०४

॥ अथ चतुर्थोऽध्यायः ॥ मातृकाविचारः :- ब्रह्मसूत्राणां सिद्धान्तविषयेष्वेव विशिष्टाद्वैतवेदान्तसम्बन्धिषु तात्पर्यमिति मातृकाणां समीक्षणेन निर्णेतुं प्रभवामः । उभयलिङ्गाधिकरणे ३-२-५ परस्य ब्रह्मणः अखिलहेयप्रत्यनीकानन्तकल्याणगुणाकत्वं समर्थितम् । [[89]] पृथिव्यात्मादिषु विद्यमानस्यापि उपास्य तत्तद्गतदोषै असंस्पृष्टत्वम् । तत्र सूर्यादिदृष्टान्तेन निर्दोषत्वं परस्य साध्यते । “वृद्धिर्दासभाक्त्वमन्तर्भावात् उभयसामञ्जस्यादेवं दर्शनाच्च

३-२-२० इति सूत्रकारः । “आकाशमेकं हि यथा घटादिषु पृथग्भवेत्” याज्ञस्मृतिः ३-१४४” जलाधारेष्विवांशुमान्” बृ.उ ४-३-१ इत्यादिषु वस्तुतः अवस्थितस्याकाशस्य कस्तुतः जलाधरेषु अनवस्थितस्य सूर्यस्य तत्रद्वतदोषभाक्त्वं न संभवति । एवं पृथिव्यादिषु अवस्थितस्यापि परस्य दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोष सम्बन्धः । बृहदारण्यके ६-८-८ गार्गीप्रश्ने विरुद्धधर्माध्यासः श्रूयते “सहोवाच एतद्वै तदक्षरं गार्गि ब्राह्मणाः अभिवदन्ति अस्थूलमनण्वदस्वम् अदीर्घमलोहितमस्नेहम् अच्छायम्” इत्यादिः । [[90]]

१) कल्याणगुणानाम् आकरः :- “अत्र अक्षरशब्दवाव्यं परं ब्रह्मैव । अम्बरस्य अन्तः परभूतं प्रधानं तस्य धारकत्वात् ‘परन्तु अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतारूपाः कथं तस्मिन् घटते इति शङ्कयाम् अस्थूलत्वादिकमन्तरेण जीवव्यावृत्तब्रह्मस्वरूपं न प्रतिपत्तुं शक्यते । स्वेतर समस्तव्यावृत्त ब्रह्मस्वरूपप्रतिपत्तये एतेषां ब्रह्मगुणानां सर्वासु उपासनासु अङ्गीकर्तव्या । धारकत्वं च प्रशासनात् अर्थात् प्रकृष्टं शासनम् । शासनातिक्रमणे किं भविष्यति इति भीताः वायु, सूर्यादयः स्व-स्व कर्मणि निरताः दृश्यन्ते । शासनपूर्वक धारकत्वं परस्य ब्रह्मणः व्यापकत्वं च समर्थितम् । दहराधिकरणे १-३-५ दहराकाश परं ब्रह्मैव इति सिद्धान्तितः । दहराकशस्थितस्य परिच्छिन्नस्यैव ब्रह्मणः “यावान्ता अयमाकाशः तावान् एष: अन्तर्हृदय आकाशः” [[91]] इति दहराकाशस्यतिमहिमानं श्रुतिरभिदधति ।” एतत्सत्यं ब्रह्मपुरं अस्मिन् कामाः समाहिताः छा उ ८-२-५ दहशकाशस्य काम्यभूतकल्याण गुणतिशिषत्वं च विजिताभितव्यत्वेत्र श्रुतिरुपदिशति । प्रत्यगात्मनः जीवात् परमात्मानं भेदेन व्यपदिशति । अभेदव्यपदेशस्तु ब्रह्मांशत्वात् – अंशांशिनोरभेदात् । “यः आत्मनि तिष्ठन्” इत्यन्तर्यामि ब्राह्मणे अन्तर्यामिशब्दवाच्यः पर एवेति स्थापितः । इतख्यपदेशाधिकरणे २-१-७ ‘तत्त्वमसि’ ‘अयमात्माब्रह्म’ इत्यादिभिः श्रुतिभिः जीवस्य ब्रह्मभाव व्यपदिश्यते । तथा सति सर्वज्ञस्य सत्यसङ्क्ल्पत्वादि गुणगणयुक्तस्य परस्य हितरूपजगदकरणम्, अहितरूपजगत्करणम् इत्यादयो दोषाः प्रादुर्भवन्ति । एवं तस्मिन्नधिकरणे पूर्वपक्षं कृत्वा परस्य [[92]] जीवाद्भिन्नत्वं श्रुतयः उपपादयन्तीति निर्णीतम् । “पृथगात्मानं प्रेरितारञ्च मत्वा” – इति श्रुतिः भेदमाह । जगतः ब्रह्मोपादेयत्वे ब्रह्मणः निरवयवत्व वादिन्यः श्रुतयः प्रकुप्येयुः इति कृत्स्नप्रसक्त्यधिकरणे २-१-९ शङ्कामुद्भाव्य विशिष्टस्यैवोपादानत्वोपादेयत्वाङ्गीकारात् श्रुतीनां सामञ्जस्यं समर्थितम् ।

३) उपादानं नाम :- विकाराश्रयस्य उपादानत्वम् इति तत्स्वरूपं विवेचयन् अवस्थाश्रयः उपादानम् । उपादानकारणं परं ब्रह्मैव उपादेयमपि भवति । नोचेत् कथम् एकविज्ञानेन सर्वविज्ञानसम्भवः । तथा सति ब्रह्मणः जगदनन्यत्वे निर्विकारः निर्दोषत्वप्रतिपादकश्रुतीनां का गतिः इति चेत् विशिष्टस्यैव उपादानत्वोपादेय त्वाङ्गीकारे सुलभः पन्थाः । [[93]] सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणं, स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यम् । दोषाणां शरीरगतत्वे कस्य वा आक्षेपः । विकाराश्रयत्वम् उपादानत्वम् इत्युक्तिः न घटते । ब्रह्मणः न अचेतनद्वारा न वा चेतनद्वारा विकाराश्रयत्वं नाङ्गीकुर्मः । विकारो हि नाम आगन्तुक पृथक् सिद्धः धर्मः अचेतनेषु महदाद्यवस्थाः । चेतनेषु देवादिरूपाभिमानानुगुण ज्ञानप्रसरणादयः । ब्रह्मणि एतादृश विकाराश्रयत्वे श्रुति स्मृतिविरोधः । तथा च श्रुतिसामञ्जस्यात् उपादानोपादेयभावविषये विशिष्टाद्वैतदर्शनदर्शित पन्थाः निष्कण्टका भवति इति ग्रन्थकारः चतुर्थे अध्याये प्रतिपादयति॥ [[94]]