अन्य-पद-भिन्न-पदयोर् अर्थ-विचारः
अन्य-पद-भिन्न-पदयोर् अर्थे विचार्यमाणे
अन्य-पदार्थे भासमान-भेदस्य,
भिन्न-पदार्थे भासमान-भेदस्य च महद् अन्तरं प्रतीयते ।
एतावता कालेन +अयम् अर्थः,
न केनाऽपि विचारित इव भाति ।
यद्य् अपि महाभाष्ये
“अस्य गोर् द्वितीयो ऽन्वेष्टव्यः इत्युक्ते,
गौर् एवान्विष्यते नाश्वो, न गर्दभ”
इत्य्-अत्र “द्वितीय”-पदं प्रयुक्तम्,
तथाऽपि तत्-स्थाने अन्य-पदम् एव प्रयोक्तुं शक्यते
इति लोक-प्रसिद्धम् ।
यथा लोके शकट-वाहकयोर् द्वयोर् मध्ये
ऽन्यतरो ऽकस्माद् यदि मृतः,
तदा ऽवशिष्टो गौर्
अभ्यास-वशाद् अन्यं गां निरीक्षत
इति तदनुभविनः वदन्ति ।
नो चेत् शिष्टोऽपि गौः शीघ्रं म्रियेत ।
तादृश-स्थले “द्वितीय”-पदस्य “अन्य”-पदस्य वा
तत्-सदृशस् तद्-अन्य एव कश्चन विवक्षितः,
न तु तद्-अत्यन्त-विलक्षणो ऽन्यो गौः ।
अतश् च अन्य-पदार्थ-घटित-भेदापेक्षया,
भिन्न-पदार्थ-घटित-भेदस्य च महद् अन्तरं वर्तते ।
एतत् कथम् अवगन्तुं शक्यत
इति चेत्,
भेदो नाम अन्योऽन्याभाव एव ।
यथा “घटो न पटः" इति प्रयोगे
घटे पट-भेदो ज्ञायते एव ।
“पटो न घट” इति प्रयोगेऽपि
पटे घट-भेदोऽपि ज्ञायते ।
द्वौ अपि पदार्थाव् अत्यन्तं भिन्नाव्
इति लोकानुभवः ।
अन्य-पद-व्यवहार-स्थाले तु
न तथा अत्यन्तं भेदो दृश्यते ।
सागर-पदार्थस्य तरङ्ग-पदार्थस्य च
यथा लोक-दृष्ट्या भेद-सत्त्वेऽपि,
तरङ्गस्य सागर-परिणाम-विशेष-रूपत्वात्
तरङ्गः यथा सामुद्रो भवति
समुद्रस्यांशो भवति,
न च तथैव तुल्य-न्यायेन
समुद्रस् तारङ्गः तरङ्गस्यांशो भवति ।
यथा तरङ्गस्य समुद्र-परिणाम-रूपत्वेन
समुद्रानन्यत्वं तरङ्गे वर्तते,
न च तथा तरङ्गानन्यत्वं
समुद्रे प्रतीयते ।
अत एव शङ्गकराचार्यैर् उक्तं
सत्य् अपि भेदापगमे नाथ तवाहं, न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः, क्वचन समुद्रो न तारङ्गः ॥
( षट्पदीस्तो. ३) ।
[[51]]
अत्र विवादोऽपि न कर्तुं शक्यते ।
सामुद्र-पदं हि समुद्र-विकाराणां फेन-बुद्-बुदादीनां समानम् ।
तारङ्गः समुद्र इत्युच्यते चेत् तु
बुद्-बुद्-आदयस् तस्य विकारा न स्युः,
किन् तु समुद्र एव तरङ्गस्य विकारः स्यात्,
परन्तु न तत् सत्यम्,
तरङ्ग एव समुद्रस्य विकारो भवति ।
कार्य-कारणयोर् अन्यत्वम्
एवम् एव मृत्-परिणाम-रूपस्य घटस्य मृदश् च +अभेदेऽपि,
यथा मृद्-अन्-अन्यत्वं घटे सम्भवति
न तु तथा घटानन्यत्वं मृदि वक्तुं शक्यते +++(5)+++-
यतः शराव-मणिकादीनाम् अपि मृत्त्वेन
तेषाम् अपि घटानन्यत्व प्रसङ्गात्,
यथा वा मृज्जन्यः घटः मृदं नातिक्रामति
न तथा मृत् ।
मृत् तु घटम् अतिक्रामत्य् एव,
ततः +++(=मृत्तः)+++ घटस्येव शरावादीनामपि जननात् ।
एवम् एव तद्-अन्-अन्यत्वम् इत्य्-अत्र
तच्-छब्देन उपादान-कारणस्य ग्रहणे,
कार्यं तद्-अन्यन् न भवति,
कारणं तु मृत्,
कार्याद् अन्यद् भवत्य् एवेत्य् अर्थः ।
अत इदं ज्ञायते -
यत्र द्वयोर् वस्तुनोर् उपादानोपादेय-भावो भवति
तत्र उपादान-वस्त्व्-अभेद उपादेये वक्तुं शक्यते,
न तु +उपादेय-वस्त्व्–अ-भेदः उपादाने ।
यदि मृदो घटस्य चात्यत्यन्तम् अ-भेदः स्यात्
तर्हि तत्र मृदा शरावादिकं कर्तुं न शक्येत ।
अतः उपादानोपादेय-भाव-स्थले
सर्वत्र अ-भिन्न-पद-प्रयोगापेक्षया
अन्-अन्य-पद-प्रयोग एव समुचितः ।
जीव-ब्रह्मणोर् अन्यत्वम्
अयम् एव न्यायः
जीवब्रह्मणोः, अ-चेतन–ब्रह्मणोश् च विषये ज्ञातव्यः।
चेतनाचेतनयोर् उभयोर् अपि ब्रह्मोपादानम्,
उभयञ्च ब्रह्मण उपादेयम् ।
एवञ् च ब्रह्म-जीवयोर् अ-भेदे सत्य् अपि
ब्रह्मानन्यत्वं जीवस्य,
न तु जीवानन्यत्वं ब्रह्मणः ।+++(5)+++
अतः प्रामाणिकतया वक्तव्यं चेद्
उपादानोपादेय-स्थले अ-भिन्न-पद-प्रयोगापेक्षया
अनन्य-पदम् एव प्रयोक्तव्यम् ।
भिन्न-पदार्थो ऽन्य-पदार्थश् च न समानः ।
… सारतो वक्तव्यं चेद्
अन्यपदार्थ-भिन्न-पदार्थयोः हार्दं भावं
यावत् पर्यन्तं कश्चिन्न जानाति,
तावत् पर्यन्तं शब्दः वर्धेतैव ।
लक्ष्ये भिन्नान्य-भेदः
एतत्-सूक्ष्म-तत्त्वम् अवगन्तव्यं चेद्
उपनिषदस् तद्-विचार-रूप-सूत्राणि च परिशीलनीयानि ।
भिन्नान्य-पदयोर् अर्थे समाने तु
कथम् एकस्य हेतुत्वेन, +अन्यस्य साध्यत्वेन
“भेद-व्यपदेशाच् चान्यः" ( ब्र.सू. १.१.२२),
इति सूत्रे उल्लेख भवेत् ।+++(5)+++
सूक्ष्ममन्तरं द्वयोर् एतद् एव -
भेदो व्यापकः, अन्यत्वं च व्याप्यम् ।
अत एव जगद्-ब्रह्मणोः भेदो वा ऽभेदो वेति सन्देहे
“तद्–अन्-अन्यत्वम् आरम्भण-शब्दादिभ्यः" (ब्र.सू. २.१.१५ )
इत्य् एव सूत्रम् आगतम्,
न तु “तद्–अ-भिन्नत्वम्” इति सूत्रितम् ।+++(5)+++
एवम् एव आत्मत्वोपासनाधिकरणे
जीव-ब्रह्मणोः परस्-परं भिन्नतयोपासना कर्तव्या
उताभिन्नत्वेन वा?
इति संशये
स्वात्मत्वेनोपासना कर्तव्या,
न तु भिन्नत्वेन,
अथवा “ऽभिन्नत्वे(न??)” वा +इत्य् उक्तम् ।
अस्याधिकरणस्य विषय-वाक्ये
“अथ योऽन्यां देवताम् उपास्ते
अन्योऽसाव् अन्यो ऽहम् अस्मीति
न स वेद,
अकृत्स्नो ह्येषः”
( बृह. उ. १.४.१०)
इत्यत्र अन्य-पदम् एव प्रयुक्तं वर्तते ।
[[52]]
अनन्यत्वेनैव उपासना कर्तव्या
न तु अभिन्नत्वेन
इत्य् अभिप्रायः ।
" अत एव च अनन्याधिपतिः” (ब्र.सू. ४.४.९)
इत्य् एव सूत्रितं
न तु अनधिपतिर् इति ।
“स स्वराड् भवति” (छा.उ. ७.२५.२ )
इति मन्त्रमादाय लिखितं सूत्रं चेद्
अन्-अधिपतिः इत्येव लेखनीयं स्यात्,
न तु “अनन्याधिपतिः” ।
एवं सति
ब्रह्म-जीवयोर् लेशतो भेदस्य
अन्-अन्य-शब्देन ज्ञाते सति
अ-भेदम् आशङ्क्य
तन्-निरसितुम् आरब्धम् इतर-व्यपदेशाधिकरणं
कथं सङ्गच्छते?
इति न च मन्तव्यम् -
जगद्-ब्रह्मणोः सूत्र-कारेणोक्तम् अन्-अन्यत्वम्
अ-भिन्नत्व-रूपं भ्रान्त्या जानतो जनस्य कृते
समाधानार्थं तद्-अधिकरणस्य प्रवृत्तत्वात् ।
तद्-अधिकरणे समाधानार्थं प्रवृत्ते सूत्रे
“अधिकं तु भेद-निर्देशात्” (ब्र.सू. २.१. २२)
इत्य्-अत्र जीवापेक्षया ब्रह्मणो भेदः स्वीकृतः,
किन्तु स भेदः नान्योन्याभाव-रूपः किन्तु अन्यत्व-रूपः ।+++(4)+++
एतत्-सूचनार्थम् एव
‘भेद-व्यपदेशाच् चान्यः’ (ब्र.सू. १.१.२२)
इति सूत्र-निर्देशवद्
अत्राऽपि “अधिकं तु भेद-निर्देशात् " ( ब्र.सू. २.१.२२ ) इति सूत्रितम् ।
अधिक-पदेन जीव-प्रकाशापेक्षया ब्रह्म-प्रकाशस्य वैपुल्यं ज्ञायते।
अतः, जीव-ब्रह्मणोः सम्पूर्णाभेदाभावाद्
अ-हित-करण–हिताकरणादि–दोषम् आदाय
आक्षेपस्य नावकाशः । +++(4)+++
एतद् एव विचार्य
‘अश्मादिवच् च तद्-अनुपपत्तिः" (ब्र.सू. २.१.२३), इति सूत्रं प्रवृतम् +++(वक्ष्यमाणरीत्या)+++।
जीवापेक्षया ब्रह्म-प्रकाशस्य कियद् आधिक्यम्?
इति चेत्,
मनसाऽपि तद् आलोचयितुं न शक्यते ।
यथा वज्र-लोष्टयोः पार्थिवत्वेन साम्येऽपि
स्व-रूप-परिशीलने तु
तत् साम्यम् अर्थ-रहितम् एवेति स्वयं निर्णीयेत
इति शाङ्करभाष्ये व्याख्यातम् ।
रामानुजभाष्ये तु
यथा वा ब्रह्मणो अश्मनां च तारतम्यं वर्णयितुम् एव न शक्यते,
तद्वद् जीव-ब्रह्मणोर् एक-जातीयत्वम् अपि न सम्भवति,
तावन् महद्-अन्तरं वर्तते
इत्य् अभिप्रायः उक्तः ।
एतन्-निर्णयस् तु
विस्तरेण ब्रह्मणः जगन्-निरूपितोपादानत्व-विचार-प्रकरणे क्रियते ।
उपादानोपादेययोर् अ-भेदो लोक-सिद्धः ।
तथा सति जीव-ब्रह्मणोर् अपि +अभेदे सिद्धे
तयोर् भेदः कथम् उच्यते ?
इत्य्-अस्य उत्तरम् अपि
तत्रैव परिशील्यते ।
भेदाभेद-वादः
निर्विशेषाद्वैतिनः -
उपनिषद्वाक्यानि प्राधान्येन अद्वैततत्त्वम् एव वदन्ति
इति शब्दस्वारस्याद् अवगम्यते ।
अत्यन्त-प्रधान-भूतायां सद्-विद्यायाम्
" एकमेव अद्वितीयम्" (छा.उ. ६. २),
इति कारणभूतस्य वस्तुनः
“एकम्", “एव”, “अद्वितीयम्”
इति पदत्रयेण सम्पूर्णो भेदो निराक्रियते ।
अतः भेद-प्रतिपादक-वाक्यानि स्वार्थे न प्रामाणानि,
लोकानुभवाविरुद्धार्थानुवादकत्वाद्
इति अभेदवादिनाम् आशयः ।+++(5)+++
आहत्य एतादृश-स्थले
विधि-वाक्यापेक्षया निषेधस्यैव प्राधान्यं लोकानुभवसिद्धम् ।एको महान् नीलो घटः
इत्यत्र चत्वारि पदानि प्रत्येकं स्वार्थं बोधयन्त्य् एव ।
“सः नासीद्” इति निषेधे
एकेन नञा सर्व-निषेधस्य +अनुभवसिद्धत्वाद्
विध्य्-अपेक्षया निषेधस्यैव प्राधान्यं लोकानुभव-सिद्धम् ।+++(5)+++निषेधस्य
नियमेन प्रतियोगि-सापेक्षत्वात्
प्रतियोगिसमर्पक-वाक्यस्य बहुदीर्घत्वेऽपि
एकेन नञा तत्सर्वं निरस्यते
इति सर्वानुभवसिद्धम् ।स निषेधोऽपि यदा लोकानुभवसिद्धः
“न इत्यनेन सर्वनिषेध” इत्यत्र
“सर्वम् अवगम्यते” इत्यत्र किं प्रमाणम् +++(=??)+++?पदानां तु लौकिकार्थ-मात्र-बोधन-परत्वात्,
न तेषां परमं प्रामाण्यम् ।
भेद-पर-वाक्यानि तु लोक-सिद्धम् अर्थम् अनुवदन्ति ।
अतः स्वार्थे न प्रमाणानीति वदन्ति ।
भेदवादिनस्तु –
यद्यपि भेदः लोकानुभवसिद्धः,
स पुनः निषिध्यते चेन् निषिध्यताम् ।
पर-लोक-विषये तु –‘तद् विष्णोः परमं पदं
सदा पश्यन्ति सूरयः " ( विष्णुसू.५),इत्य्-आदि-वाक्ये “पश्यन्ती"ति सकर्मक-धातुर् वर्तते ।
तेन दर्शन-कर्तृ–दर्शन-कर्म–दर्शनानीति त्रयम् आवश्यकम् ।
“पश्यन्ति सूरयः” इति बहुवचनेन बहून् उक्त्वा
“सदा” इति सार्वकालिक-दर्शनस्यापि प्रतिपादनेन
एतेषां स्वार्थे प्रामाण्यम् आवश्यकम् ।[[62]]
अतः लोक-प्रसिद्ध-भेदापेक्षया
अन्यादृशभेदोऽप्यस्तीति
अङ्गीकार्यम् एव ।+++(4)+++तर्हि अभेद-वाक्यानां का गतिः
इति चेत् “सम्पन्नो व्रीहिः”,
“पुरोहितोऽयं राजा संवृत्तः”
इत्यादिषु वाक्येषु
सादृश्यादि-परतया ऐक्य-निर्वाहस्य
सर्वैर् अङ्गी-कृतत्वाद्
अभेद-वाक्यानाम् अपि
तथैव निर्वाह-सम्प्रपन्नत्वे कथम् अन्यतर-त्यागः?
अभेदवादिनः -
“सम्पन्नो व्रीहिर्” इत्यत्र व्रीहीणाम् एकत्वस्य प्रत्यक्ष-सिद्धत्वाद्
अपोहितुं न शक्यम् ।
अतः जाति-दृष्ट्या व्रीहीणाम् एकत्वं लौकिकम् ।
एवं “पुरोहितोऽयं राजा संवृत्तः” इत्य् अपि प्रयोगः
पुरोहितस्य राजवत् सम्पद्-आधिक्ये लोक-सिद्धः ।
एवम् उभयोः प्रत्यक्ष-सिद्धत्वेन
तादृश-प्रयोगाणाम् अन्यथा-नयनम् अनिवार्यम् ।श्रुतयस् तु लोकातीतार्थम् एव बोधयितुं प्रवृत्ताः,
तत्र एवम् औपचारिकादि-निर्वाहः केन प्रमाणेन कर्तव्यः ?+++(5)+++
भेदवादिनः -
भेदस्याप्य् अलौकिकत्वात्
“सूरयः” इत्य्-आदीनां बहुवचनान्ततया
तेषाम् औपचारिकत्वे किं प्रमाणम् ?+++(5)+++
अभेदवादिनां समाधानम्
पश्यन्तीत्य्-अत्र
दर्शनस्य श्रवणात् त्रिपुट्या आवश्यकत्वेन
कर्ता, कर्म, करणमिति त्रयम् अनिवार्यम्,
फलतो भेदः अनिवार्यः ।
यावत् पर्यन्तं त्रिपुटी वर्तते
तावत्पर्यन्तं भेदः अनिवार्यश् चेद् अपि" यत्र तु द्वैतम् इव भवति
तद् इतर इतरं पश्यति,
यत्र तु सर्वम् आत्मैवाभूत्
तत् केन कं पश्येत्
केन कं विजानीयाद्” (बृह. उ. २.४.१४ )इति त्रिपुटी यत्र निषिध्यते
तत्र अ-भेदस्यावश्यकत्वाद्
अद्वैतम् एवान्तिमं तत्त्वं स्वीकर्तव्यम् ।
अतः दिव्येष्व् अपि +अनुभवेषु
त्रिपुट्याः वर्तमानत्वात् तारतम्यम् अनिवार्यम् ।
किन्तु यत्र तारतम्यं वर्तते,
तस्य समाप्तिः कुत्रचिद् भेदवादिभिर् अपि वक्तव्यैव ।
अन्तिमावस्था-पर्यन्तं कुत्रापि भेद-समाप्तिर् नास्ति चेत्,
कदापि भेदः नापगच्छेच् चेद्
भवताम् परम-पुरुषार्थो दुर्-निरूपो जातः ।
यावत् पर्यन्तं लोक-पदम्,
“पश्यन्ति”-पदं वा वर्तते
तत्र भेद-सत्त्वेऽपि“यत्र तु सर्वम् आत्मैवाभूत्
तत् केन कं पश्येत्
केन कं विजानीयात्”इत्य्-आदि-श्रुत्य्-उक्त–सर्व-भेद-शून्य–शुद्ध-चैतन्य-स्वरूपे
सर्व-भेद-निषेधो ऽनिवार्यः ।
अतश्च अद्वैतम् एव अन्तिमं तत्त्वम् ।
नो चेत् तारतम्यावधिर् एव न स्यात् ।तारतम्यम् एव पुरुषार्थश् चेत्
“स ह्य् अ-विशुद्धि-क्षयातिशय-युक्तः”
इति साङ्ख्य-न्यायस्य अ-निवार्यता-प्रसङ्गः ।
तस्योत्तरं भेद-वादिभिः किं वक्तुं शक्यम् ?
[[63]]
भेदवादिनाम् उत्तरम्-
साङ्ख्य-मते कैवल्यस्याङ्गी-कारात्
सर्वेषाम् आत्मनां शुद्धौ
परस्-परं दर्शनाद्य्-अ-भावाद्
एतादृशी समस्या नास्त्य् एव ।
सर्व-सङ्गान् निवृत्तः
पुष्कर-पलाशवन् निर्लिप्त आत्मा
तथैव तिष्ठतीति +अङ्गीकार्यम् ।
+++(परस्-पर-विषये??)+++ त्रिपुटी-लयः समग्रतया अङ्गीक्रियते चेन्
न काप्य् अ-पुरुषार्थशङ्का ।
इति।
अभेदवादी-
एवं तर्हि माण्डूक्योपनिषदि
" नान्तः प्रज्ञं न बहिः प्रज्ञ……. ऐकात्म्यप्रत्ययसारं शान्तं शिवमद्वैतम् " माण्डु. उ. ७)
इत्यादिश्रुत्या अद्वैत-तत्त्वस्य प्रतिपादनात्
सर्व-द्वैत-निषेधस्य प्रामाणिकत्वाद्
द्वैतं तु अप्रामाणिकम् एव ।
सविशेषाद्वैति-परिहारः
सविशेषाद्वैत-वादिनस् तु -
मुक्तौ तारतम्यादीनां सर्वथा अनङ्गीकाराद्
ऐक्यं नाम ब्रह्म-भावापत्तिर् एवेति उपपद्यते ।
तत्र च “अयम् आत्मा सर्वानुभूः” (बृह. उ. २।५।१९),
इति सर्व-विधानुभवानाम् आत्म-स्वरूप-रूपत्वात्
तस्य चात्मनः अनन्तत्वाद्
एतद्-उपरि विचारादीनां नावकाशः ।
एतद्-दृष्ट्यैव माण्डूक्योपनिषदि “ऐकात्म्य-प्रत्यय-सारम्” इति प्रवृत्तम् ।
अत एव “पश्यन्ति” इत्यादीनां सम्पूर्ण-त्रिपुटी-लयाभावाद् अनुभवः
तारतम्यापन्न एव ।" कालं स पचते तत्र
न कालस् तत्र वै प्रभुः"इत्य्-उक्तत्वात्
“सदा” इति काल-निर्देश औपचारिक एव ।
वस्तुतस् तु
अस्योत्तरम् एव दातुं प्रवृत्ताः श्रीमद्-रामानुजाचार्याः
“भेदो वा अभेदो वा
द्व्य्-आत्मकता वा
कोऽयम् अर्थः समर्थितः " ?
इति प्रश्नम् उत्थाप्य
“सर्वस्यापि वेदवेद्यत्वात्
सर्वं समर्थितम्”
इति वदन्ति ।+++(4)+++
रामानुजः
इदानीन्तन-पण्डित-लोक-दृष्ट्या
रामानुजाचार्याः शुद्ध भेदवादिन एव
इति तदीयैः परकीयैर् अपि निर्णीतं वर्तते ।
अतः अस्योत्तरं चिन्तनीयम्।
… रामानुज-मतम् इदानीन्तन पण्डितैः भेदवादित्वेनैव यद्यपि परिगणितं,
परन्तु अ-भेद-श्रुतीनाम् अपि प्रधान्याङ्गीकाराद्
रामानुजो न केवलं भेदवादी ।
अयं भेदाभेद-समन्वय-वादीत्येव प्रतिभाति ।
अत एव वेदार्थसङ्ग्रहे
“भेदो वा अभेदो वा द्वयात्मकता वा
वेदान्तवेद्यः कोऽयमर्थः समर्थितः”
इति प्रश्नं स्वयमुत्थाप्यापि
“सर्वस्यापि वेदवेद्यत्वात् सर्वं समर्थितम्”
इति वदति ।
अत आचार्यस्य तस्य
केवलभेदवादित्वं निर्णेतुं न शक्यते एव ।
तर्हि अभेदस्यापि प्रामाण्याङ्गीकारे
भेदाभेदवादी इत्यपि वक्तव्यं भवेद्
आधुनिक पण्डित-संस्कार-दृष्ट्या ।
प्रत्युत समन्वयाधिकरणे,
भेदाभेदवादस्य बहुविस्तरेण अनेन दूषितत्वाद्
अयं न भेदाभेदवादी इत्य् अवश्यम् अङ्गीकर्तव्यम् ।
तर्हि कः पक्षः तस्येति प्रश्ने
तस्योत्तरं वासनाग्रस्तैः पण्डितैर् ग्रहीतुम् अशक्यत्वात्
क्लेशोऽनिवार्यः ।
यतः इदानीन्तन-पण्डितानां मनसि,
रामानुजस्य भेदवाद इति चेत्,
नैय्यायिक-मतम् इव, आनन्दतीर्थमतम् इव वा भवेद् रामानुजमतम् अपि ।
[[67]] यतः
- नैय्यायिकास् तु
सर्वत्र सम्पूर्ण-भेदम् अङ्गीकुर्वन्ति । - वेदान्तिषु +आनन्दतीर्थीया अपि
यावद्-द्रव्य-भावि-गुणानां गुणिनश् च अत्यन्तम् अभेदः,
अ-यावद्-द्रव्य-भावि-गुणानां गुणिनश् च भेदाभेदौ,
अन्यत्र घट-पटादिषु तु भेद एवेति स्वीकुर्वन्ति ।
इतरे सर्वेऽपि कुत्रचिद् भेदं, कत्रचिद् अभेदं, कुत्रचिद्भेदाभेद
इति विलक्षणतया वादं कुर्वन्ति ।
यथा अद्वैतीति प्रसिद्धः शङ्कराचार्यः,
ब्रह्मणः शशशृङ्गस्य च,
एवं मायायाः ब्रह्मणश् च +अभेदम् अङ्गीकुर्याद्वा ?
सुस्पष्टतया उत्तरं वक्तुं शक्यते वा ?
एवम् एव सर्वेष्व् अपि सिद्धान्तेषु
यत्र कुत्रचिद् भेदो वा, अभेदो वा +अङ्गीकार्य एव ।
भेदाभेदयोर् अविरोध इति वादस् तु
श्रीभाष्ये समन्वयाधिकरणे विस्तरेण निरस्तः।+++(4)+++
तथा च अ-भेदवादः, भेदवादः, भेदाभेदवादश् चेत्येते वादा
बह्वनन्तरकालिकाः।
अतो वस्तुतो दर्शनेषु
एवं विभाग एवाप्रामाणिकः ।
अत एव श्रीमद्भाष्यकारैः वेदार्थसङ्ग्रहे -
सर्वस्यापि वेदवेद्यत्वात् सर्वं समर्थितम्
इत्युक्तम् ।
आम्रः
एकम् आम्र-बीजमङ्कुर-काण्ड-शाखा -
पत्र-पुष्प-फलादि-भेदेन विवृध्य
महान् आम्र-वृक्षो भवति ।
तत्-तादृश-स्थले
“आम्रे भेदो वा अभेदो वा”
इति पृच्छ्यते चेद्
उत्तरं किम् ?
बीजेऽभेदः
शाखादौ भेदइति तत्-तद्-अवस्था-भेदेन भेदः, अभेदश्च सङ्गच्छते
इत्येव वक्तव्यम् । +++(5)+++
यद्यपि ब्रह्मविषये
एकत्वे सति नानात्वं
नानात्वे सति चैकता । अचिन्त्यं ब्रह्मणो रूपं
कस्तद् वेदितुमर्हति ॥
इत्युक्तं
वेदार्थसङ्ग्रहय् एक-कालावच्छेदेनैव
एतादृशे एकत्व-नानात्वे ब्रह्मणः वर्ण्यते ।
अत एव ब्रह्मणो रूपम् अचिन्त्यम्
इत्यपि +आश्चर्यं प्रकटितम् ।
एवं सति पूर्वकालावच्छेदेनैक्यम्,
अनन्तरकालावच्छेदेन नानात्वं च दृश्यते ।
अतः “कथम् अयं दृष्टान्तः प्रकृते युज्यते?”
इति शङ्का स्यादेव ।
परन्तु बीजम् एव वृक्ष-रूपेणापि परिणतं हि वर्तते ।
किञ्च आम्रत्व-रूपैक्यं वृक्षे सर्वत्र वर्तत एव ।
[[64]]
अतः एकत्व-नानात्वादिकं परस्-पर-विरुद्धम् अपि
एक-कालावच्छेदेनापि दृश्यत एव ।
शङ्कराङ्गीकारः
एकेन मृत्-पिण्डेन
जातेषु घट-शराव-मणिकादिषु मृत्त्वम् अनुवृत्तम् एव ।
अत उपादानोपादेय-स्थलय् एकत्व-नानात्वयोर् विरोधो नास्ति ।
अत एव शाङ्कर-भाष्येऽपि
" यथा च कारणं ब्रह्म
त्रिषु कालेषु सत्त्वं न व्यभिचरति,
तथैव कार्यम् अपि जगत्
त्रिषु कालेषु सत्त्वं न व्यभिचरति ।
एकञ्च पुनः सत्त्वम्,
अतोऽप्य् अनन्यत्वं कारणात् कार्यस्य” +++(5)+++
(ब्र.सू. २.१.१७)
इत्यादयः पङ्क्तयोऽपि पूर्वोक्तार्थे अनुसन्धेयाः ।
[[44]]
… सर्वं जानन्तोऽपि श्रीशङ्कराचार्याः
केवलं बौद्धानां सन्तृप्त्य्-अर्थम् एव
बहून् विषयान् आच्छादयन्तीति ज्ञायते ।+++(5)+++
अत्र तावत्
“हृदा मनीषा मनसा ऽभिक्लृप्तः
य एनं विदुस् तेऽमृता भवन्ति"
(कठ. २. ५.१०),
इत्य् अयं मन्त्रः प्रथमं स्मरणीयः ॥