॥ अथ एकादशोऽध्यायः ॥ सत्कार्यवादसमर्थनं सत्कार्यवादः :- श्रुतिसम्प्रतिपन्नैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा वैशेषिकमतनिरसनादेव उपपादितं भवति । अतः छान्दोग्ये
६-२-२ असत्कार्यवादः निरस्तः । “असदेवेदमग्र आसीत्” इत्यारभ्य असत्कार्यवादनिरासः । उत्पत्तिर्नाम सतो द्रव्यस्यावस्थाविशेषः, स च वाचारम्भणम् इत्यादिना उपपादितम् । आश्रयभूतस्य द्रव्यस्य पूर्वम् असत्त्वं यदि अभ्युपगम्येत तर्हि उत्पत्याख्या अवस्था निराश्रया कथं भवति । असतः कथं [[124]] सज्जायेत ? तर्हि सर्वेषां कारणं विनैव उत्पत्तिप्रसङ्ग । असतः उत्पन्नं असदात्मकमेव भवति । विशेष्यं वस्तु पूर्वमसच्चेत् विशेषणभूत जगत्त्वावस्थाया” अप्यसत्त्वात् विशिष्टमपि असत् इत्यर्थः । सतः खलु नामरूपविभगार्हां अवस्थां प्राप्नोति इति सत्कार्यवादः समर्थितः । अपभ्रंशविचारः :- यथा सोम्येकेन मृतिप्ण्डेण इति दृष्टान्तवाक्यार्थवर्णने प्रकृत्ताः भेदवादिनः माध्वाः मृत्पदज्ञानेन मृत्पदापभ्रंशाज्ञातप्रायाः भवन्ति इति वाक्यर्थ वर्णनां कुर्वन्ति । मृच्छब्दस्य शब्दपरत्वं लक्षणया वाच्यम् । यतो हि मृच्छब्दः अर्थपरः । “मृण्मयम्” – तियत्राणि मृत्पदस्य शब्दपरत्वे लक्षणादोषप्रसङ्गः । अपभ्रंशानां साधुशब्दविकारत्वे किं प्रमाणम् ? “वाचारम्भणम्” इत्यत्र मृच्छब्दस्य व्यापकत्वं, [[125]] तदपभ्रंशस्य च अव्यापकत्वम् उच्यते इति तु न सङ्गच्छते । विकार शब्दस्य अपभ्रंशवाचकत्वाभावात् । लोके तावत् एकमेव सत् द्रव्यं अवस्थान्तरा…. सद्विकार इत्युच्यते । मृद्वाचकानां भाषारूपाणामपभ्रंशानां मृच्छब्द अवस्थान्तरापन्नत्वं न हि अनुभूयते । “विकारः” शब्देन अपभ्रंशबोधे “नामधेय” – इति श्रुतिसिद्धपदवैयर्थ्यापत्तिः । अपभ्रंशेषु लोके नामधेयत्व त्यवहाराभावे न “विकारो नामधेयं” इति सामानाधिकरण्यं च नोपपद्यते । एतञ्च वाचारम्भण श्रुते यथाश्रुतार्थ वर्णनं विहाय अपभ्रंशपरतया व्याख्या न साधुमम्मता । ब्रह्मणः चिदचितोश्च प्रतिज्ञादृष्टान्त वाक्यार्थ वर्णनं उपादानोपादेयभावपर एव । एषां मतान्तररीत्या वाक्यार्थवर्णनासम्भवात् [[126]] ##