पौरुषेयत्वात् परित्स्थिति-ज्ञेयता
पौरुषेयापौरुषेय-शब्दानां स्व-रूप-दृष्ट्या ऽपि श्रीशङ्कराचार्य-काल-विचारः॥
प्रमाणभूतः शब्दो द्विविधः,
एकः अपौरुषेयः,
द्वितीयस् तु पौरुषेयः ।
आद्यः अपौरुषेयः वेद-वाङ्मयरूपः,
द्वितीयस्तु पौरुषेयः अद्यतनाचार्यादि-कृत-ग्रन्थ-रूपः ।
आद्यस्तु वेद-राशिः त्रि-काल-सत्यम् एव वदेत् ।
द्वितीयस् तु तत्-तत्-काल-गुणानुरोधेनैव सत्यं वदेत्।
अतश् च आचार्यकृतीनां तत्-तत्-कालानुसारित्वात्
तत्-तद्-आचार्याणां काल-देशादिकम् अवश्यं ज्ञेयम् ।
अन्यथा तेषाम् उद्देश्यादिकं न ज्ञायेत,
फलतः यथार्थम् अपि दूरं गच्छेत् ।
एतद्-दृष्ट्या शङ्कराचार्यादीनां ग्रन्था
द्वितीय-कक्ष्यायाम् एवान्तर् भवन्ति ।+++(5)+++
तत्-काल-निर्णये सत्य् एव
तात्पर्यनिर्णयः कर्तुं शक्यः ।
तात्पर्य-ज्ञानम्
… वचनानां तात्पर्यानुरोधनैव अर्थ-निर्णये कर्तव्ये
तात्पर्यं सर्वत्रान्वेषणीयम् ।
नानार्थक-पद-प्रयोगय् एव तात्पर्यम् अन्वेषणीयम् -
न तु सर्वत्रेति केचन मन्यन्ते ।+++(5)+++
तत्तु शब्द-वृत्तानभिज्ञान-मूलकम् ।
“घटम् आनय” इत्य् उक्ते
घट-पदं न नानार्थकम् ।
अथाऽपि
कीदृशो घटः,
कः घटः आनेयः ?
इति ज्ञातव्यं चेत्
“कीदृशो घटः आनेयः” इति मनसि कृत्वा वक्तीति
वक्तुर् अभिप्रायान्वेषणम् आवश्यकम् ।
इदम् एव तात्पर्य-ज्ञानम् इत्युच्यते ॥
उद्देशः
पक्षपातः क्व?
… तत्-काले राजानः मन्त्रादि-सिद्ध-जैन-बौद्ध-पण्डितानां वश एव आसन् ।+++(4)+++
अत एव श्रीशङ्कराचार्यैः
तादृशैः राजभिः सह सम्बन्धः कर्तुम् अशक्यो ऽभूत् ।
अत एव तान् अधिकृत्य नैकम् अपि शासनं प्रादुरभूत् ।
… वस्तुतस् तु वैदिक-मार्ग-संरक्षणार्थम् एव अवतीर्णानां श्रीशङ्कराचार्याणां
वैदिक-पक्षोपपादक-वाक्यानां वैदिक-पक्षपातित्वम् एव प्रामाणिकं मन्तव्यं
न तु ब्रह्मणो निर्विशेषत्वस्य, जगतो मिथ्यात्वस्य च प्रतिपादनमात्रेण
सूत्राभिप्राय-संवृत्या
स्वाभिप्राय-प्रकाशनात् ।
व्याख्यातं यैर् इदं शास्त्रं
व्याख्येयं तन्-निवृत्तये ॥
इत्यादि भास्कराचार्योक्तरीत्या
महायानिक-पक्ष-पातित्वम् ।
सामरस्योत्पादनम्
… शङ्कराचार्यस्य तु
विज्ञानाद्वैत–शून्याद्वैतेत्य्-आदि-महायानिक-मार्गिणां प्रबलत्वात्
तेषां वैदिकैः सह विरोधो मास्तु +इति
तेषां सन्तृप्त्य्-अर्थं फल-भाग-मात्रं प्रदर्श्य
बौद्ध-जैन-वैदिकानां सौहार्द-साधनं प्रधान-कार्यम् आसीत्।+++(5)+++
अतः श्रीशङ्कराचार्यैः तत्काले फल-स्वरूपम् अद्वैत-तत्त्वम् एव प्रदर्शितम्।
तद्-अनुगुण-साधनम् अपि ज्ञानम् इत्य् एवोक्तं
न तु भक्तिः ।
स्वरूप-परिणाम-वादाद् रक्षा
… इत्थं शङ्कराचार्येभ्यः प्राचीनानां भाष्य-वृत्ति-ग्रन्थानां
बौद्धैः शतशः दूषणेन निराकरणेऽपि,
तद्-अपेक्षया शङ्कराचार्यभाष्यस्य को विशेषः,
यस्य निराकरणं बौद्धैः न कृतमिति चेत् -
तानि भाष्याणि प्राचीनानि ब्रह्मपरिणामवादम् आश्रित्य प्रवृत्तानि ।
तथा सति ब्रह्मणो विकारापत्तिर् इति बौद्धैः कृताक्षेपस्य
उत्तरं दातुमसर्था आसन् वैदिका इति प्रतिभाति ।
अतः कालक्रमेण वैदिको वेदान्तवादः
सङ्कटे पतितः
क्रमेण लुप्तप्रायश्च ॥
मनः-परिवर्तने प्रयासः
… अत एव तत्काले विद्यमानं धर्मसङ्कटमालोक्य
बौद्धजैनसिद्धपुरुषैः सह साक्षाद् विरोधम् अप्रकटयन्तः
दैव-प्रेरणया तेषां विहारादिकं स्वयमेव गत्वा
तैः साकं सौहार्देन विचारादिकं कृत्वा
तेषां मनः परिवर्तयितुं प्रायतन्त श्रीशङ्कराचार्याः ।+++(5)+++
ते तु निरीश्वरवादिनः -
ईश्वरतत्त्वमधः कक्षायामेव वर्तते ।
आत्मज्ञानमेव अस्माभिः विवेकिभिः सम्पादनीयम्
इति चिन्तयन्ति स्म ।
अतः श्रीशङ्कराचार्यैरपि ईश्वरतत्त्वस्य मिथ्यात्वम् (निकृष्टताम्),
निर्विशेषाध्यात्मतत्त्वस्य ज्ञानमार्गस्य च सर्वश्रेष्ठताम् अङ्गीकृत्यैव
तेषां समाधानार्थं तैः साकं विचारः कृतः ।
एवं स्वीय-प्रतिभा-वशात्
तेषां मनःपरिवर्तनाय कृतः श्रमः
क्रमेण फलेग्रहिर् इवाभवत् ।
वैदिकेष्व् अन्तरङ्ग-निवेदनम्
… एवं तेषाम् आचार्याणां
बौद्धानाम् आभिमुख्य-सम्पादनार्थम्
एकपार्श्वे प्रयासे सत्य् अपि
अपरपार्श्वे वैदिकानां विश्वाससम्पादनम् अपि
तेषां महात्मनाम् आवश्यकम् अभूत् ।
ये सविशेष-ब्रह्म-वादिनं ज्ञान-सम्बन्ध-स्वामिनं महात्मानं मुक्त-कण्ठं प्रशंसन्ति,
ते कथं निर्विशेषवादिनः स्युः ?
उद्देशे भ्रमः
परन्तु शङ्कराचार्य-समकालिकैर् वा तदनन्तर-कालिकैर् वा
तदीयैर् एव शिष्यैः
शङ्कराचार्यस्य वैदिक-धर्म-संरक्षणाभिप्रायम् अजानद्भिः
बौद्ध-वासनावद्भिर् विवरण-कारादिभिः
भ्रान्त्या ब्रह्मणो निर्विशेषत्ववादः
जगतोमिथ्यात्ववादश् च
शङ्कराचार्याभिमत इति भ्रान्त्या
पुनरपि बहुधा संवर्धितः ।
एवं निर्विशेष-वादानुकरणस्य दुस्-त्यजत्वम् अजानद्भिः
स्वयं पूर्व-बौद्ध-वासना-ग्रस्त-पण्डितैः व्याख्यातृभिः
“श्रीशङ्कराचार्यः शुद्ध-वैदिक-मार्गापेक्षया
बौद्ध-वासनामयं मार्गम् एव प्रतिपादयन्न् आसे"ति भावनया
अद्वैतमतं प्रवर्द्धितम् ।
अस्य विस्तरः सर्वङ्कषा-व्याख्यायाः भूमिकायां सत्यान्वेषणे द्रष्टव्यः ।
… अतः एवोक्तं सर्वङ्कषायाम्
“ आचार्यः पुनरेवैतान्
हैतुकैर् वञ्चितान् बहून् ।
शून्यवादाद् अवारोप्य
कर्तुमैच्छत् तु वैदिकान् ॥
शाप-रूपो भवेच् छिष्यो
गुरोर् इति मनीषिभिः ।
हास्येनोक्तं तु तैस् सत्यं
कृतं हन्त कलेर् बलात् ।
हैतुकाः पुनरेवैतान्
अकुर्वन् शून्यवादिनः " ।
(तत्त्वमु., सर्वङ्कषाव्याख्यायुतः पु. ४९० )।
विश्वास-टिप्पनी - परकालयति-वरदार्याद्य्-अभिप्रायानुवादः
शङ्करेण मूर्खवचनान्य् उक्तानि भान्ति।
किञ्च न स तादृशो मूर्खो नास्तिको वेति प्रमाणान्तरैर् ज्ञायते।
अतस् तत् तद् बलवतां मूर्ख-नास्तिकानां रञ्जनायोक्तं तेन।
किञ्च हन्त तच्-छिष्यास् तादृशा एव - अतो गुरुम् अपि तादृशम् प्राख्यापयन्।+++(5)+++
निर्विशेष-वादे विरोधे आगते
एतत् सर्वं सविशेष-ब्रह्म-विषयकम् इति,
सविशेषवादे विरोधे समागते
एतत् सर्वं निर्विशेष-ब्रह्म-विषयकम् इति शङ्कराचार्याः वदेयुः ?
सविशेषवादः भ्रम-मूलक इत्यपि वदेयुः ?
एवं रज्जु-सर्प-शुक्ति-रजतादि-दृष्टान्तान्
कस्याम् अप्य् उपनिषद्य्-अनुपलब्धांश् च
निर्विशेष-वाद-स्थापनार्थं वदेयुः ?
किमर्थं तथा ?
इति तटस्थविमर्शकैः चिन्तनीयम् ॥
भास्करो नाजानात्
[[79]]
… भारत-वर्षस्य सांस्कृतिक-चरित्रे परम-दौर्भाग्यम् एतद्
यद् भट्टभास्कराचार्याः श्रीशङ्कराचार्यस्य धर्म-सङ्कटं ज्ञातुं न प्राभवन् ।
यदि ह्य् अयम् अंशस् तैर् ज्ञातः स्यात्
तदा शङ्करानुयायिभिर् विवरण-कारादिभिः प्रतिष्ठापितः
विश्व-मिथ्यात्व-वादो निर्विशेषवादो वा
निरवकाशो भवेत् ।
तेन बहवो धर्माः सूक्ष्म-रूपा ज्ञातुं शक्येरन् ।
रामानुजेन समीकरणम्
… एतत्-समीकरणार्थम् एव
अनन्तरं श्रीमद्रामानुजाचार्या अवतीर्णा वा
इत्य् अपि विचारणीयम् एव ।
तेषां तु भाष्य-पीठिकात्वेन
“भगवद्-बोधायनकृतां विस्तीर्णां ब्रह्म-सूत्र-वृत्तिं
पूर्वाचार्याः सञ्चिक्षिपुः।
तन्-मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते "
इति प्रतिज्ञा
तत्काले आवश्यकी बभूव ।
एतद्-उपरि व्यर्थ-चर्चादिकं
श्रीपरकालयतिभिः विस्तरेण गूढार्थसङ्ग्रहादौ समाहितम्
इति तत्रैव द्रष्टव्यम्।
… शङ्कराचार्यरामानुजाचार्ययोः ऐककण्ठ्यम्॥
… श्रीरामानुजाचार्यास् तु
जगतः सत्यत्वम्,
जीवस्यापि सत्यत्वम्,
जीव-जगतोः ब्रह्मणश् च +अत्यन्तं भेद
इति मन्यन्ते
इति प्रसिद्धम् ।
एवम् अनयोः पूर्व-पश्चिम-गामित्वय्
उभयोः सौहार्दं कथं सम्पादयितुं शक्यम्?
इति आपाततः प्रतीयेत ।
केवलं वचन-मात्र-पराणाम् इयं प्रतीतिः ।
सामरस्य-तन्त्राणि
भगवच्-छब्द-प्रयोगादि
… एवं वैदिकानां विश्वासम् अधिगन्तुम्
अत्रैव भगवच्-छब्दम् अपि प्रयुञ्जते आचार्याः ।
यद्यपि भगवच्छब्दः वैदिक एवेति वैदिकाः मन्येरन्,
परन्तु भगवान् बुद्ध इति बौद्धाः अपि प्रयुञ्जते ।
एवमेव जैनाः अपि महावीरं
भगवान् महावीर इत्यपि वदन्ति ।
अतस् तेषामपि तृप्तिर्भविष्यति एतादृशशब्दप्रयोगेण ।
एवं तयोः सामरस्य-सम्पादनार्थम् एव
ते आगताः ।+++(5)+++
ब्रह्म-विवर्त-वादः
… एतादृशसङ्कटसमये वैदिकमार्ग-संरक्षणार्थम् एवावतीर्णाः श्रीशङ्कराचार्याः
वैदिकसम्मत-परिणाम-वादस्य स्थाने
बौद्ध-सम्मत-विवर्त-वादम् एवाश्रित्य
बौद्धानाम् उत्तर-दानाय प्रवृत्ताः
ब्रह्म-विवर्त-वादं स्थापयाम् आसुः ।+++(4)+++
विज्ञानवादे विज्ञान-रूपाणां जीवानां बहुत्वेन गौरवात्,
शून्य-तत्त्वस्य च युक्त्या निरूपयितुम् अशक्यत्वाद्
एकस्य ब्रह्मणः सर्वविधप्रपञ्चस्य अधिष्ठानत्वेन स्वीकारे युक्ति-लाघवाद्
ब्रह्म-विवर्त-वादः स्वीकर्तव्य
इति श्रीमच्छङ्कराचार्यैः स्व-बुद्धिबलेन
विज्ञान-विवर्त-वादिनः शून्य-विवर्त-वादिनश् च परिवर्तिताः ।+++(4)+++
तेऽपि स्वमते विद्यमानं दौर्बल्यम् अङ्गीकृत्य
श्रीशङ्कराचार्याणां ब्रह्मविवर्तवादम् अङ्गीचक्रुः ।
ये च नाङ्गीचक्रुः
ते इतः पलाय्य
बर्मादेशं प्रति जग्मुर् इत्यादिकं
सत्यान्वेषणे प्रतिपादितम् अग्रे वक्ष्यते च ॥
एवं महता प्रयत्नेन
मिथो विवदतां वैदिकानां बौद्धानाञ्च अभिप्रायभेदं निराकृत्य
सङ्कटे पतितं वैदिक ब्रह्मवादं स्थापितवन्तः श्रीशङ्कराचार्याः ।
अत एव शङ्कराचार्यग्रन्थेषु
बौद्धानां सन्तृप्त्य्-अर्थं तत्-सम्मत-विवर्तवादस्य वक्तव्यत्वेन
तत्र तत्र बौद्धच्छाया आगता ।
ब्रह्मसूत्राणां पीठिकात्वेन लिखितम् अध्यासभाष्यम् एवात्र निदर्शनम् ।
अयम् अंशः श्रीशङ्कराचार्य-चरित्र-शोधनेन विस्तरेण प्रतिपादयिष्यते ।
तद् एवाधुना विस्तरेण विचारयामः ।
[[5]]
ब्रह्मद्वित्वम्, निर्विशेषवादः
तथाऽपि तत् तादृशाचार्याणाम् एतादृश-वचनं
बौद्ध-सन्तृप्त्य्-अर्थम् एव ।
… एवं सर्व-प्रमाणानां सविशेष-विषयत्वान्
निर्विशेषं वस्तु शश-शृङ्गायितम् एव ।
अतः श्रीशङ्कराचार्याणां निर्विशेषवादोऽपि
बौद्धानां सन्तृप्त्यर्थम् एव ।
आत्मैक्य-प्रस्तावः
[[10]]
… बौद्धास्तु विज्ञानात्मवादिनः आसन् ।
विज्ञानात्मानस् तु जीवात्मानः ।
एतादृश नानात्म-वादापेक्षया
एकमात्मानम् अङ्गीकृत्य
तस्यैव ज्ञानानन्दमय-परम-पुरुषार्थ-रूपत्व-स्वीकारे
तस्यैवोपाधि-भेदेन जीव-भेदाङ्गीकारे च
सौलभ्यं प्रदर्श्य
क्रमेण तेषाम् अपि
एतादृशाध्यात्म-निष्ठत्वम्
अतीव चातुर्येण साधितम् ।+++(5)+++
एतन्मूला एव इदानीन्तनाद्वैतसिद्धान्ते
ब्रह्मणि सगुणनिर्गुणभेदः,
निर्गुणब्रह्मण एव पारमार्थिकत्वम्,
सगुणब्रह्मणस्तु माया-संवलितत्वं मिथ्यात्वञ् च इत्य्-आदि-वादा
रूढमूलतया विराजन्ते ।
चरितादि-परिशीलनम्
परकाल-यतेर् अभिप्रायः
… अस्मिन् विषये नानाशास्त्रमर्माभिज्ञैः वयोवृद्धैः, तपोवद्धैः, ज्ञानवृद्धैः,परकालमठाधीश्वरैः
तदा तदा कश्चनाभिप्रायः श्रीशङ्कराचार्यविषये इत्थं प्रकटितः -
श्रीशङ्कराचार्याः महति सङ्कटे पतिता इति भाति ।
तदीयानां सर्वेषां ग्रन्थानाम् अध्ययनेन इदं ज्ञायते ।
एकपार्श्वे वैदिकानाम्, अपरपार्श्वे बौद्धानां समाधानार्थं
किञ्चिद् वाक्यं वक्तव्यम् आसीत् ।
वैदिकाः यदि पृच्छन्ति,
तदा तेभ्यः“वेदो नित्यमधीयतां तद्-उदितं कर्म स्वनुष्ठीयताम्” इत्युक्तमेव खलु ।
प्रत्युत " भज गोविन्दं भज गोविन्दम्” इत्यपि मयैव गीतम् ।
अतः भवतां सम्मतस्य वैदिकस्य भक्तिमार्गस्य प्रशंसा मया क्रियते एव ।
भवद्भिः तत्र स्थीयताम्इति वक्तव्यम् अभूत्।
[[33]]
बौद्धानां समीपं यदा गच्छति तदा
वैदिकाः एते कृपणाः मन्दाधिकारिणः।
ते तथैव तिष्ठन्तु, नास्माकं हानिः ।
वयं तु उत्तमाधिकारिणः, ज्ञानमार्गस्थाः ।
तैः एतत् स्मर्तुम् अपि न शक्यते ।
अतः वयम् एतन्-मार्गे तिष्ठामःइति बौद्धेभ्योऽपि श्रीशङ्कराचार्यैः वक्तव्यम् अभूत्,
अतः श्रीशङ्कराचार्याणां द्विमुखत्वम् अनिवार्यम् अभूद्
इत्य् एतज् ज्ञायते
इति ।
एतत्-पोषकतया तदीय-वचनान्य् अपि
तदा तदा ते परकालमठाधीशाः अस्मभ्यं प्रदर्शितवन्तश् च।
सर्व-दर्शन-पारङ्गतानां सर्वत्र सर्वत्र गुणैकपक्षपातिनां तेषां महतां श्रीपरकालमठाधीशानां
पूर्वोक्तानि वचनानि सर्वैर् अपि अवश्यम् उपादेयानि ।
पूर्वं प्रदर्शित-रीत्या
श्रीशङ्कराचार्याणां कालः सप्तमशताब्द्याः उत्तरभागादष्टमशताब्द्याः आदिमः भागः
इत्येव वक्तुं शक्यते ।
पञ्चविंशतिवर्षाः इतोऽपि अनन्तरं भवेयुर् वा ।
सौन्दर्यलहर्यां श्रीज्ञानसम्बन्ध-स्वामिनां प्रशंसनेन
तेषां हार्दो भावः वैदिकमार्गे एवासीद् इति स्पष्टम् अवगम्यते ।
… अतः सुष्ठुक्तं परकालमठाधीशैः -
शङ्कराचार्याः अतीव-धर्मसङ्कटे पतिताः ।
एकपार्श्वे वैदिकानां सन्तृप्त्य्-अर्थं तदनुगुणं व्याख्यानं वर्तते ।
अपरपार्श्वे बौद्धानां सन्तृप्त्य्-अर्थम् इति ।
दिग्-विजयादि
… श्री-शङ्कराचार्य-चरितादि-परिशीलनम्॥
वस्तुतस् तु श्रीशङ्कराचार्य-चरित्रादिकम्
इदानीन्तने विद्यारण्यकृत-प्रसिद्ध-शङ्कर-दिग्विजयादौ
केवलं तन्-महत्त्व-प्रदर्शनाय कल्पनामयं दृश्यते,
प्रामाणिकं न किञ्चिद् उपलभ्यते
इत्येव परमं सत्यम् ।
तत्र शङ्कराचार्यस्य जन्मकालो वा निर्याणकालो वा न प्रदर्शितः ।
प्रत्युत
अष्ट-वर्षे चतुर्-वेदी
द्वादशे सर्व-शास्त्रवित् ।
षोडशे कृतवान् भाष्यं
द्वात्रिंशे मुनिर् अभ्यगात् ॥
इति श्लोकस्तु दृश्यते ।
शङ्कराचार्य-सम्मुख एव स्थितेन केनचिद् लिखित इव प्रतीयते +++(वक्ष्यमाण-रीत्या)+++।
एतेषां दृष्ट्या शङ्कराचार्यः केवलं पौराणिकः ।
तस्य विद्यारण्यस्य च द्वित्र-सहस्र-वर्ष-काल-व्यवधानं वर्तते +++(पौराणिक-दृष्ट्या)+++।
केवलं तन्-महत्त्वार्थं तथा लिखितं यदि
तर्हि
“चतुर्थे स चतुर्वेदी
सप्तमे सर्वशास्त्रवित् ।
दशमे कृतवान् भाष्यं
द्वादशे मुनिरभ्यगात् ॥
इत्येवं लेखनं तदपेक्षया तस्य महत्त्वप्रतिपादकं भवेत् ।
विश्वास-टिप्पनी
शिथिलम् उक्तं कारणम् इदम्।
अतश्चारित्रिक-दृष्ट्या विद्यारण्य-कृत-शङ्कर-दिग्-विजयो
लेशतोऽपि न प्रामाणिकः ।
प्रत्युत शङ्कराचार्य-विरचितत्वेनैव मुद्रिते
देव्य्-अपराध-क्षमापन-स्तोत्रे
" मया पञ्चाशीतेर् अधिकम् अपनीते तु वयसि "
इति तस्य स्पष्टं पञ्चाशीति-वर्ष-जीवित्वम् उल्लिखितमस्ति ।
एतद् एव च प्रमाणतया स्वीकर्तव्यम् ।
ग्रामादि
प्रकृते च शङ्कराचार्याः केरलीय-कालडीक्षेत्रे जाताः
इति विषये न विप्रतिपत्तिः दृश्यते ।
परन्तु एतदनन्तरं स शास्त्रादिकं कुत्राधीतवान्,
कथं वा तादृशो महापुरुषो बभूव,
का वा तस्येष्टा देवता
इत्यादिविषये न किञ्चित्प्रमाणमुपलभ्यते श्रूयते वा ।
गोविन्दः
यद्यपि श्रीशङ्कराचार्य-गुरोर् नाम गोविन्द-भगवत्-पाद
इति श्रीशङ्कराचार्यग्रन्थेष्वेव पुष्पिकासु
श्रीगोविन्द-भगवत्पादशिष्य–श्रीशङ्करभगवत्पादकृतौ
इत्य्-आद्य्-उल्लेखन ज्ञायते -
सः तु गोविन्द भगवत्पादः कुत्रासीत् । कीदृशः सः । तस्य गुरुः कः
इत्यादि कल्पनां विना न किञ्चिदुपलभ्यते ।
गौडपादः
यस्य माण्डूक्योपनिषदः कारिकारूपा व्याख्या गौडपादाचार्य-विरचितत्वेन प्रथिता
यस्यां सम्पूर्ण-बौद्धच्छाया वर्तते
अन्ते
“क्रमते न हि बुद्धस्य
ज्ञानं धर्मेषु तायिनः?? ।
सर्वे धर्मास् तथा चार्थाः
नैतद् बुद्धेन भाषितम् "
( “तायिन” इत्येव पाठः प्रामाणिकः न तु तापिन इति ) इत्येव तत्र निदर्शनम्।
सः एव गौडपादाचार्यः गोविन्दभगवत्पादस्य गुरुः
इत्यत्र सम्प्रतिपन्नं प्रमाणं नोपलभ्यते ।
कोऽयं गौडपादाचार्यः ?
[[6]]
तस्य गोविन्द-भगवत्-पादाचार्यस्य च सम्बन्धः कीदृशः,
कथं जातः इत्याद्यपि नोपलभ्यते ।
प्रत्युत उभयोर् अत्यन्त-व्यवधानं च दृश्यते ।
चरित्र-दौर्लभ्यम्
एतादृशी स्थितिः भारत-देशे अतीव सहजा ।
प्राचीनः आनन्दगिरीय-शङ्कर-विजयोऽपि
तदीय-विजय-यात्राम् एवाधिकं वर्णयति ।
चारित्रिक-दृष्ट्या तत्र-स्थांशा अतीव विरलाः ।
प्राचीनानाम् आचार्याणां बहूनां
चरित्रादिकं समीचीनं न लभ्यते
इत्येव परमं सत्यम् ।
दशम-शताब्द्या अनन्तरं
( रामानुजाचार्यकालाद् 1017 - 1137 अनन्तरम् ) किञ्चिद् उपलभ्यते ।
प्रायस् ते प्राचीनाः
ख्याति-लाभ-पूजाविमुखा एवासन् इति प्रतीयते ।
किं बहुना तत् तादृशस्य कवि-कुल-तिलकस्य कालिदासस्यापि
कालपरिचयादिकं नोपलभ्यते ।
शङ्कराचार्य-चरित्रत्वेन यत्र कुत्रचित् प्रतिपादिताः विषयाः
चारित्रिकदृष्ट्या लेशतोऽपि न विश्वसनीया एव ।
आधारपूर्वकं तस्य काल एव न निश्चितः ।
कुत एवम् अभूद् भारतदेश इति अत्यन्तं विचारणीयम् एव ।
मण्डनमिश्रः
… यद्य् अपि ध्यान-नियोग-वादि–मण्डन-मिश्रोऽपि शङ्कराचार्यापेक्षया प्राचीनः,
परन्तु न स ब्रह्मसूत्रभाष्यं कृतवान् ।
किन्तु ब्रह्म-सिद्धिनामकं ग्रन्थं ग्रथितवान् । [[4]]
तेन पूर्वमीमांसाग्रन्थाः बहवः रचिताः ।
अतः पूर्वोत्तर-मीमांसा-पण्डितत्वेन परिगणितश्च ।
स एव मण्डन-मिश्रः
श्रीशङ्कराचार्यैः वादे पराजितः
शिष्यो भूत्वा सुरेश्वराचार्य-सञ्ज्ञां लब्धवान्
इति केचन वदन्ति।
“इदम् अ-सम्बद्धम्” इति महामहोपाध्यायानां कुप्पुस्वामि-शास्त्रिणाम् अभिप्रेतम्
इति ब्रह्म-सिद्धि-नामक-ग्रन्थ-भूमिकायां
सुब्रह्मण्य-शास्त्रिभिः विमर्शितम् ॥+++(5)+++
आदि-शक्तिः
… तदीय-रचनासु अत्यन्त-प्रसिद्धायाः सौन्दर्यलहर्याः अध्ययनेन तु
आद्या शक्तिर् एवास्योपास्या देवतेति बहवो मन्यन्ते ।
सौन्दर्यलहर्यां
“शिवः शक्त्या युक्तो यदि भवति देवः प्रभवितुम् ।
न चेदेवं देवः प्रभवति परिस्पन्दितुमपि ॥
अतस्त्वाम् आराध्यां हरिहरविरिञ्चादिर् अपि ।
शरण्ये त्वां स्तोतुं कथम् अ-कृत-पुण्यः प्रभवति ॥
इति श्लोकेन आद्या शक्तिरेव सौन्दर्य-लहरी-विषय इति ज्ञायते ।
शङ्कराचार्यस्य कालः
भारतदेशस्य अत्यन्त-परिवर्तन-कालः (Turning point) आसीद्
इति चरित्र-संशोधन-दृष्ट्या ज्ञायते ।
तस्याम् अवस्थायां तत्-तादृश-महत्-साधनं कर्तुं
पर-शक्त्य्-अनुग्रहो ऽत्यन्तमावश्यक
इति सर्व-सम्प्रतिपन्नम् ।
शङ्कर-कालः
… एतद्-विषये शङ्कराचार्यानुयायिष्व् एव
महान् अभिप्रायभेदो वर्तते ।
साम्प्रदायिकाः पौराणिकदृष्ट्या
किञ्चिन् न्यूनाधिकं त्रिसहस्रवर्षेभ्यः पूर्वं सः आसीदिति मन्यन्ते ।
आधुनिकाः विमर्शकास्तु
पूर्वम् अस्माभिः प्रतिपादित-क्रमेण
सप्तम-शतकोत्तर-भागाद् आरभ्य
अष्टमशतकपूर्वकालपर्यन्तं शङ्कराचार्यकालं मन्यन्ते ।
एवञ्च तदीयेषु ग्रन्थेषु जैनबौद्धधर्म-सम्मत-निर्विशेषवाद-च्छाया अनिवार्यैव ।
ज्ञान-सम्बन्ध-कालः
… तस्य कालस् तु
पौराणिक-दृष्ट्या बहु-सहस्र-वत्सरेभ्यः पूर्वम्
इति वदन्ति ।
सौन्दर्यलहयां
तव स्तन्यं मन्ये धरणीधरकन्ये हृदयतः
पयः पारावारः परिवहति सारस्वतम् इव ॥
दयावत्या दत्तं द्रविड-शिशुर् आस्वाद्य तव यत्
कवीनां प्रौढानाम् अजनि कमनीयः कवयिता ॥ ( श्लो. ७५ )
इति द्रविड-शिशु-कथा श्रूयते ।
कः सः द्रविडशिशुः इति चरित्राज्ञानात् केचन भ्रमन्ति ।
बहवस्तु ज्ञानसम्बन्धस्वामी सः इति प्रामाणिकमङ्गीकुर्वन्ति ।
विश्वास-टिप्पनी
Historians and shaivas try to claim that sambanda lived in 7th century. But I hold them to be wrong and I assign him to mid eighth century. Sankaras date is 788-820. - ravilochana.
सौन्दर्यलहरी शङ्करेण कृतेत्य् एवानैतिहासिकम्।
तिरुज्ञानसम्बन्धः इति द्रविडभाषायामुच्यमानः सः
चतुर्षु शैवाचार्येषु अन्यतमः महा-प्रभाव-युक्तश् च
स एव +अन्तिमश्च ।
स कदाचन बाल्ये पित्रा स्नानार्थं पुष्करिण्यां सहैव नीतः ।
पुष्करिण्यास् तटे तं स्थापयित्वा
पिता स्नानार्थं यदा जले निममज्ज,
तदा पितरम् अदृष्ट्वा शिशुः रोदितुमारब्धवान् ।
[[7]]
तस्य रोदनं श्रुत्वा
तृतीये एव वयसि
देव्या स्वीयं स्तन्यं स्वयम् एव पायितम्
इति तस्य कथा वर्तते ।
तत्-पानानन्तरम् एव तस्याधरात्
पयः किञ्चित् प्रसृतमभूत् ।
स्नात्वा आगतः पिता
तद् दृष्ट्वा
पुत्रं केन पायितम् इति भर्त्सयाम् आस ।
तावत्येवाकाशे भगवान् शिवः
स्वस्य अर्धनारीश्वररूपं दर्शयामास ।
तदैव तृतीये वयसि
द्राविडगाथाभिः वर्णयामास ।
तदानीम् एव सः प्रौढो महाकविरभूत् ।
द्रविडभाषायां बहुसहस्रगाथास् तेन गीताः ।
षोडश-वयो-मात्रं तेन जीवितम् ।
तावत्य् एवाल्प-कालेऽपि
द्रविडदेशे बहुकार्यं कृतम्
इति चरित्रं बहुविस्तृतम् ।
तस्य कालस्तु
सप्तमशताब्द्याः आरम्भः ।
तेन शङ्कराचार्यः सप्तमशताब्द्या अनन्तरकालिक
इत्यत्र न संशयः ।
तदानीं पाण्ड्य-राजधान्यां दक्षिण-मथुरायां
कून्-पाण्ड्य-नामकः चक्रवर्ती अभूत् ।
एतत्-सर्वं शासन-सिद्धम् ।
स तु जैनमते अतीव श्रद्धावानासीत् ।
तस्य पत्नी तु अतीव शिवभक्ता ।
स्व-पतिस् तु जैनमतीयो वर्तते किलेति
अतीव व्यथिता ऽऽसीत् ।
तदा सा स्वेष्ट-देवं प्रार्थयन्ती आसीत् ।
अयं च ज्ञानसम्बन्धः क्रमेण शिवक्षेत्रादीनां दर्शनं कुर्वन्
मधुराससमीपमाजगाम ।
सा महाराज्ञी ज्ञानसम्बन्धस्वामिनं
स्वनगरमानेतुं प्रधानामात्यं तत्-समीपं प्रेषितवती ।
सोऽपि प्रधानामात्यस् तत्समीपं गत्वा
दक्षिणमथुरानगरमागमनाय बहुधा प्रार्थयामास ।
सोऽपि परम-प्रीतः मथुरामाजगाम ।
सा तस्मै स्वव्यथां सूचयामास ।
सोऽपि तदीयप्रार्थनामङ्गीकृत्य
दैवप्रेरणानुरोधेन वात-व्याधि-पीडितं तत्पतिं
शयने शयानं राजानं द्रष्टुं जगाम ।
तदानीं तस्य गुरवो जैना अपि
राज्ञः शयनसमीपे एवासन् ।
स तु ज्ञानसम्बन्धः तान् जैनगुरून् वीक्ष्य
‘इमं राजानं व्याधितः विमोचयितुं शक्यते वा’ इत्यपृच्छत् ।
बहुधा प्रयतमानानामपि तेषां पुनः तत्सर्वं व्यर्थमभूत् ।
तदानीं सः सम्बन्धस्वामी
स्वेष्टदेवं स्मरन्
तस्य शरीरम् एक-वारम् अस्पशत् ।
तावतैव स राजा शयने उत्थायोपविष्ट
आश्चर्यमग्नश्च अभूत् ।
तद्-अनन्तरम् अपि
जैनसिद्धानां सम्बन्धस्वामिनश्च बहुविधाः स्पर्धाः चर्चाश्च अभूवन् ।
सर्वेष्वपि ते जैनाः पराजिताः ।
राजा च सर्वं पश्यन्
जैनगुरून् दण्डयित्वा
स्वयं शिवभक्तो बभूवेति कथा
तदीयचरित्रे विस्तरेण वर्ण्यते ।
तस्य राज्ञः कालः शासननिश्चितो वर्तते ।
तेन ज्ञानसम्बन्धस्वामिनोऽपि कालः सप्तमशताब्द्याः पूर्वभाग इति निश्चितः ।
[[8]]
वैष्णवाल्वार्-जनेष्व् अन्तिमः परकाल इति प्रसिद्धः समानकालिकः ।
परकालस्य जन्मस्थलमपि ज्ञानसम्बन्धस्य जन्मस्थलसमीपे एव ।
द्वादश आल्वारजनाः त्रिषष्टिः शैव-पुरातनाश् च
द्वित्र-शतक-मध्यकाल एव आसन्निति विमर्शकाः वदन्ति ।+++(5)+++
नास्तिक-सिद्धिः
अयमेव कालः
सिद्धपुरुषाणां जैनबौद्धानां धर्मस्य अत्युच्छ्रयकालः ।
ते तु निरीश्वरवादिनः इति प्रसिद्धम्।
अथाऽपि बहुविध-सिद्धियुक्ता आसन् -
मणिमन्त्रौषधादिरूप-सिद्धयः वैदिकग्रन्थेष्व् एवोपलभ्यन्ते ।
यथा “जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः” (यो.सू. ४.१ ) इति ।
[[44]]
किम् अधिकोक्त्या ? कुलशेखर-सूरि-विरचिते मुकुन्द-माला-स्तोत्रे
भक्तापाय-भुजङ्ग–गारुड+++(-मन्त्र)+++-मणिस् त्रैलोक्य-रक्षा-मणिर्
गोपी-लोचन-चातकाम्बु-द-मणिस् सौन्दर्य-मुद्रा-मणिः ।
यः कान्ता-मणि रुक्मिणी-घन-कुच-द्वंद्वैक-भूषा-मणिः
श्रेयो देव-शिखा-मणिर् दिशतु नो गोपाल-चूडा-मणिः ॥ २२ ॥शत्रु-च्छेदैक-मन्त्रं सकलम् उपनिषद्-वाक्य-संपूज्य-मन्त्रं
संसारोत्तार-मन्त्रं समुपचिततमस् सङ्घ-निर्याण-मन्त्रम् ।
सर्वैश्वर्यैक-मन्त्रं व्यसन–भुज-ग–सन्दष्ट-सन्त्राण-मन्त्रं
जिह्वे श्रीकृष्ण-मन्त्रं जप जप सततं जन्म-साफल्य-मन्त्रम् ॥ २३ ॥+++(5)+++ व्यामोह-प्रशमौषधं मुनि-मनो-वृत्ति-प्रवृत्त्य्-औषधं
दैत्येन्द्रार्ति-करौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्त-हितौषधं भव-भय-प्रध्वंसनैकौषधं
श्रेयः-प्राप्तिकरौषधं पिब मनः श्रीकृष्णपिब्-अदिव्यौषधम् ॥ २४ ॥
एवं रूपेण मणि-मन्त्रौषधिप्रभावाः विडम्बिताः ।
एवं न्याय-मुक्तावल्याम् अप्य् आरम्भे
सप्त-पदार्थ-निरूपण-प्रकरणे
अतिरिक्त-शक्ति-निराकरणार्थं
मणि-मन्त्रौषधयः दृष्टान्तीकृताः ।
खण्डनखण्डखाद्यकारेण श्रीहर्षेणापि
तच् चिन्तामणि-मन्त्र–चिन्तन-फले
इति चिन्तामणिमन्त्र-प्रभावस्य प्रदर्शनं कृतं
स च जैनबौद्धमन्त्रः ।+++(4)+++
अनेन ऊह्यते - मणिमन्त्रादिसिद्धिप्रभावयुक्ताः जैनाः बौद्धाश्च
सामान्यजनान् राजानश्च वशीकृत्य
वैदिकान् पण्डितान् परिभावयाम् आसुः इति ।+++(4)+++
भक्ति-प्रचारः
एतेषान् निराकरणार्थम् एव
ईश्वर-वादिनः एते वैष्णवसूरयः शैवपुरातनाश्च
नानाविधा भक्तिगाथा रचयित्वा
सामान्यजनुषु +अति विस्तरेण ईश्वरवादं भक्तिमार्गं च बहुधा वर्धयामासुः ।
… एवं भक्तिमार्गनिष्ठानाम् एतेषां कालः
सप्तम-शताब्ध्याः पूर्वभाग-पर्यन्त इति निश्चितम् ।
भक्ति-निराकृतिः
एवं तैर् वैष्णवैर् विष्णुभक्तैः,
शैवैः शिवभक्तैश्च
जनसामान्येषु जागरणस्य साधनेऽपि,
तेषां समनन्तरकालं
पुनः क्रमेण बौद्धपण्डिताः
वयमध्यात्मनिष्ठाः,
भक्तिमार्गस्तु अवरकक्ष्यायां वर्तमानानाम् एव
इति, “अवरमार्गीयो भक्तिमार्ग” इति वर्णयन्तः पुनः विजजृम्भिरे ।
बहवो राजानः तेषां वचस्य् एव बद्धाः आसन् ।
शङ्कर-प्रयासः
तेषां पण्डितानाम् अहङ्कारनिराकरणार्थम् एव
एते श्रीशङ्कराचार्याः भगवतैव नियुक्ता इति भाति ।+++(4)+++
परन्तु एतादृशसिद्धैर् जैनबौद्धपण्डितैः सह
साक्षात्-सङ्घर्षणायाम् एते जैन-बौद्ध-पण्डिताः
“एतान् श्रीशङ्कराचार्यान् ??
सत्य-द्वेषिणः वैदिकाः स्वमतं प्रचारयितुम् इच्छन्ति”
इति राज्ञे उपदिश्य राजाज्ञया मारयेयुः ।
तादृशपरिस्थितिस् तदानीं दक्षिणदेशे आसीद्
इति तच्चरित्रविदः अभ्यूहन्ति ।
वैदिकधर्मस्य जैन-बौद्धधर्मस्य च घर्षणेन
तत्समयः अतीव निष्ठुर आसीद् इति
तदानीन्तन-चरित्राध्ययनादिना ज्ञायते ।
तत्समयस्य शासनादिकमपि न लभ्यते ।
अतः तत्समयस्य न्यूनातिन्यून-शतक-द्वय-परिमितः कालः
अन्धकारमयः (Dark period) इत्येव इतिहासविदः वर्णयन्ति ।
श्रीशङ्कराचार्याणामपि कालः तादृशशतकद्वयमध्ये एवासीत् ।
धावनम्
… एवं सौहार्देन परिवर्तनाकरणे
प्राणापायोऽपि सम्भवीति भावयद्भिः श्रीशङ्कराचार्यैः
स्वप्राणान् अपि पणीकृत्य
बौद्धा जैनाश्च परिवर्तिताः ।
ये तु एतद्-विध-विचारान् सोढुम् अशक्ता आसन्,
तादृशाः बौद्धपण्डिताः वङ्ग-देशं प्रति पधाविताः ।
जैनास्तु पश्चिम-देशं प्रति प्रधाव्य श्रवणबेलगोलक्षेत्रम् आतस्थिरे ।
दक्षिण-देशस्तु कथञ्चिद् वेद-विरुद्धनास्तिकवादादुन्मुक्त इवाभवत् ।
दशमशताब्द्यां बङ्गदेशे जाताः श्रीमद्-उदयनाचार्याः
तत्र स्थितान् बौद्धान् वादे पराजयामासुः ।
अतस्ते बङ्गदेशमपि परित्यज्य
ब्रह्मदेशं ( Burma) गता
इति उदयनाचार्यचरित्रे वर्ण्यते ।
तथैवैकादशशतकारम्भे कृतावताराः श्रीमद्रामानुजाचार्याः
दैवप्रेरणया श्रवणबेलगोलक्षेत्रे स्थितान् जैनान्
स्वीयाध्यात्मशक्त्या क्रमेण परिवर्तयामासुः ।
तत्रपि परिशिष्टाः केचन जैनमतीयाः
एतद् देशमेव परित्यज्य पश्चिमपर्वतश्रेण्या अधोभागे
वेणु-वन-नाम्नि (मूडुबिदिरे) स्थाने वासं चक्रिरे ।
द्वादशशताब्द्यां तत्रैवावतीर्णाः श्रीमदानन्दतीर्थाः
कृष्णभक्तिप्रचारेण जैनवेगं न्यरुन्धन् ।
तेन जैनाः अन्ते वेणुवनमात्रसीमिताः अभूवन् ।
इदानीमपि तेषां प्रभावस्तत्रैव दृश्यते ।
इदं सर्वं तत्त्वमुक्ताकलापव्याख्यानस्य भूमिकारूपसत्यान्वेषणे सङ्ग्रहेण प्रस्तुतम् ।
निगमनम्
एवं च इदानीन्तन श्रीशङ्कराचार्यचरित्रं सर्वमपि कल्पनामयं संवृत्तम्
इति तदीयैरेव तटस्थ विमर्शकैः अङ्गीक्रियते ।
अत अवैदिकमतग्रस्तस्य भारतदेशस्य पुनर्विमोचनाय कृतसाहसेषु
श्रीशङ्कराचार्या अतीवोत्तमा इति सर्वैरपि परिगण्यते ।
यद्यपि श्रीशङ्कराचार्याणां चरित्रं स्पष्टं नोपलभ्यते
तथापि तेषां (श्रीशङ्कराचार्याणाम्) महत्त्वन्तु
तदीयसूत्रभाष्योपनिषद्भाष्यादिषु प्रतिपादितविचारक्रमेण
न तिरोहितं विदुषाम् ।
… शतकद्वयकालः वैदिकानाम् अवैदिकानाञ्च
परस्परम् अतीव सङ्घर्षणा-कालः ।
तदा भारते किमासीदिति ऊहितुम् अपि न शक्यम् अभवत् ।
अत एव श्रीशङ्कराचार्यैः
“स्वस्य वैदिक-पक्षपातित्वं नास्ती"ति
बौद्धानां प्रदर्शनायैव
मन्दानां कृते कृतं स्तोत्र-साहित्यं विहाय
सर्वत्रापि ब्रह्मणो निविर्शेषत्वस्य
जगतो मिथ्यात्वस्य च प्रतिपादने
बहुधा साहसः कृतः ।
मृतिः
तथाप्यन्ते एतद् रहस्यं ज्ञात्वा
बौद्धैः विष-प्रयोगेण मारिताः श्रीशङ्कराचार्याः
इति अभिप्रयन्ति विमर्शकाः केचन ।+++(4)+++
[[12]]
अयं विषयः श्रीरामदेव-बाबा-महोदयेन 11.8.09 तिथौ
आस्था-टीवी-द्वारा उद्घोषितः । +++(4)+++
इयं घटना प्रायः काञ्च्याम् अभूद् इति
आनन्दगिरि-कृत-शङ्कर-दिग्विजये
“स्वलोकं गन्तुमिच्छुः
काञ्चीनगरे मुक्तिस्थले कदाचिद्
(विषप्रयोगसमये) उपविश्य
स्थूलं शरीरं सूक्ष्मेऽन्तर्धाप्य
तद्रूपो भूत्वा
सूक्ष्मं कारणे विलीनं कृत्वा
चिन्मात्रो भूत्वा
अङ्गुष्ठमात्रः भूत्वा
अङ्गुष्ठमात्रः पुरुषः
तदुपरि अखण्डमण्डलाकारमानन्दं प्राप्य
सर्वजगद्-व्यापक-रूपचैतन्यम् अभवत्”
इत्यादिवचनैः सूच्यते ।
अत्र “स्व-लोकं गन्तुमिच्छुः” इत्यस्मात्
पूर्वं दैवेच्छां ज्ञात्वा इत्यपि योजयित्वा पठनीयम् ।