श्रीशङ्कर-रामानुज-आनन्दतीर्थानां त्रयाणां मत-परिशीलनेनैव
इतर-ब्रह्म-सूत्र-भाष्य-कार-मतानि विदित-प्रायाणि भवेयुः ।
यतः भेदः, अ-भेदः, भेदाभेदौ इति पक्षत्रयापेक्षया
चतुर्थः पक्षो न कश्चन भवितुम् अर्हति ।
एतद्-दृष्ट्या श्री-आनन्दतीर्थीयं मतं शुद्ध-भेदवादि,
श्रीशङ्करचार्यमतम् अभेदवादि ।
समन्वयः
… वस्तुतः +जगद्-उद्धारार्थम् एवावतीर्णा महा-पुरुषा
मूल-भाष्यकर्तारः सर्वेऽपि प्रामाणिकाः
इति तेषां भाष्यम् आमूल-चूडं परिशीलनेन ज्ञायते ।
[[89]]
परस्-परं वचन-भेदस् तु
तत्-तद्-देश-कालाधिकार्य्-अनुगुणतया जात
इति ज्ञायते ।
तावता
तेषां महा-पुरुषाणाम् आत्म-तत्त्व-विषये मत-भेद आसीद्
इति तु न वक्तुं शक्यते ।
तद्-अनन्तर-कालिकैस् तेषां धर्म-सङ्कट-स्थितिम् अज्ञातवद्धिः
केवलं शब्द-मात्र-परायणैः
तत्-तद्-भाष्य-ग्रन्थस्य तथा व्याख्यानं कृतं
यथा तेषां मूल-पुरुषाणाम् अपि आत्म-तत्त्व-विषये च मतभेद आसीद् इतीव ।
आत्म-तत्त्व-जिज्ञासु-जनेषु
यथाऽर्थ-तत्त्व-विषयक-मोहश् च उत्पादितः।
द्वैतम् एवाद्वैतम् एवेत्य्-आदि-वादाः
फल-साधनयोर् एकैकांशस्य प्राधान्यम् आदाय प्रवृत्ताः,
न तात्त्विकाः वस्तुतः।
एतन्-मत-द्वयम् अपि
आत्मनः साधनावस्थां साध्यावस्थां काल-भेदेन उभयावस्थाञ् च बोधयति ।
तत्र द्वैतं - साधनावस्थाम्,
अद्वैतं फलावस्थम् आत्मतत्त्वं बोधयति ।
तद् आत्म-तत्त्वं च न निर्विशेषम् ।
निर्विशेषे वस्तुनि प्रमाणाभावात् ।
एतादृश-विचित्र–चिद्–अ-चित्–प्रपञ्चस्य मूल-बीज-भूतं तत्त्वं
कथं निर्विशेषं भवेत् ।+++(5)+++
श्रीशङ्कराचार्यैर् ब्रह्म-सूत्रेषु निर्विशेष-तत्त्व-प्रतिपादनं तु
बौद्धान् सन्तर्प्य
वैदिक-मत-संरक्षणार्थम् एव ।
सविशेषाद्वैतं च उभयोः अवस्थयोः
कालभेदेन अविरोधं प्रदयर्शयति ।
अतः सर्वेषां कृते सर्वम् आवश्यकम् ।
अत एव भगवतो भाष्यकारस्य वेदार्थसङ्ग्रहे -
“अभेदो वा भेदो वा द्वयात्मकता वा कोऽयमर्थः समर्थितो भवती"ति स्वयं प्रश्नम् उत्थाप्य
“सर्वस्य वेदवेद्यत्वात्
सर्वं समर्थितं भवति”
इति सिद्धान्त-कथनं पूर्वोक्तम् अर्थं समर्थयति ।
उपरि गन्तव्यं चेत्
सोपानेनैव गन्तुं शक्यम् ।
उपरि आरूढस्य पुरुषस्य कृते
सोपानस्यानावश्यकत्वेऽपि
तत् सोपानं स्व-स्थाने तिष्ठेद् एव ।
एवम् उपरि जिगमिषोः सोपानम् आवश्यकं चेद् अपि
तद् एव साध्यं तु न भवत्य् एव ।
एवम् एव तत्त्व-क्षेत्रेऽपि साध्य-साधन-भावस्य +आवश्यकत्वेन
सर्वैर् आचार्यैः समयानुकूलं साध्य-साधनयोर् मध्ये
प्रधानतया एकैको भागः प्रदर्शनीयः +अभूच् चेद् अपि
तेषाम् आचार्याणाम् अन्यस्यांशस्य निराकरणे तात्पर्यं नासीदेव ।
यतो हि श्रुति-स्मृत्य्-आदयः सर्वेऽपि
ब्रह्मणः प्रलये मुक्तौ च एकत्वावस्थां
सृष्टौ बहुत्वावस्थाञ् च स्वयं प्रदर्शयन्ति चेत्
तेषां श्रुत्य्-आदीनां प्रमाणानां
द्वैताद्वैतादीनां मतानाञ् च
ब्रह्मणः एकत्वबहुत्वावस्थयोश् च कथं विरोधो भवेत् ?
विरोधे सत्येव एकस्य गौणोऽर्थः कल्पनीयः ।
एकं बीजम् अनेक-धा भूत्वा
पुनर् एकत्वावस्थां प्राप्नोति
इति सहजो नियमः ।
सर्वोऽपि आत्म-स्वरूपस्यैव स्व-रूपावस्था विकासावस्था चेति
“तद् आत्मानं स्वयम् अकुरुत " ( तैत्ति. ब्र. ७ )
" तद् ऐक्षत बहु स्यां प्रजायेय” (छा. ६।२।३)
इत्य्-आदि-श्रुतिभिः
“बीजं मां सर्व-भूतानां
विद्धिः पार्थ सनातनम्” (गी. ७।१०)
इति भगवद्-गीतया च स्पष्टं प्रतिपादितम् ।
[[90]]
अत्रायं सारार्थः-
लोक-हितार्थम् अवतीर्णैर् महापुरुषैः
दयावशात् तत्तत्काले जिज्ञास्व्-अनुसारं
लेशत आत्मतत्त्वं तत्-साधनञ् च वक्तव्यम् अभूत् ।
साक्षाद् आत्म-स्वरूपं तु +अतीवगहनं,
तस्य पूर्ण-परिचयः +न कारयितुं शक्यते
न वा कर्तुं शक्यते केनापि ।
तत्-प्रदर्शित-मार्गेण
जिज्ञासुभिर् अन्ते स्वयम् एव महता तपसा
तद् वस्तु लब्धव्यं भवति ।
अत एव भगवता श्रीकृष्णेनापि
“उद्धरेद् आत्मनात्मानं
नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुः
आत्मैव रिपुर् आत्मनः " (गी. ६।५ )
इत्य् उक्तं तद्-अनुगुण-मार्गश् च प्रदर्शितः ।
श्रुतिर् अपि
‘विज्ञानेनात्मानं वेदयते’ (नारा.उ.७९)
इति
स्वयं तत्त्वम् अन्विष्य
अन्विष्य-कार्य-कारण-श्रृङ्खलायाम् उपर्य् उपरि गत्वा
यथा सा श्रृङ्खला अन्तिमे आत्मतत्त्वे पर्यवस्यति
तथा चिन्तनं कृत्वा
अध्यात्म-विज्ञानेन तद्-अनुगुण-साधनेन च
स्वेनैव तद्-वस्तु प्राप्तव्यम्
इति वदति ।
स एव विषयः
अस्याः सत्यसिद्धेः ।
रामानुज-शङ्करयोर् अन्तरङ्गम्
… शङ्कर-रामानुजमतयोः अत्यन्तं विरोध इति परिगणितेष्वर्थेषु
‘ब्रह्म’ निर्विशेषं वा सविशेषं वा ?
इत्येकः,
अपरस्तु जगत्सत्यमुत मिथ्या ?
इति।
तत्र निर्विशेष-सविशेषवादविषये वक्तव्यमन्यत्रैव उक्तम्।
… (अतो वस्तुतो महा-पण्डितस्य महामेधाविनः श्रीशङ्कराचार्यस्य
एतादृश-निर्विशेषवादाः सर्वेऽपि
बौद्धानां सन्तृप्त्यर्थमिति स्पष्टं ज्ञायते ।
किन्तु अनन्तर-कालिकैस् तदनुयायिभिस् तु
तद्-आशयं न ज्ञात्वा
तत्तथैवानुकृतम्।
एतत्-समीकरणार्थम् एव
अनन्तरं श्रीमद्रामानुजाचार्या अवतीर्णा वा
इत्य् अपि विचारणीयम् एव । …)
अतो निर्विशेषम् अंशं विहाय
ब्रह्मसूत्रेषु जीवस्य सम्पूर्ण-विकासानुगुणम् अध्यात्म-विज्ञानं प्रदर्श्यते ।
तत्र श्रीमद्रामानुज-शङ्कराचार्ययोः अन्तरङ्गाशयः समान एव।
एतेन
ब्रह्म-सूत्राणां व्याख्येयानाम् एक-विधकत्वेऽपि
व्याख्यानानि बहु-विधानि कथं जातानि ।
सर्व-सम्प्रतिपन्नार्थः कीदृशः स्याद्
इति प्रश्नोऽपि समाहितो भवति ।
… एतद्विषये नाधिकं किञ्चिद् वक्तव्यम् ।
श्रीशङ्कराचार्यस्य जगन्मिथ्यात्व-वादो न सम्मतः
इति गत-शतकादि-भागे स्थितो महामहोपाध्यायः श्रीराम-सुब्रह्मण्य-शास्त्रि-नामकः
“अनुभाष्यगाम्भीर्यम्” इति नामके स्वीयग्रन्थे
श्रीशङ्कराचार्योऽपि न निर्विशेषवादीति सप्रमाणं न्यरूपयत् । +++(5)+++
भक्तौ सर्वाङ्गीकारः
… अतश् च निर्विशेष-वादेन
न कस्यापि कोऽपि लाभः
इत्य् अन्तरङ्गे निश्चित्य
जगत्-प्रसिद्धं भज-गोविन्द-स्तोत्रं गीतवतः श्री-शङ्कराचार्यस्य,
भक्ति-मार्गस्यैव वैदिकत्वं स्थापितवतः श्रीरामानुजाचार्यस्य,
भक्त्या प्रसन्नस्य भगवतः प्रसादस्यैव मोक्ष-साधनत्वं प्रकटितवतः श्रीमद्-आनन्दतीर्थस्य चेति
त्रयाणाम् अप्य् एतेषाम् आचार्याणाम् अन्तरङ्गाशय-भेदो नास्तीत्य् एव परमरहस्यम्।
फल-साधन-दृष्ट्या मत-त्रय-समन्वयः
एवं शङ्कर-रामानुज-मतयोः साम्यं तर-तम-भावापन्नस्य सत्यस्य मिथ्यात्वस्य चावश्यकत्व-प्रतिपादनेन व्याख्यात-प्रायम् ।
[[77]]
बौद्ध-सम्मत-निर्विशेष-वादानुकरणेन बौद्ध-मत-साम्यञ्च तस्येति प्रतिपादनान्
मत-द्वय-विवाद-विषयः सर्वोऽपि समाहितप्रायो भवति ।
माध्व-मतं साधन-प्रधानम्
किन्तु आनन्द-तीर्थीय-मतेन
अनयोः समन्वयः कथम् इति चिन्तनीयम् ।
तन्-मते मोक्षे ऽपि भेदानुवृत्त्य्-अङ्गीकाराद्
ब्रह्मणो जगद्-उपादानत्वास्वीकाराच् च
अनयोर् आनन्दतीर्थीयमतेन समन्वयः कथम्?
इति प्रश्ने, अत्रेदम् अवधेयम्-
“सत्यं समन्वय असाध्य” इति भायाद् एव ।+++(4)+++
परन्तु शाङ्कर-मतम् अन्तिम-लक्ष्य-प्रधानम्,
आनन्दतिर्थीय-मतं साधन-प्रधानम् ।
रामानुजमतं तु साधनं साध्यम् उभयम् अपि प्रधानम् एवाङ्गीकरोति
चेत् अत्रापीयं समस्या भवति -
साधनस्य फलस्य च समत्वस्यासम्भवेन
साधनानुगुणः पुरुषार्थो वा,
पुरुषार्थानुगुणं साधनं वा ?
फलानुगुणं साधनम्
इति तु +उत्सर्गः ।
यद्यपि वैदिक-मते
अन्तिमं फलं न पुरुषपयत्नाधीनं
किन्तु दैवायत्तम् -
दैवपदन् तु +अतीव गहनम्।
अत्र दैवं नाम जगन्-मूल-कारण-भूतं वस्तु ।
यद्य् अपि “दैवं दिष्टं भागधेयम्” इति कोशो वर्तते,
तथापि तेषाम् अर्थो न ज्ञायते ।
बादरायणस्तु “फलम् अत उपपत्तेः” (ब्र.सू.)
इति सर्वम् अपि फलं परमात्मायत्तम् इत्य् एव वर्णयति ।
गीतायाम् अपि
“अहं हि सर्वयज्ञानां
भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति "
(गी. ९.२४)
इति भगवान् अपि
सर्वेषां यज्ञानाम् आराध्यः +अहम् एव
फलदाता च अहम्
इति वदति ।
अतः साधनम् अल्पम् एव स्याच् चेद् अपि
न कापि हानिः फलांशे,
फलं भगवद्-अनुग्रह-लभ्यम्
इति वैदिकमते स्वीकारात् ।
सारांशस् तु–
साधन-प्रधानं द्वैतम्
इति कथनाद् एव
मध्य-काल-सम्बन्धि तत् -
तन्-मते जगद्-ब्रह्मणोर् उपादानोपादेय-भावास्वीकारात् ।
उपादानोपादेय–स्वी-कारे च महान् क्लेशोऽनिवार्यः ।
अ-चेतनं प्रति तादृश-प्रखर-चैतन्य–स्व-रूपं ब्रह्म
कथम् उपादानं भवतीति
बुद्धिजीविभिर् निर्णेतुं दुःशकम् ।
तत्रापि विशिष्टतया (विशेषतया) भक्तिमार्गे +अनावश्यकं च ।
प्रत्युतोपादानोपादेय-भावस् तु
उपास्योपासकयोर् ऐक्य-साधको ( ऐक्य-साधनार्थं ) भवति
न तु साधन-काले तस्योपयोगः ।
साधनावधाव् अभेद-निगूहनम्
जीव-ब्रह्मणोः +ऐक्यज्ञानं तु
भक्तेः +अत्यन्तं विरोधि ।+++(4)+++
स्वस्मिन् स्वस्य भक्तिः कथं भवेत् ?
यतो हि वैदिकानां भक्तिर् एव साधनम्
अतः +जीवेश्वरयोर् भेद-ज्ञानम् एवावश्यकम् ।
अ-भेद-ज्ञानं तु भक्ति-विरोधीति पर्यवसितम् ।
तर्हि रामानुजमतेऽपि
कथं भक्तिः जीव-ब्रह्मणोर् उपादानोपादेय-भावस्वीकाराद्
इति चेत्,
अधुना ऐक्यं न स्मर्तव्यम् अपि ।
केवलं वस्तु-गतं तद् ऐक्यं,
तद् ऐक्य-विषयक-विज्ञानं वस्तु-गतं स्वाभाविकं च ।
केवलम् आत्मानं
सर्वथा ब्रह्म-सम्बन्ध-शून्यं न स्वीकरोतु जीव
इति मत्वा
उपादानोपादेय-भाव-बोधनेन तादृशम् ऐक्य-विज्ञानम् उपनिषद्-उक्तं स्मार्यते ।
[[78]]
नाधुना तद्-ऐक्यस्योपयोगः कर्तुं शक्यः।
(अतः काञ्ची-परमाचार्याः -
अहं जीव-ब्रह्मणोर् ऐक्य-भावनां त्यक्त्वा
विशिष्टाद्वैत-मत-रीत्या ब्रह्मणः जीवान्तर्यामित्व-भावनां करोमि ।
तेन मम महान् लाभोऽस्तीति
कस्मैचन स्वाप्ताय +उक्तवन्तः
इति श्रुतम् ।)
तत्त्व-दृष्ट्या जीव-ब्रह्मणोः +ऐक्येऽपि
अधुना तु जीवः कश्मलमयः ।
वस्तुतो जीवन्-मुक्तावस्थायाम् एव
ऐक्यं स्मर्तुं शक्येत
न तु ततः पूर्वम् ।
विचार-व्यर्थता
… अज्ञात-विषयः॥
जीवन्-मुक्त्य्-अवस्था कदा,
तदनन्तरं किं भविष्यतीत्यादिप्रश्नानामुत्तरं तु
भगवतैव वक्तव्यम्।
सर्वं तद्धस्ते एव वर्तते ।
अतस्-तद्-विचारोऽपि +इदानीं मर्यादातीत एव ।
कुर्वन्ति किल इतरमतस्था
इति चेत्, वस्तुतः इदं तेषां मर्यादातिक्रमणम् एव
केवलं कुतूहलमात्राद् विचारः क्रियते ।
एतद्-विरुद्धतया वर्तमान-काले अद्वैतम् अङ्गीक्रियते चेत्,
तर्हि भक्ति-सिद्धान्तस्य सम्पूर्ण-नाश एव ।
दुराग्रह-वारणम्
“तद् इष्टम् एवास्माकं” यदि कश्चनाद्वैती वदेच् चेत्,
तर्हि
भक्तिम् अन्तरा ज्ञानं कस्मिन् आपणे लभ्यते ?
भक्तिर्वा कस्मिन् आपणे लभ्यत
इति पुनः प्रश्ने
भक्तिर् एव सहजा सर्वत्रापि लभ्येत ।
लोकानुभवेन इदं सर्वं ज्ञातुं शक्यम् ।
महनीयविषये प्रीतिर् भक्तिः ।
मद्-अपेक्षया महनीय एव कश्चिन् न दृश्यत
इति कोऽपि वदेच् चेत्
स उन्मत्त एव ।
तस्य ज्ञानमपि न भवेत् ।
एतादृशैः केवलं वितण्डावादिभिः सह चर्चया
न कोऽपि लाभः ।
ज्ञानं तु फलं
न तु साधनम् ।
वर्तमानकालिकं ज्ञानं सर्वम् अपि चित्तवृत्तिरूपम् एव ।
अतः +भक्तिमार्गे न कापि अनुपपत्तिः ।
अनुभवे भेदः
… भक्तिमार्गो वा ज्ञानमार्गो वा
यः कोऽपि मार्गो भवतु
साधनं तु नियमेन भेद-गर्भम् ।+++(4)+++
एतल्-लोके अ-भेदानुभवः केवल-विज्ञान-रूपः,
न तु ज्ञान-रूपः।
तद्–दृष्ट्या आनन्द-तीर्थीयं मतं
भेदम् एव प्राधान्येन प्रतिपादयति ।
पुरोहितोऽयं राजा सम्वृत्तः इतिवत्
सम्पूर्णतया साधनाकाल-पर्यन्तम्
अ-भेदस्तु औपचारिक एव ।
व्यवहारे नाद्वैतम्
… अतस्
तत्त्वविषये अनुष्ठानोपयोगि विषय एव वक्तव्य
इति मन्यते कश्चित् तदा द्वैतम् एवानुसर्तव्यम् ।
[[95]]
अद्वैतं कदा भवतीति प्रश्ने
“सदेव सौम्येदमग्र आसीद्
एकमेवाद्वितीयम्”
इत्यादी अग्रे इत्य् उत्तरं तत्रैव वर्तते।
तस्य सृष्टेः पूर्वम् इत्य् अर्थः सर्वैर् अङ्गीकृतः ।
तदानीं तु
न कोऽपि व्यवहारः -
यदा व्यवहारः
तदा तत्त्व-त्रयम् +++(→भोक्ता भोग्यं प्रेरिता?)+++ अनिवार्यम्।
द्वैत-सिद्धान्ते तु
अद्वैत-वाक्यानाम् औपचारिकत्वम् एव वक्तव्यं भवति ।
अत एवोपादानत्वम् अपि ब्रह्मणः +नाङ्गीक्रियते।
आहत्य सर्व-व्यवहारस्यापि द्वैत-मूलत्वाद्
आरम्भात् प्रभृति जीवन्-मुक्त्य्-अवस्था-प्राप्ति-पर्यन्तं
भेद एव पारमार्थिकः,
अभेदस्तु मिथ्यैव ।
इदम् एव तात्पर्यं द्वैतवेदान्तस्य।
अत्र को दोषः +वक्तुं शक्येत।
एवम् एव सृष्टेः पूर्वं
सृष्टेः समाप्तौ च
एैक्यमपि अनिवार्यम् ।
उपादान-विचार-स्थानम्
द्वैतसिद्धान्तेन समन्वयः॥
… श्रीमद्-आनन्द-तीर्थीयैस् तु
“भक्तेर् एव मोक्षोपायत्वे सिद्धे
ब्रह्मणो जगद्-उपादानत्वाङ्गीकारे बहुविधाः समस्या भवेयुर् एव,
किमर्थं तादृश-व्यर्थ-विचारः अस्माभिः कर्तव्यः।
उपादानत्वाङ्गीकारे जीव-ब्रह्मणोर् अभेदस्याप्य् आवश्यकत्वाद्
भक्तिर् न कदाप्य् उत्तिष्ठेत् ।
प्रत्युत भक्तौ विरोधः स्यात्”
इत्य् अभिप्रायेण ब्रह्मणो जगदुपादानत्वं नाङ्गीकृतम्।
उपादानत्वं तु
विज्ञान-कोटाव् आगच्छति
न तु ज्ञान-कक्षायाम् ।
अतो भक्ति-मार्ग-स्थितानाम् एतावद् एवेदानीं पर्याप्तम्।
भक्तेर् अभिवृद्धाव् एतत्सर्वं स्वयमेव ज्ञायत इत्याशयस् तेषाम् । +++(4)+++
[[97]]
… साधनावस्थायां भेदस्य प्राधान्याद् एव
श्रीमद्-आनन्द-तीर्थैः +ब्रह्मण उपादानत्वं न स्वीकृतम्,
किन्तु निमित्तत्वमात्रम्।
उपादानत्वं विज्ञानेनैव ज्ञेयम् ।
न तु ज्ञान-ज्ञेयम् ।
साधनावस्थायां ब्रह्मण उपादानत्व-ज्ञानं नोपयुज्यते ।
तत्रापि विशिष्य भक्ति-सिद्धान्ते
ब्रह्मणो जीवोपादानत्वे स्वीकृते
उपादानोपादेययोः +अ-भेदाङ्गीकाराद्
भक्तिः कथं भवेत् ?
प्रत्युत भक्तिविरोधः स्यात् ।
अत एव आनन्दतीर्थैः उपादानत्वं नाङ्गीकृतम् -
साधनकाले तस्याप्रयोजकत्वात् ।
… अतश्च भक्तिमार्गे उपादानत्वं नोपकारकम्।
अतः उपादानत्वानङ्गीकारमात्रेण न कापि हानिः ।
निगमनम्
… एवमेव सर्वशास्त्राणां सर्वतत्त्वानाम् अपि
नियमेन काचन मर्यादा वर्तते।
तन्-मर्यादा-रक्षणे
कस्यापि न कापि घर्षणा ।
अन्ततः एकस्मिन्न् एव गृहे कृमि-कीटादयोऽपि बहवः अज्ञाताः जीवाः वसन्ति।
तत्-तत्-स्थाने तेषां तेषां सञ्चारे
न कापि घर्षणा भवति ।
मर्यादोल्लङ्घने त्व् अनिवार्या घर्षणा । +++(5)+++
वेदान्त-सिद्धान्तः॥
द्वैतम् एवाद्वैतम् एवेत्य्-आद्य्-एकैकम्-अंशम् आदाय प्रवृत्ता वादास् तु
स्व-स्वमताभिनिवेश-मूलकाः,
न तात्त्विकाः, न वा परिपूर्णाः ।
तत्त्वतः +निर्णये तु,
कारण-दृष्ट्या फल-दृष्ट्या च +अ-द्वैतम्,
सृष्टि-दृष्ट्या साधन-दृष्ट्या च द्वैतम्
इत्य् एतद् उभयम् अपि काल-भेदेन स्वीकर्तव्यम्
इत्य् एव वैदिकः सिद्धान्तः ।
“सदेव सौम्येदम् अग्र आसीद्
एकम् एवाद्वितीयम्” (छा.उ. ६.२.१)
“तद् ऐक्षत - बहु स्यां प्रजायेय” (छा.उ. ६.२.३ )
इत्य्-आदि-श्रुतिभिः पूर्वोक्तार्थः स्पष्टो भवति ।
अ-द्वैतम् आत्म-तत्त्वम् एव,
तच् च +अग्रे सृष्टेः पूर्वम् एकम् एवासीत्,
मध्ये चिद्–अ-चिद्-आत्मकानन्तरूपं सत्,
सृष्टेर् अनन्तरं च +एकम् एव भविष्यति -
यथा बीजं पूर्वम् एकम्,
मध्ये अनेकं सत्
पुनर् अन्ते बीजम् एव भविष्यति ।+++(5)+++
… एतेन वस्तु-स्थिति-दृष्ट्या श्री-शङ्कराचार्य-श्रीरामानुजाचार्ययोः अन्तरङ्गाशय
एक एव आसीत् ।
देश-काल-वशात् शब्द-विन्यास-भेद-मात्रम् अभूद्
इत्यादिकं तत्त्व-मुक्ता-कलापस्य सत्यान्वेषणाख्य-भूमिकायां निरूपितम् ।
द्वैतवादिनः श्री+आनन्दतीर्था अपि
भक्ति-शास्त्र-दृष्ट्यैव ब्रह्मण उपादान-कारणत्वम् अ-स्वीकृत्य
निमित्त-कारणत्व-मात्रं स्वीकृतवन्तः ।
भेदे सत्य् एव स्वापेक्षया +उत्कृष्टे वस्तुनि
प्रीत्यतिशयः सम्भवति ।
अभेदे तु स्वस्य स्वस्मिन् भक्तिः कथं सम्भवेद्?
इति ।
मनुष्येण कथञ्चनापि प्रकृतितः +विमोक्तुं प्रयासः कर्तव्यः
तत्रैव भक्तेः अत्यन्तमावश्यकता भवति ।
अतो द्वैतं साधन-कालिकम्
इति जीवन्-मुक्त्य्-अवस्थायां विश्राम्यति ।
प्रकृतिविमोकानन्तरं तु
सहजतयैव आत्मन उत्तरोत्तरं विकासो भवति ।
ब्रह्मणः +अंशः +जीवः
यथा यथा उत्तरोत्तरम् उपाधि-रहितो भवति
तथा तथा परमात्मना तुल्यो भूत्वा
अन्तिमे ब्रह्मणा +ऐक्यं प्राप्नोति ।
एतत् सर्वं सृष्टि-विज्ञान-दृष्ट्या
+ऋषिभिः +जीव-ब्रह्मणोः स्वरूपम् अनुभूय
“यतो वा इमानि भूतानि जायन्ते
येन जातानि जीवन्ति
यत्प्रयन्त्यभिसंविशन्ति " ( तैत्ति. उ. ३।१ )
इति अध्यात्म-शास्त्रे निरूपितं वर्तते ।
अतः +अद्वैतं विशुद्धात्म-तत्त्वं,
तद् एव फल-रूपम् ।
द्वैतं तु साधन-रूपम्
अतः कालभेदेन उभयम् अपि अत्यावश्यकम् ।
अयम् अर्थः +वेदार्थसङ्ग्रहे श्रीमद्रामानुजस्वामिभिः
[[93]]
“भेदो वा अभेदो वा द्व्यात्मकता वा कोऽयमर्थः समर्थितो भवति ।
सर्वस्यापि वेदवेद्यत्वात् सर्वं समर्थितं भवति"
इत्याद्युक्तेन प्रकारेण ज्ञातुं शक्यते ॥
साकारता
रामानुजीयानाम् आधुनिकानां मते
“आत्मा निराकारो नास्ति” इत्य्-उच्यते
“साकार एवात्मा” इत्य् उच्यते
तस्य “साकारोऽपि” इत्य् एवार्थः
न तु निराकारतत्त्वस्य निराकरणं क्रियते ।
एवम् अ-द्वैत-मतेऽपि
साकार-तत्त्वस्य निराकरणं न कर्तव्यं
किन्तु तद् अनृतं मन्तव्यम् ।
मिथ्यात्वेऽपि तर-तम-भाव-स्वीकारे
न कुत्रापि विरोधः ।
मध्व-विवक्षा
… अन्यत्रोक्तं साधनप्रधानं द्वैतं
फल-प्रधानमद्वैतम् इति ।
रामानुजमतं तु उभाभ्याम् अपि क्रोडीति+++(=??)+++
तद् एवाद्वैत-पण्डितैर् इदानीम् उच्यमानं पूर्ण-विज्ञान-रूपम् ।
अनेन ज्ञातुं शक्यते
फलजिज्ञासा साधनकाले न कर्तव्या ।
… एवञ्च यद्य् अद्वैतम् एव परम-पुरुषार्थः स्याच् चेद् अपि
तद् भक्त्यैव लभ्यम् इति तत्त्वे स्थिते
भक्तिमार्ग एव श्रेयान् इति निश्चितवद्भिः +आनन्दतीर्थैः
भक्तेर् एव परम-साधनत्वं प्रतिपादितम् ।+++(5)+++
अत एव फलविषये इदानीं नास्था क्रियते ।
परम-पुरुषार्थस्य भगवत्-प्रसादैकलभ्यत्वं यतस् तैः सिद्धान्तितं
तद्विषये तेषां चिन्ता नास्ति।
… अत एव भगवतो जगद्-उपादानत्व-विषयेऽपि
नैवातीवास्था तेषाम् -
ब्रह्मणः उपादानत्वस्य भक्तिपोषकत्वाभावात्।
अतः तन्मतस्य साधनप्रधानत्वात्
साधनस्य च भेदप्रधानत्वात्
साधनकालिकी जगतः स्थितिरेव तैर् वर्णिता ।
[[94]]
साधनकालश्च जगत्-सृष्ट्य्-अनन्तरम् आरभ्य
केवलं जीवन्मुक्त्य्-अवस्था-प्रप्ति-पर्यन्तम् एव ।
स च कालः सर्वथा भेदप्रधानः ।
अत एव तैः जीवन्मुक्तिपदे
रामानुजमतवद् विरोधो न प्रदर्शितः
प्रत्युताङ्गीकृतश्च ।
वस्तुतः मनुष्यैः पूर्वं क्रियमाणं सर्वं साधनं
जीवन्मुक्तावेव पर्यवस्यति ।
[[96]]
द्वैतमते भगवान् विष्णुः स्वतन्त्रः स्वामी, रक्षकः
अन्यत् सर्वं रक्ष्यम्, अस्वतन्त्रम् ।
एतानि तत्त्वानि सर्वाणि भिन्नान्य् एव ।
एक-तत्त्व-मूलकं सर्वम्
इति न स्वीक्रियते ।
अतः भक्तिः जीवस्य परतन्त्रस्य
स्वामिनि विष्णौ
सहजा सुलभा च ।
तद् उक्तम् —
“स्व-तन्त्रम् अ–स्व-तन्त्रं च
द्विधा तत्त्वमुदीरितम्।
स्वतन्त्रो भगवान् विष्णुर्
अस्वतन्त्रमिदं जगत्” ॥
… अतः भक्त्यैव सर्वं लब्धुं शक्यते परमात्म-प्रसाद-द्वारा
+इत्येव तेषां सिद्धान्तः।
अतो द्वैतसिद्धान्तः जीवानामुन्नतये
+अत्यन्तमुपयोगी वर्तते ।
अन्यत् सर्वं वागालम्बन-मात्रम्।
यथा श्रीशङ्कर-रामानुज-मतयोः +मिथः सामरस्यं
तथा आनन्दतीर्थीयमतस्यापि उभाभ्यां सामरस्यं प्रदर्शयितुं शक्यम्।
निगमनम्
… एतावता मत-त्रयाचार्याणां सर्वेषाम् अपि मते
साधनकाले जीव-बह्मणोर् भेद एवेत्य्-अस्मिन्नंशे
न कोऽपि विवादः ।
किन्तु प्रायः सर्वेऽपि प्रौढपण्डिताः
स्वाङ्गीकारमात्रेणैव वस्तु-सत्ताम्
अनङ्गीकार-मात्रेण वस्त्व्–अ-भावम् अभिमन्यन्ते ।+++(5)+++
सत्यम् अस्माकम् अधीनं वा, सत्यस्याधीना वा वयम्?
अतः सत्यान्वेषणम् एव प्रथमं कर्तव्यम् ।
तत्तु केवलं भगवत्-कृपा-साध्यम् -
न तु शरीर-बलेन बद्धि-बलेन वार्ता-बलेन वा साध्यम्।
उपसंहारः॥
… एवञ्च अत्यन्तभेदवादिनां द्वैतिनाम् अपि
तादृश-जीवन्मुक्त्य्-अवस्था-प्राप्तिर् एव परमं लक्ष्यं भवितुम् अर्हति ।
तद्-अनन्तरं तु
नास्मच्-चर्चाधीनम् इति निश्चीयते चेत् -
सर्वसौहार्दं स्वयं भेद् एव।
अतः पण्डितैः सर्वैर् अपि सत्यान्वेषण-परैर् भवितव्यं
न तु केवलं चर्चा-परायणैः ।