०० प्रस्तावाना

[[1]] इह जगति यद्वस्तु उपलभ्यते तत्सर्वं प्रमेयम् । येन प्रमेयत्वं साध्यते तत प्रमाणम् । यथार्थज्ञानस्य असाधारणं कारणं प्रमाणम् । अवस्थितं वस्त्वनतिक्रम्य यो व्यवहारः “इदं रजतम्” “अयं सर्प” इत्यादि तदनुगुणं तदुपयोगि विशेषणविशिष्टं ज्ञानं प्रमा । “मानाधीना खलु मेयसिद्धिः” – प्रमेयसिद्धये प्रमाणानि अवश्यमभ्युगमनीयानि । प्रमाणत्वसिद्धये इन्द्रियसापेक्षत्वं साधनम्। प्रत्यक्षानुमानयोः तत्सापेक्षत्वं दृश्यते । स्वार्थानुमान परार्थानुमानाभ्याम् अनुमितिः जन्यते । अनुमितिर्नाम “पक्ष: साध्यवान्” – इत्याकारकं ज्ञानम् । एतच्च पञ्चावयववाक्यैः उत्पद्यते । [[2]] सद्धेतुना सत्साध्यसिद्धिः । प्रत्यक्षानुमानयो अत्यन्तातीन्द्रियार्थसाधकत्वं न सम्भवति । शास्त्रमेव तत्र प्रमाणपदवीं भजति ।

१) वेदानां परमं प्रामाण्यम् :- करणदोष: बाधकप्रत्ययाभाविशिष्टः वेद एव शास्त्रशब्देन प्रोच्यते “श्रूयते नित्यम्” – इति व्युत्पत्या श्रुतिशब्दवाच्यः वेदः । आपस्तम्बः यज्ञपरिभाषायाम् एवमाह् “मन्त्र ब्राह्मणयोर्वेदनामधेयम्” इति । जैमिनिमहर्षिः वेदस्यापौरुषेयत्वं मीमांसादर्शने द्वादशाध्यात्मयात्मके विवेचयामास । वेद सामान्यलक्षणं तु अलौकिकोपायबोधकत्वम् । इष्टप्राप्ति: अनिष्टपरिहारयोः अलौकिकं उपायं यो वदति स विद ज्ञाने – ज्ञानार्थकः वेदः । [[3]] प्रमाणमूर्धन्यतम वेदः अनितरसाधारणं सार्वभौमं प्रामाण्यमाबिभर्ति, यदाज्ञावशवर्तिन्यः सर्वा अपि प्रजाः स्व स्व कर्म कुर्वन्त्यः इह परत्र च शर्म विन्दन्ते । “अविद्यापूतनोन्मुक्तैः अनवज्ञातसत्पथैः असदास्वादन व्रीर्हेः “आदिष्टमिर्ति दर्शितम्” । कुत्र आदिष्टम् ? वेदेषु । वेद-

वेदान्तज्ञानादेव निरतिशयसुखप्राप्ति:। देहेन्द्रियाबुध्दयादि उपकरणवन्तोपि जना “अनवज्ञातसत्पथाः” कुपथेषु सत्पथत्व भ्रान्त्या पवॄत्ताः नानाविधदुःखभाजाश्च सिध्दयन्ति । एवं जनिमतां विवेकशून्यानां बोधमुत्पाद्य अनवधिकातिशयानन्दप्रापणाय भगवान् वेदरूपं प्रदीपं आदिशत् । “मानं प्रदीपमिव कारुणिको ददाति” इति पराशर भट्टार्याः । [[4]]

२) वैदिकशब्दानां ब्रह्मपर्यन्तत्वे – तात्पर्यम् :- लौकिकाः शब्दाः “नीलो घटः” “पीतो पटः” तत्तत्पर्यन्त वस्तुबोधकाः । नीलपीतादि शब्दव्युत्पत्तौ तत्तद्वस्तु ग्रहणमात्रमपेक्षितम् । तत्तद्वस्तुषु विद्यमानं ब्रह्म प्रत्यक्षादि अपरिच्छेद: । अत एव तत्तद्वस्तु मात्रग्रहणम् । व्युत्पत्ति तावत् शब्दानां वेदान्तश्रवणादेव । वैदिकशब्दानां यथा ब्रह्मपर्यन्तत्वं, एवं लौकिकानाम् अपि शब्दानां ब्रह्मपर्यन्तम् । वेदशब्देभ्य एव लौकिकाः शब्दा उद्धृताः । तथा च सर्वे शब्दाः ब्रह्मपर्यन्ताः । “ सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे” इत्याह मनुः । (१-२९ मनुस्मृतिः) विष्णुपुराणेऽपि (१-५-६३) “नामरूपञ्च मूर्तानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां [[5]] चकार सः” – इति बोध्यते । श्रुतिरपि सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” [तै. १. अनुवाके ३८ वाक्यम्] सूर्यादीन् पूर्ववत् परिकल्प्य, नामानि च पूर्ववत् चकार । एवञ्च शब्दा सर्वे वैदिका एव । आनुपूर्विभेदमात्रात् लौकिकत्वम् । तस्मात् लक्षणभेदः । तथा च सर्वे शब्दाः ब्रह्मपर्यन्त: । एतादृशज्ञानी भूत्वा कर्म कुरु इति गीताचार्यस्योपदेशः अर्जुनं प्रति । तादृशञ्च ज्ञानं वेदादेव खलु जन्यते । अतः वेदाः प्रमाणेषु मुर्धन्यं स्थानमाप्नुवन्ति । अनादिनिधनाः अविच्छिन्न सम्प्रदायाः असम्भाव्यमानदोषगन्धावकाशाः अनन्ताः वेदाः इति प्राञ्चः अमुं वेदं शब्दराशिम् आदरातिशयेन प्रोचुः ॥

३) वेदा: प्रमाणम् भगवान् पुरुषोत्तमः प्रलयावसानसमये पूर्वसंस्थानं जगत् स्मरति । स्वस्मिन् प्रलीनं भोक्तृ भोग्यजातं विभजते । [[6]] महदादि – ब्रह्माण्डं च हिरण्यगर्भपर्यन्तं पथापूर्वं स्वयं सृजति । “धाता यथापूर्वम् अकल्पयत्” एषा सृष्टि अद्वारका । ततः सद्वारक सृष्टिः । चतुर्मुखद्वारा सृजति सर्वं जगत् । चतुर्मुखोपि वेदानां साहाय्येन सृष्टिं करोति । भगवान् सृष्ट्यर्थं चतुर्मुखाय पूर्वानुपूर्वी विशेषसंस्थितान् वेदांश्च आविष्करोति । देवाद्याकारजगत्सर्गे चतुर्मुखं नियोजयति । सर्वस्थापि शब्दस्य पूर्वं लीनत्वेपि सर्गकाले तान् संसृज्य पूर्वं यादृश स्वरवर्णानुपूर्वीविशिष्टतथा वेदराशि स्थितः तादृशस्वरवर्णानुपूर्वी विशिष्टतया स्मृत्वा भगवान् स्वसृष्ट प्रजापतये उपदिशति । सङ्कल्पसूर्योदये नाटके श्रीमद्विः वेङ्कटनाथैः “त्रातुं जगन्ति कृपया कल्पे कल्पे भवन्ति दिव्यानि । चरितानि चक्रपाणेः प्रवाहवृत्या परस्परप्राञ्चि” इति । यथा चोपाध्यायः [[7]] रात्रौ गुप्तान् प्रातः प्रबोध्य, पूर्वसंस्थानसंस्थितमेव शिष्येभ्यः वेदमध्यापयति, तथा भगवानपि हिरण्यगर्भाय । प्राक् सर्गे, ताहशवेदानां संस्कारानपेक्षमेव भगवतः स्मरणं संभवति । उक्तं च श्रीमति भाष्ये “ अतो वेदस्य नित्यत्वम् अपौरुषेयत्वञ्च । पूर्व पूर्वोच्चारणक्रमजनित संस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनेव क्रमेणोच्चार्यमाणत्वम् । न तु अस्मासु सर्वेश्वरे च समानम् । इयांस्तु विशेषः – संस्कारानपेक्षमेव स्वयमेवानुसन्धत्ते पुरुषोत्तमः” इति ॥

४) वेदप्रामाण्ये आक्षेपः समाधानं च :- ननु वेदस्य अपौरुषेयत्वम् आस्तां नाम, मास्तु वा भ्रमप्रदादि विप्रलम्भाधीनत्वम् । वेदोक्तस्यार्थस्य कथं यथार्थत्वमभ्युपगच्छामः ? “स्वर्गकामो यजेत” – इति विधिः । अधुना अनुष्ठितस्य यज्ञस्य कालान्तर भावि स्वर्गप्राप्तौ कः [[8]] विश्वासः । याजकः यः कोऽपि स्वर्गमनुभूय प्रतिनिवृत्तः यज्ञानुष्ठानेन मया स्वर्गफलमनुभूतम् इति कथयति ? अतीन्द्रियबह्वर्थप्रतिपादकत्वात् कथं वेदस्य प्रामाण्यम् इति चेन्न; बह्वः देशान्तरादागत्य बहूनर्थान कथयन्ति । कथं तेषु विश्वासः जायते । झटीत्येव यः कोपि तद्देशं तात्वा अर्थप्रामाण्ये निश्चयं निरूपयति । यज्ञाध्यनुष्ठातुः पुनः जनने पूर्वजन्मकृतकर्मणां विस्मरणात् कथं “स्वर्गो मयाऽनुभूतः” इति – निरूपयति । केषुचिदर्थेषु लोकानुभूतेषु प्रामाण्यदृष्टौ तुल्यन्यायतया सर्वेषु तदितरेषु यथार्थत्वबुद्धिः विश्वासश्च जायते । न हि वेदः अतीन्द्रियार्थमेव बोधयति इति नियमः । परलोकसाधक यज्ञादि बोधकवेदभागा इव ऐहिकफलजनक इष्ट्यादिबोधक वेदभागाः अपि समुल्लसन्ति । [[9]] “कारीर्यावुष्टिकामो यजेत” इति वर्षजननाय कारीरी नामक इष्टिः विधीयते । महाराज्ञा दशरथेन पुत्राप्तये पुत्रकामेष्टिं कुर्वन् वाञ्छितादधिकं फलमवाप । अभिचारश्रुतिरपि “श्येनेनाभिचरन् यजेत” इत्यादि शत्रुजयप्राप्तिं नोधयति । “यजेत” इत्यत्रापि कालान्तरभाविस्तर्गजनकतया यज्ञसमनन्तरं उत्पत्तिः । अपूर्वद्वारा यागस्य स्वर्गजनकत्वम् । अतः यथार्थज्ञानावगमनाय प्रथमतः वेदारव्याक्षरराशेः ग्रहणं विधीयते । स्वाध्यायोऽध्येतव्यः इत्यनेन कृत्स्नाध्ययनं विधीयते । आचार्यमुखादेव स्वरवर्ण, विपर्यासादिकं विना अध्ययनं कायम् ॥ [[10]]

५) अद्यत्वे वेदार्थज्ञानस्य आवश्यकता :- स्वरादिविपर्यासेन क्रियमाणे अध्ययने तद्विहितकर्मानुष्ठाने च फलेपि विपर्यासः भवति । पुस्तकनिरीक्षणादिना स्वास्मिन्नेव आचार्यत्वाभिमानः निषिद्धः । मन्त्रोपि आचार्यमुखेनेवोपदिष्टव्यः इति सम्प्रदायः । “यहच्छया श्रुतो मन्त्रः छन्नेनाथ छलेन वा । पत्रे सितो वा व्यर्थस्स्यात् प्रत्युतानर्थदो भवेत् ” ॥ पाणिनीय शिक्षायां “मन्त्रो हीनः स्वरतो वर्णतो मिथ्याप्रयुक्तो नतमर्थमाह । वाग्वज्रो वा यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् इति । मासेषु शुक्लपक्षेषु वेदाध्ययनम् । कृष्णपक्षेषु तदङ्गानां शिक्षादीनाम् अध्ययनमिति शास्त्रमर्यादा । आह च मनुः “श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ” ॥ “अत [[11]] ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्ण पक्षेषु संपठेत् - इति पक्षाध्ययनविभागं विवव्रे ॥ तथा च साङ्गवेदाध्ययनात् अर्थक्तज्ञानं संभवति । अर्थज्ञानं विना केवलवेदाध्ययनशाली यः सः गर्दभसदृशः इति महान्तः प्रोचुः । “स्थाणुरयं मारवाहः किलाभूद्धीत्य वेदान्न विजानाति र्योऽर्थम् । र्योऽर्थज्ञ सकलं भद्रमद्वनुते स नाकमेति ज्ञानविधूतपाप्मा” इति अर्थज्ञानेन विनाधीयानस्य स्थाणुतुल्यताम्, अर्थज्ञानेन सह अध्ययनशीलस्य सकल भद्रप्राप्तिं चाह ॥ वेदार्थ ज्ञानसंपादनम् “तु नातीव सुलभम् ।” अनन्ता वै वेदाः – अल्पमतिभिः दुर्ज्ञेय एव वेदार्थः । केचन वेदमेव नाभ्युपगच्छन्ति । अभ्युपगच्छन्तोपि केचन वेदार्थानन्यथा वर्णयन्ति । वेदमभ्युपगच्छतोपि अपार्थ वर्णनात् वेदबाह्य एव । उभावपि न भद्रमश्नुतः । अतः यथा [[12]] सनियमं वेदः अध्येय तथा समीचीनमर्थ ज्ञानमपि प्राप्यं भद्राप्तये इति ।

६) एतादृश वेदार्थज्ञानोपकारकाणि :- स्मृत्यादुपबृंहणेनैव वेदार्थज्ञानं सम्पादनोयम् । तत्र स्मृतिरेव प्रथमं धियमधिरोहति । सूत्रकारोऽपिः प्रथमाध्यायस्य द्वितीये पादे १-२-६ प्रथमाध्यायस्य तृतीये पादे – १-३-३९. तथा चतुर्थाध्यायस्य तृतीये पादे – ४-३-१०. वेदार्थविवरणे स्मृतेः प्राधान्यं विवक्षुः “स्मृतेश्च” इति सूत्रयामास । “स्मर्यतेपि च लोके” – ३-१-१९. पञ्चाग्निविद्याप्रकरणे पञ्चम्याहुतानपेक्षया एव देहारभ्यविवरणे स्मृतिमेव प्रमाणयति सूत्रकारः । “आदौ वेदाः प्रमाणं स्मृतिरुपकुरुते सेतिहासैः पुराणैः” इति उपबृंहणविषये स्मृतेः प्रत्यम्यं आचार्याः वदन्ति । “आर्षं धर्मोपदेशञ्च [[13]] वेदशास्त्राविरोधिना यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः” – इति सत्तर्कस्यापि उपकारकत्वं मनीषिणः प्राह्वः । शास्त्रेषु चतुर्दशविद्यास्थानानि गण्यन्ते । वेदचतुष्टयं, अङ्गषट् कम् उपाङ्गचतुष्टयम् – इति संख्याविवेकः । “अङ्गानिवेदाश्चत्वारः मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश” इति । शिक्षादीनां वेदार्थज्ञानोपयोगप्रकारं श्रीपराशरभट्टार्याः सम्यगन्वगृह्णन् । “शीक्षायां वर्णशिक्षा पदसमधिगमो व्याक्रियानिर्वचोभ्यां छान्दश्छन्दश्चितौ स्यात् गमयति समयं ज्यौतिषं रङ्गनाथ । कल्पेऽनुष्ठानमुक्तं ह्युचितगमितयोः न्यायमीमांसयोः स्यात् अर्थव्यक्तिः पुराणस्मृतिषु तदनुगाः त्वां विचिन्वन्ति वेदाः” ॥ सुबालोपनिषदि द्वितीयखण्डे” [[14]] तस्यैतस्य महतो भूतस्य निःश्वसितं यद्रुग्वेदो यजुर्वेदः सामवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविचितं ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानीति वेदवेदाङ्गानां स्वरूपं वेदे एवोक्तम् । एवं समीचीनेन मार्गेण वेदार्थज्ञानमवश्यम् अर्जनीयम् ।

७) तत्त्वज्ञानाधिगमे उपनिषदां स्थानम् :- शास्त्रेकसमधिगम्यत्वं परस्य ब्रह्मणः इति सूत्रभाष्यकारौ यादृशः ईश्वरः जगत्कारणभूतः सर्तशरीरी इति निर्णीयते न तत्र प्रत्यक्षं वा अनुमानं वा प्रमाणपदवीमर्हतः । “अप्राप्ते खलु शास्त्रमर्थवत्” प्रमाणान्तरवेद्यत्वं परस्य ब्रह्मणः सम्भवति इति “शास्त्रयोनित्वात्” – १-१-३ अधिकरणे पूर्वपक्षमुत्थापयामासुः आचार्याः । इन्द्रियार्थसन्निकर्षजन्यं [[15]] खलु प्रत्यक्षम्” – एतस्य सम्भवत्यपि ऐन्द्रियकत्वे बाह्यान्तरसम्भवाभ्यां विकल्पः । ईश्वरस्य बाह्येन्द्रिय सम्भवत्वं वा उत आन्तरजन्यत्वं वा इति । सर्वार्थसाक्षात्कार वन्निर्माणसमर्थपुरुषजनकत्वं कथं परिमितशक्तीनां बाह्येन्द्रियाणां सम्भवन्ति । आन्तरप्रत्यक्षस्यापि बाह्येन्द्रिय सापेक्षत्वात् नाप्यान्तरं प्रमाणम् । नाप्यनुमानम्, अतीन्द्रिये वस्तुनि कथम् दृष्टान्तोपपादनं तद्विना कथम् व्याप्तिः । “क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवत्” इत्यनुमान प्रकारः विवृतः । परन्तु एकेन एकदैव निर्माणे कथम् अनुमानं प्रमाणं भवितुमर्हति ? । पृथग्भूतेषु कार्येषु कालभेदकर्तृभदेदर्शनेन कर्तृकालैक्यनियमादर्शनात् मह्यादयः अपि एकदैव एकेन निर्मिता इत्यत्र प्रमाणाभावः । उपचितपुण्यविशेषाणां जीवानामेव शक्तिवैचित्र्यं दृश्यते । [[16]] “अन्यमिन्द्रं करिष्यामि लोको वास्यात् अनिन्द्रकः” –इति खलु विश्वामित्र प्राह । एवञ्च अनुमानात् ईदृशशक्तिविशिष्ट । जीवा एव स्रष्टुत्वेन सिध्येरन् । न ईश्वरः । पूर्वोक्तानुमाने सत्प्रतिपक्षरूप दोष अपि न्यरूपयन् । तनुभुवनादि क्षेत्रज्ञकर्तृकम् कार्यत्वात् घटवत् । ईश्वरः कर्ता न भवति प्रयोजनशून्यत्वात् मुक्तात्मवत् । एवञ्च ईश्वरसाधकानुमानं दृष्टं असत् हेतुः इत्यर्थः । ईश्वरः सर्वज्ञः सर्वश्चनासमर्थः वैदैकवेद्यः । शास्त्रं तावत् एवमेव बोधयति । शासनात् शास्त्रं अप्रमादगर्भं निश्चितमर्थं बोधयति । शास्त्रम् तु इतरसमस्तवस्तुविसजातीयं अखिलहेयप्रत्यनीकानन्तकल्याणगुणाकरं परं ब्रह्मैव अभिन्ननिमित्तोपादानभूतं जगतः इति सुदृढमुपपादयति इति [[17]] न्यरूपयन् । तथा च ब्रह्मणः कारणत्वे शास्त्राणि अर्थात् उपनिषद एव प्रमाणभूताः इति।

८) वेदानामन्तः उपनिषत् :- सर्वा अपि श्रुतय: वेदवेदान्तभेदेन द्विविधा विभजन्ते । ऋग्वेद: यजुर्वेदः सामवेद अथर्वणवेद” इति चत्वारो वेदाः । वेदपरम् अभागरूपाः वेदार्थनिर्णयरूपाः वेदान्ताः उपनिषच्छब्देन अभिधीयन्ते । पुरुषस्य देहे कर्मज्ञानोन्द्रिय: तदङ्गानीव वेदपुरुषवपुषि कर्म – ज्ञानकाण्डे तदङ्गानि च विराजन्ते । कर्मज्ञानकाण्डयोः मिथो न विरोध । अहोरात्रयोः सम्पूर्णे अह्नि कर्मणा प्रवृत्ताः अपि नराः रात्रौ सुषुप्तिवेलायां सर्वकर्मोपरताः भवन्ति । सर्वेष्वपि वेदेषु ज्ञानभागस्यापि च निवेशनं स्ताभाविकमेव सत् लब्धप्रवेशम् । हितमितरूपेण भुक्तस्याहारस्य सुजीर्णता इव विहितस्य स्वाभाविकत्वेन [[18]] शास्त्रैः ज्ञापितस्य हितमितात्मकस्य पक्वावस्थैव ज्ञानात्मता । “जानाति इच्छति यतते” इत्येवंरूपेणैव क्रमेण कर्मणाम् उदयात् , बीजप्रभवस्य ओषधिवनस्पत्यादेः सर्वस्यापि प्रारम्भिक विकासाभ्यामनन्वरं बीजे एव विरामवत्, ज्ञानत एव जातस्य प्रवृद्धस्य च कर्तणः ज्ञानाकारे एव लयः स्वाभाविकः ।उक्तं च भगवता जीताचार्येण “सर्वं कर्माऽखिलं पार्थ ज्ञाने परिसमाप्यते ४-३३ । केतुः पुरुषस्य ज्ञानमेव हि क्रियात्मतां लभते । ईशावास्ये अविद्यया मृत्युं तीर्त्त्वा विधयाऽमृतमश्नुते (ईश. ११) इति विधा कर्मणो अङ्गि अङ्गभावं श्रुतिः उपपादयति । अतः कर्माविधादिमयीं सृष्टिमेव परमव्योमोपासनतया वेदाः प्रतिपादयन्ति । सृष्टेः उपरम एव उक्तविधानां वेदानामन्तः । सृष्टेः प्राक् आदिः स एव । सुष्ट्युपरेम स एव अन्तः । ओंकारः वेदानामादौ अन्ते च अनुसन्धीयते । “यद्वेदादौ स्वरः प्रेक्तः [[19]] महा ना.उ.१०) “वेदान्ते च प्रतिष्ठितः” इति प्रणव एव अनुसन्धीयते । ओंकाराभिधेयः परमात्मा । “सर्गाणामादिरन्तश्च मध्यंचैवाहमर्जुन (भ.गी.१०.३२) वेदानामन्तः पर्यवसानभूमिः परमात्मैव ॥

९) कति उपनिषदः – वेदचरमभागरूपाः वेदान्तास्तु उपनिषच्छब्देन अभिधीयन्ते । अष्टोत्तरशतसंख्याकाः उपनिषदः । अष्टाविंशतिसंख्याका इत्यपि केचिद्वदन्ति । यद्यायुपनिषदां संख्या अष्टोत्तरशतमेव । अथापि ताभ्यः अपेक्षया अष्टाविंशतिसंख्यका: उपनिषदः मुख्यभूताः । ताभ्यः अपि दशसंख्याकाः उपनिषदः अत्यन्तं मुख्यभूताः वाण्यन्ते । ताश्च “ईश, केन, कठ, प्रश्न, मुण्डकमाण्डूक्यतित्तिरि । ऐतरेयं च छान्दोग्यम् बृहदारण्यकं दशः इति प्रसिद्धाः । [[20]] प्रायशश्चोपनिषदः ब्राह्मणभागता एवोपलभ्यन्ते । प्रतिवेदं संहिता ॥ ब्राह्मणम् आरण्यकम् इति त्रयो भागा । ब्राह्मणेषु वा आरण्यकेषु वा जीवनपारमार्थ्यशंसिन उपनिषद: विराजमानाः सन्ति । अनेकाःउपनिषदः प्रतिवेदम् आदौ मध्ये अन्ते वा वर्तन्ते । सर्वस्यापि वेदनस्यान्ते एव यदा कदा वा वर्णितोऽपि सौऽशः वेदान्तः । त्रयीमयोऽयं देहः मूलाधारे ऋक्, अचाहतस्थाने यजुः आज्ञास्थाने साम । आज्ञान्त एव ऐन्द्रियकाणां वेदनानां भूमिः । वेदानाम् उत्तमाङ्गं शिरः इव प्रधानभूताः उपनिषदः । [[21]]

१०) उपनिषच्छब्दार्थः :- ब्रह्मनान्दिकृते वाक्यग्रन्थे “उपनिषण्णत्वाद्वा उपनिषत्” इत्युक्तम् । द्रमिडाचार्यकृते भाष्ये “गहने हीयं विद्या संनिविष्टा” इति । वामनकृतरीकायां “गहने ब्रह्मणि उपनिषण्णा” इति उपनिषच्छब्दार्थः स्पष्टिकृतः । उपनिषद्भावप्रकाशे – भाग – ३ तै. उ. ४-१३ = तद्गताः श्लोकाः

१.अ“उपशब्दः समीपार्थः निषदर्थो निषीदनम् । गुरुदेवसमीपे च निषीदन् चेतनोपिहि ॥

२.अअज्ञानविज्ञानसिद्धयर्थं नाम्नैतेन प्रकीर्त्यते । तत्सम्बन्धाच्च विधाऽपि तत्त्वतोऽनेन बोध्यते ॥

३.अ गुरुर्जीवोपि संश्लिष्टौ यथाऽत्यन्तं रहः स्थितौ । गुरुः शिष्यं स्वह्रुदये शिष्यः स्वह्रुदयेगुरुम् ॥ [[22]]

४.अयः कोऽपिनैव पश्येच्च, विद्यामाहात्म्यमीद्रुशम् । अतोह्युपनिषद्विद्या ज्ञानात्मा प्रापयेदियम् ॥

५.अरहस्यभूता विज्ञेया श्रुतिस्तद्बोधनोद्यता । मनसो गतिरेवेयं निषण्णात्मसमीपतः ॥

६.अअंशभूतो जीव एवं संलग्नोंऽशिनिच स्वतः । शब्देनाऽनेनाऽभिहितोह्यतश्चोपनिषत्त्वियम् ॥ उप-निषीदति अव्यवधानेन नित्यं समन्वेतीत्युपनिषत् । अद्वारकभगवत् प्रतिपादकवेदभागः उपनिषच्छब्दार्थः । पूर्वोत्तरभाग द्वयात्मके वेदेपूर्वभागः न साक्षात् ब्रह्म प्रतिपादयति । “तदेवाग्निस्तद्वायुः तत्सूर्यस्तदु चन्द्रमाः” इत्यादौ अग्न्यादिशब्दाः न साक्षात् परमात्मानं+बोधयितुं प्रवृत्ताः । वेदान्तभागरूपोत्तरभागस्तु साक्षात्परब्रह्मण एव बुबोधयिषया प्रवृतः । [[23]]

११) उपनिषत् रहस्यार्थक :- वेदे अतिरहस्येऽर्थे उपनिषच्छष्टः प्रयुज्यते । बृहदारण्येक (७-४-२) “सत्यं ब्रह्म” इत्युपक्रम्य आदित्यमण्डले व्याहृतिशरिरतेन सत्यस्य ब्रह्मणः उपास्यत्वमुक्त्वा “तस्योपनिषदहरित्यादित्यपुरुशस्याहर्नमत्वमुक्तम् ” इत्युवतम् । तथा अक्षिणि व्याहृतिशरीरत्वेन सत्यस्य ब्रह्मणः उपास्यत्वम् उक्त्वा “तस्योपनिषदहमित्यध्यात्मम्” इति चोक्तम् । तत्र “द्वे उपनिषदी रहस्यनामनीः इति त्रिरंगरामानुजमुनिभाष्यम् । अत उपनिषच्छब्द रहस्यार्थं बोधयति इति सिद्धम् । तथा च अतिरहस्यभूतब्रह्म विद्यारूपार्थबोधकः उपनिषच्छब्दः इति निश्चीयते । [[24]]

१२) वेदान्तभागः एव उपनिषत् :- ’उप नि सत्’ इति पदत्रथघटितोऽयं शब्दः । उप ‘नि’ इत्युपसर्गद्वयम् । “षड् लृ” धातुः विशरणगत्यवसादनार्थकः ततः क्विप् प्रत्ययः । ब्रह्मविद्या एषा पुरुषविशेषं प्राप्य तद्गतपापानां विशरणकर्त्री, अवसादयित्री च । पुरुषं प्राप्य तस्य ब्रह्म गमयित्री तिः । समस्तपापानि नाशयति, तन्नाशद्वारा ब्रह्मप्रापिका च ब्रह्मविद्या इम इति । ब्रह्मविधैव उपनिषत्” । अथ कस्मादुपनिषत् समीपे उपविश्य शिष्येण आचार्यात् गृह्यमाणत्वात् उपनिषत् । यद्यपि सर्वस्मिन् वेदे विद्यास्थाने च आचार्योपसदनमविशिष्टं, तथापि परमरहस्यत्वात् वेदान्तभाग एव शिष्येण अत्यन्तसमीपे उपविश्य गृह्यते इति वेदान्तभाग एव उपनिषच्छब्दवाच्यः इत्यवसेयम् । [[25]]

१३) उपनिषदां महिमा :- “ब्रह्मविधैव उपनिषत्” एतासां महिमा अनन्ताः । ब्रह्मविद्यायाः प्राप्तौ पूर्वोत्तराधयोः अश्लेषः विनाशश्च छान्दोग्ये श्रुता । (छा.उ ४-१४-३) “तद्यथा पुष्करपलाशे आपः न श्लिष्यन्ते एवमेवं विदि पापं कर्म न श्लिष्यते” । काठके (यजु.)१२ “तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन इत्युच्यते । छान्दोग्ये ५-२४-३ तद्यथा इषीकतूलमग्नौ प्रोतं प्रदूयत् एवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति । मुण्डके

२-२-८ क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” – इति विध्यायाः उपनिषदः फलत्वेन पूर्वकृत पापानां विनाश । आगामिनः अश्लेषश्च श्रुयेते । “अश्लेषो नाम” वैदिककर्मायोग्यतानसानाप्रत्यय प्रत्यवायहेतुशवत्युत्पत्ति (१-

१-१३) प्रतिबन्धकरणम्” इति श्रीभाष्यकाराः । विनाशो नाम [[26]] उत्पन्नायाः प्रत्यवायशक्तेः विनाशकरणम् । पुण्यस्यापि भगवत्प्राप्तिविरोधित्वेन पूर्वकृतानां विनाशः आगामिनाम् अश्लेषः विधाफलत्वेन विवृता श्री भाष्ये ॥ शोधप्रबन्धसार:

१४) उपनिषत् प्रतिपादितः अर्थः :- श्रूयते नित्यमिति श्रुतिः । अनेनापौरुषेयत्वान्निर्दोषत्वं विवक्षितम् । मीमांसा पूर्वोत्वरभेदेन विभक्ता । तयो परस्परं उपजीव्योपजीवकभावः । पूर्वमीमांसान्यायानाम् उपजीव्यत्वम्, उपनिषदाम् उपजीवकत्वम् । परतत्त्वप्रधानाः मन्त्रब्राह्मणभागाः उपनिषदः । “श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे” – इति भगवद्रामानुजाचार्याः । पूर्वभागेपि अग्नीन्द्रादिरूपतया ब्रह्मणः एव प्रतिपाध्यत्वम् । [[27]] “तदेवाग्निस्तशयुस्तत्सुर्यस्तदु चन्द्रमाः” इति श्रुतिवाक्येनैव सर्वशब्दानां ब्रह्मपर्यवसायित्वं ज्ञायते । अनेन विशेषेण दीप्तिमत्वं ब्रह्मणः । “श्रुतिशिरः” उपनिषदः एव अनन्याधीनप्रमाणम् । “सामान्यशब्दानां विशेषे पर्यवसानम्” इति नयेन सद्ब्रात्मशब्दानां श्रीनिवास “शब्दे पर्यतसानं इति श्रुतप्रकाशिकाचार्याः । ब्रह्म” शास्त्रैकसमधिगम्यः । हितानुशासनं शास्त्रम् । शास्त्रप्रतिपादितः अर्थ एव ग्राह्यः । सः एव यर्थार्थशब्देनोच्यते । वेदेऽपि अनन्यपरभागसिद्धः वेदान्त एव प्रधानभूतः । चिदचिदात्मकजगतः हितरूपशासनम् अवबोधयन्ति श्रुतयः । हितज्ञापनाय प्रवृत्ता वेदाः । उपायः कः स्थिरानन्तफलप्राप्तये – उपायेन अधिगम्यमानम् उपेयं किम् [[28]] इति माता पितृ राहस्रेभ्योपि वत्सलतरः श्रुति बोधयति । आस्मान् अनुशासति – अनुशासनं नाम किं विविच्य ज्ञानम् इति । विवेक एव प्रधानं खलु ? तत्र पूर्वभागः कर्मकाण्डेत्यभिधीयमानः स्वर्गादिफलं पुरुषार्थतया बोधयाते । अधिकारिभेदेन पुरुषार्था भिद्यन्ते । भ्रान्ते जगति प्रत्यक्षाद्यनवरत भ्रमान्तरोत्पादकत्वं श्रुतेः न विवक्षितम् । परमपुरुषार्थ मोषस्यैव हिततमत्वात् ताप्राप्तये कर्मणामावश्यकत्वात् तानि च कर्माणि यथार्थज्ञानपूर्वकत्वेनैव अनुष्ठेयाणि इति श्रुतिषु सम्यगधितः ॥

१५) औपनिषद तत्त्वविचाराः :- परमप्राप्तौ उपायः कः इति विवेचयति श्रुतिः । “तत् त्वम् असि (छा-उ-६-३)” इत्यत्र त्वम् इति युष्मच्छब्दस्य चेतनद्वयगर्भत्वं सूचितम् । जीवान्तर्यामी परः परमात्मात्मकः [[29]] त्वम् – इति युष्मच्छब्दस्य अर्थः । “ऐतदात्म्यमिदं सर्वं “तत्सत्यम्” – इति सर्वस्य ब्राह्मात्मकत्वम् एव सत्यम् । एतादृशज्ञानवान् भूत्वा विहित आश्रमकर्माणि कर्तव्यनि । ज्ञान कर्मणोः समुच्चयवादः न साधुसम्मत । “तमेनं विद्वान् अमृत इह भवति नान्य पन्थाः अयनाय विद्यते (पुरुषसूक्तम्) मोक्षय न अन्याः पन्थाः – ज्ञानमेव मोक्षसाधनम् । तच्च ज्ञानम् उपासनात्मकम् इति । उपासनात्मकज्ञानेन एव अपवर्गप्राप्तिः । “श्रोतव्यो मन्तयो निदिध्यासितव्यः” इत्यक्तय श्रुत्या ध्यानं विधीयते । ध्यानं मानसं वाचिकं नामसंकीर्तनं, कायिकं च अर्चनादि – इति त्रिविधमुपासनं विहितम् । श्रीमद्भागवते ७-५-२३,२४ श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् अर्चनं वन्दनं दास्यं सख्यमात्म निवेदनम् [[30]] । इति पुंसार्पिता विष्णोः भक्तिश्च नवलक्षणा – इति । “भक्त्या त्वनन्यया शक्यः” – इति भक्तेरेवोपायत्वम् । भक्तेः उत्पत्तये आश्रर्मकर्माणि तानि च यथार्थज्ञानपूर्वके नैव करणीयानि । तथा च भक्तेः ज्ञानकर्मणोश्च अङ्गाङ्गिभावः । ईशावास्ये विद्यां चाविद्यां च यस्तद्वेदोभ्यम् सह इति कयो: अङ्गाङ्गिभावः विधीयते । ध्यानार्चनादयः अत्यन्तप्रेम्णा कार्या । मन्मना भव मद्भक्तः गीता १८-६५ मद्भवतः मन्मना भव, मद्भक्तः मद्याजी भव इति प्रतिपदं मद्भवत पदान्तयात् ध्यानार्चन इत्यादयः अत्यर्थप्रियत्वेन कर्तव्याः । तेन किं सिध्यति भगवत् प्राप्तिरूपफललाभः । “ब्रह्माप्राप्नोति परं” – “विद् ” ज्ञाने ज्ञानवान् उपासनात्मक ज्ञानवान् अनुजूतेत्त उपासनेन दाहत्त प्राप्त्तोवि इति श्रवुतिः बोधयति । [[31]]

१६) वेदान्तवाक्यजातानाम् – प्रकृत्तौ कारणत्वनिरूपणम्:- श्रुतिः वात्सल्यतिशयेन स्वरूपाविर्भावपूर्वकमोक्षप्राप्तौ जीवात्मानं प्रेरयति । वस्तुतः चिन्त्यमाने प्रणापति वाक्योक्ताष्टगुणाः पर इव जीवेऽपि सन्ति । परन्तु अविद्यया तिरोहितः सन् स्वस्वरूपं अविज्ञाय संसारसागरमग्नः दुःखी भवति । का नाम अविद्या ? यथा तिरोहितः भ्रमति जीवः इति चेत् वि.पु. ६-७-१० “श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मवुद्धिर्या अस्वे स्वमिति या मतिः इत्युक्तम् । तत्रैव – वि.पु. ६-७-६०.६१ – “अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥ संसारतापानखिलान् अवाप्नोत्यतिसंततान् । तथा तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाल तारतम्येन वर्तते” – इति अविद्यास्वरूपं विवृतम् । एवं विध [[32]] कर्मप्रवाहहेतुकः ब्रह्मादि सुर नर तिर्यक् चतुर?विधदेहप्रवेश । प्रवेशात् देहेषु तत्राभिमानः । आत्मनः देहादिविलक्षणत्वात् देहात्मज्ञानमविधा । तद्वत्ता च पापाचरणम् । “पाप प्रज्ञां नाशयति, क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव पुनरारभते नरः” इति । आत्मनः भगवत् शेषत्वात् स्ततन्त्रज्ञानमप्यविद्या । एतया शरीरातिरिक्तात्मज्ञानशून्यानां स्वर्गादिफलकं कर्मानुष्टीयते । कर्मणा – पुनः शरीरान्तर प्राप्तिः तत्तच्छरीरसम्बन्धेन अविद्या इति कर्मप्रवाहानादिता । कर्मणा संसार भयं जन्मजरामरणभयं सञ्जायते । तादृशभवभय विध्वंसनाय तत्त्वज्ञानमावश्यकम् । “रज्जुं दृष्ट्वा अयं सर्प:” इति भीतस्य “नायं सर्पः रज्जुरेषा इत्येनरूपज्ञानादेव भयनिवृत्तिः । संसारभयनिवर्तनाय देहातिरिक्त जीवात्मस्वरूपज्ञानम् [[33]] आवश्यकम् । तत्स्वभावज्ञानं चाधिगन्तत्यम् [तच्च भगवच्छेषत्वम् भगवच्छरीरत्वज्ञानं च सम्पाद्यम् । अतः श्रुतिः प्रकृताः । जीवान्तर्यामिपरमात्मस्तरूपज्ञानं – सर्वेशितृत्वम् प्रणतसौलभ्यादि परमात्मस्वभावज्ञानं अधिगन्तव्यम् । उपासकः जीवः तदनुगुण स्वरूप स्वभावगुणौ, एवं उपास्यभूतस्य परस्य स्वरूपस्वभाव गुणौ उपायभूतस्य उपासनायाः च स्वरूपं च वेदितव्यम् । तथा च उपायोपेयोपेतृ स्वरूपाणां विविच्य ज्ञापनाय – तद्वारा अनवधिकातिशय ब्रह्मानन्दानुभवज्ञापने वेदान्तवाक्यजातम् प्रवृत्तम् । अर्थात् वेदान्ताध्ययनादेव जीवस्वरूपस्वभावौ, भगवतः स्वरूपम् स्वभावञ्च प्राप्यभूतस्य भगवतः उपायत्वं उपेयत्वञ्च, प्राप्तेः मोक्षस्य च स्वरूपम् अवगन्तुं शक्यते इति श्रुतीनां परमप्रामाण्यम् आचार्याः उररीचक्रुः ॥ [[34]] १७) उपायोपेयोपेतृ विचाराः :- “तत्त्वमसि” इति छान्दोग्य श्रुतिः ६-९-४ जीवपरयोः सामानाधिकरण्यं प्रतिपादयति । “अयमात्मा ब्रह्मः बृ उ ६-

४-५ श्रुतिः जीवमात्रस्य ब्रह्मात्मकत्वं निर्णायति । ब्रह्मणः अन्तर्यामित्वं (बृ उ ५-७) बृहदारण्यकश्रुति आह । अन्तर्यामी कः इति देवताविशेषनिर्णयाय प्रकृता सुबालोपनिषत् सु उ ७ “एष सर्वभूतात्मरात्माऽपहतपाप्मा दिव्यो देतो एको नारायणः इति विवेचयति । ब्रह्म प्राप्तये कर्मणामनुष्ठेयत्वं उपपादयति बृहदारण्यश्रुति ६-४-२२” तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति । तैत्तरीये श्रुति: आनन्दकल्याम् उपसनस्यैव उपायत्वं “ब्रह्मविदाप्नोति परम्” – इति प्रमाणर्यात । पुरुषसूक्ते ७ [[35]] “तमेवं विद्वानमृत इह भवति, नान्यपन्था अयनाय विद्यते” – इति उपासनस्यैव परमप्राप्युपायत्वं सुदृढतया संस्थापितम् ॥

१८) जीव-पर-स्वरूपे श्रुतयः :- छान्दोग्ये ८-१२-५ मुक्तामुक्तात्मस्वरूपकथने” अथ यो वेदेदं जिघ्राणिति स आत्मा” तत्रैव छा.उ ८-१२-६ “नोपजनं स्मरन्निदं शरीरं वाजसनेयके – नृ उ ६-३-७ कतम आत्मा” इति दृष्ट्वा “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः” बृ. उ. ६.५.१५ विज्ञातारमरे केन विजानीयात्” जीवः ज्ञानाश्रयः इति श्रुतिषु निरूपितम् । प्रश्न – उ-४-९ “जानात्येवायं पुरुष” “एष हि स्पष्टा श्रोता प्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः” इति । ज्ञानाप्रयस्य जीवस्य ज्ञानं गुण बु. उ – ५-७-२२ “यो विज्ञाने तिष्ठन्” – तैत्तरिये आनन्दवल्यां विज्ञानम् यज्ञं तनुते” – इति [[36]] विज्ञानगुणसारत्वात् जीवस्यं विज्ञानं” इति व्यपदेश । विष्णुपुराणे २-१३-९४ “पुमान्नदेवो न नरः नपशुः न च पादप शरीराकृतिभेदास्तु भुपैते कर्मयोनयः – इति प्रकृतिसम्बन्धाद्भेदः इति उक्तम् । स्वतः ज्ञानानन्देनैकगुणः जीवः “विष्णु पु. ६.७.२४, निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमलाः धर्माः प्रकृतेस्ते न चात्मनः” एतादृशस्य जीवात्मनः ज्ञानानन्देऐकगुणस्य कर्मकृतादिभेदे उपासनमहिम्ना अपध्वस्ते सति “एकस्वरूपभेदो हि बाह्यकर्मावृतिप्रजः । देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि सः (वि. पु. १-४-४०) इति विवृणोति वाचामगोचरत्वम् । अयंभाव देवादिशरीरभेदे नष्टे सति नात्मनो भेदः । देवादि शरीरभेद एव आवरणः । तन्नाशे तत्कृतभेदः नात्मनि विद्यते । वि. पु “प्रत्यस्तमितभेदं यत् [[37]] सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तन्ज्ञानं ब्रह्म संज्ञितम्” ६-७-५३ इति प्रतिपादितं जीवस्वरूपम् । देवादिमनुष्य भेदे अपध्वस्ते स्वरूपतः धर्मतश्च ज्ञानस्वरूपः आत्मा जीवः । तस्य संसारदशायां यो व्यवहार” सोऽपि अपगतः । औपाधिकाकाराणाम् अभावात् “ज्ञानस्वरूपम् इति शब्देनेव निर्देश्यम् । सर्वशब्दागोचरत्वे तच्छत्वापति । अत ’ज्ञानस्वरूपम्” इति निर्देशः तच्च सर्वात्मनां समानं इति उपेतुः जीवस्य स्वरूपं श्रुतौ निरूपितम् ।

१९) परस्य श्रुतिनिरूपकत्वम् :- श्रुतयः – जीवस्वरूपस्य देवादिशरीरस्य च उत्पत्तिस्थितिलयात्मकसंसारनिवर्तनैकहेतुभूतः स्वेतरविलक्षण उपास्यत्व, प्राप्यत्व उपयोगिगुणगणविशिष्टः निखिलवेदान्तवेद्यः भगवन्नारायणः पुरुषोत्तमः [[38]] परमात्मशब्दवाच्यः । उमयविभूतिमान् विभूतिभूत चिदचिद्विलक्षणः पर एव प्रशासिता । आरण्यके ३-२० “सर्वात्म” वै उ २-२१ परं ब्रह्म छान्दोग्येः ८-२ “परंज्योति:” छान्दोग्ये ६-२-१ परतत्व छान्दोग्येः” सदेव सोम्येदमग्र आसीत्” इति इत्यादिभिः श्रुतिभिः पर एवाभिधीयते । भेदश्रुत्यानुगुण्यात्, घटकश्रुत्यैकार्थ्यात् सामानाधिकरण्यस्वाभावाच्च सर्वासां श्रुतीनाम् ऐकार्थ्यं सूपपन्नम्। अन्तर्यामिरूपेणावस्थितः सन् नियमयति इति भाव” ॥ जगत ब्रह्मणश्च अंशांशिभावः ब्र. सू. २-३-४, २ अशो नानाव्यपदेशात् अन्यथा चापि” – इति सूत्रकारः जीवस्य ब्रह्मांशत्वं निरणैषीत् । भगवद्गीतायां” ममैवांशो जीवलोके जीवभूतस्सनातनः - गीता १५-७ । [[39]] “परास्य शक्तिः विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति परमात्मनः ज्ञानशक्त्यादिमत्वं प्रतिपादयति । वि. पु. १-२२-५६ परस्य ब्रह्मणश्शक्तिः तथेदमखिलं जगत् । रामायणे युद्धकाण्डे १२० २६” शरीरं ते जगत्सर्वं, स्थैर्यं ते वसुधातलम्” – इति जगत् ब्रह्मशरीरम् इति प्रोक्तम् । “विष्णोरेताः विभूतयः” वि. पु १-२२-३२ वि. पु. १-२२-३८ “तत्सर्व” वै हरेस्तनु” – इति कदाचित् शक्ति शब्देन, विभूतिशब्देन, शरीरशब्देन च परमात्मनः वैभवं प्रतिपादयन्ति । “अन्तरो यमयति” – इति श्रुतिरेव शरीरात्मभावस्य मुख्यतया विवेचयति । शरीरादिशब्दानाम् एकार्थपरत्वेनाविरोधे वाच्ये, शरीरशब्द अनुगुणं शक्त्याद्यर्थाः उपपादनीयाः । कार्योपयोगिविशेषणत्वात् शक्तिः विशिष्टे ब्रह्मणि विशेषणतया एकदेशत्वात् अंशः , नियाम्यतया [[40]] विभूतिः व्याप्यत्वे सति नियाम्यत्वात् शरीरम् । तथा च चिदचिदात्मकं सर्वं परमात्मनः शरीरम् अंशः विभूतिः शरीरश्च इति श्रुतयः निरूपयन्ति ।

२०) श्रुतीनां वैविध्यम् :- तत्त्व, हित, पुराषार्थबोधकाः श्रुतय: नैकरूपाः द्रुश्यन्ते । जीवब्रह्मणोः भेदो वा अभेदो वा इत्यत्र जिज्ञासा । उपेता जीवः साधनेन उपेयं प्राप्नोति वा उत एकीभवति इत्यत्रापि विशयः । परं ब्रह्म सगुणं वा निर्गुणं वाः कीदृशं ब्रह्म प्राप्यं इत्यत्रं आक्षेपः । सृष्टिविषयेऽपि क्वचित् तेजोबन्नमात्रसृष्टिः, क्वचित् पञ्चमहाभूतसृष्टिः क्वचिच्च महदादिसृष्टिश्च श्रुतौ श्रूयते । श्वेताश्वतर – उ-६-१९” निरवद्यं” “निरञ्जनं”, तै भृ विज्ञानतेत्तरीय आ “आनन्दं श्वे – उ-६-१९” निष्कलं निष्क्रियं” “शन्तं इत्याद्या: श्रुतयः निर्गुणप्रतिपादकाः । नेह [[41]] नानास्ति किञ्चन – नृ-४-४-१४ “यत्र त्वस्य सर्वमात्मैवाऽभूत्” इत्याद्याः श्रुतयः नानात्वं निषेधयन्ति । मु उ” १-१-१०” यस्सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः – इत्याद्या:, “अपहतपाप्मा विजरो विमृत्यु – छा उ- ८-७-१ श्रुतयः त्रेयगुणनिरसनपूर्वकं कल्याणगुणानाम् आकारं परं ब्रह्मेति बोधयन्ति । छा. १-१४-१ “सर्वं खल्विदं ब्रह्म” “ऐतदात्म्यमिदं सर्वम्” – छ-६-८-७ इत्याद्याः वेदान्ताः जगतः नानाकारतां उपपाद्य ब्रह्मणा ऐक्यं निरूपयन्ति । श्वेता १-२५ “पृथगात्मानां प्रेरितारञ्च मत्वा” श्वे उ १-२४ “भोक्ता भोग्यं प्रेरितारं च मत्वा” “सर्वस्य वशी सर्वस्येशानः “बृ ६-४-२२ इत्याद्या: चिदचिदात्मकस्य परस्य ब्रह्मणश्च भेदं प्रतिपादयन्ति । शरीरात्मभावश्रुतीः अन्याः ताश्च “अन्तः प्रविष्टः शास्ता [[42]] जनानां सर्वात्माः आरण्यक ३-प्र – २१ “एष ते आत्मा अन्तर्यामी अमृतः “बृ ५-७-३ तथा सुबाल उपनिषदि ४-७ “यस्य पृथिवी शरीरम् “यस्याव्यक्तं शरीर “यस्यात्मा शरीरं” इति चिदचितोः ब्रह्मणश्च शरीरात्म भावमुपपादयन्ति । का वा श्रुति, भेदश्रुतिं वा अभेदश्रुति वा घटकश्रुतिवा प्रमाणतया स्वीकूर्मः इति पश्न: समुल्लसति ॥

२१) श्रुतीनाम् अविरोधप्रदर्शनम् :- भिन्न भिन्नार्थकप्रतिपादकानां श्रुतीनां परस्परम् अविरोधः यथा संभवति, तथा श्रुत्यर्थः उपपादनीयः । परमते सगुण भेदश्रुतयः त्यक्ताः । भेदवादिनां मते अभेद प्रतिपादक श्रुतीनां का गति ? अस्माकं मते स्वबुध्या अर्थस्थिति नोत्प्रेक्ष्यते, पूर्वाचार्यैः उपदिष्टाः पन्थाः तन्मार्गगमनात् सर्व श्रुतीनामविरोधं मुख्यार्थत्वञ्च बुदध्यारूढं भवति । [[43]] अविकारश्रुतीनां स्वरूपपरिणामपरिहारादेव मुख्यार्थोपरि त्यागत्वम् । स्वरूपतः – स्वभावतः च विकाराः भिद्यन्ते । स्वरूपतः अविकारं परं ब्रह्म । निर्गुणप्रतिपादकश्रुतीनां प्रकृति सम्बद्धहेयगुण निषेध परतया विशेषेण अवस्थिताः । सर्वप्रकारं ब्रह्मैवावस्थितमिति अब्रह्मात्मकवस्तुनः अनुपलम्भात् नानात्वनिषेधवाचिन्यः श्रुतयः सङ्गताः । सगुणत्व प्रतिपादकश्रुतीनाम् अभ्युपगमादेव सार्थकाः । स्वरूपनिरूपकधर्माणां ज्ञानानन्दादीनाम् अङ्गीकारादेव व्यवस्थिताः । शरीरात्मभावेन “तत् त्वमसिः इत्यत्र सामानाधिकरण्यं प्रतिपादनात् श्रुतिरपि सार्थप्रयोजनवतीर्ति तद्वाक्यमनुपालितम् ॥ सर्वश्रुत्यनुरोधेन चिदचिद्ब्रह्मणोः भेदो वा अभेदो वा द्व्यात्मकता वा वेदान्तवेद्यः कोयमर्धः समर्थित इति चेत् [[44]] सर्वेऽर्था सान्वयाः समर्थिताः इति श्रीभगवद्रमानुजाचार्य: च सर्वस्य वेदवेद्यत्वात् सर्वं समञ्जस इति वेदार्थसङ्ग्रहे श्रीभगवद्रामानुजाचर्य:” । अभेदश्रुतीनां सर्व प्रकारत्वेन ब्रह्मण एव अवस्थिते”, सर्वस्य तच्छरीरत्वश्रवणाच्च, गतिः सम्पद्यते । एकमेव ब्रह्म जानात्वेनावस्थितमिति भेदाभेदौ रामर्ह्तितौ । स्वरूपः स्वभाववैलक्षण्यात् चिदचिद्ब्रह्मणोः भेदः अभ्युपगतः । तथा च सर्वासां श्रुतीनां अविरोधः अवगन्तु तदात्वे एव शक्यते यदा विशिष्टाद्वैतसैद्धान्तितान् अर्यान् आचार्यद्वारा प्राप्नुयुः ॥ [[45]] २२) श्रुतीनां विवरणे शाङ्कराः :- उपक्रमे “एकविज्ञानेन सर्वविज्ञानमिति” (छ उ ६-१-४ औपनिषद प्रतिज्ञानवाक्ये सर्वविज्ञानप्रतिज्ञया कारणस्यैव सत्यत्वं फलितम् । तत्र दृष्टन्तमपि श्रुतिरेव दर्शयतिः” यथा सौम्यैकेन मृत्पिण्डे सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृतिकेत्येवसत्यम् (छा.उ ६-१-४ इति निरूपयति । अनेन विकारभूतानां मिथ्यात्वं स्पष्टम् । अत एव भगवत्पादाः “श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः” इत्याहु । “तत् त्वमसि” छा उ-६-२-१ इति श्रुतिः जीवमात्मयो: ऐक्यमाह । भेददर्शने माया एव कारणम् । रज्जुं दृष्ट्वा अयं सर्पः इति विभेति [[46]] । वस्तुतः अविद्यमानः” सर्पः विद्यमान इव भाति । तत्त्वज्ञानेन भ्रमबिवृत्तिः । एवमभेदज्ञानेन भेदनिवृत्तिः । एवञ्च भेदश्रुत्यानुगुण्यात् सामानाधिकरण्यस्वाभाव्यात् घटकश्रुत्यैकार्थ्याच्च तद्वैभवप्रतिपादनपराणां श्रुतीनां विवरणे प्रवृत्ताः शाङ्कराः “कार्त्स्येन ज्ञानमात्रं ब्रह्म” ज्ञातृज्ञेयस्वरूप विशेषाः गुणरूपतिशेषाश्च न सन्ति । ब्रह्मणः ज्ञान स्वरूपस्यैव ज्ञातृत्वं ज्ञेयत्वं च । बृ उ ६-६-१२ ब्रह्मणः चिन्मात्रस्वरूपत्वे श्रुतिः उदाहरणम् आह” स यथा सैश्चवघन” इति । नदृष्ते द्रष्टारं पश्ये बृ-५-४-२ इति निषेधविश्रुति” ब्रह्मणि अर्थगुणान् । तर्हि कस्य वा मुक्ति – कस्य वा संसारः इति चेत् ब्रह्म अज्ञं सत् संसारे भ्रमति । अज्ञात्वापगमे मोक्षः ॥ [[47]]

२३) अद्वैतिनां आक्षेपः एव अज्ञानापगमे सति ज्ञानं भवति तदेव ब्रह्म । तच्च ब्रह्म नित्य मुक्तस्वप्रकाशं ज्ञानस्वरूपञ्च । स एव बध्यते मोक्ष्यते च । रज्जुज्ञानात् पश्चात् रज्जुरेव दृश्यते । एवं संसारबन्धापगमे मोक्षः । अविद्यया तिरोहितं ब्रह्मैव भेदभ्रममनुभवतीति कल्प्यम् श्रुतिसिद्ध: जीवैक्यमभ्युगम इव, श्रुतिसिद्ध ईश्वरेशितव्यादि भेदः कुतः नाभ्युपगम्यत इति चेत् अद्वैतवाक्यबलेन तेषां भेदप्रतिपादकवाक्यानां मिथ्याविषयत्वमाश्रयणीयम् । बद्धमुक्त व्यवस्था सिध्यर्थम् आत्मभेदः नाभ्युपगमनीयः । तादृशी बद्धमुक्तावस्था एव न विद्यते । चेष्टादि भिस्तावत् सर्व शरीराणामात्मत्वं सिद्धम् । एवं च सति सुखदुःखव्यवस्थायाम् आत्मनि भेदेन बन्धमोक्षव्यवस्था स्यादिति चेन्नः “एकमेव शरीरं जीववत् [[48]] निर्जीवानि इतराणि शरीराणि” इति । तर्हि तादृश शरीरकः जीवः लब्धाद्वैतज्ञानवान् बन्धनात् मुच्यते इति बन्ध मुक्त व्यवस्थास्यात् खलु- इति चेत् “इदं शरीरं जीववत् एतच्छरीरकः जीवः ज्ञानवान् इति निश्चेतुं न शक्यते । शिष्याचार्य व्यवस्था प्रमातृ प्रमेयव्यवस्था नाभ्युपगम्यते । आत्मबहुत्वभिधिया, ब्रह्मण: व्यतिरिक्तस्य शास्त्रत्व सत्यत्वाभ्युपगमभयेन च व्यवस्थामेव नाङ्गीकुर्वन्ति । ब्रह्मव्यतिरिक्तं सर्वं मिथ्या । मिथ्याभूतशास्त्रेणैत ब्रह्मणः निर्विशेषत्वम् अवगम्यते । “तत्त्वमसी” वि श्रुत्या जीवब्रह्मणोः स्वरूपतः ऐक्यम्। “अत्र ब्रह्म समश्नुते” इति श्नुत्या बृ.उ ६.१४.२. अत्रैवामृतत्वप्राप्तै उत्क्रान्त्यादयः न जीवस्य शरीरात् इत्याहुः ॥ [[49]]

२४) श्रीमन्मध्वाचार्यदर्शितपन्था :- वेदान्तेषु भेदश्रुत्यवलंबिनी श्रीमन्मध्वाचार्यप्रवर्तिता एषपन्थाः विश्रुता सर्वोपजीव्या च । अभेद घटक श्रुतीनां द्वैतसिद्धान्तानुगुणतया व्याख्याकृता अस्मिन दर्शने । बाधरहितं ज्ञानं प्रमाणम् । स्वरूपज्ञान प्रत्यक्षानुमानजन्यज्ञानभेदेन ज्ञानस्य द्वैविध्यम् अङ्गीक्रियते । ब्रह्मणः निमित्तकारणताम् अभ्युपगच्छन्ति, ब्रह्माधीनत्वं जगतः, सत्यत्वं च । परन्तु प्रपञ्चं प्रति ब्रह्मणः उपादानकारणत्वं न संभवति । अप्राकृत शरीरविशिष्टः विष्णुरेव परमपुरुषः । जीवात्मनां मध्ये अग्रगण्या लक्ष्मी । विष्णु पत्नी एषा स्थिरा । ब्रह्मण एव जीवानामनादित्वं तारतम्यभावञ्च विद्यते । चिदचिदात्मकं सर्वं ईश्वरस्य परतन्त्रभूतम् इत्याकारकज्ञानी भूत्वा शास्त्रविहितकर्मं कर्तव्यम् [[50]] । अनुष्ठितेण कर्मणा ब्रह्मप्रसादः । तस्मात् स्व स्वरूपाविर्भूता स्सन्तः आनन्दानुभवरूप मोक्षमाप्नुवन्ति । आनन्दानुभवेऽपि विद्यते तरतमभावः नित्याः वेदाः अनन्ताः स्वतः प्रमाणभूताः । भक्तिरेव मोक्षस्य उपायः । आत्मा अणुस्वरूपः । स्त्री पुं – विभागः मोक्षेऽपि अनुवर्तते / दास्यदास्यभावः जीवपरयोः सम्बन्धः । तत्त्वं द्विविधं स्वतन्त्र परतन्त्र भेदात् । “स्वतन्त्रं परतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवानविष्णुः निर्दोषोऽशेषसद्गुणः” ॥ इदमस्माद्भिन्नमिति भेदे प्रत्यक्षं प्रमाणम् । अनुमानेनापि भेदः अवसीयते । परमेश्वरः जीवाद्भिन्नः, ईश्वरं प्रति सेव्यावात् । यः यं प्रति सेव्यः स तस्माद्भिन्नः, यथा भृत्यात् राजा । श्रुत्यापि भेदः अवगम्यते । “सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदाः” इति मोक्षानन्दे भेदं प्रतिपादयति । [[51]] जगद्वचापारवर्णम् प्रकरणात् असंनिहितत्वाञ्च” ब्र सू ४-४-१७ इति सूत्रकारोऽपि जीव ब्रह्मणोः भेदमाह । २५) भेदस्यैव शास्त्रार्थत्वम्:- ननु “प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रम् इदं द्वैतम् अद्वैतम् परमार्थतः” इति द्वैतस्य कल्पितत्वम् अवगम्यते खलु इति चेत् सत्यम् । तद्वावयस्य तात्पर्यम् अजानताम् अयमाक्षेपः । यद्ययम् उत्पद्येत तर्हि इवर्तेत न संशयः अनादिरयं भेदप्रपञ्चः पञ्चविधः प्रकृष्टः । भेदः तावत् नाविद्यमानः मायामात्रत्वात् । माया नाम भगवदिच्छा । “मायेत्युक्ता प्रकृष्टत्वात् प्रकृत्ष्टे हिमयाभिधा, विष्णोः प्रज्ञाप्तिरेवैका शब्दैरेतैरुदीर्यते” । सैव प्रज्ञा मान, [[52]] त्राण, कर्त्री यस्य ईश्वरस्य तत् मायामात्रम् । ततश्च परमेश्वरेण ज्ञातत्वात् रक्षितत्वात् च न द्वैतं भ्रान्तिकल्पितम् । न हि ईश्वरे भ्रान्तिः सम्भवति, सर्वज्ञत्वात् । भ्रन्तिस्तावत् विशेषादर्शन निबन्धननियम्या । एतेन सर्वस्मादुत्तमस्य विष्णुतत्त्वस्य समाभ्यधिकशून्यत्वं सिध्यति ॥ तथा च परमा श्रुतिः

१)अजीवेश्वरभिदाचैव जडेश्वरभिदा तथा ।

२) जीवभेदो मियश्चैव, जडजीवभिदा तथा ॥ ३) मित्यश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ॥ प्रपञ्चः तावत् कीदृक् इति तत्स्वरूपं वर्णयतिः

१) “सौऽयं सत्योऽप्यनादिश्च सादिश्चेत् नाशमाप्नुयात् । २) न च नाशं प्रयात्येषः, नचासौ भ्रान्तिकल्पितः ॥ ३) कल्पितश्चेत् निवर्तत न चासौ विनिवर्तते ॥ ४) द्वैतं न विद्यते इति तस्मात् [[53]] अज्ञानिनां मतम् ॥ तस्माद्विष्णोः सर्वोत्कर्ष एव सर्वागमानां तात्पर्यम् । मोक्षश्च विष्णुप्रसादमन्तरेण न लभ्यते । प्रसादश्च गुणोत्कर्षज्ञानात् एव नाभेदज्ञानात् । तत्त्वमस्यादिश्रुतेः नाभेदे तात्पर्यम् । स्तातन्त्य पूर्णे, अल्पत्वपारतन्त्ययोः कयमैक्यप्रसङ्गः । अतत्त्वमसि त्वम् तत् न भवसि इति अतिशयेन अभेदः निराकृतः । “अनन्यलभ्यः शास्रार्थ इति न्यायेन भेदस्य प्राप्तत्वेन तदनुगुणतया तत्त्वावबोधनाय प्रवृत्तानि वेदान्तवाक्य जाग्रानि इत्याघोषयन्ति ॥

२६) ॥ श्रुतिस्मृत्यनुगुणा सर्वदा सर्वोपजीविनी सूत्र-

भाष्यसम्मताविशिष्टा रीतिः ॥

२६) समन्वयस्य प्रधानता :- [[54]] सामान्यतः जीवनयापनाय कर्मेन्द्रियेषु मध्ये समन्वयः आवश्यकः । अन्तरिन्द्रियस्य मनसः सहकार – कारणत्वाभावे, प्राणस्य च उद्भमने कथं कार्यं सिध्यति ? अतः एव ज्येष्टत्वं प्राणस्य श्रेष्ठत्वं च प्रश्न उपनिषदि श्रुतिः प्राह । इतोऽपि शरीरे जीव परयोः सद्बावश्च अवर्जनीयः । नोचेत् कं प्रति विधिः प्रेरकत्वाभावे कथं वा प्रवृत्तिः ? समन्वयः न केवलं शरीरे अपि तु श्रुतिषु अपि आवश्यकः । तत्त्वविषयेषु निर्णयाभावे कथं परमपुरुषार्थप्राप्तिः । “द्रन्द्रम्यमाणाः परियन्ति मूढाः अन्धेनैव नीयमानाः यथान्धाः – इति कठे स्पष्टं वदति । एतत्सर्वं मनसि निधाय “कोऽयमर्थः समर्थितो भवतिः इति सर्वश्रुत्यनुरोधेन शङ्कामुद्भाव्य “सर्वस्य वेदवेद्यत्वात् सर्वं समञ्जसम्” [[55]] इत्याचार्याः वेदार्थसङ्ग्रहाख्ये सर्वश्रुतिमनोहरे कृतिरत्ने निरणैषीत् ।

२७) ब्रह्मसूत्राणि :- वेदोपबृंहणार्थं पुराणादीनिव वेदान्तविचारात्मकं न्यायनिबन्धन रूपं सूत्रजातं पञ्चचत्वांरिंशदधिकपञ्चशतसूत्रसंख्याकं विशिष्टाद्वैतमतं अवलम्ब्यैव भगवान् बादरायणः प्रणिनाय । एवं सूत्राणां परामर्शेन निश्चेतुं शक्यते । मते च अस्मिन् १) जगद्ब्रह्मणो: शरीरात्मभावः २) तत्त्वत्रयविभागः ३) अर्थपञ्चकविवेचनम्

४) जीवेश्वरभेदः ५) जीव परयोः शेषशेषिभावः अंशांशिभावश्च

६) पृथक् कैङ्कर्यकरणमेव प्राप्यम् ७) विशिष्टवेषेण जीव परमात्मयो: ऐक्यम् ८) स्रष्ट्युवं सर्वावस्थासु परस्य९) उभयन्तिङ्गत्वम् १०) विद्याकर्मणोः अङ्गाङ्गिभावः ११) [[56]] कर्माणाम् अवश्यानुष्ठेयत्म् १२) विद्यायाः महिमा १३) अर्चिरादिगतिवर्णनम् एतानि सर्वाण्यपि ब्रह्मसूत्रे सम्यक् एषपादितानि आचार्यै समर्थितानि च ॥

२८) प्रधानतया अवगमनीयाः अंशाः :- एकैकस्मिन्नपि तन्त्रे स्वैरङ्गीकृताः इतरसिद्धान्तिभिः अनङ्गीकृता बहवोर्थविशेषाः विद्यन्ते । विशिष्टाद्वैतमते जगद् ब्रह्मणोः शरीरात्मभावः इति यदुज्यते तदिदं न सर्वे अङ्गीकुर्वन्ति । एवं जीवब्रह्मणो भेदाभेदबोधकश्रुतीनां परस्परविरोधेऽपि श्रुत्यानुगुण्येन परिदिश्यते। ब्रह्मजगतोः शरीरात्मभावरूप प्रधान प्रतितन्त्रमेकमेव सर्वमतनिराकरणे प्रभवति । अयं शरीरात्मभाव न स्वबुध्या परिकल्पितं परन्तु स्पष्टतरबहुविधश्रुतिप्रमाणसिद्धमिति अङ्गीकृतम् । “यः पृथिव्यां तिष्ठन् यः पृथिव्या अन्तरः यं पृथिवी न वेद यस्य [[57]] पृथिवी शरीरम् इत्यादि प्रतिवस्तु निर्दिश्य चेतनाचेतनानां सर्वेषां ब्रह्मशरीरत्वं प्रतिपादयति । प्रतिपर्यायं शरीरं शरीरं इति निर्देशात् सर्वेषां ब्रह्म शरीरत्वबोधने श्रुतीनामादरातिशयः द्योत्यते । एतादृशः शरीरात्मभावः “अंशो नानाव्यपदेशात् २-३-

४ इत्यादि सूत्रयता भगवता बादरायणेन स्पष्टमेव प्रतिपादितः । अत्रांशत्वं नाम शरीरात्मभावरूपं इत्यतत्” नानाव्यपदेशादन्यथा चापि दाशकित वादित्वमधीयत एके”

२-३-४२ इति सूत्रेण प्रतिपादितम् । यथा सरण्या अंशत्वोपपादने भेदाभेविरोधः परिहृतो भवति तामेव सरणिमाश्रित्य अंशत्वं उपपादनीयम् । सा च सरणिः शरीरात्मभावरूपा । “अपीतौ तद्वत्प्रसङ्गादसमग्जसं २-१-८ न तु दृष्टान्तभावादित्यादो अपि शरीरात्मभावः अङ्गीकृतः । [[58]] ननु अत्यन्तावेलक्षणयोः जगद् ब्रह्मणोः कथं कार्य कारणभावः इत्याक्षिप्यविलक्षणत्व अधिकरणे २-१-४ विलक्षणयोरपि कार्यकारणभावः उपपद्यते इति राद्धान्तितम् । कृमि मक्षिकयोः यथा तद्वत् इति दृष्टान्तः प्रदर्शितः । एवं सा कार्यगतदोषाणां कारणे प्रसक्तिरिव ब्रह्मणि अपि दोषप्रसङ्गसंभाव इत्याक्षेपः । समाधिस्तु अनुपक्तेस्तु न शरीरः” – १-२-३ इति कता ॥ सूत्रे एव शरीर इति निर्देशात् स एव जीवदृष्टान्तत्वेन विवक्षितः । देवमनुष्यादिशरीरविशिष्टे जीवात्मनि शरीरगतदोषाणां यथा न प्रसक्तिः, एवं जगच्छरीरकब्रह्मण्यापि चेतनाचेतनगतपुरुषार्थाः न सम्भवन्ति । एतादृशशरीरबोधकश्रुतिरेव घटकश्रुतिरित्यभिधीयते ॥ जीवपरयोः भेदाभेदबोधकश्रूतीनां [[59]] परस्परविरोधपरिहारमुखेन घटकश्रुतीनां निर्वाह । ईश्वरः जीवः अचेतनमिति तत्त्वत्रय वादिनः विशिष्टाद्वैतवेदान्तिनः । “भोक्ता भोग्यं प्रेरितारञ्च मत्वा” इति तत्त्वविभागे श्रुत्युक्तिः । तत्त्वानां विभाज्य ज्ञानादेव अमृतत्व प्राप्तिरिति श्रुतिरेव विवेचयति । “पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति” इत्याद्याः श्रुतयः अत्र प्रमाणभूताः । ज्ञाज्ञौ द्वावजावीशनीशौ, “द्वा सुपर्णा सयुजा सखाया इत्याद्या: श्रुतय जीव ब्रह्मणोः भेदं स्फुटमेव प्रतिपादयति । ऐतदात्म्यमिदं सर्वं “तत्त्वमसि” इत्यादिषु स्वरूपैक्यं न सङ्गच्छते । तच्च तादात्म्यं शरीरात्मभावेन सामानाधिकरणश्रुत्या च । जीवब्रह्मणोः स्वरूपैक्यम् अचेतन ब्रह्मणोरिव न प्रामाणिकम् । “भेदव्यपदेशाच्चान्य” इत्यत्रान्यशब्दं प्रयुञ्जानः सूत्रकारः जीवेश्वरभेदं विशदयामास [[60]] । जीवेश्वरविभागं जीवानां परस्परभेंदे च “नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान्” – इति श्रुतिः स्पष्टयति । गीतायामपि नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः इति द्वितीये उपदिशन् जीवानां परस्परभेदं स्पष्टमाह । एतादृशः परमस्मादत्यन्तभिन्नः जीव अनुष्ठितेन कर्मणा विद्यामधिगम्य, स्वस्वरूपं प्राप्तः अविद्याविरोहित स्वरूपं मुञ्चन् जगद्व्यापारवर्जं “सोऽश्रुते सर्वान् कामान् सह” – इति दर्शितदिशा अनुभवतीति आह्लादकरः पन्था: विशिष्टाद्वैतिभिः दर्शिताः ॥ इति प्रस्तावना ॥ [[61]] उपोद्धातः इह जगति यथार्थज्ञानाभावादेव जनिमद्धिः शोकः अनुभूयते । “नास्ति शोकसमो रिपुः” – इत्याह वाल्मीकिः । सर्वकर्मसु स्वात्मानं कर्तृत्वेन मन्यमानाः प्रशंसापराः विराजन्ते । धार्मिकत्वख्यापनायन्तु भगवदाज्ञानुवृत्तिबुद्धया कृत्याकृत्यविवेकशून्याः धर्माननुतिष्ठन्ते । अयथाभाषणपटवः ब्रह्मकार्यं जगदेतत् ब्रह्मात्मकमिति सत्यभाषणात् दूरे विद्यमानाः जनान् प्रतारयन्ति । योषित्पुरुषयोः परस्परसम्बन्धेन विना इदं सर्वमुपलभ्यते इति कामस्यैव परमपुरुषार्थत्वं वदन्तः परिभ्रमन्ति वृत्तं विवेचयन् श्रीरामचन्द्रोप्याह । कामभोगार्थम् अन्यायेन धनसञ्चयनं कुर्वन्त अशास्त्रविहितकर्मनचरणेष्वेव श्रद्धावन्तः धर्मदूषका प्रवर्तन्ते ॥ [[62]] परावरात्मविषयविपरीतदृष्ट्यः सर्वेषां हिंसकाः, स्वसंसर्गिणामपि दोषावहाः जगतः क्षयाय प्रभवति । “परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ”, गीता ३-११ इत्यादिप्रतिपादितां भगवन्मूलमर्यादाम् अतिलङ्घ्य मन्दाः अन्यान् मोहयन्ति । वेदबाह्यब्रताचरणे अतीव श्रद्धालवः तानेव बोधयन्ति । स्वव्यतिरिक्तसमस्तनियन्तृत्वाभिमानिनः स्तुतिपराः प्रतारकाः स्वात्मानं परिपूर्णं मन्यमानाः, अनेकचित्त विभ्रान्ताः “अन्यथा चिन्तितं कार्यं दैवेन कृतमन्यथाः” – इति न्यायेन कामभोगासक्ताः भवन्ति । धृतराष्ट्रेन दुर्योधनादिश्रेयस्साधनप्रश्ने विदुरेण नीतिकथनपूर्वकं युधिष्ठिराय राज्यदानस्य तत्साधनत्व कथनावसरे श्रीविदुरः (भा उद्योगपर्व – ३५-४६) निघामदो धनमदः तृतीयो अभिजनो मदः । मदा एतेऽवलिप्तानाम् अत एव सतान्दमा [[63]] इत्याह । एवं मदान्विताः ईश्वररमरणाधूरा ख्यापनाय अयथापूर्वं यजन्ते ॥ एवं विद्याचरणेन साधुशीलानां का गति: ? साधवो नाम भगवच्चिन्तश्च पराः “प्रतर्दनविद्या” न्यायेन तत्तद्देवताविशिष्टवेषेण भगवन्तमुपासकाः/एवं विद्यानाम् अनिष्टं नाम भगवदलाभः, भगवत्समाप्तयणपूर्वकं भगवल्लाभ एव उद्देश्य: । भगवन्तमुपासकाः साधवः आर्तास्सन्तः त्राणाय भगवन्तं विना नान्यमाश्रयन्ते । “ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः । परिपालय नो नाम वध्यमान्निशाचरैः” – श्रीमत् रामायणम् आरण्य ६-१९ प्रणतानाम् आर्तिहरः श्रीवरदराजः – “त्राताऽऽपदि स्थितिपदं भरणं प्ररोहः । छाया करीश सरसानि फलानि [[64]] चत्वम् । शाखागतत्रिदशबृन्दशकुन्तकानां किं नाम नासि महतां निगमद्रुमाणाम्” – (वरदराजपञ्चाशत् – १४) इति श्रीमन्निगमान्तसूरिः॥ कृतिः परिचयश्च प्रणतर्तिहरं श्रिया समेतं वरदराजं प्रणम्य एषा कृतिः रचिता । वरदराज एव स्वरूपतः गुणतश्च बृहच्छब्दवाच्यः । कृतेः निर्विघ्नता पूर्वकपरिसमाप्तये भगवन्नमनमेव उपायः । “मन्मनाभव मद्भक्तः मधजी मां नमस्कुरु” – गीता १७-६५ इत्यत्र मद्भक्तशब्दस्य मद्भक्तः मन्मना भवं मद्भाक्तः मद्याजी भव इति प्रतिपदमन्वयेन नमस्यायाः भक्त्यन्तर्भावः । इत्थं कविना कृतेरारम्भे इष्टदेवता नमनात्मक मङ्गलाचारः श्रौतः कृतः । कृतेरारम्भे” श्रीमत्प्रणत अर्तिहरवरदपरब्रह्मणे नमः इति आरम्भिकं वाक्यम् ॥ कुतः नमनम् इति प्रश्ने अविघ्नाय [[65]] विघ्ने सति आर्तिः भवति । तन्निवारक कलौ वरदराज एव । “अतः अविघ्नं प्रार्थयन् वरदपरब्रह्मणे नमः” इत्याह ॥ पुनरपि श्रीवरदराजं चिन्तयन् “नमस्ते हव्यरूपाय इति स्तौति कविः” ॥ “तत्तत्पदैः उपहितेऽपि तुरङ्गमेधे शक्रादयो वरदपूर्व मलब्धभावाः । अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्यवार्भहविषां रसमन्वभूवन् ॥ (वरदराज प ८) इति श्रीमन्निगमान्तदेशिकाः हरिभोर्क्तृत्वेन अवर्णयन्। कल्याण गुणसागरः भागवान् इति प्रणम्य “सिद्धान्तन्याय – चन्द्रिका” ख्या कृतिः रचिता । कविपरिचयः “देवराजेन सिद्धान्तन्यायचन्द्रिका” रच्यते – इत्युक्तिः दृश्यते । कर्तारमधिकृत्य विशेषतः किमपि नोपलभ्यते । [[66]] परन्तु मङ्गलाचरणवेलायां गुरूपसदनरूपाचरणे कविना देवराजेन स्वात्मपरिचयः किञ्चिदिव कृतः । “वरदार्यगुरोर्लब्धवेदान्त ज्ञानसम्पदा । स्मर्यते देवराजेन सिद्धान्तन्यायचन्द्रिका इति मातृकायामुपलब्धः । कविः वेदान्तज्ञानी विशेषतः विशिष्टाद्वैत वेदान्तार्यान् आचार्यसकाशादेव अधिगतः । यतो हि “कल्याणगुण सिन्धुः भगवान् इति ब्रह्मणः सगुणत्वम् उपपादयति । अपि च नमः” – इत्यनेन भक्तिः प्रपत्तिरपि च सूचिता । विशेषतः भगवद्रामानुजाचार्यम् अनुसरन् प्रथमतः देवनमनं पश्चात् आचार्यस्मरणम् इति क्रमः यादृशः ब्रह्मसूत्रव्याख्यानात्मके श्रीभाष्ये श्रीभाष्यकारै अनुसृतः स एव क्रमः देवराजेन महाकविना आहतः अनुसृतश्च । “यस्य देवे परा भक्तिः यथा देवे तथा गुरौ इति खलु वदन्ति । [[67]] “सिद्धान्तन्यायचन्द्रिकाया” प्रारम्भे प्रणतार्तिहरं वरदं प्रणम्य आचार्यनमनं श्लोकद्वयेन कृतमिति उपलभ्यते । वरदाचार्यगुरोः सकाशात् अधिगतविद् कवि इति निश्चिनुम । येन गुरुणा शास्त्रं कर्मब्रह्मोभयात्मकं कलौ विरोधपरिहार ग्रन्थरचनाद्वारा संरक्षितं तादृशाचार्यवर्येण लब्धसत्ताकः देवराजः । कवेराचार्याः श्रीवरदार्यगुरुः अस्याः कृते रचनाकर्तुः आचार्य वात्स्यश्रीवरदगुरुः आचार्यवर्योऽयं श्रीभगवद्रामानुजमुनेः भागिनेयः “वरदाह्वयमपऽनो मनीषी यतिष्टन्दारकभागिनेयपौत्रः – इति श्रुतः । एतैः पञ्चदशकृतयः प्रपन्नपारिजातं, प्रमेयमाला, प्रमेयसारः तत्त्वसारः ज्ञानसारः नामकाः कृत्यादयः रचिताः । एते आचार्याः वात्स्य श्रीदेवराज आचार्यसकाशात् [[68]] साङ्गसशिरस्कवेदादीनि शास्त्राणि श्रीविष्णुचित्त आर्यसविधे श्रीभाष्यादिकांश्च अध्यगीष्ट । स्वकृतिषु कर्मब्रह्मणोः अङ्गाङ्गिभावोपपादनपूर्वकं तयोः ऐकशास्त्र्यञ्च समर्थितम् । आचार्यरचितकृतिषु स्वप्रतिभाद्रविणनिक्षेपायमाणं तत्त्वसाराभिधानं निबन्धनम् । श्रियः पतिः नारायणः परब्रह्मशब्द वाच्य एव परमं तत्वम्, तत्प्रसाद एव परमं हितम् । अप्राकृतदेशविशेषे तत्सायुज्यप्राप्तिरेव अपुनरावृत्तिर्लक्षणो मोक्ष एव परमः पुरुषार्थः इति भगवतः श्री भाष्यकारस्य सिद्धान्तः । वरदगुरुः विशिष्टाद्वैतसिद्धान्तप्रवर्तकानां पूर्वाचार्याणाम् अग्रेसरः । तादृश आचार्यवर्यात् लब्धवेदान्तज्ञानी अयं कविः। [[69]] कृतिवैशिष्टयम् :- अथ कोऽयं सिद्धान्तः, को वा न्यायः कृतेः चन्द्रिकत्वं च कथं ? इति रसिकानां विद्वन्मणीनां प्रश्नपरम्परायां नाम्नैव कविः प्रतिवदति । सिद्धान्तशब्दः प्रामाणिकतया परिष्टहीतार्थवाचकः । न्यायपरिशुद्धौ” अथ सिद्धान्तप्रामाणिक इत्यभ्युगतोऽर्थः इति । न्यायसारे च “प्रामाणिकतयाऽभीष्टः सिद्धान्तः स त्रिधा मतः” । द्वयोर्भावः द्विता, द्वितैव द्वैत भेद इत्यर्थः । नद्वैतम् अद्वैतम् अभेदः इति । विशिष्टस्य अद्वैतं विशिष्टाद्वैतमिति व्युत्पत्तिः । स्वव्यतिरिक्त समस्तचेतनाचेतन विशिष्टं ब्रह्मैकमेव प्रामाणिकं तत्त्वमिति । अद्वैतिभिः ब्रह्मैकमेव तत्त्वं तद्व्यतिरिक्तमखिलं मिथ्या इति निरूपणात् तेषां मतम् अद्वैतसिद्धान्त” इति व्यवहियते ॥ जगतः ब्रह्मणश्च पाल्य – पालकभावसम्बन्धात् ऋते [[70]] ऐक्यव्यपदेश योग्यसम्बन्धविशेषानभ्युपगमात् उभयोः सत्यत्वङ्गीकारात् भेद श्रुत्यनुगुण्येन श्रुत्यर्थवर्णनात् “द्वैतसिद्धान्त” इति व्यवहारः । चिदचिदात्मकस्य जगतः अभिन्ननिमित्तोपादानत्वेन ब्रह्मणः अङ्गीकारः शरीर – शरीरिभावः, परस्परं तत्त्वत्रयाणाम् स्वरूपभेदः विशिष्टवेषेणैक्यम् इत्यादयः इतरवादिभिरङ्गीकृताः अर्थाः प्राधान्येन विशिष्टाद्वैतवेदान्ते सिद्धान्तिताः । “स्वतन्त्रमात्र सिद्धिस्तु प्रतितन्त्रो अभिधीयते” – प्रतिनियतं तन्त्रमिति व्युत्पत्या असाधारणाः अर्था नित्यसूरिसद्भावादयः उररीकृताः । एते अर्थाः न्यायपुरस्सरं देवराजेन कृतौ प्रतिपादिताः ॥ [[71]] श्रुत्यनुग्राहकः तर्क एव न्यायशब्देनोच्यते । साधकतर्कानुगृहीतं प्रमाणं विशिष्टाद्वैतप्रमेयानां अस्ति । द्वैतमतावलम्बिनः अत्र पूर्वपक्षिणः । ते तावत् आनन्दे तारतम्यमभ्युपगच्छन्ति । जीवस्वरूपमेव तरतमभावापन्नम् आनन्दशब्दाभिधेयम् । ब्रह्मणः निर्विकारत्वात्६ निमित्तकारणत्वमेव, नोपादानत्वम् । उपासनानामेव मोक्षोपायत्वं न प्रपत्तेः । “तत्त्वमसी” त्यादौ सामानाधिकरण्यं गौणम् । “अतत्त्वमसी” ति पदच्छेदः । एवमादीनां माध्व पूर्वपक्षिणां सिद्धान्तप्रदर्शिनी इयं कृतिः । यद्यपि पूर्वाचार्यैः पूर्वपक्षयुक्तीनां निराकरणं कृतं, तथापि अस्यां कृतौ विपुषां मनसः आह्लादं जनयतीन इयं कृतिः रचिता । चन्द्रिकेव रसिकानं विदुषां [[72]] मोदजननी” सिद्धान्त न्यायचन्द्रिका विशिष्टाद्वैतसिद्धान्त प्रतिपादिनी मातृकारूपेण उपलब्धा समाहिता च विराजते ॥ ॥ विषयनिरूपणक्रमः ॥ सिद्धान्तन्यायचन्दिर्कायाः सूक्ष्मेक्षणया परिशील्यमाने अनेके अंशाः अवगताः भवन्ति । माध्वमतनिराकरणपूर्वकं विशिष्टाद्वैत सिद्धान्तिभिः प्रतिपादिताः पूर्वाचार्यनुग्रहबलात् सम्पादिताः विषयाः रत्नाकरे रत्नानीव प्रादुर्भूताः । ते चार्थाः द्वादशाध्यायेषु विभक्ताः सन्ति ।