॥ अथ अष्टमोऽध्यायः ॥ अन्तर्यामी कः –इति विचारः अन्तर्यामिब्राह्मणे नृ –५-७-७ अधिदैवतमधिलोकमधियज्ञमधिभूतमध्यात्मञ्च अन्तरवश्तित्वेनोक्तः अन्तर्यामी कः इति प्रश्नमुद्भाव्य जीवो वा उत परः इति संशयाकारं उत्पाध, “अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्” १-२-१९ इत्यस्मिन् सूत्रे अन्तर्यामी अपहतपाप्मा परमात्मा नारायणः इति निरणैषीत् । सर्वाभूतान्तरात्मत्वामृतत्वादेः परमात्मन्यैव उपपत्तेः । तत्र श्रुतौ “यं पृथिवी न वेद” – पृथिवीशब्दस्य [[110]] चेतनमात्रपरत्वम् । पृथिव्यादिशब्दानां चेतनाचेतनवाचित्वेपि यच्छब्देन परमात्मनः पृथगुपादानात् तं प्रति चेतनाचेतनयोरुभयोरपि शरीरत्वं बाध्यते खलु । अत पृथिवीशब्दस्य चेअतनमात्रपरत्वं शब्दशक्तिसङ्कोचात् तस्मात् पृथिवी शब्दार्थस्य अचेतनस्यापि शरीरशब्द वाच्यत्वं मुख्यमेव इति ॥ “इयं पृथिवी न वेद” पृथिव्यादिशब्दस्य जडद्रव्यपरत्वमङ्गीकृत्य चेतन अचेतनायोरुभयोरपि ब्रह्मशरीरत्वं समर्थितम् । तत्र अप्रसक्तप्रतिषेधापत्तिः इति दोषः । पृथिव्यादीनां जडद्रव्यत्वं केनासिप्तं ? प्रतिषेधार्थकत्वे खलु “न” इति निपेषस्य प्रसक्तिरिति भेदवादिनां आक्षेपः । “इयं पृथिवी न वेद” – इत्यादि वाक्यस्य “एष ते आत्मान्तएयाम्यमृतः” इति अन्तर्यामित्वविधिशेषत्वात् [[111]] अयमन्तर्यामी स्वयं सर्वमपि साक्षात्कृत्य निमयतीति प्रंशसा गम्यते । अतः पृथिव्यादिशब्दानां नाभिमानदेवतापरत्वमिति चेतनाचेतनयोः उभयोरपि ब्रह्मशरीरत्वम् । शरीरिणि ब्रह्मणि प्राकृतहेयसम्बन्धः न संभवति । “न तस्य प्राकृतामूर्तिः प्रकृतिसम्बन्धात् खलु दोषसम्बन्धः जीवस्य । परस्यतु अप्राकृतामूर्तिः मायया स्वसङ्कल्पेन स्वेच्छया अवतरति साधुपरित्राणाया ।ब्रह्मणः अभिन्ननिमित्तापादानत्वम् :- ब्रह्म न जगदुपादान, स्वाभिन्नकार्यजनकत्वात्६ इति ब्रह्मणः गदभिन्नसमर्थनायैव “तदन्यत्वमारम्भणशब्दादिभ्यः” तियाह सूत्रकारः । तत्र कारणकार्ययोः भिन्नत्वं प्रतिपादयन्तः काणादाः निरस्ताः । विलक्षण नुद्धिबोध्यत्वात्, शब्दभेदात् कार्यभेदात् कालभेदात्, आकारभेदात् संख्याभेदात् कारकव्यापारवैयर्थ्याच्च कारणकार्ययोः भेदः खलु दृश्यते । [[112]] कारणमेवचेत् कार्यं कुत व्यापरः । मृदा एव उदकमानीयन्तां इत्याहु । वाचारम्भणं विकारो नामधेयं मृतिकेत्येव सत्यं – इति छान्दोग्य श्रुतिमवलम्ब्य जगद्ब्रह्मणोः अनन्यत्वं समर्थितम् । नाभ्युपगमे कथमेकविज्ञानेन सर्वविज्ञानं ? अवस्थान्तरापत्तिरेव हि कार्यता । अविद्यामानं कथमुत्पद्यते सत्कार्यवादिनः विशिष्टद्वैतवेदान्तिनः । तन्तवः एव व्यतिषङ्गविशेषभाजः पटः इत्युच्यन्ते । सूक्ष्मस्यैव स्थूलरूपतया परिणामः । अनन्यत्वादेव उपादानत्वं ब्रह्मण । एतस्माज्जायते प्राणः मनस्सर्वेन्द्रियाणि च मु २-१-२ “तथाऽक्शरात् सम्भवतीह विश्वं मु १-८ “नारायणात् समुत्पद्यन्ते” इत्यत्र पञ्चमीविभक्ति प्रयोग” ब्रह्मणः उपादानत्वे……… । पूर्वपक्षः :- [[113]] ब्रह्मणः निमित्तकारणतामात्रं प्रतिपादयन्ति तार्किकाः माध्वश्च । लोके निमित्तोपादानयोः भेदः खलु दृष्टचरः । प्रधनस्य उपादानत्वं ब्रह्मणः निमित्तत्वमेव । मृत्सुवर्णादेः अचेतनस्य घटमुद्रिकाद्युपादानत्वं चेतनस्य कुलालस्य सुवर्णकारस्य च निमित्तत्वं इति तयोर्भेदः दृश्यते इति पूर्वपक्षं कृत्वा सूत्रकारः “प्रकृतिश्च प्रतिज्ञादृष्टन्तानुपरोधात्” । ४-२३ उपादानमपि ब्रह्मैव इति स्थापयाञ्चकार । न निमित्तकारणमात्रं ब्रह्म अपि तु उपादानकारणमपि । एवमेव हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते नाङ्गीकारे उपरुध्येते । प्रतिज्ञा तावत्६ एकविज्ञानेन सर्वविज्ञानम् । यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्” छा ६-१-३ इति कारण विज्ञानात् कार्य विज्ञाने उदाहरणं प्रदर्शितम् । यदि ब्रह्मणः निमित्तकारणत्वमात्र” तर्हि तद्विज्ञानात् न सर्वस्य विज्ञानम् । [[114]] यतो हि उपादानकारणभूतस्यान्यस्य सद्भावात् । लोकेऽपि कुलालविज्ञानेन न घटादिः ज्ञायते । निराकरणम्:- ब्रह्मण उपादानत्वे उपादानभूतब्रह्मविज्ञानेन निखिलं जगत् विज्ञातं भवति । कारणमेवावस्थान्तरापन्नं कार्यं न द्रव्यान्तरम्। “उत तमादेशमप्राक्ष्य” – इति श्रुति आदेशशब्देन प्रशासितारं निरूपयति । येन आदेष्ट्र । अधिष्ठात्रा अश्रुतं श्रुतं भवति, अमतं मतं अविज्ञातं विज्ञातं भवति इति निमित्तोपादानयोः ऐक्यं प्रतीयते । प्राक् सृष्टे:” ब्रह्मणः सच्छब्दवाच्यस्य एकत्वावधारणात् तस्य “अद्वितीयम्” – इत्यनेन अधिष्ठात्रन्तरं निवारयति श्रुति: । ब्रह्मणः एव बहुभवनसङ्क्ल्पः । न कश्चित् कुलालः [[115]] सङ्क्ल्पयितुं शक्नोति येन तस्यापि उपादानत्वं स्वीकुर्मः । न च मृत् चेतनानधिष्ठितं सत् घटाकारेण परिणमति, येन तस्य निमित्तकारणत्व उच्येत । ब्रह्मणः स्त्वसङ्क्ल्पस्य सर्वशक्तेसर्वविधकारणत्वमुपपद्यते इत्युक्ते केवल निमित्र मात्रकथने कुत हठः भोः ? इति ग्रन्थकारः अष्टमे सप्रमाणं ब्रह्मणः जगदुपादानत्वम् आह ॥