इह खलु अ-खिल-निगम-गण-शिखर-मुखरित–सकल-भुवन-समुदायावन-विलयन-प्रमुख-विश्रृङ्खल-वृत्तिकेन भगवतैव निखिल-जगद्-अवनैक-परायणता ऽनुगुण-करुणा-परिणतिकृतावतरणेन बादरायणेन अ-खिलापवर्ग-साधक-मनुजामनुज-गणावधारणीय–स्व-पर–स्व-रूप–फल-तत्-साधन-परिपन्थि-निर्धारण-करणैः सूत्र-गणैर् एव
प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधात्,
तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः,
“ज्ञो ऽत एव”, “नाना शब्दादि-भेदात्”, “विकल्पो ऽविशिष्ट-फलत्वात्”, “एतेन योगः प्रत्युक्तः”,
एतेन शिष्टापरिग्रहा अपि व्याख्याताः
इत्य्-आदिभिर् निरस्त–स्व-मतेन नव्येन कणाद-सेश्वर-साङ्ख्य-भास्कर-शङ्करादि-मताभिक्षत-प्रतितन्त्रार्थ-गण-विषयकाहार्य-भ्रम-जनित-श्रद्धातिशयेन तत एव प्रत्यक्षित-बादरायणाभिमत-विवरण-परायण-बोधाद्यनादि-फणिति-विदूरेण पुलस्त्य-वसिष्ठ-वर-प्रदान-लब्ध-निखिलार्थ-प्रतिबोध-भगवत्-पराशर-फणित-पुराण-रीतितो ऽपि बाधित–स्व-मत–ग्रन्थ-सन्दर्भेण प्रसिद्धतम-श्रुति-सूत्रोभय-हिंसन-पटीयसा यद् अभिहितम् –
[[P1]]
इदं रामानुज-मतम् अ-सारम्
इति तत्
तत्-सन्निकृष्ठम् अपि वा मतम्
इति अभिहित-प्राचीन-रीतिम् अ-जानतः प्रबल-विरोधोदयेन स्व-मत-स्थाखिल-दोष-प्रदर्शन-मात्र-फलकम् । अस्माभिस् सारासार-विवेचने कृते तन्-मतस्यैवासारत्वेन सर्व-सिद्धतया करण-सम्भवात् । यन्-मत-व्यवहृति-विषयार्थेषु प्रमाणाभावः प्रमेय-दौस्थ्यं प्रमाणान्तरेण तद्-बाधः, अन्यथा-सिद्ध-प्रमाणोपन्यसनं च तन्-मतम् अ-सारम् इति सर्वानुमतम् । तच् च त्वन्-मत एव नास्मन्-मते । प्रकरणादि-बलेन अन्-अन्यथा-सिद्ध-प्रसिद्धतर-प्रमाण-सिद्धार्थानां प्रामाणिकेन केनापि दूषयितुम् अ-शक्यत्वात् । तत्र तावत् लोक-वेद-समधिगत एव द्रव्याद्रव्य-विभागः । स एव
द्रव्याद्रव्य-प्रभेदान् मितम् उभय-विधं तद्-विदस् तत्त्वम् आहुः द्रव्यम्
इत्य्-आदिना कवि-कथक-कण्ठीरवेण निबद्धः ॥
तत्र यद् उक्तं भवद्भिः
द्रव्याद्रव्य-विभागो न युक्तः । तद्-उपपादनं च नीलो घट इत्य्-आदि-प्रतीत्या तद्-अभेदस्यावश्याङ्गीकार्यत्वात् । न हि भेदे सामानाधिकरण्य-प्रतीतिर् दृष्ट-चरी? सिंहो माणवक इति दृश्यत इति चेत् — न; तथा प्रयोगस्य तत्र गौणत्वात्, नीलो घट इत्य्-आदौ गौणत्व-व्यवहाराभावात् । न च नीलादि-शब्दस्य नीलादिमत् परत्वं प्रतीति-व्याख्यानापातात् । नियमेन तथा प्रयोग-दर्शनेन तयोर् अ-भेद-परत्वस्यैव वक्तुं युक्तत्वाच् च
इति तत् जलत्वेन वह्नेर् अन्-औष्ण्य-साधनवद् उपहासपदम् । नैल्य-घटयोर् विशेष्य-विशेषण-भावावगाहनेन भेदावलम्बिन्यैव तथा नील-घटयोर् अ-भेदस्य दुरुपपादत्वात् । किम् अनयोर् भेदे प्रमाणम् एव नास्तीत्य् अयं वादः, उतानयोर् अ-भेदे दृढतर-प्रमाणान्तरोपलम्भात्? नाद्यः ।
यद् अग्ने रोहितं रूपं तेजसस् तद्-रूपं यच् छुक्लं तद् अपां यत् कृष्णं तद् अन्नस्य
इति श्रुत्यैव तत्-सिद्धेः । शुक्ल एव घटे पाकेन नैल्यम् उत्पन्नम् इत्य् अन्-अन्यथा-सिद्ध-प्रत्यक्षं च तत्र प्रमाणम् ॥
रूपादि-स्वाधिकरणाद् भिन्नं स्वाश्रये स्थिरे ऽप्य् आगमापायि-धर्मत्वात् असकृन्-निरुद्ध-गतिक-विषय-संयुक्तालोकवत् । न चेह पृथक्-सिद्धत्वम् उपाधिः । तस्य साध्य-रूपत्वे साध्याव्यापकत्वात् । भेद-घटितो हि व्याप्य-व्यापक-भावः । हेतु-रूपत्वे पक्षावृत्ति नेति कथम् उपाधिः? तद् उभयान्त्यत्वे ऽपि पीत एवायं पाकेन रक्त इति प्रतीत्या पृथग्-उत्पत्ति-ज्ञप्तिमत्त्व-रूपं पृथक्-सिद्धत्वं पक्ष-वृत्त्य् एवेति तन् नोपाधिः स्यात् ॥
ननु रूपादिकम् अ-पृथक्-सिद्धम् इत्य् एव त्वत्-पक्ष-सिद्धम् तर्हि तत्र कथं पृथक्-सिद्धत्वस्य वृत्तिर् इति चेत् — मैवम्; रूपादेर् मदीयम् अ-पृथक्-सिद्धत्वं स्व-सत्ता-काले धर्मिणम् अन्तरेणान्यत्र नेतुम् अ-शक्यत्वम् एव । तच् च तद्-रूपाभावे ऽपि रूपान्तरेण धर्मि-सत्ताया अ-विरोधितया न पृथक्-सिद्धत्वेन विरुध्यत इति निरूपाधिक एवायं हेतुः ॥
[[P2]]
न चैतेषाम् अन्यथा-सिद्धिः प्रमाणान्तर-विरोधो वा अस्ति । न द्वितीयः दृढतर-प्रमाणान्तरानुपलम्भात् । एक-शब्दानुविद्ध-प्रत्यय-सहोपलम्भ-नियमयोः प्रथम-पिण्ड-ग्रहणे अ-भेदेन ग्रहणस्य च अ-भेदे प्रमाण-भावः अग्रे निरसिष्यते । उक्ता च सामानाधिकरण्य-प्रतीतिर् उक्त-विधयैव भेदावगाहिनी प्रमाणान्तर-विरुद्धे तयोर् अ-भेदे न प्रमाणम् इति धीमद्भिर् ज्ञातुं शक्यम् एव । अत एव मत्वर्थीय-प्रत्यय-निरपेक्ष-सामानाधिकरण्यम् अपि न तयोर् अ-भेदे प्रमाणम् । तस्य त्वया ऽप्य् अ-खण्डार्थत्वान् अभ्युपगमात् । विशिष्टार्थत्वे त्वद्-अभिमतासिद्धेः । तयोर् अ-भेदे भिन्न-प्रवृत्ति-निमित्तानाम् इत्य् उक्त-लक्षणासिद्धिश् च । तस्य धर्मि-भिन्न-प्रवृत्ति-निमित्त-द्वयनिर्वाह्यत्वात् ॥
ननु नील-रूपातिरिक्तम् एव नीलत्वं उत्पलत्ववद् धर्मान्तरम् । तेन ताभ्यां भिन्न-प्रवृत्ति-निमित्तकयोः समान-विभक्तिकयोः शब्दयोः एकार्थ-बोधकताम् आदाय न लक्षणा-सिद्धिः, न वा रूपादि-रूपातिरिक्ताद्रव्य-सिद्धिश् चेति चेत् — जानामि यद्य् अपि तव कल्पने कुशलताम् । तथा ऽपि तेन तव न पश्यामि फलम् । तयोर् अपि धर्मयोः धर्मि-द्रव्याभेदे लक्षणा-लाभात् । भेदे ऽपि च न तयोर् अपि द्रव्यता युक्ता । द्रव्य-लक्षणाभावात् । त्वया ऽपि नीलम् उत्पलम् इति प्रत्यक्ष-प्रतीत्यङ्गीकारेण धर्मि-भिन्न-द्रव्य-द्वयोपलम्भ-प्रसङ्गाच् च । अ-द्रव्यत्वे च तयोर् धर्म्य-भेदेन न लक्षण-सम्भवः । अतस् तद्-उपपादनाय धर्म-द्वयान्तर-कल्पने ऽप्य् एवं धर्मि-भेद एव परिग्राह्य इति न त्वद्-अभिमत-सिद्धिः । एवम् अनयैव प्रतीत्या तद्-उभय-भेद-सिद्ध्या न हि भेदे सामानाधिकरण्य-प्रतीतिर् दृष्ट-चरीति वादः त्वदीयेष्व् अपि निरूपकेषु न शोभते ॥
एवं शाब्दी प्रतीतिर् भेदावगाहिनी चेत् इन्द्रिय-जन्या ऽपि तथैव । सा ऽप्य् एक-विशेष्यक-परस्पर-व्यावृत्त-विशेषण-द्वयोल्लेखिनीत्य् एव हि त्वया ऽपि वाच्या । प्रत्यक्षस्य भवद्भिस् सन्मात्र-ग्राहित्वानभ्युपगमात् । वैदिकैस् सर्वैर् अपि सा विशिष्ट-प्रतीतिर् इत्य् एव ह्य् अभ्युपगता । एवं च प्रतीति-व्याख्यान-प्रसक्त्या न तत्-प्रसञ्जनावकाशो ऽपि । न हि द्वौ घटाव् इति प्रतीतेर् घट-द्वय-विषयकत्वं व्याख्येयम् । न हि प्रतीति–स्व-भाववित् कश्चित् विशिष्ट-प्रतीतेर् विशेषण-विविशेष्याभेद-विषयकतां ब्रूते । यदि भेदासहम् एवाभेदम् अनयोर् अभिमन्यसे तर्हि सर्वतो-मुखस् त्वदीयो निर्विशेष-वादस् स्यात् । ब्रह्मैव हि परस्य निर्विशेषम् ॥
[[P3]]
किं च यदि सर्वम् अपि द्रव्यं तद्-धर्मत्वाभिमतात्यन्ताभिन्नं तर्हि घट-पटादिः कथं परस्पर-भिन्नस् स्यात् । स्वाभिन्नेन धर्मेण स्वस्मिन् भिन्न इति धी-व्यवहारयोः अ-निर्वाहात् । यदि स्व-रूपम् एव भेदः तर्हि संशयाद्य्-अनुदयः प्रसजेत् । किंचिद्-अग्रहण-निबन्धनान्ध-बधिरादि-भावो ऽपि न सिध्येत् ।
अपि च एक-हायनीवत् आरुण्यम् अपि पृथक् क्रय-साधनम् इति वैदिकाः । तत्रारुण्यस्यामूर्ततया द्रव्य-परिच्छेदकतया क्रय-अन्वय इत्य् अपि । तयोर् अ-भेदे च भवत्-पक्षे तद्-अधिकरणं च विरुद्धम् । “लोहितोष्णीषाः”, “दर्भैस् तृणीत हरितैः”, “पौण्डरीकाणि बर्हींषि भवन्ति” इत्य्-आदि-विशेष-विधानम् अपि गुण-विषयं व्यर्थम् । धर्माणाम् तद्-आधारत्वाभिमता-भिन्नत्वे धर्म्य्-अन्तर-ग्रहणे ऽप्य् अ-वैगुण्यात् ॥
ननु गुण-गुणिनोर् अ-भेद इति मत्-सिद्धान्त-निर्वाहाद् एव उपहतं तद्-अधिकरणम् । भवद्भिर् इवास्माभिः कर्म-ब्रह्म-मीमांसयोर् ऐक-शास्त्र्यानभ्युपगमाद् इति चेत् मैवम्; अनयैव रीत्या शब्दानुशासन-विरोधो ऽपि भवतां न बाधक इति शास्त्रीय-सरणिम् उल्लङ्घ्य व्यवहारे कश् शास्त्रीयो भवद्-उक्तेः प्रत्य्-उक्तिं दद्यात्? तथा ऽप्य् उक्त-श्रुत्य्-आदि-विरोधो दुर्वारः ॥
किं च द्रव्याद्रव्ययोर् अत्यन्त-भेद एव बहु-प्रमाणोपलम्भात् न भवद्-अभिमत-सिद्धिः । तथा हि – गन्ध-ग्रहवतो ऽन्धस्य तद्-धर्मि-संशयः स्व-परानुभव-सिद्धः । तथैव स्पर्शावगत-धर्म्य्-अंशस्यान्धस्य रूप-सन्देहो ऽपि । अवगत-रस-विशेष एवान्धः तद्-धर्मिणि तद्-रूपे च स्व-परानुभव-सिद्ध-संशयवान् उपलब्धः । गृहीत-शब्द एव कश्चित् कस्यायं शब्द इति स-संशयः परिदृश्यते । शुक्ति-शकलादाव् अवगत-रूपो ऽपि धर्मिणि संशय-विपर्यय[[??]]-धीर् उपलब्धः । अत एकस्मिन्न् एव काले परस्पर-विरुद्धे संशय-निश्चय-विषयत्वे द्रव्याद्रव्ययोर् अ-भेदो नोपपद्यते इत्य् अर्थापत्तिभिर् अपि सर्वानुभव-सिद्ध एव तयोर् अत्यन्त-भेदः ॥
अपि च उक्तेष्व् एव स्थलेषु अन्वय-व्यतिरेक-सिद्धं रूपाद्यं द्रव्य-गतम् एकैकेन्द्रिय-ग्राह्य–स्व-भावत्वम् अपि दृष्टम् एव स्पृशामीत्य्-आदि-प्रत्यभिज्ञा-प्रत्यक्ष-सिद्ध-द्वीन्द्रिय-ग्राह्यत्ववत् घटादि-द्रव्यात् स्वाधिकरणस्यात्यन्त-भेदकं, तथा द्रव्य-गत-द्वीन्द्रिय-ग्राह्य-स्वभावत्वम् अपि स्वाधिकरणस्य उक्त-विधादद्रव्याद् अत्यन्त-विरुद्धयोर् धर्मयोः एकत्रासमावेशात् । तथा रूपं घट इत्य् अ-प्रयोगात् रूपी-घट इति प्रयोगात् “गुणे शुक्लादयः पुंसि” इत्य्-आदि-व्यवस्थया जातिर् गुणः क्रिया द्रव्यम् इत्य्-आदि-निष्कर्षक-शब्द-प्रयोगाच् च द्रव्याद्रव्ययोर् अत्यन्त-भेद-सिद्धिः ॥
[[P4]]
अपि च शुक्लः पट इति प्रत्यक्षे ऽपि जाति-गुणयोर् एकस्मिन् पटे प्रकारतया भानम् अ-व्याहतम् । न च प्रतीतेश् शुक्ल-गुणाश्रयता-विषयकत्वे शुक्ली पटः इत्य् आकारता ऽऽपत्तिः । प्रतीतेर् निराकारत्वात् गुण-संसर्ग-विषयताया आपादने इष्टापत्तेः । इनि-प्रत्ययानुविद्धत्वापदनस्यापि प्रत्यक्षस्य शब्दाननुविद्धतया मतुब्-लोपानुशासनेन च निरासात् । यत्र च न तल्-लोपानुशासनं तत्र इनि-प्रत्ययानुरोधो ऽस्त्य् एव रूपी घट इत्य्-आदि-बुद्धेर् अ-व्यतिरेकात् ॥
वस्तुतस् तु शुक्लः पट इत्य्-आदौ शुक्लादि-शब्दाः द्वि-विधाः । गुणि-पर्यन्ताः केवल-गुण-वाचकाश् च । पटस्य शुक्लः शुक्लः पट इत्य् उभयथा ऽपि व्यवहारात् । यथा पुण्य-पापादयश् शब्दाः अस्य पुण्यम् अस्य पापम् अयं पुण्यः अयं पापः इत्य् उभयथा ऽपि व्यवहारात् । तथा च दण्डादि-शब्दानां विशेष्य-पर्यन्तत्व-विवक्षायां दण्डवान् दण्डी इत्य्-आदि-मतुब्-आदि-युक्त-प्रयोगात् केवल-गुण-वाचकेभ्यः शुक्लादि-शब्देभ्यः द्रव्य-पर्यन्तत्व-विवक्षायां मतुब्-आदिनां प्रसक्तौ तद्-वारणाय
गुण-वचनेभ्यः मतुपो लुग् इष्यते
इति लुग्-अनुशासनेन द्रव्य-पर्यन्त-शुक्लादि-युक्त-प्रयोग-समवेता अपि शुक्लादयश् शब्दाः मतुब्-अर्थोल्लेखि-प्रतीति-जनकतया गुण-गुणिनोर् भेदं दृढयन्ति । तस्माच् छाब्द-बुद्धि-स-रूपायाः प्रत्यक्ष-बुद्धेर् अपि गुण-गुणि-भेदावलम्बित्वात् तस्याः अ-भेदे प्रमाणतयोपन्यसनम् अ-युक्ततमम् ॥
न चैवं घटो न शुक्ल इत्य् उल्लेखापत्तिः, शुक्ल-गुण-भेद-विवक्षायाम् इष्टापत्तेः । एतेन तथा शब्द-प्रयोगापदनम् अपि निरस्तम् । किं च संयोगादि-रूपम् अ-द्रव्यं गत्वर-पिपीलिकादिमत्सु दीप-ज्वालावद् एव प्रति-क्षणं भिन्नतया उपलब्धं तद्वच् च स्थिरतया । न ह्य् एवं विधेषु द्रव्य-पर्यन्त-नाशस् सम्भवति । अतो ऽल्प-काल-नाश्याद्रव्यात्यन्त-भिन्नम् एव स्थायि-द्रव्यम् ॥
किं च अभिक्रमणावेक्षणादि-क्रियायाः पञ्चत्वैकादशत्वादि-सङ्ख्यायाः अश्व-शफादि-परिणामस्य कूर्माद्य्-आकृतेः कर्माङ्गत्व-चोदकैर् वाक्यैः तल्-लोपे प्रायश्चित्त-विधायकैश् च विरुद्धो ऽयम् अ-द्रव्यस्य द्रव्य-भेदाभाव-वादः ॥
[[P5]]
यच् चान्यत् परस्य प्रलपितं भेद भेदिनोर् भेदो ऽस्ति न वा? अस्ति चेत् सो ऽपि भेदो भेदि-भिन्नः सो ऽपि तत्-तद्-भेदि-भिन्न इत्य् अनवस्था । न चेत् तद्वद् एव द्रव्याद्रव्ययोर् अपीति, तत् तुच्छम् । एवं वदतस् तव घट-पटयोर् भेदो ऽस्ति न वा? न चेत् प्रत्यक्ष-विरोधः । अस्ति चेत् स न तयोस् स्व-रूपम् परस्पर-प्रतियोगिकत्वानुपपत्तेः । अतस् स्व-रूपातिरिक्ते सति तत्र भेदे तत्रापि भेद-भेदिनोर् भेदे तत्रापि तथेत्य् अनवस्था । अ-भेदे स-प्रतियोगिकत्वाप्रतियोगिकत्व-विरोधः । तथा ऽपि तयोर् अ-भेदे घट-पटयोर् अपि तयोर् इवाभेदः कुतो न स्यात् । प्रत्यक्ष-सिद्ध-भेद-स्थले नैवम् अतिप्रसङ्गावकाश इति चेत् न । पाकाद् रक्ते घटो ऽयम् अद्य प्राक्तन-नैल्य-विधुर इत्य्-आदि-विधया गुण-गुण्यादेर् अपि भेदस्य प्रत्यक्ष-सिद्धत्वात् रूपी घटः रूपवान् घटः इदम् इत्थम् इत्य्-आदि-विध-प्रत्यक्षस्य सर्व-सिद्धत्वाच् च ॥
किं च देह-देहिनोर् जीवेश्वरयोः न तथा प्रत्यक्ष-सिद्धो भेद इति तत्र त्वत्-कुपथ-प्रसरे गतं तयोर् अपि भेदेन । तेन बाह्यं शङ्करं च प्रत्युपरतस् तव विवादः । आपि च भेद-भेदिनोर् अ-भेदे द्वि-वचनानुपपत्तिः । भेदे च तद्वत् द्रव्याद्रव्ययोर् अपि भेदस् स्याद् एव । एवम् अ-भेद-तद्वतोर् अ-भेदे ऽपि द्वि-वचनानुपपत्तिः । भेदे च निस्सन्दिग्ध एव सिद्धस् तत्-प्रतियोगिक-भेदो ऽपि तद् व इति ।
एवम् आदिषु विशेष-बलेन भेद-व्यवहार-निर्वाहः तस्यैवानिरूपित-मूलकत्वात् निर्मूलः । तत्राप्य् एवं विकल्प-तद्-दूषणयोर् अ-निर्मोक्षश् च । स्व-पर-निर्वाहकत्वात् तन्-निर्वाहे तु अ-नीलाद् भेदकं घटस्य नैल्यं स्वाश्रयाद् अपि स्वयम् एव भेदकम् इति तथैव नैल्य-घटयोर् अपि भेद एव दृढी-कृतस् स्यात् ॥
किं च त्वन्-मते वास्तवाभेदवतोर् गुण-गुणिनोः “तस्य महतो भूतस्य निश्वसितम्” इत्य् उक्त-विध-वेदैः भेद-व्यवहारवत् ब्रह्म तद्वन्तो नित्यामुक्तास् सर्वे च । व्यवहारश् च व्यवहर्तव्य-ज्ञान-साध्यः । तच् च ज्ञानम् अ-सद्-विषयकतया भ्रम-रूपं च तद्-विशेष-रूप-दोष-कृतम् एव तव वाच्यम् । एवं च भ्रान्तं ब्रह्म वेद-पुरुषश् च भ्रान्तः त्वद्-गुरवस् सर्वे सर्वे नित्यादयश् च भ्रान्ताः भ्रम-ज्ञान–स्व-रूपा एवेति त्वद्-अभिमत विशेषतो महानयं विशेषः त्वन्-मते त्वया त्वदीयैश् च सम्पादितः । इत्थम् अ-विद्या ऽपर-पर्यायं विशेषम् अभ्युपगच्छतस् तव तद्-अभ्युपमन्तॄन् प्रति किम् अ-विद्या-खण्डनेन यत इत्थम् अनयोर् गुण-गुणिनोर् अ-भेदो बाधितः । अतस् सिद्धान्ते द्रव्यापृथक्-सिद्ध-विशेषणम् एवाद्रव्यम् उक्त-विधया द्रव्याद् अत्यन्त-भिन्न–स्व-भावम् एवेत्य् अभिप्रेत्य “द्रव्याद्रव्य-प्रभेदात्” इत्य् अनुगृहीतम् । अतो नासारम् अस्मिन्न् अर्थे पश्यन्ति सन्तः ॥
इति श्रीमत्-कवि-कथक–कण्ठी-रव–चरण-युगल-नलिन-निर्गत-मधु–मधु-कर–मानसेन पर-काल-यतिना विरचित-रामानुज-मत-निरास-विमर्शे द्रव्याद्रव्य-भेद-वाद-भङ्गः प्रथमः ॥
[[P6]]