१०

॥ अथ दशमोऽध्यायः ॥ प्रतिज्ञावाक्यशोधः :- व्याकरणनयेन सामानाधिकरण्योपपत्तिः तत्त्वमसीत्यत्र प्रदर्शिता । तत् त्वं पदयोः भिन्नप्रवृत्तिनिमित्तता च उपपादिता । सामानाधिकरण्यञ्च न स्वरूपतः ऐक्यं प्रतिपादयति चन्द्र इव मुखमित्यत्र चन्द्रसदृशं मुखमित्येकर्थः । मुखमेव चन्द्रः इति [[120]] वा चन्द्र एव मुखं इति वा नार्थः ॥ “त्वम् अतदसि” इति कदापि ब्रह्म भवति जीवः । तयोः अत्यन्तभेदात् इति भेदवादिनः । एवं सति एकविज्ञानेन सर्व विज्ञान प्रतिज्ञायाः का गतिः ? राजा राष्ट्रं – तियादिव्यवहारः दृश्यते । न तत्र तयो ऐक्यं, अभेदोपचारः तत्र । राजाधीनत्वं राष्ट्रस्येति जगतः सदधीनत्वं प्राहुः । अत एव “सदेव सोम्येदमग्र आसीत्” – इत्यत्र सच्छब्दवाच्य परमात्मा इयं – बुध्देः परमात्मा प्रलयकाले एकमेवासीत् इति प्रकरान्तरेण पूर्व पक्षिणः व्याख्यां कुर्वन्ति । इदम् इत्यस्य बुध्देः परत्वे किं स्वारस्यम् ? प्रत्यक्षादिप्रमाणप्रतिपन्नस्य जगतः कथं बुद्धिस्थत्वम् इति ग्रन्थकारः दोषमुद्भावयति ॥ [[121]] “यतो वा इमानि भूतानि” – इति प्रत्यक्षसिद्धस्य् अबुद्धिस्थपरत्वेसति कारणत्वप्रतिपाअनं कुतः ? “एको ह वै नारायण आसीत्” इत्यत्र ब्रह्मणः कारणत्वप्रतिपादनात् “इदम्” अद्वितीयम् इत्यादीनां वैयर्थ्या पत्तिः । विशिष्टाद्वैतिनां मते स्वरसा गतिराश्रिता । “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा” बहु स्यां प्रजायेय” इति स्वस्यैव बहुभवनम् अन्तप्रवेशनं, नियमनमिति नियामकान्तरस्य अश्रुतेः उपादानत्वं निमित्तत्वं च । “अयं देवदत्तः श्यामः स्थूलः इत्यादौ शब्दानाम् आत्मनि मुख्यत्ववत् “इदं” शब्दस्य ब्रह्मणि मुख्यत्वम् । मध्वमतेपि “सदेव” इत्यत्र “इदं” शब्दस्य योजनाभेदेन ब्रह्मपरत्वम् अङ्गीक्रियते ।श्वेतकेतुः अश्रुतवेदान्तः तत एव जगत्कारणत्वं ब्रह्मणः असम्भाव्यमानतां मन्वानः पुनः पुनः पप्रच्छ “कथं स [[122]] भगवः स आदेशः” इति ॥ यद्यपि सः अश्रुतवेदान्तः तथापि “महामनाः अनूचानमानी वा इति विवरणेन पूर्वमीमांसापरिचय ज्ञानवान् इति ज्ञायते । अत एव पिता “तदैक्षतः इत्यारभ्य सर्वज्ञत्व सर्वशक्तित्वादिशब्दैः शरीर आत्मभावादिलिङ्गै स्वयमेव ब्रह्मपर्यन्तत्वं ज्ञास्यतीति बुध्दया इदं चिदचिदात्मकं जगत् इत्युपदिदेश । दृष्टान्तपुरस्सरं ब्रह्मणः एव कारणतां स्थापयामास । तस्य “अद्वितीयं” इत्यनेन निमित्तकारणत्वमपि प्राह । एवं अभिन्न निमित्तोपादानत्व कारणत्वज्ञानेनैव सर्वं ज्ञातं भवति । यतो हि स एव प्रशासन कर्ता आङ् पूर्वक दिश् धातो प्रशासनमित्यर्यः । ततः “घञ्” प्रत्ययः । आदेशः प्रशसिता इत्यर्थः । एवं तत्त्वसारे आचार्यवरदगुरुभिः” [[123]] समर्थितम्६ । एषा गतिः यद्याश्रीयेत तर्हि सर्वाः अर्थाः आङ्लादकराः भवन्ति इति चन्द्रिका प्रसरणेन ग्रन्थकार सैद्धान्तितानर्थान् दशमे प्रचकाषीत्॥