॥ अथ द्वितीयोऽध्यायः ॥ ग्रन्थकारः सिद्धान्तितान् अर्थान् सत्तर्कपुरस्सरम् उपपादयत् पूर्वपक्षयुक्तीः निराकरोति । विलक्षणत्वाधिकरणे
२-१-३. ब्रह्मणः जगद्विलक्षणत्वात् उपादानत्वं कथं सम्भवति ? तैत्तरीये आनन्दवल्यां विज्ञानं चाविज्ञानं च इति ब्रह्मजगतोः विलक्षणत्वमाह श्रुतिः । यद यत्कार्य तत् तस्माद् इति लक्षणं यथा मृत्युवर्णादि घटघटकादि प्रति । येन स्वभावेन कारणभूतं वस्तु वस्त्वन्तरात् व्यावृत्तं, तस्य तत्कार्येप्यनुवृत्तिः कर्यस्य कारणसालक्षण्यम् । मृदादिभ्यः सुवर्णं येनाकारेण व्यावर्तते तदाकारस्य अनुवृत्तिः तत्कार्येषु कुण्डलमुद्रिकादिषु दृश्यते । ब्रह्म च हेयप्रत्यनीक अनन्तकल्याणगुणाकारः जगच्चनतथा । अतः जगपुपादानत्वं न सम्भवतीति आक्षिप्य “दृश्यते तु” सूत्रकार विलक्षणयोरपि उपादानोपादेयभावमाह [[80]] । मक्षिकादेः विलक्षणस्य क्रिद्वियादेः तस्मात् उत्पत्तिः दृश्यते । विलक्षणेभ्योऽपि गोमयादिभ्य” वृश्चिकादेरुत्पत्ति दर्शनात् विलक्षणात् ब्रह्मणः विलक्षणस्य जगतः उत्पत्तिः सङ्कच्छते एत ॥
१) सर्वकारणकत्वम् :- तैत्तरीये भृगुवल्यां “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व “तद्ब्रह्म” इत्यत्र तत् शब्दस्य अन्तिमे उक्ते सृष्टिस्थितिलयकारणकम् एकं ब्रह्मैव निज्ञास्यम् इत्यर्थः सिध्यति । केवल सृष्टिकारणत्वमात्रे अभिहिते स्थिति लययोः कत्रन्तरशङ्का जायते । ब्रह्मणः निरतिशयबृहत्वरूप बृह्त्वं न सिध्यति । या गन्धवती तां पृथिवीति विद्धि इतिवत् कारणस्य ब्रह्मत्वमत्र विधीयते । एकस्यैव जन्मादिकारणतां अनूद्य “तत् [[81]] ब्रह्म – इति विधानम् । एकत्वञ्च श्रुत्यन्तरात् अवगम्यते “सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्” – इति । अनया ब्रह्मणः एव उपादानत्वं निमित्तत्वं च इति अभिन्ननिमित उपादानभूतं ब्रह्म इति सिद्धान्तः । सदेव इदम् अग्रे – एकमेव आसीत् – इति अन्वय प्रकारः । उपादानं नाम-
अवस्थान्तरापत्रिः इत्यर्थः । भाव्यवस्थां प्रति प्रागवस्थायोगः उपादानम् । सर्वविलक्षणत्वात् सर्वशाक्तियुक्तत्वाच्च ब्रह्मणः उपादानत्वं निमित्तत्वं च । जगदुपक्रमेण ब्रह्म प्रतिपादयन्त्यः श्रुतयः उपादानत्व पूर्वकं निमित्ततां वदन्ति । ब्रह्मोपक्रमेण जगत् प्रतिपादयन्त्यः श्रुतयः ब्रह्मणः चेतनत्वेन निमित्तत्वपूर्वकोपादानतां च वदति । किं खिद्वनम् ? क उ स वृक्ष आसीत् ? वृक्षशब्देन उपादानं किं इति प्रश्नस्याशयः । “ब्रह्म वनं ब्रह्म स वृक्ष आसीत्” इति ब्रह्मणः सर्वविलक्षणत्वेन [[82]] सर्वविधकारणत्वोपपादनम् । कुलालस्य घटाकाराणे परिणामित्वाभावात् नोपादानत्वम् । मृदः सर्वशक्तियोगाभावात् न निमित्तत्वम् ।
२) निर्विकारत्वसमर्थनम् :- चिदचिद्विशिष्टस्य ब्रह्मणः उपादानत्वाङ्गीकारात् न निर्विकारश्रुति विरोध । विकाराणां प्रकारनिष्ठत्वात् प्रकारणि अप्रसङ्गः । लोके हि प्रतिबिम्बवैचित्र्यम् विम्बवैचित्र्याद्वा उपाधिवैचित्र्याद्वा खलु दृष्टम् न ब्रह्मणि उभयमस्ति, यतो हि बिम्बभूतस्येश्वरस्य् अनेकत्वेन तद्वैचित्र्याणां वाचामगोचरत्वेन प्रतिपादयितुम् ईश्वरोऽन्यः न समर्थः । जीवस्वरूपोपाधेः तस्य ज्ञानानन्दस्वरूपतया एकत्वेन तद्वैचित्र्यस्यापि वक्तुमशक्यात्वात् न निर्विकारत्वाक्षेपः घटते । भेदवादिनां मते एव विरुद्धधर्म समावेश स्वीकारात् निर्विकारत्व प्रतिपादकानां [[83]] श्रुतीनां का गतिः ? पुंस्त्वादिवत्वस्य स्वऽभिव्यक्तियोगात्
२-३-३१ ज्ञानस्य सुषुप्त्यादिषु विद्यमानस्य एव अभिव्यार्वत” जागर । पुस्त्वं बाल्ये अनभिभूतमपि यौवने अभिभूतं भवति । तत्र निरुद्धधर्मद्वयसमावेशः । स्वरूपस्वभावरूपविकाराभ्यां रहितः परमात्मा । न तस्मिन् विकाराश्रयदोषाः सम्भवन्तीति वेदान्तार्थः स्पष्टीकृतः ।