०९

॥ अथ नवमोऽध्यायः ॥ माध्वमते आक्षेपः :- सदेव सोम्येदमग्र आसीत् “ब्रह्म वा इदमग्र आसीत्” (बृ. उ. ३-४-१०) इत्यादिकारणप्रतिपादकवाक्येषु इदं शब्दार्थभूतस्य प्रपञ्चस्य सच्छब्दब्रह्मशब्दवाच्यपरमात्मना ऐक्यं प्रतीयते । तादृशञ्चैक्यं न स्वरूपेण यतोहि ब्रह्मणः जगतश्च अत्यन्तभेदोपगमात् । उपादानोपादेयभावेनैव तत् [[116]] उपपादनीयम् । स्थूलतया परिदृश्यमानं चिदचिद्विशिष्टं ब्रह्म पूर्वं नामरूपविभागानर्हसूक्ष्मचिदचिद्विशिष्टं ब्रह्म आसीत् । कार्यकारणयोः अनन्यत्वप्रतिपादनमुखेन ब्रह्मणः उपादानत्वं सिध्यति । यदि इदं शब्दस्य चेतनाचेतन परत्वं स्वीक्रियते, तयोः सच्छब्दविशेषणपरत्वं तर्हि सच्छब्द नैयर्थ्यापत्तिः । प्रलयकाले चेतनाचेतनानां बहूनां सद्भावेन “एक शब्दार्थ अन्वयापत्तिश्च।एकशब्दस्य तनाचेतनसङ्घातैक्यपरत्वस्वीकारे तस्य च नित्यसिद्धतया “एक” शब्दवैयर्थ्यापत्तिः । अचेतनज्ञानेन जीवेश्वरयोः कथं ज्ञानता ? एतत्सर्वं ईक्षतेर्नाशब्दम्” १-१-५ ईक्षत्यधिकरणे अचेतनस्य प्रधानस्य न वा जगत्कारणत्वं न वा राच्छब्दवाच्यत्वम् । “ईक्षते” शब्द श्रवणात् सच्छब्दवाच्य पुरुषोत्तमः एव इति राद्धान्तितम् ।

१) नियामक-नियाम्य स्वरूपविवेचनम् :- [[117]] सृष्टेः प्राक्काले सूक्ष्मरूपेण इदं स्थूलरूपं जगदासीत् परमात्माधीन मेव इति माध्वरीत्या अर्थवर्णनं नोपपद्यते । तथा सति “अग्रे” – इति शब्दस्य वैयर्थ्यम् । कालस्य परमात्माधीनत्वं नाङ्गीकृतम्६ । परमात्मवाचिसच्छब्दस्य परमात्माधीनत्वस्वीकारे जगति बहुत्वस्य प्रत्यक्षसिद्धतथा “अद्वितीय” पदानन्वयः । “यदधीना यस्य सत्ता तत्तदित्येव भण्यते” – इति गृस्मृतिबलेन नियाम्यवाचकजगच्छब्देन नियामकस्य ब्रह्मणः बोधनस्म्भवः । तथा सति नियाम्यवाचकशब्दस्य नियामके ब्रह्मणि कथं मुख्यवृत्ति । अभ्युपगमे लक्षणास्वीकारापत्तिः । मुख्या वृत्तिः यदि स्वीक्रियेत तर्हि सा वृत्तिः विशिष्टशक्तिरूपा इत्यभ्युपगमनीया । नियाम्यानां बहुत्वात् नानार्थकत्वाच्च “अद्वितीयम्” – इति पदस्य वैयर्थ्यम् । द्वितीयानां बहूनां [[118]] सत्त्वात् । “राजा राष्ट्रं” इत्यादिलौकिकप्रयोगस्य “यजमानप्रस्तरः” इत्यादि विअदिकप्रयोगस्य च मुख्यत्वापत्तिः । इत्यं पूर्वपक्षिणां मते श्रुतिवैयर्थ्यापत्तिः उपपादिता॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यरत्तगृहीतेः दर्शयति च” १-४-१ इत्यानुमानिकाधिकरणे – अव्यक्त, जीव दुःखि, बद्ध, म्रियमाणादि शब्दानां विष्णौ समन्वयसिद्ध्यर्थं प्रवृत्तिनिमित्तं प्रति स्वातन्त्रयमपि प्रयोजकं इत्याहु माध्वाः । शब्दानां प्रवृत्तौ न प्रवृत्तिनिमित्त्मेव कारणं अपि तु तद्धर्मं प्रति स्वातन्त्यमपि प्रयोजकम् । अत एव भृत्यगत जयस्य राजाधीनत्वमात्रेण भृत्यो जयीतिवत् “राजा जयीत्यपि प्रयोगः । शब्दस्य प्रवृत्तिनिमित्तं प्रति आश्रितत्वेन वा यथेष्टविनियोक्तृत्व रूपस्वातन्त्यविषयत्वेन वा बद्ध, दुःखादिशब्दानामपि [[119]] ब्रह्मवाचकत्वं इति तेषामाशयः । तन्न समञ्जसं, यतो हि रिपुगत दुःकबद्ध मरणादीनां राजाधीनत्वमात्रेण राजा मृतो दुःखी बद्धः इति व्यवहार प्रसङ्ग । अपि च स्वातन्त्यमात्रं शब्दप्रकृत्तौ प्रयोजकं भवति । सर्वेपामपि शब्दानां भगवत्पर्यन्तत्वाश्रयणे सामानाधिकरण्यञ्च उपपद्यते इति परमतनिराकरणपूर्वकं स्वाभिप्रायमाविष्करोत् ग्रन्थकारः नवमे ॥