भक्तेर् ज्ञानत्वम्
… यद्यपि साधन-काले सर्वं ज्ञानं वृत्ति-रूपम् एव ।
अनुमित्य्-आत्मकम् अपि ज्ञानं वृत्तिरूपम् ।
प्रत्यक्षज्ञानम् अपि +इदानीं वृत्तिरूपम् एव ।
तथाऽपि उभयोरपि तारतम्यं यथा महद् वर्तते,
तद्वद् भक्ति-ज्ञान-पदयोर् अपि वृत्ति-रूपत्वेन समानत्वेऽपि
बहुतारतम्यं वर्तत एव ।
भक्तिर् हि अतीव पामरेष्व् अपि दृश्यते ।
तादृशभक्तेः बहु-विधत्वेऽपि
मोक्ष-हेतु-भूता भक्तिर्
ज्ञान-पदेनैव व्यपदिश्यते ।+++(5)+++
एवम् एव-
" चतुर्विधा भजन्ते मां
जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी
ज्ञानी च भरतर्षभ " ॥ (गी. ७.१६)
इत्यस्य आरम्भे भजन्ते इति भक्तेः प्रतिपादनेऽपि
तेष्व् एव कश्चिज् ज्ञानीति कथं व्यपदिश्यते ?
गीतायां चतुर्थ-भक्तस्य “ज्ञानी” इति पदेनैव निर्देशाद्
भक्तिः ज्ञानप्रभेद एव ।+++(5)+++
अद्वैतमते हि भक्तापेक्षया ज्ञानी श्रेष्ठः ।
आत्म-तत्त्व-ज्ञ एव ज्ञानी ।
एवं सति भक्तेष्व् एव ज्ञानीति क्लेशेनैव निर्वाह्यते ।
वैदिकेष्व् अपि भक्तिर् एव मोक्षसाधनम् इति रामानुजीया माध्वाश् च वदन्ति ।
ज्ञानम् एव मोक्षसाधनमिति शाङ्कराः,
एतन्-मते तु भक्तिः उपासनरूपा ।
उपासनं च मानसी क्रिया,
न तु ज्ञानम् ।
भक्तेर् मोक्ष-साधनत्व-पक्षे
भक्तिर् न क्रियारूपा,
किन्तु निरतिशय-प्रीति-विशेष-रूपा,
क्रिया तु भक्तेः फलम् ।
सा च प्रदक्षिण-प्रणामाद्य्–अन्-अन्त-रूपा ।
महनीय-विषयिणी प्रीतिर् एव भक्तिर् इत्य् उच्यते ।+++(4)+++
प्रीतिश् च ज्ञानस्यैवावस्था-विशेषः ।
भक्त-कवयः
… अयं च भक्तिमार्गः
अध्यात्ममार्गगर्भित एव ।
एते महात्मानः सर्वेऽपि
साकारं तत्त्वमङ्गीकृत्यापि
अध्यात्मक्षेत्रेऽपि अत्युन्नते स्थाने आसन् ।
किं बहुना “अहं ब्रह्मास्मि” (बृह.उ. १.४.१०),
इत्ययमेव अध्यात्मक्षेत्रस्य उन्नततमोऽनुभवः इत्यत्र न विवादः ।
[[9]]
“अहमेवेदं सर्वम्” (छा.उ. ७.२५.१), इत्युक्तप्रकारेण
आत्मवस्तु +अधिकृत्य
अष्टपादात्मकैर् दशभिः पद्यैर्
अतिविस्तरेण शठकोपसूरिणा अध्यात्मानुभवो वर्णितः ।
एतद्-अपेक्षया ऽस्य अध्यात्मनिष्ठत्वे किं प्रमाणम् अपेक्षितम्?
परन्तु भक्तिप्रपत्तिभ्याम् एवेदं साधनम्
इति तदीय-पद्येषु वर्ण्यते ।+++(5)+++
मोक्ष-साधन-वचनानि
“तम् एव विदित्वामृतत्वम् एति"
इति ज्ञानम् एव मोक्ष-साधनम्
इति सर्वसम्मतम् ।
[[40]]
भक्तेर् अपि वेदन-रूपत्वान् न विरोधः ।
मोक्षसाधनं कुत्रचित् “विदित्वा’” इत्यनेन,
क्वचित् " विज्ञाय प्रज्ञां कुर्वीत " इति प्रज्ञापदेनापि +उच्यते ।
" तस्मिन् दृष्टे परावरे” (मुण्ड.उ. २.२. ८), इत्य्-अत्र दर्शन-शब्देनापि मोक्ष-साधनम् उच्यते ।
" स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः" (छा.उ. ७.२६.२)
इति स्मृति-पदेन मोक्ष-साधनम् उच्यते ।
एतानि साधनानि भिन्नानि वा, अभिन्नानि वा?
इति प्रश्ने भिन्नानीति न वक्तुं शक्यम् ।
साधनानां भेदे सति -
फलभेदस्यावश्यकत्वात् ।
शास्त्रम् अपि सर्वेषाम् अविशिष्ट-फलम्
इत्य् एव वदति
“विकल्पोऽविशिष्ट-फलत्वात् (ब्र.सू. ३.३. ५७),
इति ।
एतद्विस्तरस्तु अन्यत्र प्रकरणे द्रष्टव्यः ।
शब्दे भगवद्-अनुग्रहः
आदौ ईशावास्योपनिषदि
" पूषन्नेकर्षे यम सूर्य प्राजापत्य
व्यूह रश्मीन्,
समूह तेजो
यत्ते रूपं कल्याणतमं
तत्ते पश्यामि
योऽसाव् असौ पुरुषः
सोऽहम् अस्मि "
( ईशा.उ. १६)
इत्यादि-मन्त्रे परमात्मानं प्रार्थयत्य् उपासकः
“व्यूह रश्मीन् समूहः तेजः " इति विरुद्ध-रश्मीन् अपसारय,
अनुकूलं सर्वं क्रोडीकुरु
इति सर्वं भक्तेर् एव रूपान्तरम् ।
अन्तिममन्त्रे तु
अग्ने नय सुपथाराये (ईशा.उ. १८)
इति परमात्मानं समीचीन-मार्गे नयनार्थं प्रार्थयति ।
अग्रे नयतीत्य् अग्निः इति व्युत्पत्त्या,
अग्निशब्दः परमात्म-परः ।
अत एवान्ते
“भूयिष्ठान्ते नम उक्तिं विधेम” (ईशा.उ. १८)
इति आत्मसमर्पणं विधीयते ।
नम इति पदम् आत्म-समर्पण-परम्
इति तद्-रहस्य-विदः प्रवदन्ति ।
इदं सर्वं भक्ति-पदार्थान्तर्गतम् ।
अतः परमात्मानुग्रहाद् एव मोक्ष
इति वैदिकः पक्षः ।
एवम् एव “नायमात्मा प्रवचनेन लभ्यः " (कठ.उ. ३.२३), इति प्रारभ्य,
स्व-बुद्धि-प्रज्ञादीनां मोक्ष-साधनत्वासम्भवम् उक्त्वा
“यम् एवैष वृणुते तेन लभ्यः " (कठ.उ. ३.२३)
इति परमात्मानुग्रहाद् एव तत्-प्राप्तिर् इत्य् उच्यत ।
एतत्पूर्ववाक्ये " नायमात्मा” इति प्रसक्तः परमात्मा,
यं वृणुते= यादृशम् उपासकं स्व-प्राप्त्य्-अर्थम् आशंसते,
तादृश-वरण-विषयस्यैव परमात्मा लभ्यः ।
यत्-तदोः नित्य-सम्बधात्, अयम् एव शब्द-लभ्योऽर्थः ।
अनेन ब्रह्म-प्राप्तिः केवलोपासक-प्रयत्न-मात्र-साध्या न,
किन्तु उपास्यस्य ब्रह्मण अनुग्रहादेवेत्युक्तं भवति ।
[[41]]
अत्र “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन” (गी. २.४७), इति न्यायः सूचितः ।
अस्य न्यायस्यार्थः – ते = तव साधकस्य,
कर्मणि = साधनानुष्ठाने एव, अधिकारः, न तु फले ।
फलं तु परमात्माधीनम् इत्य् अर्थः ।
एवं च “शास्त्र-फलं प्रयोक्तरि" इति न्यायः मोक्ष-व्यतिरिक्त-विषय एव प्रवर्तते ।
कुत इति चेत्- तत्राह
“मा कर्मफलहेतुर् भूः” (गी. २. ४७)
इति मया कृतस्य कर्मण इदं फलम्
इत्य् अभिमानः न कर्तव्यः
एवम् अभिमानस्याहङ्कार-रूपत्वान्
मोक्षं प्रति सः प्रतिबन्धको भवेत् ।
अत एव वैदिकसिद्धान्ते भगवानेव फलप्रदः ।
मोक्षव्यतिरिक्तविषयेषु
फलसम्बन्ध्य्-अहङ्कारः प्रतिबन्धको न भवेत् ।
मोक्ष-व्यतिरिक्त-विषयकोऽयं मोक्षे कथं प्रवर्तेत ।
एवं सति मया न किञ्चित् क्रियते चेद् अपि
मोक्षो भवेद् एव किल इति चिन्तयित्वा
मया न किमपि कर्तव्यमिति औदासिन्यं मास्तु ।+++(4)+++
व्याज-मात्रतया भवता किञ्चित् कर्तव्यमेव,
इत्यभिप्रायेणाह “मा ते सङ्गोऽस्त्वकर्मणि " (गी. २.४७), इति ।
अत्र रामानुजीय-गीता-भाष्यम्
‘सफलस्य कर्मणः बन्धरूपत्वात्
फल-रहितस्य केवलस्य मद्-आराधन-रूपस्य मोक्षहेतुत्वाच् च”
इति ।
योगे साहाय्यम्
योग-दर्शनं तु सेश्वर-साङ्ख्यम् इत्युच्यते ।
ईश्वरस्याऽपि योगमार्गसहायकत्वमेव ।
अत एव ‘ईश्वरप्रणिधानाद्वा" (यो.सू.१.२३) इति सूत्रं प्रवृत्तम् ।
वस्तुतस्तु तच्-छास्त्रं
बौद्धैः प्रतिपादितस्य विकल्पाख्य-ज्ञान-प्रभेदस्य
अप्रामाण्य-निराकरणार्थम् एव प्रवृत्तम् ।
अत एव “प्रामाण-विकल्प-विपर्यय-निद्रा-स्मृतयः " (यो.सू. १.६ )
इति वृत्तीनां विभागः कृतः ।
तथा च तन्मते विकल्पः न वा प्रमाणं न वा अप्रमाणम् ।
साङ्ख्यमते कैवल्य-प्राप्तिर् एव फलम् ।
योग-मते कैवल्यप्राप्ति-सहायकत्वेन ईश्वराङ्गीकारः ।
वेदान्त-शास्त्रे तु
जीवस्य ब्रह्म-प्राप्तिः फलं,
न तु कैवल्यादिकम् ।
भक्तेः साधनत्वम्
उपनिषदि +उच्यमानानि निदिध्यास-ज्ञानादि-पदानि
उपासनार्थे पर्यवस्यन्ति ।
उपासना भक्तिश् च पर्यायः।
अतः भक्तिः निदिध्यासन-रूपा ।
अत एव मुक्तेस् तस्याः साधनत्वम् उच्यते ।
“निदिध्यासितव्यः” इत्यादि-श्रुतौ
विशेष-रूपं ज्ञानम् एव विधीयते ।
अन्ततः श्वेताश्वतर-श्रुतौ
" यस्य देवे परा भक्तिः
यथा देवे तथा गुरौ"
( श्वे. उ. ६.२३),
इति श्रूयते ।
अत एव एते विधेय-ज्ञान-वादिनः ।
ध्यानं चासकृद्-आवृत्त-स्मृति-रूपम् ।+++(4)+++
आवृत्तेः पुरुष-प्रयत्न-साध्यत्वाज्
ज्ञान-विशेषं तद् विधीयते ।
भक्ति-सिद्धान्ते हि
अन्ते परमात्मानुग्रहाद् एव मोक्षः ।
भक्तिर् एव परमात्मानुग्रहे कारणम् ।
प्रपत्तौ पर्यवसानम्
किम् अधिकोक्त्या?
भक्तेरपि पर्यवसानं शरणागतावेव, यतः
" न ऋते श्रान्तस्य सख्यायः देवाः "
इति ऋग्वेदय् एव
“श्रान्तस्ये"ति पदेन
आकिञ्चन्यापर-पर्याय-प्रपत्तेः प्रधान-हेतुः निर्दिश्यते ।
शरणागतिर् एव प्रपत्ति-पदेनापि +उच्यते ।
श्रीरामानुजैर् एव वेदार्थसङ्ग्रहे उक्तेन
" तेषां संसार-मोचनं भगवत्-प्रपत्तिम् अन्तरेण नोपपद्यते "
इति शपथ एव कृतः ।
भक्त्य्-आचरणेन भगवद्-अनुग्रहः,
तेन स्वीयाशक्त्य्-आदि-ज्ञानात् परमात्मनः शरणं याति ।
एवं शरणागतस्य भक्तिर् वर्धते ।
एवम् एव भक्ति-प्रपत्त्योः परस्परं पोषणं ज्ञेयम् ।
एषैव वैदिकी पद्धतिः । +++(5)+++
एवम् एव गीतायाम् -
" एवं सतत-युक्ता ये
भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं
तेषां के योग-वित्तमाः "
( गी. १२.१)
इति श्लोके
पूर्वार्धेन शिक्षितः व्यक्त-मार्गो वैदिकानाम् ।
उत्तरार्धेन तु अ-वैदिक-बौद्धादीनाम अव्यक्तमार्गः उक्तः ।
मार्गद्वयस्याऽपि लक्ष्यम् एकम् एवेति च
“ते प्राप्नुवन्ति मामेव” (गी. १२.४), इत्यनेन स्पष्टीक्रियते ।
अत्रापि श्रीशङ्कराचार्याः ज्ञानमार्गस्य श्रेष्ठ्यं
भक्तिमार्गस्य मन्दाधिकारिकत्वं निरूपयन्ति ।
तच्च बौद्धानां सन्तृप्त्यर्थम् इति ज्ञेयम् ।+++(4)+++
ज्ञान-वरत्व-भ्रमः
आपाततः पश्यतां ज्ञानमार्ग-पद-दर्शने
अयमेव मार्गः उत्कृष्ट इति भ्रमः स्यात् ।
यतः " ज्ञानादेव मुक्तिः” इत्येव सर्वसम्मतः सिद्धान्तः ।
ज्ञान-पदं यथा स्पष्टं तम् अर्थं वदति,
एवं भक्तिपदं तादृशम् अर्थं स्पष्टं न वदत्य् एव ।
ज्ञानं त्व् अत्युत्तम एक एव मार्गोऽस्तीति बहूनां भ्रमः ।
अतः भक्त्यपेक्षया ज्ञानमेव सर्वोत्कृष्टम्
इति भावना सहजा ।
ज्ञाने, भक्तौ तारतम्यम्
… भक्तिपदस्य, उपासनापदस्य च पर्यायत्वाङ्गीकारात्,
गुरुम् उपास्ते, गुरुं भजते इत्यादिप्रयोगाणामपि सत्त्वाद्
भक्तिपदं बहु-तरतम-भावापन्न-साधन-वाचकम् ।
अत एव “भक्ताश् चतुर्विधा” इत्यादि शब्दा अपि आगताः ।
ज्ञानम् अपि बहु तरतमभावापन्नम् एव ।
परन्तु विशुद्धं सर्वोत्कृष्टं मुख्यं ज्ञानं तु फलरूपम् एव,
न तु साधनरूपम् ।
साधनं तु अन्तःकरण-वृत्ति-रूपम् एवेति तन्-मत-सम्मतम् ।
एतत् तु न मुख्यं ज्ञानम् ।
अतः पूर्वोक्तरीत्या भ्रमस्यावकाशो नास्ति ।
(" चतुर्विधा भजन्ते मां
जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी
ज्ञानी च भरतर्षभ " ॥) (गी. ७.१६)
केवलं भक्तस्, तत्त्वं न वेत्ति ।
केवलं ज्ञानी तु
आत्मानम् एव वेत्ति ।
ज्ञानी भक्तस्तु आत्मानम्, जगत्, ईश्वरं सर्वमपि ज्ञातुं प्रभवति ।
अतः ज्ञानी भक्तः श्रेष्ठः ।
एवं कथनस्योद्देश्यं
ज्ञान्य् एव श्रेष्ठः, न तु भक्तः
इति शङ्करानुयायिनः मन्यन्ते ।
साङ्कर्यम्
पद-श्रवणमात्रेण जातम् इदं साङ्कर्यम् ।
एवं सति भक्तेर् अपि
तन्-मते ऽन्तः-करण-वृत्ति-विशेष-रूपत्वाद्
उभयोर् अपि ( भक्ति-ज्ञानयोः) साम्यम् एव
न तु भक्त्य्-अपेक्षया उत्कृष्टं तज् ज्ञानम् ।
[[39]]
भक्ति-पारम्यम्
… किं बहुना
" तपस्विभ्यो ऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश् चाधिको योगी
तस्माद् योगी भवार्जुन" ॥
(गी. ६.४६ )
इत्यत्र तपस्विभ्यः, कर्मिभ्यः, ज्ञानिभ्यश्च ज्ञानी भक्तियोगी श्रेष्ठः इति वस्तु-स्थितिर् उच्यते ।
सर्व-साधकता
… वस्तुतः
भक्त्या त्वनन्यया शक्य
अहमेवं-विधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन
प्रवेष्टुं च परन्तप॥ (गी. ११ । ५४ )
इति ज्ञान-दर्शन-प्राप्तीनां सर्वेषाम् अपि
भक्त्या साध्यत्वं प्रदर्शितम् ।
१२-अध्याय-विस्तारः
… भगवद्-गीतायां द्वादशाध्याये अर्जुनस्य
" एवं सतत-युक्ता ये
भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं
तेषां के योग-वित्तमाः" ॥
(गी. १२.१),
इति प्रश्नोऽपि तादृशात्म-तत्त्व-साधन-विषयक एव,
तस्योत्तर-रूपेणेदं प्रवृत्तम्
“मय्य् आवेश्य मनो ये मां
नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्
ते मे युक्ततमा मताः ॥”
( गी. १२.२),
“तेषामहं समुद्धर्ता
मृत्युसंसारसागरात्”
(गी. १२.७),
इति भगवति अतिशयिता भक्तिर् एव उत्तमं साधनम्
इति तमप्-प्रत्ययेन अभिहितम् ।
तस्य तमप्-प्रत्ययेनाभिधाने
तद्-अपेक्षया अवरं साधनं किमिति विव्रियते
“ये तु” इत्यारभ्य “ते प्राप्नुवन्ति मामेव” इत्यन्तेन ।
भक्त्य्-अपेक्षया (व्यक्त-मार्गापेक्षया) अ-व्यक्त-मार्गस्य अवरत्वे कारणं वक्ति
‘क्लेशोऽधिकतरस् तेषाम्
अव्यक्तासक्त-चेतसाम् । अव्यक्ता हि गतिर् दुःखं
देहवद्भिर् अवाप्यते" ॥
(गी. १२.५)
इति भक्तेर् अव्यक्तमार्गापेक्षया उत्कृष्टत्वे कारणं विवृणोति।
“ये तु सर्वाणि कर्माणि
मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन
मां ध्यायन्त उपासते ॥
तेषामहं समुद्धर्ता
मृत्यु-संसार-सागरात् ।
भवामि न चिरात् पार्थ,
मय्य् आवेशित-चेतसाम् "
(गी. १२.१६-१७)
इति भक्तेः श्रेष्ठ्यं स्पष्टं प्रतिपादितम् ।
“ये त्व् अक्षरम् अनिर्देश्यम्
अव्यक्तं पर्युपासते”
इत्य् उपक्रम्य
अव्यक्तोपासकानां जघन्यत्वं वर्ण्यते
इति विन्यास-विशेषेणैव स्पष्टं ज्ञायते ।
श्रीकृष्णस् तु
अव्यक्त-तत्त्वस्य अव्यक्तेतिनाम्नैव दुर्-अवगमत्वं विस्तरेण उपपादयति -
" सर्वत्र-गम् अचिन्त्यं च
कूट-स्थम् अचलं ध्रुवम् "
(गी. १२।३)
इत्य्-आदिना ।
यद्य् अपि अव्यक्तोपासकानाम् अपि फलं समानम् एव इति
“ ते प्राप्नुवन्ति मामेव" (गी. १२।४)
इत्य्-अनेनोच्यते,
परन्तु व्यक्तोपासकापेक्षया
अव्यक्तोपासकानाम् ईश्वर-तत्त्वानङ्गीकारात्
साधना-काले “क्लेशोऽधिकतरस्तेषाम् …" इति क्लेशाधिक्यं स्पष्टं वर्ण्यते ।
तथा च कारणम् अपि “अव्यक्तासक्त-चेतसाम् …" इत्यनेन विवृतम् ।
[[27]]
पुनर् अपि “क्लेशोऽधिकतरस् तेषाम् …” इत्यस्यैव व्याख्यानम्
अव्यक्ता हि गतिर् दुःखं
देहवद्भिर् अवाप्यते
(गी. १२।५ )
इत्य्-अनेनोत्तरार्धेन कृत्वोभयोः वैषम्यं सम्यक् प्रदर्शितम् ।
एवम् आहत्य
भगवान् श्रीकृष्णः स्वयम् एव
व्यक्ताव्यक्तोपासकेषु व्यक्तोपासकानां श्रेष्ठ्यं
पुनर् विस्तरेण वर्णयति
ये तु सर्वाणि कर्माणि
मयि संन्यस्य मत्-पराः।
अनन्येनैव योगेन मां
ध्यायन्त उपासते॥12.6॥
(गी. १२।६ )
तेषामहं समुद्धर्ता
मृत्युसंसारसागरात्।
भवामि न चिरात् पार्थ
मय्यावेशितचेतसाम्”
(गी. १२।७ )
… इति भक्तानां भारः सर्वोऽपि भगवतैव स्वीक्रियत
इति सुस्पष्टं कथनाद्
भक्तेर् वैशिष्ट्यं प्रतिपादितम् ।
… एतेन व्यक्तोपासकानां भारं
भगवान् स्वकीयत्वेन स्वीकरोति,
न तु अव्यक्तोपासकानाम् इति तत्त्वम् अपि ज्ञाप्यते ।
अतस् तेषाम् अहङ्कार-वासनायाः अनुवृत्तिः
दुस्-त्यजेत्य् अपि सिध्यति ।
… भक्तिपदार्थोऽपि तन्मते अन्तः-करण-वृत्ति-विशेष-रूप एव ।
एवञ्च वृथा कलहेन
न कोऽपि लाभः ।
प्रत्युत भक्तेः श्रममन्तरा निरतिशयपरुषार्थसाधनत्वम्,
भवत्-सम्मतस्य ज्ञानस्य तु
“क्लेशोऽधिकतरस् तेषाम्
अव्यक्तासक्तचेतसाम्”
इति क्लेशाधिक्यं च कण्ठत एवोक्तम् ।
लौकिकम् उदाहरणम्
एतद्-उक्तार्थो लोक-व्यवहारेणापि ज्ञातुं शक्यते
लोके मार्ग-गमन-वेलायां
पिता पुत्रस्य हस्तं गृहीत्वा
गच्छतीत्येकः प्रकारः ।
अन्यः प्रकारस् तु
पुत्रः पितृ-हस्तं गृहीत्वा गच्छतीति ।
अनयोर् मध्ये प्रथमः प्रकारः
पुत्रस्य स्खलने सत्य् अपि
पुत्रहस्तस्य पित्रा ग्रहणात्
पुत्रः न पतेत्,
पिता तं रक्षेत् ।
द्वितीयस्तु पुत्रेण पित्रृहस्तस्य गृहीतत्वात्
स्खलने पुत्रस्य स्खलनम् अनिवार्यम् ।
वेदेष्टोपायः
ब्रह्म-प्राप्ति-पदार्थ-विचारे तु अभिप्रायभेदाः सन्ति ।
इदानीं तस्य अप्रकृतत्वात्, समये द्रक्ष्यामः ।
प्रकृत-ग्रन्थस्य परमोद्देशस् तु
ज्ञान-विशेष-रूपापन्न-भक्तेर् एव वैदिक-सम्मतायाः
ब्रह्मप्राप्तौ परम-साधनत्व-स्थापनमेव ।
बौद्ध-सम्मत-ज्ञानस्य वा
निर्विशेष-वादि-सम्मतस्य नेति नेति मार्गस्य वा क्लेशसाध्यत्वान्
न तद् वेद-सम्मतम् ।
वेदस्तु अन्ते भगवद्-अनुग्रहम् एव मोक्षसाधनं वक्ति -
‘नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनुं स्वाम्" (कठ. २.२३)
इति ।
निर्विशेषवादिभिस् तु
एवं व्याख्यातम्
“यमेव परमात्मानमेष विद्वान् वृणुते प्राप्तुमिच्छति
तेन वरणेन परमात्मा लभ्यः,
नान्येन साधनान्तरेण नित्यलब्धत्वात् तस्य"
इति ।
अत्र यत्-तदोः सम्बन्ध एव नास्ति,
उपासकेच्छानुरोधेनैव फल-प्राप्तिः वर्ण्यते ।+++(5)+++
[[42]]
सविशेषवादिनां तु
उपासनम् अपि परमात्म-वरण ( परमात्मानुग्रह) एव हेतुः ।
परमात्मवरणेन च मुक्तिः
न तु उपासनं साक्षान् मुक्तेः साधनम्
इति वैदिकसम्मतः अनुग्रह-सिद्धान्त एवात्र विवक्षितः,
न तु अविधेयज्ञानेन मोक्षवादः ।
“तेषाम् अहं समुद्धर्ता”
इति गीतायाम् अपि तथैवोक्तम् ।
यदि अस्मदुद्धारः अस्मद्धस्त एव वर्तते इति भावना,
तदा अहङ्कारस्य दुस्त्यजत्वात्
कथं तस्योद्धारो भवेत् ।
अत एव वैदिक-मार्गय् एव मोक्षः सुलभः,
इतरेषां तु क्लेशो ऽधिकतर एव ।
अवाप्त-समस्त-कामस्य लीला
परमात्मा किम्-अर्थम् उपासकं वृणुते?
अवाप्त-समस्त-कामस्यानेन को लाभ?
इति न शङ्कनीयम् ।
“प्रियो हि ज्ञानिनोऽत्यर्थम्
अहं, स च मम प्रियः " (गी. ७.१७),
इत्युक्तरीत्या जीवपरमात्मनोः परस्परं प्रीतिविषयत्वेन स्वपुत्रलाभेन
पितुः सन्तोष इव
भगवतोऽपि जीवलाभेन सन्तोषः फलं भवत्येव ।
ज्ञानमार्गिण इदं क्लेशेन निर्वहन्ति ।
एवं तर्हि “स एकाकी नारमत” (महोप. १.१ ) इति कथं युज्यते ।
अवाप्त-समस्तकामस्य अ-रतिर् वा कथम् ।
इदं +++(वचनम् एव)+++ सर्वं “बालः क्रीडनकैर् इव”
इति ते मन्यन्ते ।
[[44]]
बादरायणस्तु “लोकवत् तु लीला कैवल्यम्” (ब्र.सू. २.१. ३३) इत्येव मनुते ।
अत एव -
‘भोगार्थं सृष्टिर् इत्य् अन्ये
क्रिडार्थम् इति चापरे । देवस्यैष स्वभावोऽयम्
आत्म-कामस्य का स्पृहा " ॥ ( गौड. का. १.९)
इति वचनम् अपि
+++(श्रीवैष्णवादिभिर् व्याख्यातम् अपि गौडपादेन रचितम् इति मन्यमानानाम्)+++
अवैदिकानां तद्-अनुयायिनां न युज्यते ।
देवस्यैषेति देव-पदं प्रयुञ्जानाः
आत्मानम् एव विस्मरन्ति ।
दिवु-क्रीडा-विजिगीषेत्य्-आदि धातोः प्रथमार्थः क्रीडैव ।+++(5)+++
अतः वैदिक-मार्गस्य बौद्धमार्गस्य च
अजगजान्तरं वैलक्षण्यम् अवगन्तव्यम् ।
मुण्डके
एवम् एव
‘यस्मिन् द्यौः पृथिवी चान्तरिक्षम् ओतं
मनः सह प्राणैश्च सर्वैः ।
तम् एवैकं जानथात्मानम्
अन्या वाचो विमुञ्चथ -
अमृतस्यैष सेतुः " (मुण्ड. २.५)
इत्य्-अत्रापि वैदिक-बौद्ध-प्रक्रिययोर् वैलक्षण्यं द्रष्टव्यम् ।
तत्र हि
“तम् एवैकम् आत्मानं जानथ,
एष अमृतस्य सेतुः”
इति कथनाद् एष इति शब्दः परमात्मवाच्येव ।
अतः परमात्मन एव संसार-पार-प्रापकत्वं वैदिकमार्गे स्पष्टं विधीयते ।
अत्र
“एष”-इत्य्-अनेन पुंल्लिङ्गान्तेन
“जानथ” इति ज्ञा-धात्व्-अर्थ-भूतं ज्ञानम् एव गृह्यते
इति ज्ञान-मार्गिणां व्याख्यानम् ।
किन्तु कथं पुंल्लिङ्गान्तेन “एष” इति पदेन
धातुच्छन्नं ज्ञानं +++(क्लीबं)+++ ग्रहीतुं शक्यम् ? +++(5)+++
देवतानुग्रहमयी संस्कृतिः
किं बहुना वैदिकी संस्कृतिः देवतानुग्रहमयी ।
तच्च —
“देवान् भावयतानेन
ते देवाः भावयन्तु वः ।
परस्परं भावयन्तः
श्रेयः परमवाप्स्यथ" ॥
( गी. ३.११ )
इत्य्-अत्र स्पष्टम् उच्यते ।
[[43]]
अव्यक्तोपासना-फलम्
… न तावन्-मात्रम्,
किन्तु “ते प्राप्नुवन्ति माम् एव” इति अव्यक्तोपासका अपि
अन्ते तमेव भगवन्तं प्राप्नुवन्तीति
अव्यक्तोपासक-व्यक्तोपासकयोः फलभेदो नास्तीति स्पष्टमुक्तम् ।
एवं तथा चानयोः मार्गभेदमात्रम्, न तु फलभेदः ।
एवम् अ-शेष-बन्ध-निवृत्ति-रूपामृतत्व-प्राप्तेर्
उपाय-द्वयं प्रतिपादितम् ।
व्यक्तमार्गः, भक्तिमार्गः, साकार-मार्गः इत्यादिपदैः प्रथमः व्यपदिश्यते ।
द्वितीयस्तु ज्ञानमार्गः, अव्यक्तमार्गः, निराकारमार्गः इत्य्-आदि-शब्दैः व्यपदिश्यते ।
अधिदैवम्, अध्यात्मम्
… “भक्तिमार्गानुसारिणां भक्तानां कृते
भगवान् एव सर्वं विधास्यती"ति न कापि चिन्ता।
साधकस्य अध्यात्मम् अधिदैवं
द्वयम् अपि एकम् एव +इदानीन्तन-साधनदृष्ट्या ।
अधिदैवं यद्य् अपि बह्व्-अर्थ-गर्भम् -
यतः +देवताः सर्वफलप्रदा।
आर्तः जिज्ञासुः अर्थार्थी - एते त्रयोऽपि देवतावादिनः ।
एतेषु त्रिषु अध्यात्मप्रसक्तिर् एव नास्ति ।
तत्-तत्-फलार्थम् एव
देवतानां भजनं क्रियते ।
चतुर्थो ज्ञानी तु भक्तेषु +अन्तर्गतत्वाद्
भक्तोऽपि भवति,
ज्ञानीति निर्देशाज् ज्ञानी अपि भवति ।
अयमेव अध्यात्मनिष्ठः इति वक्तुं शक्यः ।
अत एवोपरि
“ज्ञानी त्वात्मैव मे मतम्”
इति स प्रशस्यते।
अतः स्थूलदृष्ट्या
तस्याधिदैविकत्वेऽपि
तत्त्वदृष्ट्या तस्याध्यात्मिकतापि +अनिवार्या ।
योगः
… अतो मनः सम्यक् संरक्षणीयम् ।
“कथं संरक्षणीयम्?” इति जिज्ञासायां
गीता-षष्ठाध्याय-स्थः श्री-कृष्णार्जुन-संवादश् चिन्तनीयः
इत्य् एवोत्तरं भवति ।
[[44]]
तत्र योग–स्व-रूप-निरूपणान्ते
“आत्मौपम्येन सर्वत्र
समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं
स योगी परमो मतः " ॥ +++(5)+++
इति योगस्य परम-काष्ठां बोधयन् भगवान् श्रीकृष्णः
मन-इन्द्रियादि-निरोध-मूलक–सर्व-सम-दर्शित्व-रूपं योगम् उपदिष्टवान् ।
तच् छ्रुत्वा मनो-निग्रहश् चातीव-कठिनः,
भगवदनुग्रहं विना न सम्भवति ।
भगवद्-अनुग्रहश् च स्व-दोष-ज्ञानपूर्वकं भगवच्-छरणागत्या भवति ।
किन्तु सर्वोऽपि जनः
आत्मानं निर्दुष्टम् एव मनुते ।
चेतनेन स्वस्मिन् दोष-बुद्धाव् अज्ञातायां
दैवेनापि स्वतस् तस्य दोषस्य निराकरणं कर्तुं न शक्यते ।+++(5)+++
तथा च
कथं चेतनस्य तत्त्वबोधो भवेद्
इति सर्व-जन-हितार्थं
महत्-समस्यामय-रहस्यम् उद्घाटयितुं विवेकी +अर्जुनः पृच्छति
" चञ्चलं हि मनः कृष्ण”
इति ।
श्रीकृष्ण इदं रहस्यं जानन्
अतीवानायासेनोत्तरं वक्तुं न प्रयतते -
किन्तु तद्-उक्तापेक्षयापि मनसः स्वरूपं त्व् अतीव गहनम्,
अतः तदीयसंशयः +नाल्प इति
[[85]]
असंशयं महाबाहो
मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय
वैराग्येण च गृह्यते ॥
असंयतात्मना योगो
दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता
शक्योऽवाप्तुम् उपायतः ॥
इति श्लोक-द्वयेन
स-कारणं मनसः दुर्जयत्व–स्व-रूपं निरूपयन्
मनो-जयस्यातिदुष्करत्वं पोषयितुं
“शक्योऽवाप्तुम् उपायतः” इति वदति ।
लोके ऽपि जनाः
मत्त-गजादिकम्
उपायेन इक्षु-दण्डादि-प्रदर्शनादिना वशे कुर्वन्ति
एवम् उपायेन मनोऽपि वशीकर्तुं शक्यत एव ।
अत एव
“उपायेन तु यच्छक्यं
न तच्छक्यं पराक्रमैः "
इति +उपायस्य महत्त्वम् उच्यते ।
मनसो जयः दुष्करः,
किञ्चिद् अनवधानेऽपि
जयः प्राप्तुं न शक्यते ।
कदाचित् पूर्व-वासना-वशाज्
जागरूकोऽपि नरः च्यवते ।
तावता +एतावता कृतं साधनं सर्वं व्यर्थम् अभूद्
इति न मन्तव्यम् ।
न वा “अहं तद् योगस्यानर्ह” इति निराशया स्वलक्ष्यान् निवर्तितव्यम् ।
किन्तु
‘तानि सर्वाणि संयम्य
युक्तम् आसीत मत्-परः ।
वशे हि यस्येन्द्रियाणि
तस्य प्रज्ञा प्रतिष्ठिता " ॥ (गी. २।६१ )
इति
“सर्वदोषस्य परिजिहीर्षया
विषयानुराग-युक्ततया दुर्जयम्”
इति इन्द्रियाणि संयम्य
चेतसः शुभाश्रय-भूते “मयि” मनः +अवस्थाप्य
समाहित आसीत ।
मनसि मद्-विषये सति
निर्दग्धाशेष-कल्मषतया
निर्मलीकृतं विषयानुराग-रहितं मन-इन्द्रियाणि स्ववशे करोति
ततो वश्येन्द्रियं च मन
आत्म-दर्शनाय प्रभवति ।
उक्तञ्च-
‘यथाग्निर् उद्धत-शिखः
कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्
योगिनां सर्वकिल्विषम् ’ ॥
(वि. ६ ७ ७४ )
इति
गीता-तद्-भाष्यानुसारं परमात्मनि विश्वासं कृत्वा
तत्साहाय्येन सर्वं साधयितुं शक्नोति पुरुषः ।
न च्युतिः
‘नेहाभिक्रमनाशोऽस्ति
प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य
त्रायते महतो भयात् " ॥ (गी. २।४० )
[[86]]
‘अपि चेत् सुदुराचारो
भजते माम् अनन्यभाक् ।
साधुरेव स मन्तव्यः
सम्यक्-व्यवसितो हि सः ॥
क्षिप्रं भवति धर्मात्मा
शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि
न मे भक्तः प्रणश्यति " ॥+++(5)+++
(गी. ९।३०-३१)
इति भगवद्-ववचनैर् अनन्यभक्तेर् महिमानं ज्ञात्वा
भगवन्तं सदा स्मृत्वा
स्वात्मोन्नतये प्रयासः कर्तव्य
इति स्पष्टं ज्ञायते ।
प्रबल-कर्म-वशाद्
यदि आरब्ध-योगः पुरुषः
योगात् प्रच्युतो भवति चेद् अपि
यज्-जातीय-भोगाभिकाङ्क्षया योगात् प्रच्युतः
तादृशान् अतिशय-पुण्यवद्भिः प्राप्यान् कल्याणमयान् दुर्-लभान् भोगान् अपि
योगमाहात्म्याद् एव पुण्य-लोकेषु भुक्त्वा
भोग-वासना-नाशानन्तरं योगोपक्रमे सति
भ्रष्टश् चेद्
योग-माहात्म्याद् एव पुनः योगोपक्रम-योग्यानां महतां कुले जायते ।
परिपक्व-योगः भ्रष्टश् चेत्
स्वयं योगं कुर्वतां योगोपदेशकानां च कुले उत्पद्य
सुप्त-प्रबुद्ध-पुरुषवद् भगवद्-अनुग्रहेण
पूर्व-योगाभ्यास-वासनाया उज्जागरणेन
अध्यात्म-योग-विषयक-साध्य-साधन-सामग्रीं सर्वाम् उपलभते ।
ज्ञानाधिकारः
एतादृशाधिकारी एव शब्द-प्रपञ्चातीतः
साक्षात् तत्त्वम् एव लभत
इति
जिज्ञासुर् अपि योगस्य
शब्द-ब्रह्मातिवर्तते
इति प्रशस्यते भगवता ।+++(5)+++
तत्रापि पूर्वं जीव-स्वरूपं साक्षात् कृत्य
ततः पर-भक्तिम् उपलभ्य
क्रमशः +अन्ते फल-भूत-परमात्म–स्व-रूपम् अवाप्नोत्य् एवेति —
पार्थनैवेह नामुत्र
विनाशस् तस्य विद्यते । नहि कल्याण-कृत् कश्चिद्
दुर्गतिं तात गच्छति ॥
इत्य्-आरभ्य
प्रयत्नाद् यतमानस् तु
योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धः
ततो याति परां गतिम् " ॥ ( गी. ६।४० - ४५ )
इत्य्-अन्तैः
“समः सर्वेषु भूतेषु
मद्-भक्तिं लभते पराम् "
(गी. १८५४ )
इत्य्-आदिभिश् च भगवद्-वचनैर् ज्ञायते ।
तादृशोत्तमाधिकारिणः
शब्द-प्रपञ्चाद् उत्थिताः
भगवद्-अनुग्रहेण साक्षात् तत्त्वम् एव लब्धुं शक्नुवन्ति ।
अर्थे साक्षाद् लब्धे
शब्देन किं प्रयोजनम् ?
जीवस्य हित-साधनयोर् ज्ञान-भक्त्योर् मध्ये
भक्ति-रूपं साधनम् एव सहजं सुकरं च,
न ज्ञानम् ।
प्रकृति-पञ्जरे बद्धस्य जीवस्य
अ-व्यक्त-मार्गावलम्बिनाम् अपि मुक्तिः सम्भवतीति
“ते प्राप्नुवन्ति मामेव” इति
परमात्मना स्वस्यानुग्रह एव तद्-उपर्य् अपि प्रदर्शिता ।
अनुग्रहः
… इन्द्रिय-निग्रहादि-द्वारा शोधन-पूर्वकं
क्रमेणान्ते जगन्-मूल-भूतात्म-स्वरूपावाप्तिर्
भगवदनुग्रहेणैव सम्भवति
न तु केवलं स्वप्रययत्नेन ।
भक्तिम् अन्तरा
स्व-प्रज्ञया स्वयम् एव साधनं कुर्याच् चेत्
तस्य भारः स्वोपर्येव समापतेत् ।
[[87]]
देह-मनो-बुद्धीन्द्रियादिषु
मध्ये वर्तमानेन जीवेन
स्वयम् एव स्वस्याहङ्कारः +नाशयितुं न शक्येत
किन्तु उत्तरोत्तरं वर्धेत ।
अत एव अव्यक्तोपासना दुस्-साधेति
‘क्लेशोऽधिकतरस् तेषाम्
अव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर् दुःखं
देहवद्भिर् अवाप्यते” ॥
इति स्पष्टम् अव्यक्तोपासकानाम्
अव्यक्तोपासनायां सयुक्तिकं क्लेशः महान् प्रदर्शितः भगवता ।
तद्-विपरीततया
“ये तु सर्वाणि कर्माणि
मयि सन्न्यस्य मत्परा ।
अनन्येनैव योगेन
मां ध्यायन्त उपासते ।
तेषामहं समुद्धर्ता
मृत्यु-संसार-सागरात् ।
भवामि न चिरात् पार्थ
मय्य् आवेशितचेतसाम् " ॥
इति व्यक्तोपासकानां भक्तौ सुकरत्वं सहजत्वं शीघ्रफलप्रप्तिः इत्यादयः बहवः गुणाश्च उक्ताः ।
अव्यक्तोपासनाऽपेक्षया
सगुणोपासनायां विद्यमानं सौकर्यं
श्रीरामकृष्णपरमहंस-वचनेनापि ज्ञातुं शक्यते इत्थम्
" पिता पुत्रस्य हस्तं गृहीत्वा मार्गं नयति चेत्
पुत्रस्य पतनं न भवेत् पित्रा गृहीतत्वात् ।
पुत्रो यदि पितुः हस्तं गृहीत्वा गच्छति
तदा लेशतः स्खलनेऽपि पुत्रः पतेद् " ।
इति।
अतः प्रकृति-जयाय
कदाचन परमात्मनि भारः समर्पणीय एव ।
अत एव
तेषां संसारमोचनं भगवत्-प्रपत्तिम् अन्तरेण नोपपद्यते
इति श्रीभाष्यकारस्य सूक्तिर् अपि सङ्गच्छते ।
यतो हि सर्वेऽपि जीवाः परमात्मन एवांशभूताः ।
पूर्वोक्ता परमात्मनि अतिशयभक्तिर् एव वर्धमाना
पराकाष्ठायां प्रपत्तिरूपा भवति ।
सा च
सर्वांशेन परमात्म-समर्पण-रूपेति
जीवात्मतत्त्वं परमात्मनः पृथक् स्थातुं न शक्नोतीति
अन्ते परमात्मानुग्रहेण प्रकति-सम्बन्धाद् विमुच्यते ।
शाङ्कर-मतं गीताभाष्ये
शाङ्कर-मते तु
“तत् त्वम् असि” इत्य्-आदि-वाक्य-जन्यम् अपरोक्षं ज्ञानं मोक्ष-साधनम् ।
तच् च ज्ञान-सामान्य-रूपम्
इति न विधेयम् ।
अत एव ते अ-विधेय-ज्ञान-वादिनः ।
एतन्-मत-दृष्ट्या तु
उपनिषत्स्व् अपि ज्ञानम् एव मोक्ष-साधनतया विधीयते,
न तु भक्तिः ।
उपासनारूपेश्वरानुग्रहस्य मोक्ष-साधनत्वं
बौद्धादिभिर् निरीश्वर-वादिभिर् नाङ्गीकर्तुं शक्यम् ।
अत एव ते ज्ञानम् एव मोक्ष-साधनत्वम् इति वदन्ति ।
निर्विशेषाद्वैत-मते ऽपि - ईश्वरः मिथ्या ।
अतोऽनुग्रहः न मोक्ष-साधनम् ।
“आत्मैकत्व-ज्ञानम् एव ज्ञानम्,
इतरत् सर्वम् अ-ज्ञानम् एवे"ति,
जगतो जीवस्य च ज्ञानम् अ-ज्ञानम् एव,
तयोर् मिथ्यात्वाद्
इत्य् अपि मिथ्यात्व-वादिनः शाङराः।
(गीता-भाष्य-दृष्ट्या इदं सर्वम् उक्तम् ।
गीताभाष्यस्य शङ्कर-कर्तृत्वाभावस्य तदीयैर् एव कैश्चिन् निश्चितत्वान्,
न तद् विचारार्हम् इति,
उपनिषद्-दृष्ट्या किं मोक्षसाधनम् इति उत्तरत्र विचार्यते। +++(5)+++ )
शाङ्करानार्जवम्
… एवम् एव गीताभाष्ये पीठिकायां
“सदा षाड्-गुण्य-परिपूर्णो भगवान् वासुदेवः” इत्यादि प्रदर्शनाद्
गीताभाष्यम् अपि नादिशङ्करकृतम्,
किन्तु ब्रह्म-सूत्र-भाष्यम् उपनिषद्भाष्यञ् च शङ्कराचार्यकृतम्
इति साहसेन प्रतिपादयन्ति ।
वस्तुतः सर्वत्र समानरूपेणैव ग्रन्थेषु निर्विशेष-वादं स्थापयाम् आसुः
श्रीशङ्कराचार्याः ।
तस्य निदर्शनतया गीता-द्वादशाध्यायोपक्रम-शाङ्कर-भाष्यं द्रष्टव्यम् ।
तत्रादौ निर्विशेषं सविशेषं च तत्त्व-द्वयम् अपि प्रदर्श्य
मूलग्रन्थे सविशेष-तत्त्वस्यैव श्रैष्ठ्य-प्रतिपादनेऽपि
बलान् निर्विशेष-तत्त्वस्यैवोत्तमत्वं प्रतिपादयन्ति ।
(तद् एतद् बौद्धानां सन्तृप्त्य्-अर्थम् इति
अस्मिन् ग्रन्थे +एव अन्यत्र विचारितम् ।)
… भगवद्गीतायां द्वादशाध्याये –
“ एवं सततयुक्ता ये
भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरम् अव्यक्तं
तेषां के योगवित्तमाः " ॥ (गी. १२ ।१ )
इति अर्जुनः श्रीकृष्णं प्रति पृच्छति ।
अत्र प्रश्ने पूर्वार्धे भक्ता इति पद-विन्यासेन
शुद्धो भक्तिमार्गः प्रस्तुतः ।
परमात्मनः स-विशेषत्वं, स-गुणत्वं, साकारत्वम् अङ्गीकृत्य
प्रश्नोपक्रमः - एवम्-इत्यादिना एकादशाध्यायोक्त-विश्व-रूप-दर्शन-स्मरणेन
एवम् इत्युक्त्वा पृच्छ्यते ।
अस्यैव मार्गस्य व्यक्त-मार्गः इति सञ्ज्ञा ।
भगवतः स-विशेषत्वाङ्गीकारेण प्रयुक्तोऽयं मार्गः ।
अत्रैव प्रश्नोत्तरार्धे “ये चाप्यक्षरम् अव्यक्तम्” इति निर्देशाद्
अन्यो ऽव्यक्त-मार्गः ज्ञानमार्गः इति सूचितम् ।
ये चापि इत्यत्र च-शब्दापि-शब्दाभ्यां
पक्ष-द्वय-क्रोडी-करणेन
तेषाम् इति निर्दिश्य
अनयोर्मध्ये “कः उत्तम-योगी“ति प्रश्नस्याशयः स्पष्टं ज्ञायते ।
श्रीशङ्कराचार्यैस् तु गीताभाष्ये
ये चान्येऽपि त्यक्त-सर्वैषणाः सन्न्यस्त-सर्व-कर्माणो
यथा ऽविशेषितं ब्रह्म
अक्षरं निरस्त-सर्वोपाधित्वात्
अव्यक्तम् अकरणगोचरम् -
यद् +हि करण-गोचरं
तत् व्यक्तम् उच्यते;
अञ्जेर् धातोः तत्-कर्मकत्वात्
इदं तु अक्षरं तद्-विपरीतम्;
शिष्टैश्च +उच्यमानैर् विशेषणैः विशिष्टम्;
तत् ये चापि पर्युपासते;
(गी.शा.भा. १२.१ )
इति “व्यक्ताव्यक्तोपासकेषु कः श्रेष्ठः” इति प्रश्ने सत्य् अपि
उत्तरार्धोपदिष्टाव्यक्तोपासकान् परित्यज्य
केवलं व्यक्तोपासकेषु कः श्रेष्ठः इति प्रश्नस्याशयं मत्वा
ब्रह्म-रुद्रादित्योपासकेषु विष्णु-भक्ताः श्रेष्ठा इत्य् अभिप्रायेण
+उत्तरयन्ति श्रीशङ्कराचार्याः
[[26]]
ये तु अक्षरोपासकाः सम्यग्-दर्शिनः निवृत्तैषणाः;
ते तावत् तिष्ठन्तु, तान् प्रति यत् वक्तव्यम्; तद् उपरिष्टात् वक्ष्यामः।
ये तु इतरे –,
इत्युक्त्वा -
मय्य् आवेश्य मनो ये मां
नित्य-युक्ता उपासते।
श्रद्धया परयोपेतास्
ते मे युक्त-तमा मताः॥12.2॥
(गी. १२।२ )
इत्य् एतं श्लोकं व्याख्याति -
मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः;
ये भक्ताः सन्तः;
मां सर्वयोगेश्वराणाम् अधीश्वरं
सर्वज्ञं विमुक्तरागादि-क्लेश-तिमिर-दृष्टिम्;
नित्ययुक्ताः अतीतानन्तराध्यायान्तोक्त-श्लोकार्थ-न्यायेन सतत-युक्ताः सन्तः
उपासते श्रद्धया परया प्रकृष्टया उपेताः;
ते मे मम मताः अभिप्रेताः युक्ततमाः इति। नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्ति।
अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम् (शक्यते)॥
… ‘योगिनामपि सर्वेषाम्” (गी.६.४७) इत्यत्र
“रुद्रादित्यादि-ध्यान-पराणां मध्ये” इति शाङ्कर-भाष्यम्
+++(न त्व् अत्राव्यक्तोपासक-समुच्चयः)+++।
(एवम् एव) षष्ठाध्यायान्ते
योगिनाम् अपि सर्वेषां
मद्-गतेनान्तरात्मना।
श्रद्धावान् भजते यो मां
स मे युक्ततमो मतः॥6.47॥
(गी. ६।४७)
इत्य्-अत्रापि
सकल-विध-योगिनाम् अ-विशेषेण सर्वेषाम् अपि ग्रहणेऽपि
वसु-रुद्राद्य्-अपेक्षया, विष्णूपासकः श्रेष्ठः
इत्य्-एव विवृण्वन्ति श्रीशङ्कराचार्याः ।
एवं भक्तेषु विष्णु-भक्तः,
न तु साधकेषु सर्वेषु इति विवृण्वन्ति ते ।
एवं प्रकृतेऽपि द्वादशाध्याये
मय्य् आवेश्य मनो ये मां
नित्य-युक्ता उपासते।
श्रद्धया परयोपेतास्
ते मे युक्त-तमा मताः॥12.2॥
(गी. १२।२ )
इत्य्-अस्मिन् श्लोके
स्पष्टं व्यक्ताव्यक्तोपासकेषु व्यक्तोपासकस्य श्रैष्ठ्यम् उक्तं चेद् अपि
तथा न व्याख्यायते श्रीशङ्कराचार्यैः ।
तत्तु प्रकृत-वाक्य-विन्यासानुगुणं न भवति ।
नास्तिक-तर्पणम्
एवं रीत्या व्यक्ताव्यक्त-मार्गयोर् विशेषस्य स्पष्टत्वेऽपि
विपरीतमेव वर्णयन्ति श्रीशङ्कराचार्याः ।
इदं सर्वं भक्तिमार्गस्य जघन्यत्वं
ज्ञानमार्गस्योत्तमत्वं मन्यमानानाम्
आत्मानं च ज्ञानमार्गिणं भावयतां
जैन-बौद्धानां सन्तोषार्थम् एवेति अवश्यं वक्तव्यम् ।+++(5)+++
इयं +++(कु-)+++भावना अनन्तर-कालिकानामद्वैतिनां सर्वेषां रूढा वर्तत
इति कल्प-तरु-कारेणामलानन्द-सरस्वती-महाभागेन
स्पष्टं स-विशेष-ब्रह्म-निष्ठानां मन्दाधिकारिकत्व-वर्णनेन ज्ञायते-
“निर्विशेषं परं ब्रह्म
साक्षात् कर्तुम् अनीश्वराः ।
ये मन्दास् तेऽनुकम्प्यन्ते
स-विशेष-निरूपणैः ॥
वशीकृते मनस्य् एषां
सगुणब्रह्म-शीलनात् ।
तद् एवाविर्भवेत् साक्षाद्
अपेतोपाधिकल्पनम्” ॥
(ब्रह्ममी० १।१।१९)
इति।
यद्यपि निर्विशेष-तत्त्वसाक्षात्कारो नाद्वैत-वाद-सम्मतः ।
तथाऽपि “साक्षात्कर्तुम् अनीश्वराः” इत्यपि कथम् इति चिन्तनीयम् ।
[[28]]
एवम् एव
प्रकृते द्वादशाध्याये गीतायां
भक्ति-मार्ग-निष्ठानां भगवद्-उपासकानाम् अव्यक्तोपासकानाम् (आत्मोपासकानाम्) च तुलनं कृत्वा
भक्तानां श्रैष्ठ्ये वर्णितेऽपि
श्रीशङ्कराचार्यैस् तद्-अपेक्षया ऽव्यक्तोपासकानाम् एव श्रैष्ठ्य-प्रदर्शनम् अपि
जैनानां बौद्धानां च सन्तृप्त्य्-अर्थम् एवेति ज्ञेयम् ।
एवं जीवेश्वर-भेद-मूलकत्वाद् गीतायां
भक्ति-मार्गस्य श्रेष्ठ्ये स्पष्टं वर्णितेऽपि
अव्यक्तमार्गस्यैव वैदिकत्वं,
न तु भक्तिमार्गस्य
इति श्रीशङ्कराचार्य-वचनाभिप्रायः
तट-स्थ-विमर्शकैः चिन्तनीयः ।
… एवं सत्य् अपि शङ्कराचार्यैर् अन्यथा-व्याख्यानं
बौद्धानां सन्तृप्त्य्-अर्थम् एवेत्य् अवगन्तव्यम् ।
… अतः श्रीशङ्कराचार्याणाम् उक्ति-द्वैविध्यम् अ-निवार्यम् ।
श्रीशङ्कराचार्याणां भक्तेः मोक्ष-साधनत्वाभावत्व-समर्थनं
बौद्धानां तृप्त्य्-अर्थम् एव ।
यतः बौद्धाः निरीश्वर-वादिनः,
तेषां मते भक्तेः मोक्षसाधनत्वासम्भवाज्
ज्ञानम् एव मोक्षसाधनम् । +++(4)+++