… एवं गीतायाः उपनिषदां च वचनानि प्राधान्येन परीक्षितानि ।
एतद्-उभय-विवक्षितम् अर्थं निर्धारयितुं प्रवृत्तं
वेदान्त-विचार-शास्त्रं ब्रह्म-सूत्राणि इत्य् उच्यते ।
सविशेष-वाद्य्-आनुकूल्यम्
तानि सविशेष-वादिनाम् एवानुकूलानीति
तट-स्थ-विद्वांसः सर्वेऽपि मन्यन्ते
इति प्रसिद्धम् एव ।+++(5)+++
एतदेव पुष्णाति
सधर्मकता
एवं प्रत्यधिकरणं ब्रह्म-निष्ठ-धर्मस्यैव हेतुत्वं प्रतिपाद्यते ।
ब्रह्मणः निर्धर्मकत्वे
हेतोः पक्षवृत्तित्वं कथम् ?
एतेषां विचाराणां सर्वेषामपि समाप्तिवेलायां
“सर्वोपेता च तद्-दर्शनात्” (ब्र.सू. २.१.३० ), इत्य्-अत्र
सर्व-शक्त्य्-उपेतत्वं ब्रह्मणः प्रतिपाद्य
“सर्वधर्मोपपत्तेश्च” (ब्र.सू. २.१.३६),
इति समापयति सूत्रकारः ।
एवं सति ब्रह्मणः निर्विशेषत्वं कथम् ?
शङ्करारोपः
वृत्तिकार-मत-तिरस्कारः
… तद्-अनुरोधेनैव श्रीशङ्कराचार्या अपि
आनन्दमयादिषु +अधिकरणेषु
प्राचीन-सम्प्रदाय-सिद्धं वृत्तिकार–मतम् उल्लिखन्न् अपि
स्व-वादं नूतनम् इत्य् एव प्रकटयन्ति ।
‘उपासा-त्रैविध्याद् आश्रितत्वाद् इह तद्-योगात् ’ (१.१.३१ )
इति सूत्रस्यार्थः
उपासा त्रिविधा चेतनान्तर्याम्य्-उपासना,
अचेतनान्तर्याम्य्-उपासना
स्वरूपत उपासना
इति उपासना स्पष्टं त्रिविधेति ज्ञायते चेद् अपि
त्रैविध्यम् इत्य्-अस्य
“त्रैविध्य-प्रसङ्गाद्” इत्य् एवं व्याख्यानं कृत्वा
प्रथमं वृत्तिकार-मतं निराकरोति।
श्रीशङ्कराचार्यः एवम् एव बहुष्व् अधिकरणेषु
वृत्तिकार-मतम् उल्लिखन्न् अपि
तन् नाङ्गीकरोति स्म ।
दहराधिकरणे इदं विशिष्य ज्ञातुं शक्यम् ।
तत्र
“अपरे तु वादिनः
“पारमार्थिकं जैवं रूपम्” इति मन्यन्ते
अस्मदीयाश् च केचित्”
इति वचनेन
प्राचीनसम्मतः जीव-भेद-वादः प्रामाणिक
इति स्पष्टं ज्ञायते ।
कथम् इदं सम्भवितुम् अर्हति -
परब्रह्मणः एकत्वस्याखण्डत्वस्य चानिवार्यत्वात् ?
तस्य चाखण्डत्वे तद्-अंशा जीवाः
कथम् अनेके भवेयुः?
अतो मिथ्यात्व-वादेनैवास्य समाधानं वक्तव्यम्
इति श्रीशङराचार्यस्याशयः स्यात् ।
भास्कर-प्रतिक्रिया
… अयन्तु भट्टभास्करः वेद-भाष्य-कर्ता
वैदिक-सम्प्रदाये अतीव श्रद्धावानासीद्
इति सम्यग् ज्ञातुं शक्यते ।
तत्र तत्र पूर्वकालिक-सम्प्रदायम् अप्युल्लिखन्न् अयं
शङ्कराचार्यस्य वैदिक-सम्प्रदायोल्लङ्घनम् अपि स्पष्टयति ।
तदानीन्तन-धर्म-सङ्कट-कालस्य भट्टभास्करेण ज्ञातुम् अशक्यत्वाद् एव
एतत् संवृत्तम्
( एतावद् दूरं विवरण-कारादि-द्वारा-वैदिक-सम्प्रदाये बौद्ध-मत-प्रवेशो जातः)
श्रीशङ्कराचार्यस्य कालादिकम् अधिकृत्य यद्वक्तव्यं
तत् सर्वं विस्तरेण पूर्वमेवोक्तम् ।
स्वप्राणान् एव वैदिक-सम्मतम् ऐकात्म्य-वादं कथञ्चित् पुनः प्रतिष्ठापयितुं
बहुधा महासाहसं कृतवान् स आचार्यः
इत्यादिकं तच्चरित्रशोधनेन
स्पष्टं ज्ञातुं शक्यते ।
[[80]]
तद्दृष्ट्या भट्टभास्कराचार्यस्य संशोधनमप्य् एतत्
पूर्वोक्तार्थस्य पोषकं भवेद् इत्य्-अत्र न संशयः ।
‘सूत्राभिप्राय-संवृत्त्या
स्वाभिप्राय-प्रकाशनात् ।
व्याख्यातं यैरिदं शास्त्रं
व्याख्येयं तन्निवृत्तये’ ॥ +++(5)+++
इति भाष्यारम्भे कृता तदीयप्रतिज्ञैव पूर्वोक्तं सर्वमर्थं स्पष्टयति ।