ब्रह्मणोऽभिन्न-निमित्तोपादान-कारणत्वम्॥
समस्या
ब्रह्म-सूत्रे ब्रह्मणः +जगन्-निरूपितोपादानत्वं निमितत्वञ्चेति
उभयम् अङ्गीक्रियते
यच् च वेदान्तशास्त्रस्य अतीव क्लिष्टो विषयो वर्तते।
प्रश्नः समुदेति यद्
एकस्यैव निमित्तत्वमुपादानत्वञ्च लोके कुत्र दृष्टम् ?
इति । जगच्-छब्दार्थस्तु चेतनम् अचेतनञ् च ।
चेतन-निरूपितोपादानत्वस्य कथञ्चिद् अङ्गीकार-सम्भवेऽपि
अचेतन-निरूपितमुपादानत्वं ब्रह्मणः कथम् ?
तर्हि उपादानोपादेययोर् अभेदस्यावश्यकत्वाद्
ब्रह्मणोऽपि अचेतनत्वम् आवश्यकम् ।
एतत् तु वेदान्तिभिर् नाङ्गीक्रियते ।
तथाप्य् उपादानत्वम् उच्यते ।
कथम् इदं घटते?
इति महान् विचारः ।
ब्रह्म-सूत्रे विन्यासः
प्रथमाध्याये प्रकृत्य्-अधिकरणे
“प्रकृतिश्च” इत्यत्र
च-कारेण निमित्तत्वं सिद्धम्
इति बहूनां वेदान्तिनाम् अभिप्रायः ।
प्रकृत्य्-अधिकरणे
अभिन्न-निमित्तोपादानत्वं ब्रह्मणः +अङ्गीकृतं,
तद् एव दृढीकरणाय द्वितीयाध्याय-प्रथम-पादे सम्यक् विचारितम् ।
द्वितीयाध्यायः अविरोधाध्यायः ।
तत्र प्रथमपादे स्मृत्य्-अविरोधः,
द्वितीयपादे युक्त्य्-अविरोधः,
तृतीय-चतुर्थ-पादयोर् वचनाविरोधश् च समर्थितः ।
साङ्ख्य-स्मृतिर् योग-स्मृतिश्च
ब्रह्मणः +जगन्-निरूपितम् उपादानत्वं नाङ्गीकुरुत
इति तयोर् अन्यत्र अवकाश-प्रदर्शनेन
मनु-स्मृतौ ब्रह्मोपादानत्व-स्वीकारात्,
तयैव वेदान्तानाम् उपबृंहणं कर्तव्यम् इति
+उभयाविरोध प्रदर्शनं प्रथम-द्वितीयाधिकरणाभ्यां कृतम् ।
एतत्-प्रथम-पादस्यावशिष्टः सर्वोऽपि भागः
एतद्-अधिकरण-द्वय-शेष-भूतः ।
अचिद्-आद्य्-उत्पत्तिः
तत्र प्रथमे न-विलक्षणत्वाधिकरणे
“न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् " (ब्र. सू. २।१।४),
“न पूर्वोक्तं ब्रह्मणः +जगद्-उपादानत्वं न सम्भवति”,
“कुत” इति चेद् -
“अस्य जगतः विलक्षणत्वात् = ब्रह्म-विलक्षणत्वात्”,
“किं तत्र प्रमाणम्?” इति चेत्,
तत्राह “तथात्वं च शब्दाद्” इति ।
तथात्वम् ब्रह्म-विलक्षणत्वं जगतः,
शब्दात् श्रुत्य्-अक्षरैर् एव विवृतम् ।
[[70]]
यथोक्तम् -
“तत् सृष्ट्वा” इति प्रारभ्य
“विज्ञानं चाविज्ञानं च " ( तैत्ति. उ. २।६),
इत्यत्र विज्ञानं चेतनो जीवः,
अविज्ञानं नाम जडं जगत् ।
इत्थं जडस्यापि कार्य-वर्गे अन्तर्भावः स्पष्टं समर्थितः ।
एवं च प्रकृते जगद्-अन्तर्भूतस्य जडस्य
ब्रह्म यदि उपादानं भवेत्,
ब्रह्मापि जडं भवेत् ।
समानयोर् एव (सलक्षणयोरेव ) उपादानोपादेय-भावाद्
यथा मृदो जातो घटः मृण्मयः,
सुवर्णाज् जातं कटकं स्वर्णमयम् ।+++(5)+++
ब्रह्म तु सत्यं ज्ञानम् इति श्रुतम् ।
अतस् त्रिगुणात्मकस्य जगतः त्रि-गुण–द्रव्यम् एवोपादानं स्यात् ।
ब्रह्म तु त्रि-गुण-रहितं त्रि-गुणातीतं
तच् च नोपादानं भवितुम् अर्हति
इति साङ्ख्यीय-पूर्व-पक्षः ।
अस्य समाधानं “ दृश्यते तु” (ब्र.सू. २।१।६), इति
“सलक्षणयोरेव उपादानोपादेयभावः’ इति नियमो नास्ति
विलक्षणयोर् अपि उपादानोपादेयभावः दृश्यते ।+++(5)+++
यथा गोमयाद् वृश्चिकोत्पत्तिः,
यथा च लूतातः तन्तूत्पत्तिः,
कृमिभ्यः माक्षिकोत्पत्तिः ।
[[44]]
एतद्-उपर्य्-उपरि महाक्षेपो यद्य् अपि सम्भवति
आकरग्रन्थेषु तद् विचारितम् ।
अन्ततः हरिद्रा-चूर्णयोर् मेलने
रक्त-रूपवद्-द्रव्यस्य निष्पत्तिर् दृष्टा ।
अङ्गार-लोहादि-मेलने सति
कारण-वस्तुनि सर्वथा-दृश्यमानः प्रकाशो भवति।
अतः विलक्षणयोर् अपि वस्तुनोः
उपादानोपादेय-भावो दृश्यते एव ।
एवं च प्रकृतेऽपि ब्रह्मोपादानकं जगद्भवितुम् अर्हति ।
यथा लूतातन्तोर् उपादानं लूताशरीरम् ।
लूताधिष्ठितं शरीरं न जडम् ।
जगद्-व्यावृत्तिः
एवम् एव ब्रह्मोपादानकम् अपि जगद्
ब्रह्म परित्यज्य बहुदूरं गच्छेत्,
तदपि जडं भवितुम् अहति ।
ब्रह्म परित्यज्य गमनं नाम न देशकृतं गमनम्,
ब्रह्मणः सर्वगतत्वात्,
किन्तु चित्त्वम्, आनन्दत्वं वर्जयित्वा
सन्मात्रेणावस्थितिः (धर्मकृतः )
स एवार्थः दूरशब्दस्य ।
चेतनेष्व् अपि ब्रह्म-गतानन्दत्वं परित्यज्य
सच्-चिद्-आत्मकत्वम् एव विद्यते ।+++(5)+++
चिद्-अचिद्-भेदः
यद्य् अपि
“अनेन जीवेनात्मना ऽनुप्रविश्य
नामरूपे व्याकरवाणि” (छा.उ. ६।३।२ ),
इति नाम-रूप-विभाग-प्रतिपादकं वाक्यम्
ब्रह्मणा जीव-द्वारकानुप्रवेशः कृतः
अतः सूक्ष्म-जीव-चैतन्य-सम्बन्धः सर्वेष्व् अपि वर्तत
इति सिध्यति ।+++(5)+++
एवं च स्थूले जगति
कथं चेतनाचेतन-विभाग
इति चेद्
भोक्तृ-जीव-चेतन-सम्बन्धः +अन्यादृशः,
नाम-रूप-मात्र-प्रयोजकः भोग्य-जीव-चेतन-सम्बन्धः अन्यादृशः ।+++(5)+++
भोक्तृ-जीव-सम्बन्धो यत्र
स चेतनः ।
यत्र भोग्य-जीव-सम्बन्धः स अ-चेतनः ।
अत एव " भोक्ता भोग्यं प्रेरितारं च मत्वा" (श्वे. उ. १।१२),
इति विभागः कृतः श्रुतौ ।
अत एव सूत्रे भोक्तृ-पदेन जीवस्य निर्देशः कृतः ।
[[71]]
भोक्तृ-जीव-सम्बन्धः +अन्यादृशः ।
नाम-रूप-विभाग-प्रयोजक-सम्बन्धश्च अन्यादृशः ।
असत्-कारणता न
एवं विलक्षणयोर् अपि +उपादानोपादेय-भावे अङ्गीकृते सति
अन्ततः पूर्वं कार्यं नासीद्
इत्य् एवावगम्यते ।
अर्थाद् अचेतनं प्रति चेतनं ब्रह्मोपादानं चेद्
ब्रह्मणि चेतने
अविद्यमानम् एव अचेतनं भवति फलतः,
असत्कार्यवादः अनिवारणीयः इति
“असद् इति चेत्” इति सूत्रखण्डेन पूर्वपक्षम् उक्त्वा
‘न’ (ब्र.सू. २।१।७), इत्यनेन तन्निषिध्य
“प्रतिषेध-मात्रत्वात्" (ब्र.सू. २।१।७), इति सूत्रखण्डेन
पूर्वसूत्रेण
स-जातीययोः (स-लक्षणयोः) एवोपादानोपादेय-भावो भवतीत्य् अस्यांशस्यैव निषेधः क्रियते
न तु तयोर् उपादानोपादेययोर् एक-द्रव्यत्वांशस्य निषेध
इति अभिप्रायः प्रदर्श्यते ।
अर्थाद् “विजातीययोरपि उपादानोपादेयभाव”
इति कथनेन
सालक्ष्यण्यप्रतिषेध-मात्रं सिध्यति ।
विलक्षणयोर् अपि उपादानोपादेयभावस्तु भवत्य् एव ।
निष्कर्षस् तु
पूर्वं रूपान्तरेण विद्यमानम् एव
पुना रूपान्तरेण जायत
इत्य् उभयोर् एक-द्रव्यत्वन् तु नापगच्छति,
अतो नासत्-कार्य-वाद-प्रसङ्गः ।
हरिद्रा-चूर्ण-स्थलेऽपि
पूर्वम् अदृश्यमानं +++(सुधा-मेलनात्-परं)+++ रक्त-वर्णं
रूपान्तरेण तद् +++(चूर्णम्)+++ आसीद्
इत्य् एवार्थः।
सर्वथा असतः +यदि रक्तवर्णता स्यात्
तदा शर्करामिश्रणेनापि रक्तवर्णं स्यात् ।+++(5)+++
एवम् एवाङ्गारादाव् अपि
प्रकाशो रूपान्तरेण आसीदेव,
अतस् तेषां मेलनेनैव तद् भवति ।
तत् तत्र शक्ति-रूपेणावस्थितम् एवाभिव्यज्यते ।
यत्र कुत्राऽपि सम्पूर्णासत्कार्य-वादः +नास्त्येव ।+++(5)+++
लये ऽपि न कारणं दुष्यति, शरीर-शरीरि-भावः
एतद्-उपरि
“अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्" ( ब्र.सू. २।१।८ ),
इत्य् आक्षेपः ।
तदर्थश् च अपीतौ = लय-काले, कार्यस्येति शेषः,
तद्वत्-प्रसङ्गात् - उपादानस्याचेतनत्व-प्रसङ्गाद् इतीदम्
असमञ्जसम् इति सूत्रार्थः ।
कारणे अविद्यमानम् अपि दोषादिकं
कार्येषु दृश्यते ।
अस्य दुष्ट-द्रव्यस्य लय-वेलायां कारण-रूपापत्तौ
कार्ये दृश्यमान-दोषस्यापि
कारणे प्रत्यासत्तिः स्यात् ।
ततश् च
स्थूले जगति परिदृश्यमानस्य दुर्गन्धादि-भूयिष्ठस्य द्रव्यस्य
लय-वेलायाम्
उपादाने दुर्गन्धस्यापि लयात्
कारणम् अपि दुष्टम् एव भवेत् ।
तथा च ब्रह्मण्य् अपि
एतादृशदोषवत्त्वप्रसङ्गः ।
अतो ब्रह्मणः इदं जगदुपादानत्वं न समञ्जसं भवति
इति पूर्वपक्षे प्राप्ते
सिद्धान्त उच्यते –
“न तु दृष्टान्त-भावात् " ( ब्र.सू. २/१1९ ) इति ।
सूत्रार्थस्तु
न तु पूर्वोक्ताक्षेपस् तु न सम्भवति,
कथम् ? दृष्टान्त-भावाद्
अत्रापि दृष्टान्तस्य सत्त्वात् ।
यथा शरीरे विद्यमानं बालत्वं, युवत्वं, स्थविरत्वादिकं
शरीरिणम् आत्मानं न स्पृशन्ति -
तथा प्रकृतेऽपि शरीरभूते जगति विद्यमानाः सर्वेऽपि दोषाः
तद्-अन्तरात्मानं परमात्मानं न स्पृशन्ति
जगद्-बह्मणोर् उपादानोपादेयत्वेन साकं
शरीर-शरीरि-भावस्यापि विद्यमानत्वाद्
इत्य् अर्थः ।+++(5)+++
[[72]]
आत्मनि शरीर-दोषाणाम् असम्बन्धे प्रमाणञ्च
“नैव स्त्री न पुमान् एषः
न चैवायं नपुंसकः ।
यद् यच् छरीरम् आदत्ते
तेन तेन स युज्यते’॥
(श्वे. उ. ५।१०)
एतावता ऽऽत्मनः लोहित-स्फटिकवत्त्वं सिद्ध्यति ।
वस्तुतः स्फटिके आरुण्यं नागच्छति ।
तत्पार्श्वे वर्तमानं पुष्पादिकं तत्प्रतीतिं जनयति ।+++(5)+++
तथैव शरीरमात्मनि अयं वृद्धः इति व्यवहारं जनयति
अयम् एव औपाधिको व्यवहार
इति श्रीभाष्यप्रक्रिया ।
शाङ्करभाष्ये तु मृद उत्पन्नस्य घटस्य
लय-वेलायां घटाद्य्-आकार-निवृत्त्य्-अनन्तरम् एव
तस्य मृद्-रूपतापत्तिः भविष्यति । +++(4)+++
अतः आकारः कार्ये एव न तु कारणे इति दृष्टान्तः प्रदर्शितः ।
शरीर-शरीरि-भावः
एवं शाङ्कर-भाष्यवद् अनुपदोक्त-दृष्टान्तस्य प्रदर्शन-सम्भवेऽपि
किम्-अर्थं शरीर-शरीरि-भावम् आदाय
श्रीभाष्ये क्लेशेन दोषः परिहरणीयः
इति शङ्का भवति ।
परन्तु एतत्-समनन्तराधिकरणे
सङ्गत्य्-आनुकूल्यार्थं
शरीर-शरीरि-भावः दृष्टान्ततया प्रदर्शितः ।
तत्र हि
“भोक्त्र्-आपत्तेर् अविभागः " (ब्र.सू. २।१।१४ ),
इति वाक्यं पूर्व-पक्षत्वेन प्रयुक्तम् ।
परमात्मनोऽपि शरीर-सम्बन्धो ऽङ्गीक्रियते ।
शरीरिणो जीवस्य सुख-दुःखादि-भोग-दर्शनात्
परमात्मनोऽपि शरीरित्वे तादृश-भोगानाम् आपत्त्या
“भोक्ता भोग्यं प्रेरितारं च मत्वा”
इत्य्-अत्र त्रेधा विभागो न स्यात् ।
त्रेधा-विभागानुपपत्तिः इत्य् एव सङ्गतेर् वक्तव्यत्वात्
तद्-अनुगुणतयैव अत्र शरीर-शरीरि-भावः प्रदर्शितः ।
समाधानं तु “स्याल् लोकवत्” इति ।
शरीर-सम्बन्ध-मात्रं न दुःख-प्रयोजकम् ।
किन्तु कर्मसम्बन्ध एव ।
शरीरं तु कर्म-कृतं प्राकृतम् ।
परन्तु प्रकृत्य्-अतिक्रमणानन्तरं
दिव्य-शरीरस्यापि श्रुति-सिद्धत्वात्
शरीर-सम्बन्ध-मात्रं न दुःखप्रयोजकम् ।
“पादोऽस्य विश्वा भूतानि, त्रिपादस्यामृतं दिवि” इति श्रुतौ
दिवि इति निर्दिश्य
अमृतम् इति निर्देशात्,
दिव्यं शरीरं नाश-रहितं
त्रिपाद्-विभूतिर्
इति प्रमाण-सिद्धम् ।
लोकेऽपि शरीरिणो राज्ञः
तद्-भृत्यवद् दुःखाद्य्-अ-भाव एव श्रीभाष्ये प्रदर्शितः ।+++(5)+++
ततः परमात्मनः शरीर-सम्बन्धो न दोषाय
अतः +विलक्षणयोर् अपि +उपादानोपादेय-भावाङ्गीकारेऽपि
न कापि हानिः ।
आरम्भ-वादो न
तर्हि +उत्तराधिकरणस्य का सङ्गतिः?
इत्य्-आक्षेपे
“आहत्य मूले कुठारः"
इति न्यायेन
पूर्वोक्तस्य सर्वस्योपरि +आक्षेपः ।
सत्-कार्य-वादम् आश्रित्यैव
साङ्ख्यैः पूर्वपक्षस्य कृतत्वात्
तस्य पूर्वोक्त-युक्त्या कथञ्चित् समाधान-सम्भवेऽपि
असत्-कार्यवादे ईश्वरस्य निमित्तत्वम् एव, नोपादानत्वम् ।
अतः
ब्रह्मणः उपादानत्वाभावाद्
वेदान्त-शास्त्रस्यैव निर्-अवकाशत्वम्
इति आरम्भवादिनः नैय्यायिकाः पृच्छन्ति ।
[[73]]
एवं प्रत्यवस्थाने
“तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः " (ब्र.सू. २।१।१५),
इति सिद्धान्तेनैवोपक्रमः ।
यद्य् अपि वेदान्त-शास्त्रस्य
साक्षात् पूर्वपक्षी तत्त्व-द्वय-वादी साङ्ख्य एव ,
अत एव एतद्-अधिकरणं प्रसङ्गाद् आगतं,
न तु साक्षात् ।
तत्र तद्-अनन्यत्वम्
इति उपादान-भूत-ब्रह्मणो ऽनन्यत्वं जगत उच्यते ।
अत्र यद् वक्तव्यं
तत् सर्वम् अन्य-पद–भिन्नपदयोर् अर्थ-संशोधनेनैव सर्वम् उक्तप्रायम् ।
एवं सति
सर्वज्ञैः श्री-शङ्कराचार्यैस्
तद्-अनन्यत्वम् इत्यस्य
“तस्मात् कारणाद्
अन्-अन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते”
इत्य्-आदिवचनेन
ब्रह्म-विलक्षणस्य जगतः मिथ्यात्वं प्रतिपाद्यते
इति व्याख्यानं जगन्मिथ्यात्व-वादि-बौद्धानां सन्तृप्त्यर्थम् एवेति ज्ञायते ।
इदम् अनन्तर-सूत्राणाम्
एतद्-विलक्षणतया व्याख्यानेन
स्पष्टम् अवगम्यते।
अस्मिन्न् एवाधिकरणे
“सत्त्वच् चापरस्य” (ब्र.सू. २।१।१७ ), इति सूत्रव्याख्यावसरे
" यथा च कारणं ब्रह्म
त्रिषु कालेषु सत्त्वं न व्यभिचरति
इत्य् अतावन्-मात्रेण +अ-समग्रतां मन्यमाना आचार्याः,
एकञ्च पुनः सत्त्वम्”
इति पुनरपि व्याचख्युः ।
पुनर् अपि पण्डितैः यदि यद्वा तद्वा अर्थः क्रियते चेत्
तत्र पण्डिता एव प्रमाणम् ।