॥ अथ तृतायोऽध्यायः ॥ माध्वानाम् आक्षेपः :- भेदवादिभिः एकस्मिन्नेव जीवे संसारदशायाम् अप्रकाशमानत्वं,मुक्तिदशायां मानत्वरूपनिरुद्धधर्मसमावेशः स्वीक्रियते । मुक्तावपि आनन्दभेदः इति तारतम्यस्वीकारः । भिन्नरूपधर्माङ्गीकारे को दोषः दण्डी कुण्डली देवदत्तः श्यामः युवा समपरिमाणः द्योतते - इति दृष्टान्तः । भिन्नानाम् [[84]] अनेकेषां धर्माणाम् एकस्मिन्नेव धर्मिण्यम् समन्वयः । विरुद्धानां धर्माणां एकस्मिन्नेव काले देशे एकस्मिन्नेव धर्मिणि निरूप्यमाणे दोषः । तरतमभावस्य संसारदशायाम् अनुभूयमानस्य कारणं पुण्यपापरूपं कर्म । कर्मणा जीवस्वरूपं तिरोहितम् अवति । अस्य च स्वाभाविकं रूपम् अपहतपाप्मा विजरो विमृत्युः विशोकः विजिघित्सः अपिपासः सत्यकामः सत्यसङ्कल्पः अष्टगुणात्मकम् । एतत्स्तरूपं कर्मणा तिरोहितम् । मुक्तिदशायाम् एते गुणाः आविर्भूताः भवन्ति । छान्दोग्ये ८-१२-२ “नग्ने सशरिरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं पाद सन्तं अप्रियाप्रिय स्पृशत – कर्माशब्दशरीरयोगिनः तदनुगुणसुखदुःखभोक्तृत्वं तावत् नियतम् । [[85]] मोक्षदशायां कर्मानुगुणसुखदुःखाभावः न वा तरतमभावः । “नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः । अज्ञनेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः इति खलु गीतायाम् आचार्यः विवेचयामास । यथा वायुः शिरः पाण्यादिलक्षणशरीरशून्यः सन् अभ्रं भूत्वा मेघो भवति इत्यवस्थान्तरमापद्यते एवं जीवोऽपि सृष्टिदशायां कार्यावस्थामापन्नः कर्मानुगुणेन तरतमवान् भवति । कारणावस्थायां आनीय, प्रवहादिरूपेण सप्तविधत्वं हित्वा वायुमात्रम् अवतिष्ठति । “एवम् एव एष: सम्प्रसादः अस्माच्छरीरात्समुत्याय परं ज्योतिरूपसंपद्य स्वेन रूपेणनवतिष्ठते” जीव मार्गविशेषेण देशविशेषं प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेणाविर्भवति । स च मार्गः अर्चिरादि तस्य च विवरणे ब्रह्मसूत्रे चतुर्थाध्यायस्य [[86]] तृतीये पादे “अर्चिरादिना तत्प्रथिते – इति सूत्रयता सूत्रकारेण तथा श्रीभाष्यकारैश्च समर्थिता ॥
२) भोग्यसाहित्यं :- एष एव ब्रह्मानन्दः परमपुरुषार्थतया अङ्गीकृतः । “सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” तैत्ररीये आनन्दवल्ली कामो नाम न तृतीयः पुरुषार्थः । अपि तु काम्यन्त इति कामाः कल्याणगुणगणाः । तानेव काम्यन्ते मुक्तैः यतो हि ते अन्यविषय निरक्ताः । “अथ य इहात्मानमनुविद्य व्रजन्ति, एतांश्च सत्यान् कामान्” इति काम शब्दस्य कल्याणगुणेषु प्रयोगः दृश्यते । विविधं पश्यन्तीति विपश्चित् । निरुपाधिकानन्याधीन असङ्कुचितसर्वविषयकज्ञानकत्वं हि विपश्चित्त्वम् । तादृशविपश्चिता ब्रह्मण सह तदीय कल्याणगुणाननुभक्ति [[87]] मोक्षदशायां ब्रह्मवित् । ब्रह्मापेक्षयापि तद्गुणानां फलदशायां प्राधान्यं प्रतिपादयितुमेव श्रुति “सह” योगेन ब्रह्मणं निर्दिशति। “सहयुक्ते अप्रधाने” इति प्रथमे विद्वांसः । भोग्यतायां गुणापेक्षया ब्रह्मणः अप्राधान्यं न दोषाय भवति । श्रियं त्वत्तोप्युच्चै वयमिह भणामः श्रुणुतराम् इतिवत् परमात्मापेक्षयापि तत्कल्याणगुणानां भोग्यता अतिशेते । अन्ततो गत्वा परमात्मानं अतिशयत्वेन निरूपयन्ति एते । अतः ब्रह्मणः अप्राधान्यं न दोषाय भवति । श्रीमद्भिः श्रीरङ्गरामानुजमुनिभिः श्रुतिव्याख्यानावसरे भोग्यसाहित्यपक्षः आश्रितः । भोक्तृसाहित्यपरत्वे अनाश्रित्य “पयसा सह ओदनं भुङ्क्ते” इति भोग्यसाहित्य परतया [[88]] व्याख्या कृता । ब्रह्मणः भोक्तृत्वञ्च “विपश्चिता” – इत्यनेनैव सिद्धम् । विपश्चिता एवं भूतफलभोक्तारं मुक्तं ब्रह्म अश्नुते । तथा पश्यच्च ब्रह्म मुक्तोऽश्नुते । भोग्यसाहित्यपक्ष एव भगवता भाष्यकृता अपि समाश्रितः । परस्य ब्रह्मणः उभयलिङ्गत्वं च सूत्र भाष्य सम्प्रतिपन्नं सिद्धम् । अतः तारतम्यापादककर्मणः पुण्यपापरूपस्य मुक्तावभावात् श्रुतिस्मृत्यादिविरोधाच्च मुक्तौ न कदापि आनन्द तारतम्यप्रसङ्ग च ।