०१

॥ अथ प्रथमोऽध्यायः ॥ प्रथमतः सामानाधिकरण्यं नाम किं इति विविच्यमाने “भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् एकस्मिन् अर्थे वृत्तिः सामानाधिकरण्यम्” इति प्रथमे विद्वांसः आहुः । श्रुतावपि सामानाधिकरण्यं श्रुयते । तत्र कथं निर्वाहः ? सदेव [[73]] सोम्येदमग्र आसीत् इत्यत्र उपादानोपादेयभावेन “तत्त्वमसी” त्यत्र शरिरात्मभवेन च सामानाधिकरण्यं श्रीमद्भगवद्रामानुजाचार्याः निरणैषीत् । इदानीं परिदृश्यमानं नामरूपविभागविभक्तं चिदचिदात्मकं जगत् सृष्टेः प्राक् अविभक्तनामरूपापन्नं सूक्ष्मावस्थम् आसीत् । सूक्ष्मस्यैव स्थूलरूपेण परिणामः । अविद्यमानस्य उत्पत्ति: कथं वयं तु सत्कार्यवादिनः इत्याचार्याः । एकमेवाद्वितीयम्” इत्याभ्यां पदाभ्याम् उपादाननिमित्तान्तरकारणकत्वं जगतः निपिध्यते । ततश्च अभिन्ननिमित्तोपादनकत्वं परस्य ब्रह्मणः ।

१) ब्रह्मात्मकत्वम् :- “कार्यकारणभावादिमुखेनः जगतः ब्रह्मात्मकत्वम्” ऐतदात्म्यमिदं सर्वं, तत्सत्यम् श्रुतिरेव विवृणोति । [[74]] ऐतदात्म्यः” एतदात्मकम् “स्वार्थे ष्यङ् ” प्रत्ययः एतदात्मसम्बन्धी इत्यर्थः । अस्यात्मनः शरीरतया सम्बन्धीत्युक्तं भवति । “स आत्मा” – इति श्रुतिः निर्दिशति जगत” सः आत्मा, जगत् च तस्य शरीरम् । “अस्यायं पिता इत्युक्ते पितृप्रतियोगिन” प्रत्रत्वम् अर्थात् सिद्धं भवति खलु । एवं प्रतिज्ञातं ब्रह्मात्मकत्वं” तत् त्वम् असीति सामानाधिकरण्येन जीवविशेषे उपसंहृतम् । त्वं शब्दावगतस्य जीवस्य “तत्” शब्दावगतस्य ब्रह्मणश्च सामानाधिकरण्येन प्रतियमानम् ऐक्यं स्तरूपैक्यपरम् उत आत्मा शरीर भावेन इति विकल्पः । “ऐतदात्म्यम्” इति सर्वस्य ब्रह्मात्मकत्वस्य प्राप्तत्वात् यथाप्राप्तं तथैव उपसंहार्यत्वात्, सामान्येनोक्तस्य विशेषे उपसंहारस्यावश्य अपेक्षितत्वाच्च ब्रह्मात्मकत्वं सामानाधिकरण्येन उपसंहृतम् । [[75]] स्वरूपैक्यपरतया व्याख्या न घटते । अचिद्ब्रह्मणोः स्वरूपैक्ये अचेतनत्वादेव सत्यसङ्कत्वादिविरोधः । जीवब्रह्मणोरैक्ये जीवस्य कर्मवश्यत्वम ये सत्यसङ्कल्पत्वादि विरोधः । शरिरशरिरिभावः श्रुत्यन्तरादप्यवगतः । अतः “तत् त्वम्” इति सामानाधिकरण्येन जीवशरिरतया जीवप्रकारं ब्रह्मैव अभिहितम्” इति श्रीभाष्यकाराः । तत् जगत्कारणभूतं परं ब्रह्म, त्वं जीवान्तर्यामि ब्रह्म असि । ब्रह्मात्मकत्वम् एव सत्यम्, अब्रह्मात्मक: वस्तुनः अभावात् इति सिद्धान्तः ।

२) माध्वानां पूर्वपक्षः :- एतादृशसामानाधिकरण्यं न सम्भवति । उपादानोपादेययोः भेदात् । वियदादेः ब्रह्मभिन्नत्वात्६ ब्रह्मणः तदुपादानत्वे निर्दोषत्व श्रुतिव्याकोपः । वियदादीनां उत्पत्तिश्रवणात् । “तस्माद्वा एतस्मादात्मन आकाशः [[76]] सम्भूतः (तै-उ-आनन्द वल्ली) इति श्रुतिः । अपि च विशिष्टरूपपदार्थान्तरस्य निमित्तत्वानङ्लीकारात् अभिन्ननिमित्तोपानत्वाद्यभ्युपगमविरोधः । “तत्त्वमसी” त्यत्रापि शरीरात्मभावेन सामानाधिकरण्यं इति यत् सिद्धान्तितं तत्रापि अनुपपत्तय । ’मत्स्थार्नि सर्वभूतानि न चाहं तेष्ववस्थितः” – भ. गी. ९-

५-इत्यनन्याधारकतया निश्चितस्य परस्य, चेतन कथं आधारः भवति ? “य आत्मनि तिष्ठन्६” इत्यादिनां शरीरपर्यन्तानां गौणार्थकत्वं भगवदधीनत्वमात्रेण वक्तव्यम् । “यस्य वेदाश्शरीरम् इति वेदानामपि शरीरत्वव्यपदेशे गौणत्वस्यावश्याश्रयणियत्वात् । तथा च आत्मशरीरभावेनापि सामानाधिकरणप्रतिपादनं न युज्यते इति माध्वा प्रत्यवतिष्टन्ते ॥ [[77]]

३) अभिन्ननिमित्तोपादानत्वे आक्षेपः :- “किं खिद्वनं क उ स वृक्ष आसीत्” इति प्रश्ने” ब्रह्म वनं ब्रह्म स वृक्ष आसीत्” इति प्रतिवचनमेव उपादाननिमित्तयोः भेदं उपपादयति । अत्र ब्रह्म शब्दः प्रकृतिपरः । “तस्मादेतत् ब्रह्म नामरूपमन्नञ्चजायते” ममयोनिः महद्ब्रह्म” इति खलु श्रुतिस्मृतयः । “यदध्यतिष्ट्त् भुवनानि धारयन्” – इति धारक-

धार्यभावः श्रूयते । तयोर्भेदः लोके दृष्टचरः । ब्रह्मणः निर्विकारत्वेन जगदुपादानत्वं न संभवति । शरीरात्मभावेन सामानाधिकरण्ये” अग्रे – इति पदवैयर्थ्यापत्ति । इदं जगत् सदेवासीत् इति श्रुत्यर्थव्याख्याने इदं सत् इति तदभेदः सिद्ध्यति । अत्र प्रपञ्चस्याप्रकृतत्वेन इदम्इति शब्देन तत्परामर्शः कथं उपपद्यते । “स्थूलोऽहं “कृशोऽहम् इत्यादिषु सामानाधिकरण्यं किमुपादानोपादेयभावनिबन्धनम् । [[78]]

४) प्रकृतेः एव उपादानत्वम् (पूर्वपक्षः) :- “नासदासीन्नो सदासातदानीं अग्निरहस्ये-५-३-

श्वेताश्वतरे “५-१८” यदा तम तन्नदिवा न रात्रिः” “आस्त्रिदिदं तमोभूतम्” इति तमश्शब्देन अव्याकृतप्रकृतेरेव साक्षात् जगतः लयाश्रितत्वेन प्रतिपाद्यते । तथा च प्रलयस्य प्रकृतत्वप्रसिद्ध्या तस्या एव उपादानत्वं सुष्टु सङ्गच्छ्ते । “मायान्तु प्रकृति विद्यात् मायिनं तु महेश्वरं – इति प्रकृतेरेव जगदुपादानत्वम् गीताचार्योप्याह । प्रकृतेः ब्रह्मशरीरत्वं परिकल्प्य निर्विकारस्य परस्य जगदुपादानत्वे तत्प्रतिपादकश्रुतीनाम् अनन्यवातिकत्व प्रसङ्ग । अत ब्रह्मणः जगदुपादानत्वम् न सम्भवति प्रकृतेरेव जगदुपादानत्वं इति ग्रन्थेऽस्मिन् ग्रन्थकारः विशदयति ॥ [[79]]