१२

॥ अथ द्वादशोऽध्यायः ॥

१) आदेशशब्दार्थ विचारः :- अभिन्ननिमित्तोपादानत्वं ब्रह्मणः लोकवैलक्षण्यापादकम् । लोके न वा मृदः निमित्तत्वं सर्वशक्तित्वाद्यभावात्। न वा कुलालस्य उपादानत्वं घटादिरूपेण बहुभवनादि सत्यसङ्कल्पत्वाधभावात्। “एकमेव” अद्वितीय पदाभ्यां परस्यैव उपादानत्वं निमित्तत्वं च घटते । अत एव तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञा – दृष्टान्तादयः सङ्गच्छन्ते । सर्वविधकारणत्वे उपनिषदः ब्रह्मणि समन्वयतामाप्नुवन्ति । “एतस्य वा अक्षरस्य् प्रशासने गार्गि सूयाचन्द्रमसौ विधृते [[127]] तिष्ठतः इति याज्ञवल्क्यः विवेचयमास । स एव आदेशशब्दवाच्यः” आदेशो पदेशययोः भिन्नार्थकत्वं श्रीरङ्गरामानुजमुनयः प्रत्यपादयन् लोके शिष्यः गुरुं प्रति विविच्य ज्ञापयतीति वक्तव्ये शिष्यः गुरुमदिशति वा उपदिशति इति वा प्रयोगः दृश्यते वा ? “आदिशति” इति व्यवहारः नियन्तृविषयः ।

२) प्रशासिता ब्रह्मैव आङ् पूर्वः दिशतिः “नियोक्तृप्रयोजनवचनः उपपूर्वस्तु नियोज्यप्रयोजनवचनः” इति काशिकाव्याख्या । उपदेशस्थले यं प्रति उपदेशः, तस्यैव तदनुष्ठाने फलम् । आदेशस्थले तु “गामानय” इत्यादौ क्रियाफलं मुख्यं प्रायिकमिति एतन्मुखेन वैलक्षण्यं प्रदर्शितम्। सर्वथा आदेश नोपदेशः । अत्रौपनिषद्भाष्यकारः श्रीरङ्गरामानुजमुनयः “एष आदेशः एष [[128]] उपदेशः” इति पृथगुपदिष्टयोः आदेशोपदेशयोः “न वायुक्रिये पृथगुपदेशात् इति न्यायेन निमन्त्रणामन्त्रणयोरिव भेदावश्यंभावात् वृक्षवनस्पतयोरिव च, स्नेहभक्ति शब्दयोरिव च क्वचिदेकविषये प्रयोगमात्रे णानुभवभेदस्य दुरपहृक्त्वात् । “आदिशति” इत्युक्ते यद्वावयस्य उल्लङ्घने दण्डो अवति तादृशशब्दप्रयोक्तृत्वं नियमितृत्वमाज्ञापयितृत्वं प्रतीयते । अतः आदिशति इति व्यवहारः प्रभुविषय एव । “अन्त प्रविष्टः शास्ता जनानां सर्वात्मा” इत्यादौ प्रभुविषयक एव प्रतीतिः । “प्रशासितारं सर्वेषां” तियादिश्रुतिस्मॄति प्रतिपन्न परमात्मधर्मभूतं प्रशासितृत्वम् आदेश” इति । एतादृशादेशशब्दवाच्यस्य ज्ञानेन श्रुतेन मतेन सर्वं ज्ञातं श्रुतं मतं भवति इत्यर्थः । ब्रह्मसूत्राणां विशिष्टाद्वैतवेदान्तपरत्वम् [[129]] “आत्मनि चैवं विचित्राश्चहि” इति सूट्रयता बादरायेणनपरस्मिन् ब्रह्माणि तत्र तत्रादृष्टाः अनेका शक्तयः सन्तीति अभ्युपगता । माध्वाधभिमतरीत्या ’प्रतिज्ञा’ दृष्टान्त वाक्यार्थवर्णने मुख्यार्थबाधदोषप्रसङ्गः । “आत्मकृतेः” १-४-

२६ इत्यत्र “सोकामयत बहुस्त्यां प्रजायेयं” इति प्रक्रुतस्य ब्रह्मणः कर्मत्वं “तदात्मानं स्वयमकुरुत (तै. आ. ७.१) इति कर्तृत्वं च प्रतीयत इति उपादानत्वं निमित्तत्वं च अङ्गीकृतम्६ । मुण्डके ३-१-३ “कर्तारमीशं पुरुषं ब्रह्म योनिं” तत्रैव मुण्डके २-१-६ “यद्भूतयोनिं परिपश्यन्ति धीराः” – इति उपनिषदुक्तदिशा सूत्रकारः “योनिश्च हि गीयते” – इति सूत्रयामास । योनिर्नाम उपादानमिति “ययोर्णनाभिः” – वाक्यशेषादवगभ्यते । प्रकृत्यधिकरणस्य विषयाः १-४-७ अपूर्वमतकल्पनाग्रस्तैः माध्वै व्याकुलीकृता । [[130]] सूत्रकारस्तु अभिन्ननिमित्तो पादानत “साक्षच्चीभयाम्नानात्”

१-४-२५ श्रुतिबलात् अस्थापयत् । “सर्वे वेदा यत्पदमामनन्ति” २-१५ कठेः, “वेदैश्च सर्वैरहमेव वेद्यः” भ. गी. १५-१५.इत्यादिश्रुतिस्मृतिभिः सर्वशब्दवाच्यत्वं ब्रह्मणः सम्प्रतिपन्नम् । वेदान्तकृत् वेदविदेव – इति सर्वज्ञत्वाद्यपि उपपाद्यते । उपसंहार: वेदोपबृंहणार्थाय पुराणादीनिव वेदान्तविचारात्मकं न्यायनिबन्धनरूपं सूत्रजातं विशिष्टाद्वैतमतमवलम्ब्यैव प्रणिनाय । इत्यं प्रकृत्याद्यधिकरण पर्यालोचनया ग्रन्थकारः स्वमतमाविश्चकार । “सर्वाण्यप्येतत् अधिकरणसूत्राणि मुख्यार्थत्यागरूपदोषग्रस्तानि भवेयुः” – इति ग्रन्थकारोक्त्या विशिष्टाद्वैतमतप्रक्रिया एव आहता सूत्रेषु इति