मानुष-साधनावस्था
(साधनकालश्च जगत्-सृष्ट्य्-अनन्तरम् आरभ्य
केवलं जीवन्मुक्त्य्-अवस्था-प्रप्ति-पर्यन्तम् एव ।
स च कालः सर्वथा भेदप्रधानः । )
[[98]]
… यदि साधनमार्गः कश्चिद् भवेत्
तद् इदानीं नियमेन भेद-गर्भ एव।+++(5)+++
ब्रह्मणा +ऐक्यमेव परमपुरुषार्थं मन्यमानानाम् अपि
तत् कथं प्राप्यम् इति आलोचना ऽऽवश्यकी यदि
प्राप्यं प्राप्ता प्राप्तिर् इति त्रिपट्य् अपि +आवश्यकी +एव ।
अतः सर्वा अपि साधना भेदगर्भा एव ।
“अहं ब्रह्म, अहं ब्रह्म” इति मनन-मात्रेण
केवलं शब्दावृत्या वा आत्मनो ब्रह्म-भावो भवेत् किम्?+++(5)+++
इदानींतनाहम्पदार्थः +मिथ्येति वदतां
तस्य मिथ्यात्वं यदि सम्पूर्णतया वास्तविकं ज्ञायेत
तदानीं पुरुषार्थ-सिद्धिर् वक्तव्या।
किन्तु तस्य साधनमार्गः कः ?
अतः सर्वोऽपि साधना-मार्गः भेद-गर्भ एव।
जीवन्-मुक्तिः
… वस्तुतस् तु मनुष्य-प्रयत्नाः सर्वेऽपि
जीवन्-मुक्ताव् एव पर्यवस्यन्ति ।
वास्तविकं मोक्ष-साधनन् तु
तद्-अनन्तरम् एव प्रारभ्यते।
… मनुष्य-बुद्धि-मूलकस्य साधना-मार्गस्यावधिः
जीवन्-मुक्त्य्-अवस्थाप्राप्तिरेव ।
तत्रैव मनुष्यप्रयत्नानां सर्वेषां समाप्तिः ।
तदनन्तरं तु सर्वं परमात्माधीनम्
इत्येव परमं तत्त्वमिति तदभिज्ञा वदन्ति ।
… इयं मुक्तिः केवलं प्रकृतितः ।
इतोऽपि अग्रे यथार्थ-मुक्त्य्-अर्थं
बहूनि सोपानानि अवशिष्यन्ते ।
एतावता केवलं जीवत्वम् एव गतम् ।
आत्म–स्व-रूप-विकासाय तु
पुनर् +++(कथम्??→)+++अप्राकृत-मनो-बुद्ध्य्-आद्य्-उपाधिभिर्
भूयो-भूयः शरीराणि धार्यते एव ।+++(5)+++
एतादृश्य् अवस्था एव जीवन्मुक्तावस्था इत्यपि उच्यते ।
जीवन्मुक्तपदे विरोधे सत्य् अपि
जीवन्मुक्तावस्थया न विरोधः ।
विश्वास-टिप्पनी
अत्र रामानुजादि-विरोधः - मनो-बुद्ध्य्-आदि-मात्राप्राकृतत्वे ऽपि।
अथवा देशिकोक्ता स्वरूपनिष्ठैव विवक्षिता स्यात्।
जीवन् सन् मुक्तः कथम्?
इति चेद्
लक्षणया जीवन् सन्न् अपि मुक्त-प्राय इत्यर्थः ।
वस्तुत इतः परम् एव
ज्ञान-मार्गस्यारम्भो वक्तुं शक्यते ।
विश्वास-टिप्पनी
तर्ह्य् एतन्-मते ज्ञानयोगाद् भिन्नो ज्ञान-मार्ग इति कश्चित्??
अथवात्र भाष्यकार-देशिकादि-विरोधः।
रहस्यत्रयसारे “ज्ञानयोगमावदु …” इत्यादि स्पष्टम् अन्यथा प्रतिपाद्यतय् उपायविभागाधिकारे -
ज्ञानयोगमावदु— कर्मयोगत्ताल् अन्तःकरणजयम् पिऱन्दवनुक्कु प्रकृत्यादि-विलक्षणमाय् ईश्वरनैप्पऱ्ऱ आधेयत्वविधेयत्वशेषत्वङ्गळाले शरीरतया प्रकारमाऩ तन्स्वरूपत्तै निरन्तरचिन्तनम् पण्णुगै.
स्वस्मिन् अपृथक्-भूतम् एनं मुक्तम् आत्मानं
परमात्मा लोके प्रकृतिमण्डले अवतार्य
तद्-द्वारा बद्ध-जीवान् उद्धरति ।
एतादृश्याम् अवस्थायाम् एव
तेषाम् अवतार
इति सञ्ज्ञा भवति ।+++(5)+++
[[88]]
प्रेषणम्
एवं स मुक्तात्मा
नित्यं परमात्मापृथग्-भूतः
उत्तरोत्तरम् अध्यात्म-ज्ञान-वृद्ध्या
स्वात्मानं विकासयन्
अन्ते परिपूर्ण-विकासः
सर्वात्मना परमात्मन्य् एव एकीभवति ।
अयम् अंशः
" यद्यपि तद्-देशे प्रेष्य-प्रेषक-भावो नास्ति
तथापि +अहं प्रेषित एव"
इति अज्जामहोदयानां वचनेषु विद्यमानेन गूढार्थेन
जागरूकतया अनुसन्धाने सति
ज्ञातुं शक्यते ।
यथा वा नद्यः समुद्रं लक्ष्यी कृत्य प्रवहन्त्यः
मध्ये मध्ये शुष्काणि क्षेत्रादीनि सिञ्चन्त्यः
पिपासूनां पिपासां शमयन्त्यः सत्यः
अन्तिमे समुद्रेण सह एकीभूता भवन्ति
एवम् एव मुक्तात्मानोऽपि
सदा परम-ब्रह्मैव लक्ष्यी कृत्य वर्तमाना अपि
मध्ये मध्ये स्व-सम्बन्धेन अन्यान् अपि बद्ध-जीवान्
परमात्मनः स्व-रूप-गुण-विभवादिभिः परिचयं कारयित्वा
तेषाम् आध्यात्मिकादि-तापान् शमयन्तः
ते अन्तिमे परमात्मन्य् एव लीयन्ते +++(5)+++
इत्य् अपि
‘नदीनां सागरो गतिः’ इति सार-रूपेण +उक्तम् अर्थम् अपि
ते एव अज्जा-महोदयाः स्व-भक्तान् जिज्ञासून् बोधयन्ति स्म ।
अनेनापि ज्ञायते मुक्तिर् न सहजा न सुलभा च ।
अनेक-जन्म-संसिद्धः
ततो याति परां गतिम्
इति गीतावचनम् एवात्र प्रमाणम् ।
भेदानुभवः
… अतो विज्ञानदृष्ट्या
सर्वेषां सर्वं साधनं
जीवन्मुक्त्य्-अवस्थायाम् एव पर्यवस्यति ।
तद्-अनन्तरं तु
वस्तुदृष्ट्या, न तु तत्त्व-दृष्ट्या
बहुदूरं भेद एव अनुवर्तते ।
इयम् एव मुक्तिः सायुज्य-मुक्तिर् इत्य् उच्यते ।
रामानुजाङ्गीकारः
… यद्य् अपि रामानुजमते जीवन्-मुक्तिर् नास्तीति केचन मन्यन्ते -
तत्र सम्यक् परिशीलने
जीवन्मुक्तिपदे एव विचारः समापितः,
न तु जीवन्मुक्त्य्-अवस्थायाम्।
अन्यतरपदस्य औपचारिकत्वम् अनिवार्यम् इत्येव तात्पर्यम् ।
… रामानुजमते तु जीवनमुक्तिपदे अर्थविरोधस्य प्रदर्शितत्वाज्
जीवन्मुक्तिर् एव निराकृता
इति भ्रान्तिर्जाता।
तत्-कारणं तु +असकृद् अस्माभिर् उक्तम् एव
" अर्थ-प्रत्यय-शब्दानाम् इतरेतराध्यासात् सङ्करः"
इति न्यायः अत्रापि अन्वीयते।
अतः जीवन्मुक्तिपदं विस्मृत्य
तादृशी स्थितिर् जगति भवेद् वा न वा
इति चिन्तनीयम् ।
न भवेदिति कश्चित् शपथयति चेत्
स वेदान्ततत्त्वम् एव न जानातीत्य् अर्थः ।
“अत्र ब्रह्म समश्नुते”
“तम् एवं विद्वान्
अमृत इह भवति”
इत्य्-आदौ
“अत्र” “इह” इत्यादि पदानाम् अर्थः
रामानुजीयैः एभिः अवहितो वा न वा ।
स्वमान-संरक्षणार्थम्
“अत्र ब्रह्मानुभव एव न भवती"ति
+एते कथं शपथयन्ति?
भगवद्भाष्यकारैः
" अत्र ब्रह्म समश्नुते”
इत्य्-अस्य उपासना-कालिक-ब्रह्मानुभवः
इत्येवाभिप्रायः उक्तः ।
इतरे तु अत्र ब्रह्मानुभवं वदन्तः
शरीरावस्थायां जायमान-ब्रह्मानुभवात्
मुक्तिकालिक-ब्रह्मानुभवः अतीव विलक्षणः अतीव विस्तृतश्चेति वदन्ति ।
अत एव स-देह-मुक्तिर् विदेहमुक्तिश् चेति
मुक्तिभेदोऽपि तैः +वर्ण्यते ।
एवञ्च यथा पदभेदः
तथा अवस्थाभेदोऽपि वर्तते।
रामानुजमतेऽपि
सा ऽवस्था अङ्गीक्रियते एव।
“जीवन्मुक्तादि-शब्दः क्वचिद् उपचरितस् तत्-समावस्थयैव" (तत्त्व.मु. जीव. ७३ )
इति
जीवन्मुक्ताः भवन्त्य् एते
इति आर्ष-प्रयोगस्य औपचारिकी व्यवस्थोक्ता आचार्यैः ।
यदि पदमात्रे विद्वेषस्
तर्ह्य् अन्यत् पदम् अन्विष्यताम् ।
क्वचिन् मुख्य-प्रयोगापेक्षयाऽपि
+औपचारिकः प्रयोगः स्वरसः +अभीष्टार्थप्रदोऽपि भवति ।
तादृश-स्थले मुख्य-प्रयोगापेक्षया
औपचारिकः प्रयोगः आवश्यकः।
“राजवीथी-समीपे गृहम् अस्ती"ति प्रयोगापेक्षया
“राजवीथ्यां मम गृहमस्ती"ति प्रयोग एव विवक्षितार्थ-बोधको भवतीति
सर्वेऽपि जानन्त्येव।
अतः +अनुभवप्रधाने लोके
नराणां व्यवहाराः अनुभवेनैव निर्वाह्याः
न तु शास्त्रेण ।
गत्या ब्रह्म-प्राप्तिः
देश-विशेषावच्छेदेन
गति-मूलक-ब्रह्म-प्राप्तिर् एव
सूत्रारूढा ।
घट-नाशे घटाकाश–महाकाशयोर् ऐक्यम् इव
देह-पाते जीव-ब्रह्मणोर् ऐक्य-कथनं
हास्यास्पदम् एव ।
अत्र “ब्रह्म समश्नुते” इत्यादिकम् अपि
उपासनाकालिक-ब्रह्मानुभव-परम्
इति श्रीभाष्ये एव स्थापितम् ।
“स्व-रूपाविर्भाव-रूप-मोक्षोऽपि
ब्रह्म-सम्पत्त्य्-अनन्तरम् एवे"ति
“सम्पद्याविर्भावः स्वेन-शब्दात् " (ब्र.सू. ४.४.१)
इति सूत्रेण स्पष्टीकृतम् ।
देश-विशेषः कीदृशः इत्य्-आदिकं तु
शरीरावच्छेदेन जीवस्य सुषुम्ना-नाड्या
मूर्ध-प्रदेशावच्छिन्न-सहस्रार-चक्र-स्थ-ब्रह्म-प्राप्तिर्
इति महापुरुषाणाम् अनुभवेन ज्ञेयम् ।
शरीराद् बहिर् लोकावच्छेदेन ब्रह्म-प्राप्तिस् तु प्रसिद्धैव वर्तते ।
अत्र श्रुतिः
" शतं चैका च हृदयस्य नाड्यः
तासां मूर्धानम् अभिनिस्सृतैका ।
तयोर्ध्वम् आयन्न् अमृतत्वमेति
विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति”
इति देश-विशेषावच्छेदेनैव ब्रह्म-प्राप्तिं वर्णयति ।
इयं च श्रुतिः निर्विशेष-विद्यायां कठोपनिषदि,
सविशेषविद्यायां छान्दोग्य-स्थ-दहर-विद्यायाम् अपि अविशेषेणोच्यते ।
अधिकं तु गूढार्थसङ्ग्रहे द्रष्टव्यम् ।