०५

॥ अथ पञ्चमोऽध्यायः ॥ १) ब्रह्मणः उपादानत्वे-परोवताशय-निराकरणम् उपादानत्वस्वरूपविषये भेदवादिभिरुक्ताः विषयाः अत्र निराक्रियन्ते । आचार्यचरणैः तत्त्वटीकायाम् अवस्थान्तरयोग्यत्वम् उपादानत्वम् इत्यूचिरे । अवस्था नाम आगन्तुकापृथक्सिद्धावस्था । न चैवं सति निर्विकारश्रुतेः सङ्कोचः यतो हि विकाराश्रयत्वम् अचेतनस्य स्वरूपतः स्वभावतश्च । ज्ञानस्वरूपस्यात्मनः स्वरूपे नास्ति विकारः । स्वभावे ज्ञाने सङ्कोचविकारावस्था दृश्यते । परस्य तु न स्वरूपतः विकारः नापि स्वभावतश्च । विकारहेतूनां परस्मिन्नसम्भवः । अव एव स्तुतिः” अविकारायशुद्धायनित्यायपरमात्मने” – इति । हेयगुण [[95]] राहित्यपरतया र्गुणश्रुतिसङ्कोचवत् हेयविकारराहित्यपरतया निर्विकार श्रुतिसङ्कोचस्यावश्यवक्तव्यत्वाच्च । अतः उपादानत्वं विकाराश्रयत्वम् इति भेदवादिनः । विकारो नाम अवस्थाविशेषः । स तु पटादिषु पृथुबुध्नोदरत्वम् आतानवितानत्वादिरूपः । एतेषां नीलपीतादिवत् धर्मरूपत्वेन भेदत्वम् । अभेदवादिनां मतेऽपि आश्रयाश्रयिभावरूपेण “गुणानां द्रव्याश्रितत्वनियमात्” उपपद्यते इति चेन्नः ; विशेषस्य धर्मधर्मिभावव्यवहारमात्र निर्वाहकत्वस्वीकारेण आश्रयाश्रयिभाव नियामकत्वानभ्युपगमात् । तथा सति “अनुव्याख्यान” विरोधः । तत्र विशेषो नाम “भेदसम्बन्धकार्यकरः” इत्युक्तम् । यथा विशेषो भेदस्य प्रतिनिधिरिति “शुक्लः पटः” इति प्रतीतौ भासमानो भेदाधीनं [[96]] सामानाधिकरण्यस्य व्यवहारं निवर्तयति । “अनेन न्यायसुधा वाक्येन गुणगुण्यादिषु सम्बन्धानङ्गीकारः स्फुटीकृतः । अयं पटः एतत्तन्तु सम्बन्धः एतदाश्रयत्वात् एतदाश्रिततृणवत् इति समवायसाधकानुमानस्य तन्तुपटयो” आश्रयाश्रयिभावभावाभावात् असिद्धिरिति न्यायसुधायां” स्वरूपासिद्धिरुक्ता । अतः विकाराश्रयत्वम् उपादानत्वम् इति वक्तुं न शाक्यते । विशिष्टाद्वैतिनां मते स्वतो विकाररहितः । जीवश्व विशिष्टवेषेण विकाराश्रयत्वं परस्य । विकारस्तु शरीरगताः इति निर्विकारश्रुत्युपपत्तिः । अनेन कार्यकारणभावोऽपि उपपादितः । परस्य उपादानत्वम् निमित्तत्वं च । जगतः उपादेथत्वं, कार्यत्वं नियाम्यत्वं च इति॥

२) सैद्धान्तिताः अर्थाः सप्रमाणकाः – निरूपिताः [[97]] उपादानं नाम अवस्थान्तरजननयोग्यत्वम् । उक्तञ्च श्रुतप्रकाशिकायां श्रीसुदर्शनसूरिणः “कार्यवस्थचिदचिन्नियमनरूप अवस्थान्तरापत्ति ब्रह्मणः कार्यत्वम्” इति । सूक्ष्मचिदचिदंशयोरिव तद्विशिष्टब्रह्मणोपि स्वस्मिन्नवस्थान्तरजननयोग्यत्वमुपादानत्वम् अव्याहतं सिद्ध्यति । सूक्ष्मचिदचिद्विशिष्टं हि जगदुपादानम् । तच्च चिदचिदीश्वरसङ्घातरूपं तस्य चैकत्वात् नैकोपादानत्वहानिः सङ्घातान्तर्गतस्य ब्रह्मणोऽपि महदाधुपादानत्वम् । तच्च न संभवति स्वरूपान्यथाभावविकारावस्थाश्रयत्वं ब्रह्मणि न कदापि संभवान् । सिद्धान्ते उपादानवत् उपादेयमपि स्थूलचेतनाचेतनविशिष्टरूपं सूक्ष्मस्यैव स्थूलरूपेण परिणामः । तथा च उपादनत्वं ब्रह्मणः सम्यगुपपद्यते । [[98]] अस्मिन्नध्याये जडद्रव्यमात्रस्य महदादिशब्दवाच्यत्वं नोपपद्यते इति ग्रन्थकारः सप्रमाणं निरूपयति । जीवस्तावत् ब्रह्मणः शरीरतया ब्रह्मात्मकः । प्रकारत्वं नाम विशेषणत्वं तच्च “दण्डी कुण्डली देवदत्तः इत्यत्र दण्डादीनामप्यस्ति इति चेत् उच्यते जीवः ब्रह्मशरीरतया ब्रह्मप्रकारभूतः । ब्रह्मात्मकत्वं च शरीरिभावात् । “आत्म” शब्दः स्वरूपैक्ये शरीरशरिरिभावे च साधारणः । शरीरशरीरिभावेनैव प्रकारभूतः इत्यत्र किं नियामकम् इतिचेत् सुबाल उपनिषदेव । “तत्र यस्यात्मा शरीरम् इति स्पष्टतया विविच्यते । जीवात्मनः प्रकारभूतानि सर्वाणि देवमनुष्यादिशरीराणि” । एवं च सर्वाणि अचेतनानि जीवद्वारा ब्रह्मात्मकानि । “अप्राणि मत्सु स्वल्पा सा” इति विष्णुपुराणे ६-७-६४ उक्तम् । ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि” इत्यपि [[99]] विष्णुपुराणे २-१२-३९ विशोध्यते मनुस्मृतावपि १-८६ “भूतानां प्राणिनः श्रेष्ठाः” इति लोहकाष्ठादिवपि जीवस्य विद्यमानत्वं प्रतिपादयति । श्रीमद्रामायणेपि रक्या अहल्यादि स्रियः शापवशात् शिलाभूताः अभवन् इति निरूपितम्६ । काष्ठनामछिन्नद्रुमः काष्ठाभिमानि जीवः विद्यते । अत एव नामरूपभाक्त्वम् इति ॥लोके प्रयुन्चमानाः शब्दाः तदभिमानि जीव तदन्तर्यामिपरमात्मवाचकाः इति सर्वेषां शब्दानां ब्रह्मपर्यन्तत्वम् । तर्हि लोके ब्रह्मपर्यन्त तथा ब्रह्म कुतो न प्रतीयते इति चेत् वेदान्तश्रवणरूपसामग्रीवैकल्यात् शब्दानां ब्रह्मपर्यन्तत्वव्युत्पत्यभावः । सर्वशब्दानां केवलेषु तत्तत् पदार्थेषु वाच्यसमाप्तिं मन्यते जनः । न हि चक्षुषागन्धग्रहणाभावे गन्धः नास्ति इत्यर्थो वा ? सांमग्यां सत्यां तत्तत्पदार्थमात्रपर्यन्तग्रहणम् । घ्राणेन गन्धग्रहणे सति [[100]] चक्षुषा गन्धग्रहणाभाव” इत्यत्र सामग्रथभावात्, न तु गन्धाभावात् । वेदान्तश्रवणेन हिव्युत्पत्तिः पूर्यते – इत्याचार्याः । तर्हि “घटमानय” इत्युक्ते वाच्यैकदेशे आदेशस्य परिसमाप्तिं मन्यते शिष्यः । घटशब्दस्य अचिज्जीवविशिष्ट परमात्मवाचकत्वमेव । तथा न ज्ञायते इति चेत् “नह्येतत् स्थाणोरपराधः यदेनमन्धो न पश्यतिः इति सर्वशब्दानां परमात्मवाचकत्वं पन्चमे निरूपितम् ॥