०५ जगत्-सत्यत्व-मिथ्यात्व-विचारः

ब्रह्म-विवर्तः परिणामः!

वेदान्तसूत्रे द्वितीयाध्याये

जगद्-विलक्षणस्य ब्रह्मणः कथं जगद्रूपेण परिणामः?

इति प्रश्नस्योत्तरं
विलक्षणयोर् अपि कार्य-कारण-भावः सम्भवतीत्य् उक्तम्।
यथा गोमयाद् वृश्चिकोत्पत्तिः, कृमिभ्यः मधुमक्षिकोत्पत्तिः भवति ,
तादृश-विलक्षण-परिणाम एव विवर्त इत्युच्यते।
अज्ञानिनां दृष्ट्यैव विवर्तः,
ज्ञानिनां दृष्ट्या तु परिणाम एव ।+++(5)+++

प्राचीनकाले विवर्त-परिणामयोः भेदो नासीद् एव ।
अतः भतृहरिः वाक्यपदीये ब्रह्मकाण्डे आरम्भे

" अनादि निधनं ब्रह्म
शब्दतत्त्वं यद् अक्षरम् ।
विवर्ततेऽर्थ भावेन
प्रक्रिया जगतो यतः " ॥

इति “शब्द-तत्त्वस्य विवर्तम् इदं जगद्” इति वदन्
शब्दस्य परिणामोऽयम् इत्य् अपि
तस्मिन्न् एव काण्डे प्रयुक्तवान्।

एवं महाकविः भवभूतिर् अपि

“एको रसः करुणैव
निमित्तभेदाद् भिन्नः
पृथक् पृथग् इवाश्रयते विवर्तन् ।
आवर्त–बुद्-बद-तरङ्गमयान् विकारान्”

इति एकस्मिन्नेव श्लोके समानार्थतया विकार-विवर्त-पदे प्रयुक्तवान् ।
विवर्तपदस्य मिथ्यार्थस् तु
बौद्धैः उच्यते ।+++(5)+++
रज्जु-सर्पादि-दृष्टान्ता विवर्तस्योच्यन्ते तैः।
तादृशार्थस् तु वैदिकैः +न स्वीक्रियते ।
जगद् ब्रह्मणः विलक्षण-रूपेण परिणामः,
न तु मिथ्या -
मृद्-घटादि-परिणाम-वादानुकूल-दृष्टान्तानाम् एव वेदे कथनात्।

श्रीशङ्कराचार्यैस्तु विवर्तपदं प्रयुज्य
केवलं तेषां सन्तोष एव उत्पादितः ।+++(5)+++

शाङ्करोक्त-मिथ्यात्वम्

… पण्डितानां विवादस्य परमकारणभूतेषु विषयेषु
जगत्सत्यत्वमथ्यात्वविचार एकः ।
“ब्रह्म सत्यं जगन् मिथ्या” (विवेकचूडामणिः)
इति जगतो मिथ्यात्वं शङ्कराचार्यैर् एवोद्घोषितम्
अद्याऽपि तद्-अनुसारिणो मन्त्रवद् इदं पठन्ति ।
आस्तिकेषु एते शङ्कराचार्या एव जगन्-मिथ्यात्व-वादिनः,
नान्यः कश्चित् ।
तस्य मूलं माण्डूक्योपनिषदम् अवलम्ब्य
गौडपादाचार्यैः लिखिताः कारिकाः ।
तासाम् अपि मूलं माध्यमिक-कारिका
इति श्रीशिवराम-कारन्त-कृतय् अपूर्व-पश्चिमाख्ये ग्रन्थे उल्लिखितं वर्तते ।+++(4)+++

तथा च निर्विशेषब्रह्म-वादिभिः सर्वं मिथ्येति वादे स्वीकृते,
सविशेषं ब्रह्म मिथ्या,
वेदोऽपि मिथ्या,
ब्रह्मणो ऽवतारा रामकृष्णादयो मिथ्या,
गीतोपदेशः मिथ्या,
मन्वादि-स्मृतयोऽपि मिथ्या भवेयुः ।
तदा किम् अवशिष्टं वैदिक-संस्कृतौ?+++(5)+++

[[65]]

वैदिक-संस्कृतिस् तु
ब्रह्मणः स्वरूप-रूप-गुण-विभूत्य्-अवलम्बनेन
जीवानाम् उत्तमां स्थितिं प्रदर्शयति ।
एतादृश-वैदिक-संस्कृतौ मिथ्यात्व-वाद-प्रदर्शनं
शङ्कराचार्यैः केवलं बौद्धानां सन्तृप्यर्थमिति ज्ञायते ।

किं बहुना जीवस्यापि जगद्-अन्तर्गतत्वात्
“जीवो ब्रह्मैव नापरः” इत्य्-अस्यार्थः
जीवस्य मिथ्यात्वे तद्-अभिन्नस्य ब्रह्मणोऽपि मिथ्यात्वम् अ-निवार्यम् ।
अन्ततः भिक्षु-पाद-प्रसरण-न्यायेन शून्य-वादापत्तिः स्यात् ।
तत्रापीष्टापत्तौ प्रच्छन्नबौद्ध-वादापेक्षया प्रत्यक्ष-बौद्धमतमेव स्यात् ।
(… अन्यथा “प्रच्छन्न-बौद्धाः” इति +अन्येषाम् आक्षेपः अवर्जनीय एव स्यात् ।)

न वयं प्रच्छन्नबौद्धाः,
बौद्धा एव प्रच्छन्न-वैदिकाः

इत्युच्यते चेद्
उभयोर् अविशेष एव स्यात् ।+++(5)+++

… न वयं प्रच्छन्न-बौद्धाः,
बौद्धा एव प्रच्छन्न-वैदिकाः

इति समाधानेऽपि किं साधितम् ?
तेन अन्तत उभयोः साजात्यम् एव सिध्यति ।
केवलं शब्दम् उक्त्वा पलायनवाद् अ-मात्रं तत् ।+++(5)+++

शब्दस्यायं स्वभावः श्रूयमाणः
सः विवक्षित-स्वार्थ-व्यतिरिक्तं सर्वं व्यावर्तयत्य् एव ।
अतः सर्वैर् अपि शब्द-प्रयोग-विषये सावधानैर् भावितव्यम् ।+++(4)+++

दृष्टि-सृष्टि-वादो न

“दर्शनेन वस्तुसृष्टिः
दर्शनाभावेन तन्नाशः "

इति न वैदिक-मतं
किन्तु विज्ञान-वादिनां मतम् ।

वैधर्म्यम्, बाधः

अत एव (विज्ञान-वाद-खण्डनावसरे)

“वैधर्म्याच् च न स्वप्नादिवत्” ( ब्र.सू. २.२.२८)

इति सूत्रीय-शाङ्कर-भाष्ये

[[66]]

“न स्वप्नादि-प्रत्ययवज् जाग्रत्-प्रत्यया भवितुम् अर्हन्ति ।
कस्मात् ? वैधर्म्यात् ।
वैधर्म्यं हि भवति स्वप्न-जागरितयोः ।
किं पुनर्वैधर्म्यम् ? बाधा-बाधाव् इति ब्रूमः ।
बाध्यते हि स्वप्नो पलब्धं वस्तु प्रतिबुद्धस्य -
“मिथ्या मयोपलब्धो महाजनसमागम” इति।
न ह्य् अस्ति मम महाजनसमागमो
निद्रा-ग्लानं तु मे मनो बभूव
तेनैषा भ्रान्तिर् उद्बभूवेति ।
एवं मायादिष्व् अपि भवति
यथा-यथं बाधः ।
नैवं जागरितोपलब्धं वस्तु स्तभ्भादिकं कस्याचिद् अप्य् अवस्थायां बाध्यते'

इति स्वाप्न-प्रत्यय–जाग्रत्-प्रत्यययोः समानत्वं नास्तीति कथनाद्
दृष्टि-सृष्टि-वादो न वैदिक
इति ज्ञायते ।

… अयम् अंशः
श्रीशङ्कराचार्याणाम् अपि +इष्ट

इति

" प्राणा वै सत्यं तेषामेष सत्यम्" (बृह. उ. २.३.६)

इत्यत्र प्राणाः जीवाः सत्याः
तदपेक्षयापि ब्रह्म सत्यम् इति शाङ्करवचनैश्च स्पष्टं ज्ञायते ।

(… “सत्त्वच् चापरस्य” (ब्र.सू. २।१।१७ ), इति सूत्रव्याख्यावसरे

" यथा च कारणं ब्रह्म
त्रिषु कालेषु सत्त्वं न व्यभिचरति
इत्य् अतावन्-मात्रेण +अ-समग्रतां मन्यमाना आचार्याः,
एकञ्च पुनः सत्त्वम्”

इति पुनरपि व्याचख्युः ।
पुनर् अपि पण्डितैः यदि यद्वा तद्वा अर्थः क्रियते चेत्
तत्र पण्डिता एव प्रमाणम् । )

एवं जगतः सर्वथा मिथ्यात्वे
" भावे चोपलब्धेः " (ब्र.सू. २।१।१६),
“सत्त्वाच्चापरस्य " (ब्र.सू. २।१।१७),
" असद् व्यपदेशान्न् एति चेन् न
धर्मान्तरेण वाक्य-शेषाद् युक्तेः शब्दान्तराच्च" (ब्र.सू. २।१।१८),
“पटवच्च” (ब्र.सू. २।१।१९),
“यथा च प्राणादिः " (ब्र.सू. २।१।२०),
इत्य्-आदि-सूत्राणि साङ्ख्य-मत-प्रक्रियया
सत्-कार्य-वाद-परतयैव वैदिकानां सन्तृप्त्य्-अर्थं तैरेव कथं व्याख्यातानि?

… एवं प्रासङ्गिकं सर्वं परिसमाप्य,
साङ्ख्याक्षेप-निराकरण-प्रसङ्गे
“उपसंहार-दर्शनाद् इति चेन्न क्षीरवद् +धि” (ब्र.सू. २।१।१४ ),
इत्येवोदाहृतं सूत्रकारेण
न तु रज्जु-सर्पादिः ।+++(5)+++
अतः मिथ्यात्व-सूचकं विवर्त-पदं बौद्धानां सन्तृप्त्य्-अर्थमेवोच्यते ।
एवं विवर्तवादस्य मिथ्यात्व-साधन-परत्वे
कृत्स्न-प्रसक्त्य्-अधिकरणस्य कथम् उत्थितिः ।
साक्षात् परिणामवादे एव
तद्-अधिकरणस्य अन्वर्थत्वं स्पष्टमस्ति ।

[[74]]

… एवं च जगन्-मिथ्यात्व-वादः
जगद्-अनित्यत्व-वादे एव पर्यवस्यतीति मन्तव्यम् ।+++(4)+++
ब्रह्म-सदृश-सत्यत्वाभावाद् एव
जगतो मिथ्यात्वं वैदिक-सम्मतम् ।+++(4)+++
ब्रह्मणीव निरुपाधिक-सत्तायोगाभावाद् एव
जगतः +असत्यत्वं
श्रीभाष्ये जन्माद्यधिकरणे उक्तम्,
तच् च न मिथ्यात्व-रूपम्,
किन्तु अनित्यत्व-रूपम्
इति+ अन्यत्र विस्तरेण प्रतिपादितम् ।

एवं शङ्कर-मते रामानुज-मतवद् एव
सत्यं तरतमभावापन्नं यथा स्वीकृतं
तथैव मिथ्यात्वम् अपि तर-तम-भावापन्नं स्वीकर्तव्यम् एव ।
अतः +मूर्तामूर्त-ब्राह्मणस्य

अथ नामधेयं सत्यस्य सत्यं,
प्राणा वै सत्यं,
सत्यं तेषाम् एष सत्यम्
(बृह. उ. २.३.६)

इत्यस्य व्याख्यान-वेलायां शङ्कराचार्यैः-

प्राणोपाधिकाः जीवाः सत्याः,
तत्रापि परम-सत्यं ब्रह्म

इत्युक्तम् ।+++(5)+++
अत्र प्राण-पदेन
केवलं मुख्य-प्राण इति अर्वाचीन-व्याख्यानं तु
जीवानां मिथ्यात्व-प्रदर्शनार्थम् एव ।
ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वाज्
जीवस्यापि मिथ्यात्वम् अनिवार्यं तेषां मते ।
वस्तुतः मिथ्यात्वेऽपि तारतम्यं स्वीकर्तव्यं
तैः अन्यैश्च सर्वैरपि वादिभिः ।
ब्रह्मदृष्ट्या अचेतनम् अपि मिथ्या
जीवोऽपि मिथ्या ।
तत्र +अचेतन-गत-मिथ्यात्वापेक्षया
जीव-गत-मिथ्यात्वं तर-तम-भावापन्नम् अन्यादृशम्
इति वक्तव्यम् एव ।
सत्ये तारतम्य-स्वीकारे च
मिथ्यात्वेऽपि तारतम्यं स्वी-कर्तव्यम् ।

पूर्णतया मिथ्यात्व-स्वीकारे तु
वेदाः, वैदिक-धर्मः, देवाः, +अवताराश् च मिथ्या स्युः ।
“औपनिषदं ब्रह्म”
इति मतम् अपि न सङ्गच्छेत ।

सिद्धान्ते मिथ्यात्वम्

अतः मिथ्यात्वं न रज्जुसर्पवत्,
किन्तु ब्रह्मणि विद्यमान-सर्व-देश–सर्व-काल-वृत्तित्व-रूप-सत्यत्वापेक्षया भिन्नत्व-रूपम्,
अतः मिथ्यात्वं तरतमभावापन्नं स्वीकर्तव्यम् ।
तथा सत्य् एव
“प्राणा वै सत्यं, तेषाम् एष सत्यम्” (बृह. उ. ) इति श्रुतिः सङ्गच्छेत ।

यथा प्राण-रूप-जीवापेक्षया
ब्रह्मणः सत्यतमत्व-स्वीकारेण,
सत्यत्वे तारतम्यम् स्वी-कृतं
तद्वद् एव मिथ्यात्व-तारतम्येऽपि प्रमाणं भवति ।

… जगत्सत्यत्वमिथ्यात्वविषये सामरस्यम् अतीव दुःशकम् इत्यापाततः प्रतीयते ।
परन्तु जन्माद्यधिकरणे श्री-रामानुजैः
‘सत्यं ज्ञानमनन्तं बह्म’ (तैत्ति. उ. २.१) इति विवरणवेलायां

सत्य-पदं निरुपाधिक-सत्ता-योगि ब्रह्माह ।
तेन विकारास्पदम् अचेतनं
तत्-संसृष्टश् चेतनश् च व्यावृत्तः,
नामान्तर-भजनार्हावस्थान्तर-योगेन
तयोर् निरुपाधिक-सत्ता-योग-रहितत्वात् "

इति स्पष्टं

सत्य-पदेन +अचित्तत्त्वं तद्-उपहितं चित्तत्त्वं च व्यावृत्तम्

इति अभिधानाच् चिद्–अ-चिदोः सत्यत्वं नास्तीति प्रतीयते ।

तर्हि

जगद् असत्यम्
इति श्रीरामानुजैर् अङ्गीकृतं वा?

इति प्रश्ने
अत्रैव वर्तते क्लेशः ।

अनित्यं न मिथ्या

… > तर्हि वैदिकवादे ब्रह्मापि सत्यं, जगदपि सत्यम्
इति सत्यद्वयं स्वीक्रियते वा

इति चेत्,
कस्योपादेयत्वं कस्य त्यागत्वं कुतः ? इति वक्तव्यम् ।
ब्रह्म यादृशं निरुपाधिकं सत्यं
तादृशं सत्यं न जगत्,
किन्तु तत्-तद्-देश-कालेषु तत्-तद्-रूपेणैव सत्यम् ।

[[92]]
ब्रह्म तु सर्वस्मिन् देशे
सर्वस्मिन् काले
सर्वरूपेण स्वरूपेण च सत्यम् ।
अतः सत्ये तारतम्यं स्वीकर्तव्यम् ।

सत्यत्वे तारतम्यम् एव
मिथ्यात्वेपि तारतम्यं भवति ।

… “यस्मिन् देशे, यस्मिन् काले, यस्य सद्-भावः प्रतिपन्नः,
तस्मिन्न् एव देशे, तस्मिन्न् एव काले, तस्याभावः येन रूपेण प्रतिपन्नश् चेत् तत्र विरोधाद्,
बलवतो बाधकत्वं,
बाधितस्य च निवृत्तिः”

इति श्रीभाष्यम् ।
यथा शुक्तौ रजत-भ्रमे यदा
“नेदं रजतं, किन्तु शुक्तिः”
इति यथार्थज्ञानं भवति,
तदा
यस्मिन् देशे, यस्मिन् काले,
मया शुक्तौ रजतं ज्ञातम्,
तस्मिन् देशे, तस्मिन् काले तद् रजतं नासीद्
इति बाधक-ज्ञानं भवति ।
तेन बाध्य-रजत-ज्ञानस्य निवृत्तिः भवति ।
तन्-निवृत्त्या तद्-विषयक-रजतस्य बाध्यत्वं,
निवृत्तिश् च सिध्यति ।
यस्य निवृत्तिः भवति तस्यैव मिथ्यात्वम् ।

जगति अनुभूतानां पदार्थानां
ज्ञानानन्तरं नाशेऽपि
तस्मिन् काले तस्मिन् देशे मया पूर्वं ते नानुभूताः
इति बाधकज्ञानं न भवति ।+++(5)+++
अतः तस्य पूर्व-कालिक-ज्ञानस्य कदापि बाधो न भवति ।
बाधाभावात् तस्य मिथ्यात्वम् अपि न सम्भवति ।

अनुवर्तमानत्वं सत्यत्वं,
व्यावर्तमानत्वं मिथ्यात्वम्

इति निर्विशेषाद्वैतिनां लक्षणं तु
न लोक-सम्मतम् ।
अनुवर्तमानस्य सत्यत्व-स्वीकारे ऽपि
व्यावर्तमानत्वं मिथ्यात्वं
तु न वक्तुं शक्यते
किन्तु अनित्यत्वं देश-परिच्छिन्नत्वं वा वक्तुं शक्यते ।+++(4)+++
अनित्यत्वं तु न मिथ्यात्व-रूपं
किन्तु तत्-तद्-देश-काल-मात्र-वृत्तित्वम् ।+++(5)+++
अत्र शब्दाडम्बर-परिष्कारम् अन्तरा
केवल-प्रमेय-दृष्ट्या चिन्तनीयम् +++(नाम श्रुत्य्-उक्त-भावेन??)+++।

ब्रह्म

… ब्रह्म यादृशं सत्यं
तादृशं सत्यमचेतनं
तत्-संसृष्टश् चेतनश् च
कथम् अङ्गीकर्तुं शक्यः?
अत एव श्रीभाष्ये

निरुपाधिक-सत्ता-योगि ब्रह्म

इत्य् एवोक्तम् ।
सत्तायां निरुपाधिकत्वं नाम
न केवलम् अबाधितत्वं
किन्तु देशतः, कालतः, स्वरूपतश् च प्रतिषेधानर्हत्वम् ।

ब्रह्मणो विभुत्वाद्
देशतः प्रतिषेधानर्हत्वम् अनिवार्यम् ।
एवं स्वरूपत एव नित्यत्वात्
कालतः प्रतिषेधानर्हत्वम् ।

“सर्वं खल्विदं ब्रह्म” (छा.उ. ३.१४)

इति श्रुत्या
सर्वस्यापि ब्रह्म-स्वरूपत्वाद्
घट-पटादीनां परस्-पर-व्यावृत्तिर् इव
“इदं ब्रह्म ने"ति,
अर्थाज् जगति विद्यमानं किमपि वस्तु ब्रह्मभिन्नत्वेन व्यावर्तयितुं न शक्यते।

अचेतनाः

[[68]]
जगति विद्यमानानाम् अचेतनानाम् अ-विभुत्वाद्
देशतः प्रतिषेधार्हत्वम् अनिवार्यम् ।
एवं सर्वस्याप्य् अ-नित्यत्वाद्
“इदानीम् अस्ति, तदानीं ने"ति कालतः प्रतिषेधार्हत्वम् ।

एवमेव घटपटादीनां सर्वेषाममपि वस्तूनां
स्वरूपत एव “इदम् इदं न” इत्य् एव गृह्यमाणत्वात्
परस्परं प्रतिषेधार्हत्वं वर्तते एव ।

चेतनाः

चेतनस्यापि संसारिणः तादृशाचिद्-उपाधिकत्वात्
परस्परं प्रतिषेधो ऽनिवार्यः ।
अन्यथा हि सर्वं साङ्कर्यमयं स्यात् ।

अनृतता, सत्यता

चिद्-अचितोः ब्रह्मणीव निरुपाधिक-सत्ता नास्तीत्य्-अनेन
सत्तैव नास्तीति नार्थः ।
किन्तु सोपाधिक-सत्ता वर्तते एव,
एवं सत्यपदेन निरुपाधिक-सत्ता-योगि-ब्रह्मणो ऽभिधानाज्
जगतोऽसत्यत्वं सिध्यति ।
तच्च अनृतत्वम् इत्येव तात्पर्यम् ।
न तु +इदानीन्तन-पण्डितानाम् इव मिथ्यात्व-रूपं
किन्तु ऋत-भिन्नत्वम् ।

“सत्यं चानृतं च सत्यम् अभवत् " ( तैत्ति. उ. २.६ ),

इति श्रुत्या
अनृतम् अपि सत्य-पदेन साकं पठित्वा
उभयम् अपि सत्यम् एव भवति,
नासत्यम् इति घुष्यते ।+++(5)+++
पुनर् अपि

“यद् इदं किञ्च तत् सत्यम् इत्य् आचक्षते " ( तैत्ति. २.६),

इत्य् अनेन
तस्य जगतः सत्यत्वम् एव दृढी-क्रियते ।

“यच्च किञ्चिज् जगत्सर्वं
दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं
व्याप्य नारायणः स्थितः ॥
(तैत्ति.महा.उ.सहस्र.अनु.)

इत्युक्त्या
परिदृश्यमानं सर्वम् अपि
नारायणेन व्याप्तम् इति चेत्
तस्य मिथ्यात्वं न सम्भवति ।+++(5)+++

अन्तर्यामि-ब्राह्मणे
सर्वं नारायणस्य शरीरम् इति तस्यान्तर्यामित्वं प्रतिपादितम् ।
जगतो मिथ्यात्वे
कथं नारायणस्य अन्तर्यामित्व-सम्भवः?
मिथ्याभूतस्यापि वस्तुनो ऽन्तर्यामित्व-स्वीकारे
रज्जु-सर्पादीनाम् अपि नारायणः +अन्तर्यामीति वक्तव्यं भवेत् ।+++(5)+++
अतः जगतः सत्यत्वम् अन्-ऋतत्व-रूपम् ।

ऋतत्वम्

ब्रह्मणि विद्यमानं सत्यत्वं तु ऋतत्व-रूपम् ।
अतः +ब्रह्म ऋतं सत्यम् उभयम् अपि भवति ।
जगत्तु ऋत-भिन्नं सत्यम्

एवं च “सत्यपदेन जगद्-व्यावृत्तिः”
इत्यस्य “जगतः अनृतत्व-त्रूपं सत्यत्वम् अस्ति” इत्यर्थः ।
न तु +अ-सत्यत्व-रूपं मिथ्यात्वम् ।
अत एव भाष्यकारैर् एव तयोः अनुपदम् एव

" सतत-विकारास्पदत्वेन निरुपाधिक-सत्ता-विरहाद्”

इत्य् अभिहितम् । अनेन सत्यत्वे तारतम्यम् अस्तीति ज्ञायते ।
ब्रह्मणि यादृशं सत्यत्वं
न तादृशं चेतनाचेतनयोः सम्भवति ।
ब्रह्मणि विद्यमानं सत्यत्वं
सर्व-देश–सर्व-काल-वृत्तित्व-रूपं सर्व–स्व-रूप–रूपत्वञ् च ।
अत एव ऋत-शब्द-वाच्यं भवति ब्रह्म ।

[[69]]

अचेतनं सदा-परिवर्तन-शालि,
तत्रापि केचन अ-चेतन-पदार्थाः क्षणिकाः,
केचन दिनैकावस्थायिनः
केचन पक्ष-मास-वर्षादि-पर्यन्त-स्थायिनः ।
एतेषां सत्तायाः काल-देशोपाधिकत्वान् निरुपाधिकता नास्ति ।
तथा च एतेषु निरुपाधिक-सत्ता-रहितत्वं
रज्जु-सर्पादिवन् न मिथ्यात्व-रूपं
किन्तु अनित्यत्व-रूपम् ।
एतादृशा चेतनोपाधिका जीवा अपि सतत-परिणामशालिनः,
तेऽपि अनित्या एव ।

निगमनम्

एतावता ब्रह्मण इव निरुपाधिकसत्तावत्त्वं नान्यत्र दृश्यते ।
एतेन सत्ये तारतम्यं स्पष्टं भवति ।
अचेतनं सत्यं, जीवाः सत्यतराः, ब्रह्म तु सत्यतमम् ।
एतदेव मिथ्यात्वे तारतम्यं भवति ।
ब्रह्म-दृष्ट्या जीवाः मिथ्यारूपाः,
जीवापेक्षयापि अचेतनं मिथ्येति वक्तुं शक्यते ।
निर्विशेषाद्वैतमते +उच्यमानं
ब्रह्मभिन्नस्य मिथ्यात्वम्
एतादृश-तरतम-भावापन्नम् एव स्वीकर्तव्यम् ।
तद् एव सत्यत्वे तारतम्यरूपम् अपि भवत्य् एव ।
(अयमर्थः विस्तरेणान्यत्रास्मिन् ग्रन्थे द्रष्टव्यः ॥)

… एवं सत्यत्व-मिथ्यात्वयोः तारतम्य-स्वीकारे
शङ्कर-रामानुजाचार्ययोर् मिथोऽत्यन्तं विरुद्धः सत्यत्व-मिथ्यात्व-वादो ऽसमाधेय
इति पण्डितानां विचारोऽपि
समाहितो भवति ॥