ्गाङ्गि-भावो भेद-निबन्धन एव । न चेद् अङ्ग-च्छेदे ऽङ्गि-विलय-प्रसङ्गात् । अङ्गान्तरस्य चेत् यत एवाङ्गान्तरम् अत एव भेदस् सिद्धः । न ह्य् अङ्गत्व-मात्रेणाङ्ग्य-भिन्नता भवति अन्यथा लम्ब-कर्णादौ बहु-व्रीहिर् अन्य-पदार्थ-प्रधान इति प्रसिद्धि-भङ्ग-प्रसङ्गात् ॥
[[P12]]
यच् च “प्रतिषेधाच् च” इति सूत्रस्य “एकम् एव” इत्य्-आदि-विषय-प्रदर्शनेन गुणि-भिन्न-गुण-निषेधकतया व्याख्यानं तत् व्याख्यातुर् अभिनव-शङ्करताम् एव प्रकटयति । “एकम् एव” इत्य् अस्य स-जातीय-भेद-निषेधकत्वे तव कः प्रद्वेषः? तत्त्वे जीवतत्त्व-शून्यता-प्रसङ्गात् तद्-अनादर इति चेत् — तर्हि तव गुण-रूप-पदार्थ-शून्यं ब्रह्म भवेत् । गुणाभिन्नम् अपि ब्रह्म निर्गुणम् एव । यथा गुणो गुण-भिन्नो नेति गुणाभिन्नो निर्गुणश् च ॥
किं च अग्रे एकम् आसीद् इत्य् अन्वयात् कारण-दशा ऽन्य-दशायां गुणाभिन्नं न भवेत् । तथा अन्-अन्वये अस्य कारण-वाक्यत्व-भङ्गः । अत्रैवानन्वितस्याग्र-पदस्य अन्यत्रान्वये नियामकाभावाद् अग्र-पद-वैयर्थ्यम् ॥
किं च यद्य् अ-द्वितीय-पदम् एतद्-अतिरिक्त्तार्थकं तदा एतत्-सूत्र-विषयतया उपादान-वैघट्यम् । न चेद् एकतर-पद-वैयर्थ्यम् । दहर-विद्यायां
तस्मिन् यद् अन्तस् तद्-अन्वेष्टव्यम्
इत्य् अनन्तरं “किं तद् अत्र विद्यत” इत्य् अस्य “तस्मिन् कामाः समाहिताः” इति प्रत्युक्तिर् द्दश्यते ।
अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामान्
इति श्रूयते । तद् एतत् सर्वं “नेह नाना ऽस्ति किं चन” इत्य् अस्य गुणि-भिन्न-गुण-निषेधकत्वे निरर्थकं स्यात् । तेषां नेहेत्य् अनेन निषेध्य-प्रसञ्जकतां नेहत्यस्य चाप-च्छेद-नयेन प्रबलतां यदि पश्यसि तदा स-गुण-वाक्यानाम् एव निर्गुणम् इति वाक्य-निषेध्य-प्रसञ्जकतां “निर्गुणम्” इत्य् अस्य च तेनैव न्यायेन प्रबलतां शङ्करवद् एव किम् इति न व्यवहरसि? अत इत्थं सूत्र-व्याख्यानं श्रुत्य्-आदि-विरुद्धत्वात् सूत्र-कारानभिमतम् अपूर्व-मत-कल्पना ऽग्रह-मूलकं च इति अन्-आदरणीयम् ॥
यद् उक्तं “एवं धर्मान्” इति श्रुतिः धर्म-धर्मि-भेद-दर्शने ऽनर्थं ब्रुवतीति अतो गुण-गुणिनोर् अभेद इति तत् “उदरम् अन्तरं कुरुते”, “न दृष्टेर् द्रष्टारम्” इत्य्-आदेः अद्वैतिभिर् उक्तार्थ-तुल्यत्वात् वक्तुस् तद्-अ-भेदम् आविष्करोति । न ह्य् अनन्यथा-सिद्धान् एकम् अ-प्रमाण-बाधितम् अर्थम् एका श्रुतिर् अन्यथा-सिद्धा बोधयितुम् ईष्टे । तर्हि सा कम् अर्थं बोधयतीति चेत् — साधु पृष्टं भवता । तद् उच्यते ।
सेयं प्रमा-प्रमाणान्तराविरुद्धां गुणानुसन्धानावृत्तौ गुण्यावृत्तिं
प्रधानवद् एव तद् उक्तम् - इत्य् अधिकरण-सिद्धां बोधयतीति । धर्मान् पृथग् गुणिनं विना पश्यन् तान् एवानुविधावति न तु ब्रह्मानुसन्दधानो भवतीति हि तद्-अर्थः । एवं हि प्रधानवद् एव
इत्य् अधिकरणम् ।
[ [P13]]
“तद् य इहात्मानम्” इति वाक्ये दहराकाशोपासनम् उक्त्वा “एतांश् च सत्यान् कामान्” इति गुणानाम् उपासनस्य पृथग् आम्नानात् तद्-उपासन-दशायां न पुनर् धर्मि–स्व-रूपम् अपहत-पाप्मेत्य्-आदि-विधया चिन्तनीयम् । किं तु प्रथमं धर्मि–स्व-रूपं विचिन्त्य तस्यापहत-पाप्मत्वादयः कामा इत्य् एवे इति पूर्व-पक्षे “प्रदानवद् एव”, इति सिद्धान्तः॥
यद्य् अपि दहराकाश एवापहत-पाप्मत्वादि-गुणानाम् आश्रयः । स च प्रथमं चिन्तितः । तथा ऽपि स्व-रूप–मात्रात् गुण-विशिष्टाकारस्य भिन्नत्वात्, प्रकृते च “अस्मिन् कामास् समहिताः” इति ब्रह्मणि कामानाम् आधारत्वम् उक्त्वा के ते कामाः? इत्य् आकाङ्क्षायां निष्कृष्य अपहत-पाप्मत्वं विजरत्वम् इति अन्-उक्त्वा “अपहत-पाप्मा”, इत्य्-आदिना विशेष्य-पर्यन्ततयैव निर्दशात् प्रति गुणं तथैव चिन्तनीयम् प्रदानवत् । तद् उक्तं सङ्कर्षे – “नाना वा देवता पृथक्त्वात्” इति तन् नना ॥
प्रदानाधिकरणं च इत्थम् । अस्ति हि त्रैधातवीयेष्टिः । यथा
इन्द्राय राज्ञे पुराडाशम् एकादश-कपालं निर्वपेत् इन्द्रायाधिराजाय इन्द्राय स्व-राज्ञे
इति त्रि-पुरोडाशा । तेषां पुरोडाशानाम् उपर्य् उपर्य् अधिश्रयणं सर्वेषां युग-पद्-आदानं च विहितम् । एवं स्थिते किं प्रदानम् अपि युग-पत् कर्तव्यम् उत क्रमेणवेति विशये “तेषाम् अ-पृथक्-प्रदानम् अवदानैकत्वात्”, इति सूत्रेण अवदानवत् प्रदानम् अपि युग-पद् एव कार्यम् इति पूर्वः पक्षः ॥
तत्रेदं सिद्धान्त-सूत्रं “नाना वा” इति । त्रयाणां याग-द्रव्याणां भेदात् विशिष्ट-रूपाणां देवतानां च भेदात् त्रिभिर् द्रव्य-देवता-सम्बन्धैः कल्प्यानां यागानां च तत्-तद्-देवतोद्देशेन क्रमिकाणि प्रदानानि कर्तव्यानीति सूत्रार्थः । एवं च “एवं धर्मान्” इति श्रुतेः एवम् अर्थकत्वात् न त्वद्-अभिमत-सिद्धिः ॥
“एवं धर्मान्” इति श्रुतेर् एवम् वा ऽर्थः । यथा दुर्ग-स्थम् उदकं पर्वत-देशात् अन्यत्र विधावति एवं धर्मान् पृथक् पश्यन् तत्-तद्-विद्या-विशेषेषु व्यवस्थया अनुसन्दधानो ऽपि तान् एवानन्तान् गुणान् अनुसृत्य विधावति - विशेषेणान्यान् अपि गुणान् अनुभवतीति । तद् इदम् उक्तम् आचार्य-पादैः –
उपासित-गुणादेर् या प्राप्ताव् अप्य् अ-बहिष्-क्रिया । सा तत्-क्रतु-नय-ग्राह्या नाकारान्तर-वर्जनम् ॥
इति ।
[[P14]]
किं च धर्म-शब्द-बहु-वचानाभ्याम् एव गुणानां धर्मि-भिन्नत्व-सिद्ध्या कथं धर्मेषु धर्मि-भिन्नत्व-दर्शनम् इयं श्रुतिस् तव निषेद्धुम् अर्हति । कथम-तद्-धर्माणां त्वन्-मते तद्-धर्मतया उपासनं वा? मिथ्या-ऽर्थ-ज्ञानन् मुक्ति-प्रसङ्गात् । न च वास्तवं गुणानां तद्-धर्मत्वम् अस्ति? स्व-रूप–मात्रत्वात् । उपासनम् अपि स्व-रूप–मात्रस्यैव त्वन्-मते कर्तव्यम् । पृथक्त्व-ज्ञाने ऽनर्थ-श्रवणेन पृथक्त्व-गर्भ-प्रकार-प्रकारि-भावावच्छिन्नोपासन-मात्रस्य निषेधात् । ततश् च विद्या-भेद-मात्रविलयो ऽपि । अल्पानल्प-गुण-वैशिष्ठ्य-कृत-साधन-तारतम्योपपादन-भङ्गः तत्-कृतानन्द-तारतम्योपपादन-भङ्गश् च ॥
एवं वा तस्याः श्रुतेर् अर्थः । पर्वतेषु देश-विशेषे दुर्ग-स्थाने वृष्टं विधावति - स्व-देशं परित्यज्य देशान्तरं गच्छति । एवं धर्मान् पृथक् - स्वातन्त्र्येण भगवद्-आराधनत्व-मात्राकारं परित्यज्य स्वर्गादि-फल-साधनत्वाकारेण पश्यंस् तान् एव अनुविधावति - तेष्व् एव सक्तो भवति । ततश् च
एतच् छ्रेयो ये ऽभिनन्दन्ति मूढाः जरा-मृत्यू ते पुनर् एवापि यान्ति
इत्य् उक्त-रीत्या सांसारिक-क्लेश-निमग्नो भवतीति । यद् वा कामाभिष्वङ्गात् आश्रमान्तर-धर्मेषु प्रवृत्तः तान् धर्मान् अत्यन्त-मलिनो देहः देही चात्यन्त-निर्मल इति बुद्ध्या पृथक् प्रत्यवाय-रूप-फलेन आत्मन्य् अ-लिप्तान् पश्यन् तान् एव - तत्-फल-भूत-प्रत्यवायान् एव प्राप्नोतीति ॥
अथवा अङ्ग्य्-अविना-भूत-स्वभावतया अङ्ग-भूतान् धर्मान् पृथग् अन्-अनुष्ठितान् अपि अ-फल-हानि-करान् पश्यंस् तान् एव तत्-त्याग-निमित्तकान् फल-व्यतिरेकान् एव प्राप्नोतीति । एवम् अ-विरुद्धान् एकार्थवत्यैवानया श्रुत्या बहु-श्रुति-प्रतिपन्न-गुण-गुणि-भेदाप-लपनं श्रुति-हिंसन-मात्र-फलकम् इति निरर्गल-प्रसर एव गुण-गुणि-भेद-वादः ॥
यच् च “चिति-तन्-मात्रेण” “एवम् अप्य् उपन्यासात्” इति सूत्रयोः त्वदीय-भाष्यम् । तच् च “ज्ञो ऽत एव” इति सूत्रे ज्ञ इति निर्देशात् “विज्ञातारमरे” इत्य्-आदिभिः “एष हि द्रष्टा”, इत्य्-आभिश् च उपहतम् । अणु–स्व-रूपस्यैव विज्ञातृत्वे संसृतौ तत्–स्व-रूपम् आस्ति न वा? अस्ति चेत् — सर्वो ऽपि जीवः सर्व-ज्ञ एवेति मौढ्यम् आन्ध्यम् इत्य्-आदि क्वचिद् अपि जीवे न स्यात् । नास्ति चेत् तन्-नित्यत्व-श्रुति-विरोधः । मुक्तिर् अप्य् अ-पूर्वाकार-निष्पत्तिस् स्यात् । नाशश् चात्मनस् तदा प्रसजेत् जन्य-भावस्य विनाशित्व-नियमात् । संसृतौ स्व-रूपं तिरोहितं चेत् कतिपय-विषय-ज्ञप्तिर् अपि न स्यात् । अणु–स्व-रूपे तिरोहितातिरोहितांश-भेदानुपपत्तेः स्व-रूप–तिरोधानं नाम तद्-उत्पत्ति-प्रतिबन्धो वा विद्यमानस्य विनाशो वा । स्व-रूप–नाशस्यानुत्पाद्यत्वाभ्युपगमात् स्व-रूप–तिरोधानं स्व-रूप–नाश एव स्यात् । अतो यावत् स्व-रूपातिरिक्त-सङ्कोच-विकासार्ह-धर्म-भूत-ज्ञानान् अभ्युपगमः तावत् संसृतौ ज्ञान-तारतम्यं दुरुपपादम् । “विज्ञान-घन एव” इत्य्-आदि च न त्वद्-अभिमतार्थाभिधायि “विज्ञातारम्” इत्य्-आदि-बहु-श्रुति-विरोधात् । किन्तु धर्म-धर्मिणोर् उभयोर् अपि ज्ञानत्व-तौल्यं वाक्ति “अनन्तरो ऽबाह्य” इत्य् उक्तेः ॥
[[P15]]
ननु “गुणाद् वा ऽऽलोकवत्” इति सूत्र-भाष्ये जीवस्य चिद्-गुणेन व्याप्तेर् अप्य् उक्तत्वात् सङ्कोचार्हेण तेन ज्ञान-तारतम्यादिकम् उपपन्नम् इति चेत् — न; तत्रैव चिद्-गुणस्य स्व-रूपत्वाभिधानेन तस्य गगन-गन्धर्व-नगर-प्रायत्वात् । तस्य स्व-रूपाद्भिन्नत्वे सिद्ध एव गुण-गुणि-भेदः । अ-भिन्नत्वे उक्त-विधया तिरोधानाद्य्-अन्-उपपत्तिः ।
चिन्-मात्र एवैष भवति चिन्-मात्र एवावतिष्ठते चिन्-मात्री भवति,
इति त्वद्-उदाहृता श्रुतिर् अपि यदि “न विज्ञातुर् विज्ञातेः”, इति प्रसिद्ध-श्रुत्य्-अ-विरुद्धा तदा “विज्ञान-घन एव” इत्य्-आदेर् मद्-उक्तार्थ-विधया सा तत्-तुल्यार्था स्यात् । यदि सा विरुद्धा तदा त्वत्-कल्पिततया उक्त-विध-बहु-श्रुति-बाध्या सती अ-प्रामाण्य-कोटि-निविष्टा स्यात् । अतो गुण-गुण्य्-अ-भेदोपपादन-परं त्वदीयं भाष्यं व्याख्येय-सूत्र-गति-विरोधात् सूत्रान्तर-विरोधात् बहुभिर् अनन्यथा-सिद्ध-श्रुत्य्-आदिभिर् विरोधात् सत्-तर्क-विरोधाच् च न सूत्र-काराभिमतम् इति श्रुति-सूत्रोभय-हिंसन-मात्रम् ॥
इत्थं जीवे ब्रह्मणि च गुण-गुणिनोर् भेदम् अनभ्युपगम्य प्रवर्तित-सूत्र-भाष्यस्य प्रत्यधिकरणं प्रतिसूत्रम् अ-समञ्जसतां विरुद्धतां च दिङ्ग्-मात्रेण प्रदर्शयामः । तथा हि — प्रथमम् “अथात” इति सूत्रे अथ शब्दः तवाधिकारानन्तर्यार्थः तत्र ये मनुष्या विष्णौ भक्तिमन्तः उत्तम-गुणाश् च ते मन्दाधिकारिणः । ते शम-संयुक्ता अपि चेत् मध्यमाः । तेष्व् एव
आब्रह्म-स्तम्ब-पर्यन्तम् अ-सारं चाप्य् अ-नित्यकम् । विज्ञाय जात-वैराग्यो विष्णु-पादैक-संश्रयश् च यः सः उत्तम-अधिकारि
इति तव परिपाटी । तत्र सर्वो ऽप्य् अधिकारः गुण-भूतो गुण्य-भिन्न एवेति तस्य नित्यत्वाद् अ-नादि-सिद्धतया काल-परिच्छिन्नत्वायोगे कथम् अधिकारानन्तर्यम् अथ शब्दार्थ इति युज्यते ।
[[P16]]
अतश् शब्दो ऽपि उक्ताधिकारस्य विष्णोः प्रसादस्य वा हेतुत्वार्थकः । सो ऽपि गुणतया स्व-रूपाभिन्नः काल-परिच्छिन्न इति कथम् इदानीं तव लब्ध-हेतुकता । जिज्ञासा च ब्रह्मणि सामान्य-धर्मेण ज्ञाते विशेष-धर्मेण ज्ञेये सति च भवति । स्व-रूपातिरिक्त-तद्-उभय-धर्म-विरहिणि सा ऽप्य् अनुपपन्नैव । तव च वा प्राग्-असती जिज्ञासा कथम् अद्य जायते? तस्याः प्राग्-असत्त्वे स्व-रूपस्यैवासत्तायाम्, अद्य निष्पत्तौ स्व-रूपस्यैव निष्पत्तौ च विश्रमात् । तद्-उभय-ज्ञानस्यापि तव स्व-रूपान् अतिरिक्तत्वात् । सर्वस्यास्यातिरिक्तत्वे त्व् अपसिद्धान्तः । अतः यतो नारायण-प्रसादाद् ऋते न मोक्षः, न च ज्ञानं विना ऽत्यर्थ-प्रसादः अतो ब्रह्म-जिज्ञासा कर्तव्येत्य् उक्तम् अ-युक्तम् ॥ प्रसाद-ज्ञानयोर् इच्छायाश् च आगन्तुक-धर्मत्वाभावात्, आगन्तुकत्वे तु स्व-रूपातिरिक्ततैव स्यात् ॥
किं च शास्त्रम् उद्देश-लक्षण-परीक्षात्मकम् । उद्देशस् तु नाम्ना वस्तु-सङ्कीर्तनम् । स चास्मिन् सूत्रे “ब्रह्म” इति पदेन तव च वाच्यः । तथा च स्व-रूपातिरिक्त-निरूपक-धर्म-विधुरं ब्रह्म न वस्त्व् इति उद्देशो ऽप्य् अत्र तव न सिद्धस् स्यात् ॥
जन्मादि-सूत्रे लक्षणा ऽभिधानम् अपि तव विरुद्धम् । लक्ष्य-लक्षणयोः भेदाभावात् लक्ष्यता ऽवच्छेदकान् आश्रयस्य लक्षणा ऽनाश्रयस्य च लक्ष्यत्वायोगात् । अत एव उत्तर-सूत्रेषु परीक्षणम् अप्य् अ-समञ्जसम् । लक्षितस्य लक्षणम् उपपद्यते नवेति विचारस्यैव परीक्षात्वात् तस्याश् च वास्तव-भेद-घटितत्वात् सर्वम् अप्य् एतत् विशेष-कल्पित-भेद-व्यवहारम् आदायोपपन्नम् इति चेत् — न; स विशेषः किं जीवे ब्रह्मणि च स्व-रूप–भिन्न-धर्मताम् उपगतः स्व-रूपातिरिक्तो वा? आद्ये इतरे ऽपि धर्माः स्व-रूप–भिन्ना एव तद्वद् भवेयुः विशेषे विशेषान्तराभावात् ॥
किं च स विशेषः अ-ज्ञात एव भेद-व्यवहार-जनकश् चेत् निर्गुण-वादिनो ऽपि तज्-जनकः स्यात् । अ-प्रयोजको वा स्यात् । ज्ञात एव चेत् तज्-जनकस् तर्हि स-विशेषो जीव-परमात्म-याथात्म्य-ज्ञानायत्त-ज्ञानं स्यात् । धर्म्य्-अ-ग्रहे धर्मस्याप्य् अग्रहात् । लौकिकैश् शब्दादिभिर् एव तद्-ग्रहे तैर् एव तद्-धर्मि-जीव-ब्रह्म-याथात्म्य-ग्रह-सम्भवात् तद्-अर्थ-वेदान्त-विचार-वैयर्थ्यम् ॥
अयं च विशेषो नाक्षो, न लैङ्गिकः; नवा ऽर्थापत्ति-कल्प्यः, न श्रौतः न स्मार्तः, न वा सौत्र इति स्थापयिष्यते ॥ किं च अन्-उपपत्य्-आदि-सिद्ध-विशेष-ज्ञानायत्त-भेद-व्यवहार-विषयाधिकारादि-ज्ञानात् वेदान्त-श्रवणं वेदान्त-श्रवणे सति अन्-उपपत्य्-आदि-सिद्ध-विशेष-ज्ञानायत्त-भेद-व्यवहार-कृताधिकार-ज्ञानम् इत्य् अन्योन्याश्रयादिः ॥
[[P17]]
द्वितीये स विशेषः ब्रह्मैवेति तस्य अ-पारमार्थिक-भेद-व्यवहार-जनकत्वे अ-पारमार्थिक-व्यवहारस्य भ्रम-ज्ञान-मूलकत्वात् ब्रह्मैव सर्व-भेद-भ्रम-ज्ञान-रूपं विशेषात्मक–स्व-विषय–ज्ञान-रूपं च स्यात् । जीवात्मन्य् अपि अयं सर्वश् च प्रसङ्गः समानः । विशेष-कृतो ऽयं भेद-व्यवहार इति त्वदीयोक्ति-विशेष-वैयर्थ्यं च ॥
अथ
शास्त्रं योनिः प्रमाणम् अस्येति शास्त्र-योनि
इति यत् सूत्र-भाष्यम्, तद् अप्य् अनुपपन्नम् । ऋग्-यजुस्-सामाद्य्-अन्तर्गतस्य सर्वस्यापि शब्दस्य स्व-रूपातिरिक्त-प्रवृत्ति-निमित्त-धर्म-मुखेनैव धर्मिणि प्रमाण-भावेन तद्-अन्-अङ्गीकर्तुः तव ब्रह्मणश् शास्त्र-प्रमाणकत्वासम्भवात् ॥
अत एव
उपक्रमादिभिर् लिङ्गैः सम्यङ् निरूप्यमाणे तद् एव शास्त्र-गम्यम्
इति समन्वय-सूत्र-भाष्यम् अपि निर्धर्मके निरूपणासम्भवाद् अ-सम्बद्धम् तव । एवं भूत-समन्वय-प्रतिपादन-पराण्य् एव प्रथमाध्यायाधिकरणानीति तान्य् अप्य् अ-सङ्गतान्य् एव ॥
या च तव ईक्षत्य्-अधिकरण-रीतिः सा ऽप्य् अ-रमणीया । पूर्व-पक्षिण एव अभावात् । ईश्वराभ्युपगन्त्रा तस्य शब्दागोचरत्वानङ्गीकारात् तद्-अनभ्युपगन्त्रा ऽपि तस्य शब्दागोचरत्वानुक्तेः । अवाच्यत्व-वादी शङ्करश् चेद् इह तव पूर्व-पक्षी स च निर्धर्मकत्वाद् एव ब्रह्मावाच्यम् इत्य् आह । तच् च तवाप्य् अ-विशिष्टम् इति कथं तव सिद्धान्तोत्थितिः? वाच्यत्वस्य वाच्यता ऽवच्छेदकाश्रयत्व-निबन्धनत्वात् । त्वया “एवं धर्मान्”, इति श्रुत्या धर्म-धर्मिणोर् भेदस्य निषिद्धत्वोक्त्या वाच्यता ऽवच्छेदकान् आश्रये ब्रह्मणि शब्द-गोचरत्वानुपपत्तेः । “ब्रह्म” अ-शब्दम् — न शब्दावाच्यं न शब्द-वाच्यम् एव । कुतः?
स एतस्माज् जीव-घनात् परात्-परं पुरिशयं पुरुषम् ईक्षते,
“आत्मन्य् एवात्मानं पश्येत्”, “विज्ञाय प्रज्ञां कुर्वीत”, इत्य्-आदि-वचनैः ईक्षणीयत्वात्, इति सूत्रार्थ-वर्णनम् अप्य् अन्-उपपन्नम् । वचनानां चक्षुरादिवद् ईक्षणाकरणत्वात् । शाब्दापरोक्षस्य त्वया ऽप्य् अन्-अङ्गीकारात् ॥ अत एव वचनैर् ईक्षणीयत्व-बोधनादित्य् अन्-उपपन्नम् । वचनैः विशुद्धेन मनसा ईक्षणीयत्व-बोधनादित्य् अर्थे ऽपि अतथाभूत-घटादेर् वाच्यत्वोपलम्भेन वाच्यत्वस्य तत्-प्रयुक्तत्वासम्भवात् । अनयोर् अपि हेतु-साध्ययोः धर्मत्वे अ-पृथक्त्वानुपपत्तिः । पक्षाभेदे चेत्थम् अनुमान-विधया सूत्रयोर् जननानुपपत्तिः साध्य-हेत्वोः पक्षातिरिक्तस्य हेतोः स्वासाधारणत्वस्य च विरहे तद्-अ-योगात् ॥
[[P18]]
अत एवौपनिषदत्वात् नावचनेनेक्षणीयम् इत्य् अप्य् अन्-उपपन्नम् । ईक्षणीयत्वेन वचनैर् बोधितत्वाद् इति यदि तस्यार्थः तदा ईक्षणीयत्वेन शब्द-गोचरत्वात् शब्द-गोचरं नेति फलतस् साध्याविशिष्टता ॥
यच् च “गौणश् चेत्” इति सूत्रस्य
न च गौण आत्मा दृश्यो वाच्यश् च न निर्गुण इति युक्तम् आत्म-शब्दात्,
इति भाष्यम् तद् अपि न मनो-ज्ञम् । परमात्मनो निरूपाधिकात्म-शब्द-वाच्यत्वे ऽपि जीवात्मन्य् आत्म-शब्दस्यागौणत्वात् “आत्मा ज्ञानमयो ऽमलः”,
दुःखाज्ञान-मला धर्माः प्रकृतेस् ते न चात्मनः,
“अयम् आत्मा ब्रह्म”, “य आत्मनि तिष्ठन्”, इत्य्-आदिषु आत्म-शब्देनाबाधितया व्यवहृतस्य गौणात्मत्वायोगात् ।
यो गुणैस् सर्वतो हीनो यश् च दोषैर् विवर्जितः । हेयोपादेय-रहितस् स आत्मेत्य् अभिधीयते ॥,
इति वामन-वचनोक्त–स्व-भाव एव हि निकृष्ट-जीवात्मा ऽपि
आत्मा शुद्धो ऽक्षरश् शान्तः कूट-स्थो ऽक्षर उच्यते,
इत्य्-आदिना निर्दिष्टः । अतः कथं जीवात्मन्य् आत्म-शब्दस्य गौणता? न हि पूर्वावधिमत्य् अ-महति घटे घट-शब्दो गौणः?
किं च मुख्य-निष्ठ-गुण-लेश-योगाद् हि गौणता । मुख्यस्यैव तव निर्गुणत्वे स्वयम् अपि तव निर्गुणो जीवः कथं तन्-निष्ठ-गुण-लेशाश्रयतया गौणात्म-शब्द-वाच्यस् स्यात्?
अत्र
द्वे वाव ब्रह्मणो रूपे आत्मा ऽनात्मा च
इति यत् तलवकार-ब्राह्मणम् उक्तम्, तद् अपि त्वन्-मत-विरुद्धम् ।
चेतनस् तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो । जीवा ब्रह्मादयः प्रोक्ताः आत्मैकस् तु जनार्दनः ॥
इति त्वद्-उदाहृत-पाद्म-वचनेन अत्रत्यात्म-शब्दस्य परमात्म-परत्वे “आत्मा ब्रह्मणो रूपम्” इति व्यतिरेक-निर्देश-वैघट्यम्; आत्म-ब्रह्म-शब्दयोस् तवैकार्थत्वात् । जीव-परत्वे स एवानात्मेति आत्मा ऽनात्मा चेति द्वन्द्वानुपपत्तिः । तयोर् अत्यन्त-भिन्नत्वेन त्वया शरीरात्म-भावान् अभ्युपगमेन च आत्म-तुल्य-रूपत्वस्य अन्-आत्मन्य् असम्भवश् च ॥
[[P19]]
यच् च “हेयत्वावचनाच् च” इति सूत्रस्य
तम् एवैकं जानथात्मानम् अन्या वाचो विमुञ्चथ
इत्य् अन्येषां हेयत्व-वचनात् अस्याहेयत्व-वचनात् न गौण आत्मेति व्याख्यानं तद् अतीव हेयम् । स्व-स्व-रूपाविर्भावस्यैव मोक्षतया कदाचिद् अपि स्वात्मनि हेयत्वासम्भवात् । “तम् एवैकं जानथ” इत्य् अस्य परमात्मन एव अत्यन्तोपादेयत्व-वचन-रूपतया अ-हेयत्व-वचन-रूपत्वाभावात् । “हेयत्वावचनात्” इत्य् अस्य अ-हेयत्व-वचनाद् इति विपरिणतिर् अप्य् अ-सम्बद्धा ॥
यद् अपि स्वस्यैव स्वस्मिन्न् अप्यय-वचनाद् इति “स्वाप्ययात्” इति सूत्र-भाष्यम्, तद् अप्य् उपपत्ति-शून्यम्; निर्गुणस्य निरवयवस्य नित्यस्य स्वस्मिन्न् अप्ययासम्भवात् ।
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः । एकी-भूय पुनश् शेते निर्दोषो हरिर् आदिकृत् ॥
इत्य् उक्त-बहुधा-भावः किं राम-कृष्णादि-रूपेण, प्रपञ्च-रूपेण वा? आद्ये तव दिव्य-विग्रहात्मनोर् अ-भेदात् विग्रहाभिन्न आत्मा न निरवयवो नाप्य् अ-परिच्छिन्नः न नित्यश् च स्यात् । रामादि-दिव्य-विग्रहेषु नित्यत्वादेश् शास्त्र-प्रत्यक्षादि-बाधात् “अजायमानो बहुधा विजायते”, “इच्छा-गृहीताभिमतोरुदेहः”, “न भूत-सङ्घ-संस्थानो देहो ऽस्य परमात्मनः”, “न तस्य प्राकृता मूर्तिः”, “रूपम् अन्यद् धरेर् महत्”, इत्य्-आदिभिर् दिव्य-विग्रहात्मनोर् भेदस्यैवावगमेन विग्रह-गत-बहुत्वस्यात्मन्य् अ-प्रसक्त्या विग्रहात्मनोस् त्वया शरीर-शरीरि-भावान् अभ्युपगमेन च आत्म–स्व-रूपे बहुधाभावाप्रसक्तेः ॥
द्वितीये प्रपञ्च-निष्ठो बहुधाभावः सुतरां नात्मनि प्रसक्तिमान् प्रपञ्चात्मनोर् अत्यन्त-भिन्नत्वात् । अतो बहुधाभाव-पूर्वकैकी-भाव-रूपो ऽप्ययः परमात्मनो न सम्भवति ॥
श्रुत्य्-आदिषु प्रकृति-पुरुष-तद्-विधाभेदानाम् अपि प्रकाश्यतया
ब्राह्मं ज्ञानं परं त्व् एकम् एव,
सर्वे वेदा युक्तयस् स-प्रमाणाः प्रकाश्यन्ते न विरोधः कुतश्चित्,
इति गति-शब्दस्य ब्रह्म-ज्ञान-परतया सामान्य-शब्दस्य तस्य प्रकाश्यत्व-साम्य-परतया च गति-सामान्य-सूत्र-व्याख्यानम् अपि तेषां ब्रह्म-ज्ञानोत्पादकानां तद्-ज्ञापन-परत्वाभावात् । प्रकाशन-शब्दस्य ज्ञानोत्पादनार्थकत्वे ज्ञानोत्पादनस्य त्वन्-मते स्व-रूपातिरिक्त-ज्ञानान् अभ्युपगमेन दुरुपपादत्वात् अस्यापि शब्द-वाच्यत्व-रूप-साध्याविशिष्टत्वाच् च अ-समञ्जसम् ॥
[[P20]]
“श्रुतत्वाच् च”, इति सूत्रस्य न ह्य् अ-शब्दश् श्रूयते इति व्याख्यानम् अपि साध्याविशिष्टत्वेनैव हतम् ॥ एवम् ईक्षति-समन्वयाधिकरणयोर् असामञ्जस्ये एवं-भूत-समन्वय-प्रतिपादको ऽयं प्रथमो ऽध्यायः प्रायेणासमञ्जसः । तत्र “अन्तस्-तद्-धर्मोपदेशात्”, “धर्मोपपत्तेश् च”, “विवक्षित-गुणोपपत्तेश् च”, इत्य्-आदि-सूत्र-विरोधस् त्वन्-मते सु-स्पष्टः । तत्र श्रुत्य्-अन्तर्गतानन्दमय-शब्दस्य अन्यत्राप्रसिद्धत्वाद् अन्यत्र प्रसिद्धनां शब्दानां परमात्मनि समन्वय-परे तव प्रथमे पादे आनन्दमयाधिकरणं प्रथमतो ऽसङ्गतम् । न हि शतानन्दादि-पदम् आनन्दमय-पदं भवति प्राकरणिक-नपुंसक-ब्रह्म-शब्दस्य हिरण्य-गर्भे प्रसक्त्य्-अभावेन ब्रह्म-शब्दाद् धिरण्य-गर्भस्य प्राप्तिर् इत्य् उक्तिर् अप्य् अनुपपन्ना । किम् उतान्येषाम् ॥
प्रकृताव् आनन्दमय-शब्दस्य न प्रसक्ति-गन्धो ऽपीति आनन्दमयः ब्रह्मादिः प्रकृतिर् विष्णुर् वेति संशय-प्रदर्शनम् अपि अ-समञ्जसम् । विशिष्य सूत्रकारान् अभिमतैव तवानन्दमयाधिकरण-रीतिः । तथा हि आनन्दमयम् एवोद्दिश्य प्रवृत्तेनानेन सूत्रेण अन्नमयादयः पञ्चापि ब्रह्मेति कथं त्वन्-मत-सिद्धिः? अभ्यास-शब्दस्य अत्र ब्रह्म-शब्दाभ्यास-परत्वे वा किं नियामकम्? न तावत् अस्मिन् प्रकरणे अभ्यस्त-शब्दान्तरानुपलम्भः । आत्म-शब्दस्यैवोपलम्भात् ॥
“असन्न् एवे"ति श्लोक-स्थ–ब्रह्म-शब्द-अभ्यास एव आनन्दमयस्य विष्णुत्व-साधन-समर्थ इति चेत् न; आनन्दमय-विषय–श्लोक-स्थ–ब्रह्म-शब्दाभ्यासस्य अन्नमयादेर् विष्णुत्व-साधनासमर्थत्वात् । तेष्व् अपि ब्रह्म-शब्दो ऽभ्यस्त इति च न भव्यम् आनन्दमयस्यैव सौत्रत्वात् तद्-धेतोर् अ-प्रयोजकत्वं च, तेष्व् एव वह्निर् अन्-उष्ण इति वत् बाधित-विषयत्वं च । “गौणश् चेन् नात्म-शब्दात्” इति सूत्रे आत्म-शब्दस्य अन्-अन्य-परत्वोक्त्या प्रति-पर्यायम् इहाभ्यस्तस्यात्म-शब्दस्यैव विशिष्ट-प्रतिज्ञात-निर्वाहकत्वौचित्याच् च । तवापि भूम-विद्यायां विष्ण्व्-अतिरिक्ततया ऽभ्युपगतेषु नामादि-प्राण-पर्यन्तेष्व् अपि प्रति-पर्यायं ब्रह्म-शब्दाभ्यासस्येव इहाप्य् आनन्दमय-ब्रह्मान्यत्वेन अत्रैवार्थ-सिद्धेषु तस्यैतद्-अ-प्रयोजकत्वाच् च ॥
किं च अ-विशेष-पुनश्-श्रवण-रूप-शब्दाभ्यासस्य अभ्यासाधिकरणे भेदकत्वोक्त्या इहापि प्रति-पर्यायं तद्-अभ्यासस्य ब्रह्म-भेदकत्व-प्रसङ्गः । तथा च अन्नमयादि-रूपोपरञ्जक-भेदात् ब्रह्माभेद-प्रसङ्गः ॥
किं च ब्रह्म-शब्द इहानन्य-परश् चेत् “ब्रह्म-शब्दात्” इत्य् एतावतैव प्रतिज्ञात-निर्वाहे सूत्र-कारस्य तद्-अभ्यास-पर्यन्त-धावन-वैयर्थ्यम् । न चेद् अ-समर्थो ऽयं सहस्रशो ऽभ्यस्तो ऽपि अ-किञ्चित्-कर इति तद्-अभ्यास-कीर्तन-वैयर्थ्यम् ॥
[[P21]]
किं च आनन्दमय-रूपार्थाभ्यासे ऽपीह स्थिते तस्मिन् कः प्रद्वेषः? अभ्यास-योग्य–स्व-रूप–भिन्नानन्दाभाव इति चेन् न; स्व-रूप–भिन्नानन्दानभ्युपगमेन एतन्-महा-वाक्य-तात्पर्यावेद-कलिङ्ग-षट्क्-विरोधेन तस्यावश्याभ्युपगन्तव्यत्वात् । तथा हि “सैषानन्दस्य” इत्य् उपक्रमेण मानुषानन्द-ध्रुव-बन्धः तद्-अभावे व्यर्थः । मनुष्य् आत्म–स्व-रूपस्य वित्त्-पूर्णत्वान्त-धर्म-सङ्घाप्रयुक्तत्वात् । उपसंहारे च “स एको ब्रह्मण आनन्दः”, “आनन्दं ब्रह्मणो विद्वान्” इति एकत्वेन व्यतिरेकतश् च निर्देशः आत्म–स्व-रूपे अन्-उपपन्नः । अनेकानन्देषु स्व-रूपात् परस्परं च भिन्नेषु सत्सु खलु अस्य एकत्वेन व्यतिरेकतश् च निर्देशः । अतो उपक्रमोपसंहारौ स्व-रूप–भिन्नानन्दाभावे दुरुपपादौ ॥
दशस्व् अपि पर्यायेषु आनन्दस्य मनुष्यादि-सम्बन्धित्वेन “मनुष्य-गन्धर्वाणाम्” इत्य्-आदि-षष्ठ्या व्यतिरेकतः शत-गुणितोत्तरत्वेन चाभ्यासो वा न स्व-रूपेणोपपद्यते, स्वस्य स्व-सम्बन्धित्व–स्व-व्यतिरेकयोर् अ-सम्भवात् । “वालाग्र-शत-भागस्य”, “आराग्र-मात्रः”, इत्य्-आदिभिः जीव-मात्रस्याणु-परिमाण-तौल्यावगमेन पूर्व-पूर्व-पर्यायोक्तेभ्यः उत्तरोत्तरेष्व् आत्मसु शताधिक-परिमाण-बाधेन च अभ्यासोन्मज्जनस्यैवासम्भवात् ॥
इत्थं मानान्तराबाधिते धर्म-भूतानन्द एव प्रमाणान्तराप्राप्तत्व-रूपापूर्वता ऽप्य् अस्ति । “आनन्दं ब्रह्मणः”, इति व्यतिरेकतो निर्दिष्टानन्द-वेदनवान् न बिभेति । “रसँ ह्य् एवायं लब्ध्वा ऽऽनन्दी भवति”, इति फल-वाक्यम् अपि आनन्द-तद्-वेदनेयोः भय-तद्-अभावयोश् च स्व-रूपाश्रितत्वेन तद्-भिन्नत्वम् एव प्रकटयति । आनन्दे उत्तरोत्तर-शत-गुणितोत्तरत्व-मुखेन वागाद्य्-अतीतत्वाख्य-गुणि-निष्ठ-गुणाभिधान-रूपार्थ-वादश् च न स्व-रूपे सङ्गतः । मानान्तर-बाधिते ऽर्थे ऽर्थ-वादस्याप्य् अनुदयात् । स्व-रूपातिरिक्तानन्दाद्य्-अनभ्युपगमे उक्ता अनुक्ताश् च यावन्तो ऽनुपपत्तयः तावन्तः ततो ऽधिकाश् च । तद्-अभ्युपगमे श्रुति-स्मृत्य्-आदिषु व्यतिरेक-निर्देशाद्य्-आनुकूल्य-निर्देश-रूपोपपत्ति-वर्गः सर्व-सुगमः ॥
इत्थम् अवश्याभ्युपगन्तव्य-गुण-गुणि-भेदान् अभ्युपगमे श्रुति-स्मृति-सूत्र-भाष्याणाम् अ-सामञ्जस्यम् “अथातो ब्रह्म-जिज्ञासा” इत्य् आरभ्य, “अन्-आवृत्तिश् शब्दात्” इत्य् एवम् अन्तम् असमाधेयम् इति ग्रन्थ-विस्तर-भयात् दिङ्-मात्रेण तद्-उपपादन-प्रकारः प्रदर्शितः । अतः शब्दैक-समधिगम्ययोर् अपि गुण-गुणिनोर् भेदः तेषाम् अ-सामञ्जस्य-परिहारायाभ्युपगन्तव्य इति ॥
इति श्रीमत्-कवि-कथक–कण्ठी-रव–पद-कमल-विनिस्सृत-मधु-पान-मत्त-षड्-पदाायित-चित्तेन पर-काल-यतिना विलिखित-रामानुज-मतासार-विमर्शे शब्दैक-समधिगम्य-गुण-गुणिनोर् अ-भेद-वाद-भङ्गो द्वितीयः ॥
[[P22]]