॥ अथ षष्ठोऽध्यायः ॥
१) ब्रह्मणः एव उपादानात्वम् श्रीमद्भगवद्गीतायां पञ्चदशे “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । योलोकत्रयमाविश्य बिभर्तव्यय ईश्वरः
१५-१७ यः आत्मतया आविश्य बिभर्ति तस्मात् मरणादेवहेतोः क्षराक्षरशाब्दवाच्येभ्यः अन्यः [[101]] पुरुषोत्तमशब्दवाच्य इति निर्णीतः । एवं परमात्मनः सर्वधारणसामर्थ्यात् सर्वास्थाश्रयत्वं मुख्यमेव । श्रुतप्रकाशिकायां “महदाद्यवस्थावा आश्रयत्वं प्रकृतेः न सम्भवति । परस्यतु सर्वशक्तेः तदाश्रयत्वं मुख्यम्” इति । इत्यं सर्वविधधारकत्वं उपपाद्य अद्वारकावस्थाश्रयत्वं प्रकृतेः खलु । तस्था एव पादानत्वं युज्यते इति पूर्वपक्षिणामाशयः ग्रन्थकृता निराकृतः । ब्रह्मणः जगदुपादानत्वे अद्वारक सद्वारकत्वे न नियामके । सद्वारकस्यापि उपादानत्वं श्रुतिः सोदाहरणं प्रदर्शयति । “यथोर्णनाभि सृजते गृह्णते च यथा पृथिव्यामोषधयस्संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् संभवतीह विश्वम्” प्रथममुण्डके ८ यथा लूताख्यकीटविशेषस्य स्वान्तः स्थित तन्तवः सारणप्रवेशनद्वारा उपादानत्वम् तद्वत् इति ॥ [[102]] २) शरीरात्मभावः यथा एकस्या एव पृथिव्याः पूर्वावस्थोपमर्दतिरोधानाभावेऽधिविलक्षणानाम् अनन्तौषधि उपादानत्वम्, यथा वा जीवतः पुरुषस्य अचेतनकेशलोमादि उपादानत्वम् एवं ब्रह्मणः । तथा च निमित्तान्तरनिरपेक्षात् उपादेय विलक्षणात् निर्विकारात् परमात्मनः चिदचिदात्मकं जगत् संभवति । लोके पटं प्रति मृदः उपादानकारणत्वम्६ । कार्योत्पत्तौ मृत्पिण्डादिषु पूर्वावस्थोपमर्दः दृश्यते । अत्र पूर्वावस्थोपमर्दाभावेपि जगदुपादानत्वं सम्भवतीति पूर्वोक्तप्र्कारेण श्रुतिः विशदयति । स्वाभिन्नत्वं यथा मृद्घटयोः [[103]] एवं स्थूलसूक्ष्मचिदचिद्विशिष्टयोरण्यस्तीति न कापि अनुपपत्तिः । जगद्ब्रह्मणोः शरीर शरीरिभावाङ्गीकारादेव तयोः उपादेय उपादानभावोपि उपपद्यते इत्यङ्गीकारे को वाक्लेशः । “जगत्सर्वं शरीरन्ते स्थैर्यन्ते वसुधातलं” सुबालोपनिषडि सप्तमे खण्डे “यस्य पृथिवी शरीर” यस्यापः शरीरं यस्य मृत्युः शरीरं एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देवो एको नारायणः – इति शरीरात्मभावं विशदयति । ब्रह्मणः आत्मत्वव्यपदेशः मुख्यः । तथा अनङ्गीकारे ईक्षत्यधिकरणविरोधं प्रदर्शयति ग्रन्थकारः १-१-५ तत्र “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् तदैक्षत बहु स्यां प्रजायेयेति तत्तेजौसृजत” – छा.६.२.१ इति श्रुतिं अवलम्ब्य सच्छब्दवाच्यं किं प्रधानं उत ब्रह्म इति विकल्पं कृत्वा ईक्षणशब्दसाहचर्यात् अचेतनं प्रधानं न सच्छब्दवाच्यं अपितु [[104]] परं ब्रह्मैवसच्छब्दवाच्यः इति शद्धान्तितः । पुनरप्यत्र पूर्वपक्षी प्रत्यवतिष्ठतेः अत्र न मुख्यमीक्षणं श्रुत्या प्रतिपाद्यते, अपि तु गौणमीक्षणम्६ । “तत्तेज ऐक्षत” ता आप ऐक्षन्त “वृष्टिप्रतीक्षा शालयः” शव इत्यत्र गौणेक्षणासाहचर्यात् यथा वा निर्वाहः एवमत्रापि त्याशङ्क्य “गौणश्चेन्नात्मशब्दात्” १-१-६ इति सूत्रकार ; परिहरति । ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो” इति सच्छब्दवाच्यस्य आत्मशब्देन व्यपदेशः क्रियते । अचेतनस्य प्रधानस्य कथम् आत्मशब्दवाच्यत्वम् अपि परस्यैव आत्मत्वं सच्छब्दवाच्यत्वञ्च । एवञ्च ब्रह्मणः एव सर्वात्मत्वे न कोऽपि विरोधः ॥