१ भूमिका
जयति यति-सार्वभौमो जयति च वेदान्त-देशिकः श्रीमान् । ताभ्यां कृत-प्रतिष्ठो जयति त्रय्य्-अन्त-सिद्धान्तः ॥
श्री-रामानुज-मत-सारत्व-निरसन-नामकं विजयीन्द्र-पराजयाभिधानम् इदं ग्रन्थ-रत्नं श्रीमन्-महा-पर-काल-महा-देशिकैर् अन्वग्राहीति प्रथित-चरम् एव ।
ब्रह्म-शब्देन च स्व-भावतो निरस्त-निखिल-दोषो ऽनवधिकातिशयासङ्खेय-कल्याण-गुण-गणः पुरुषोत्तमो ऽभिधीयते
इत्य् अभाषत भगवान् भाष्य-कारः ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्म-विद्याम्
इति श्रुति-गत-भगवद्-अ-साधारण-पुरुष-शब्द-ब्रह्म-शब्द-सामानाधिकरण्यं चेहोपष्टम्भकम् ।
ज्ञानानन्द-मयस्त्व् आत्मा शेषो हि परमात्मनः,
“पादो ऽस्य विश्वा भूतानि”, “यस्यात्मा शरीरम्”, “अंशो नाना व्यपदेशात्” इत्य्-आदि-प्रमाण-प्रतिपन्न-जीव–स्व-रूपस्य “ब्रह्म-विदाप्नोति परम्”
सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता,
रसो वै सः रसग्गँ ह्य् एवायं लब्ध्वानन्दी भवति,
तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति
इत्य्-आदि-परस् सहस्रान् अन्यथा-सिद्ध-प्रसिद्धतर-प्रमाण-सिद्धे
सकलैश्वर्य-परिपूर्ण-हेय-प्रत्यनीक-कल्याण-गुणाकर-ब्रह्मोपासनया प्रक्षीणाशेष-कर्मणः तदा विद्वान्
इति पद-स्वारस्य-सिद्ध-सर्व-जीवस्याप्य् अ-विशेषेण च ब्रह्म-याथात्म्यानुभव-रूप-भोग-साम्यादिके बादरायण-प्रभृति-त्रय्य्-अन्ताचार्यैर् अभिहिते ऽप्य् अत्र अभिनिवेश-वशीकृत-चेतोभिः प्रसिद्धतम-श्रुति-सूत्रोभय-हिंसन-पटीयोभिः नवीनैर् यद् उक्तम् “इदं रामानुज-मतम् अ-सारम् इति” तत् श्रीमद्-आचार्यैः सारासार-विवेचनया तन्-मतस्यैवासारत्वं प्रादर्शि ॥
[[Piii]]
अत्र तु प्रमाण-तन्त्राः सारासार-विवेक-ज्ञाः विमत्सरा एव प्रमाणम् इति भूयो न वितन्यते । एक-विंशति-वादात्मिकेयं रत्नावली-सर्व-विध-विशयादि-निरसनाभ्यर्हित-द्रव्याद्रव्य-भेद-प्रसाधन-पुरस्-सरी श्रीमन्-नारायण-शरणागतेः मुक्त्य्-उपायत्व-प्रतिष्ठापनान्ता च प्रख्यात-श्रीमद्-अभिनव–रङ्ग-नाथ–ब्रह्म-तन्त्र–पर-काल-महा-देशिक-पद-कमल-सेवा-समधिगत-सकल-विद्या-पारङ्गताः तद्-अ-साधारण-कृपा-पात्र-भूताः इदानीं श्री-पर-काल-मठीय–श्री-लक्ष्मी-हय-वदनास्थान्याम् अभिषिक्ताः “श्रीमत्-परम-हंसे"त्य्-आदि-बिरुदाङ्किताः श्री-लक्ष्मी-हय-ग्रीव-दिव्य-पादुका-सेवाहेवाकाः श्रीमद्-अभिनव-रामानुज-पर-काल-महादेशिकाः श्रीमत्सु संयमि-वर्येषु स्वकीय-कैङ्कर्यम् अनुसन्दधानाः ग्रन्थ-रत्नम् इदं प्राचीकशन्न् इति नितरां प्रमोद-भरितो विज्ञान् विज्ञापयति -
मैसूरु १५-२-१९७२
विदुषाम् अनुचरः मैसूरु श्रीमन्-महा-राज-संस्कृत-महा-पाठ-शाला-निवृत्त-व्याकरण-प्राध्यापकः वेदान्त-विशारदः
सरगुरु श्रीनिवास-वरदाचार्यः
[[Piv]]
॥ श्री लक्ष्मी-हय-वदन–लक्ष्मी-नारायणाभ्यां नमः ॥ श्रीमते रामानुजाय नमः ॥ श्रीमते निगमान्त-महा-देशिकाय नमः ॥
श्री श्री महा-पर-काल-स्वामिभिर् अनुगृहीतः (विजयीन्द्र-भिक्षु-कृत-सारासार-विवेक-स्थ)
रामानुज-मत-निरास-विमर्शः
इन्दिरा-मन्दिरोरस्कम् इन्द्र-नील-निभं शुभम् । भावये कुमति-ध्वान्त विनिवर्तक-भावनम् ॥ जयति विविध-विद्वद्-गर्व-भङ्ग-प्रचण्डः कवि-कथक-मृगेन्द्रस् सर्व-तन्त्र–स्व-तन्त्रः । शमित-विविध-भाविग्रन्थ-सन्दर्भ-वीर्यः फणितिभिर् अ-चलाभिर् मद्-गुरुर् दैशिकेन्द्रः ॥ तत्त्वे हिते पुम्-अर्थे च नव्याध्वात्यन्त-हेयताम् । देवः प्रदर्शयत्य् अस्मद्-उक्त्या पश्यन्तु साधवः ॥ तत्त्वे धीर् विपरीता चेद् धि ते ऽपि च तथैव सा । पुम्-अर्थे ऽपि तथैवैतत् सर्वं नव्ये सुपुष्कलम् ॥