॥ अथ सप्तमोऽध्यायः ॥ ब्रह्मणः निर्दोषत्वम् [[105]] देवदत्तः भूतले तिष्ठति – इत्यत्र यथा देवदत्तस्य भूतले अवस्थानं मुख्यम् । तथा परस्य ब्रह्मणः पृथिव्यादिष्वस्थानं मुख्यमेव । नस्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि इति उभयलिङ्गाधिकरणे “यः पृथिव्यां तिष्ठन्’ नृ-५-७-३” यः आत्मनि तिष्ठन्” “यः चक्षुषि तिष्ठन्” पृथिव्यादिषु अवस्थानवृत्तित्वं मुख्यमेव इति समर्थितम् । परन्तु द्वैतिनः एतादृशावस्थानं मुख्यमिति न अभ्युपगच्छन्ति । “मायाधारो निराधारः” इत्यादिवचनप्रतिपन्न निराधारत्वीरोधात् पृथिव्यादिष्ववस्थानं गौणमिति । एषा उक्तिः सूत्रविरुद्धं” श्रुतेस्तु शब्दमूलत्वात्” २-१-२७ इति सूत्रयता भगवतः बादरायणस्य नभिमतम् । तत्र ये असौ विरुद्भत्व अविरुद्भत्वाति विरुद्धतया प्रतीयमानानां सर्वेषां धर्माणां विरोध नास्त्येव । यतो हि श्रुतिस्तावत् ब्रह्मणः निरवयवत्वं ततः [[106]] विचित्रसर्गं चोपपादयति । श्रौतेऽर्थे यथाश्रुति प्रतिपत्तव्यम् । शब्दैकप्रमाणकत्वेन सकलेतरवस्तुविसजातीयत्वात् अस्यार्थस्य विचित्रशक्तियोगः न विरुध्यते । “यः पृथिव्यां -
तिष्ठन्” इत्यादिषु परमार्थत एव परमात्मा पृथिव्यादिषु । स्थितो गृह्यते । तथाऽवस्थितस्यापि तद्गतदोषैः असंस्पृष्टः भवति इति निर्णितम् । चिदचितां ब्रह्मशरीरत्वम् पृथिव्यादयः आत्मनश्च परस्य शरीरभूताः । रूपरसगन्धादौ शरीरपदप्रयोग अस्ति वा इति विशये “तानि सर्वाणि तद्वपुः” “तत्सर्वं वै हरे स्तनु” इत्यादयः प्रमाणपदवीं भजन्ते । चेतनाचेतनप्रपञ्चमात्रे शरीरपदव्यवहारात् स एव रूपादावपि शरीरव्यवहारः । महाभूतेन्द्रियजीवादीनां चेतनाचेतनरूपाणं परमात्मानं प्रति अपृथक्सिद्धत्वेन [[107]] प्रतिपादनात् शरीरशब्दवाच्यत्वम् । अत्र जगच्छब्दस्य लोकवेदयोः प्रयोगनैपुण्येन चेतनाचेतन प्रत्यवाचकतया अद्रव्यवाचित्वाभावात् द्रव्यत्वघटितं शरीरलक्षणं निरूपितम् । एवं सति वेदेषु “यस्य वेदाश्शरीरं” – इति शरीरशब्दप्रयोगः कथं साधु ? सिद्धान्ते शब्दस्य द्रव्यत्वमद्रव्यत्वञ्च स्वीकृतम्६ । श्रीमन्न्यायसिद्धाञ्जने सयूथ्यभेदेन शब्द द्रव्यमद्रव्यञ्च” इत्याचार्याः । तत्र द्रव्यत्वप्क्षे वेदेषु शरीरत्वव्यपदेशः मुख्यम्।अद्रव्यत्वपक्षेगौणः।द्रव्यत्वघटितोक्तशरीरपदप्रवृत्ति
निमित्ताभावात् गौणत्वम् ॥ अतः सर्वप्रयोगानुगुण्येन आधेयत्व विधेयत्व शेषत्वमेव शरीरपदप्रवृत्तिनिमित्तम् श्रीमन्न्यायसिद्धाञ्जने “गोघटादिशब्दात् संस्थानादिभिः अनियतवित्ते शरीरशब्दस्य क्वचिद्विशेषे नियामकाभावात् सर्व प्रयोगानुगुण्यमिदं [[108]] आधेयत्वादिकं श्रुतिसिद्धं शरीरस्य व्यापकं लक्षणम् । न तत्र अतिव्याप्तिदोषप्रसक्तिः” इति विस्तरेण प्रतिपादितम् । अतः वेदेषु अद्रव्यत्वपक्षे भाष्यकारोक्ति प्रवृत्तिनिमित्ताभावात् गौणत्वम् । अथवा शब्दस्याद्रव्यवाचित्वे वेदेषु शरीरत्वव्यपदेशः वेदशब्दस्य वेदाभिमानिदेवतापरत्वम् अद्घीकृत्य मुख्यत्वं समर्थितम् । एवं सति “यः ष्टथिव्यां तिष्ठन्६” योऽप्सु तिष्ठन्” इत्यादावपि तदभिमानिदेवतापरत्व प्रसङ्गेन पृथिव्यादीनामा…. परमात्मशरीरत्वप्रसङ्गः इति चेन्न; “यस्य वेदाश्शरीरं” – इत्यत्र अद्रव्यत्वरूप बाधकसद्भावात् अभिमानिदेवतापरत्वमाश्रितम्६ । एतादृशबाधकाभावात् पृथिव्यादिशब्दस्य तत्तदभिमानिदेवतापरत्वाभावेन पृथिव्यादीनां ब्रह्मशरीरत्वे न विरोधः । इत्यं अचेतनानां चेतनानञ्च ब्रह्मशरीरत्व…. स्थापितमस्मिन्नध्याये ॥ [[109]]