०३ स-विशेषं ब्रह्म

… ब्रह्म–स-विशेषम् उत निर्विशेषम्

इत्य् एव मूलभूता समस्या ।
वस्तुतः न किञ्चिदपि वस्तु निर्विशेषं भवितुमर्हति
इत्येव समाधानम्।

… तेन च निर्विशेषं वस्तु शशश्रृङ्गायितम् इत्य् अत्र
न लेशतोऽपि संशयः ।

निर्विशेष-वस्तु-वादस् तु
स्व-लक्षण–प्रत्यक्ष-मात्र-प्रमाण-वादिनां बौद्धानाम् एव,
न तु वैदिकानाम् ।

तत्त्व-परिसङ्ख्यानम्

… तत्त्व-विषयको मतभेदः॥

[[29]]

तत्त्वम् एकम् एवेति निर्विशेषाद्वैतिनः ।
यद्य् अपि मूलतः तत्त्वम् एकम् एव,
तथाऽपि व्यवहारे तत्त्व-त्रयम् इति स-विशेषाद्वैतिनः ।
प्रकृतिः पुरुषश्चेति तत्त्वं द्वयम् एवेति साङ्ख्याः ।

वेदान्ताध्वानौ

… वेदान्त-शास्त्राणि बहूनि सन्ति ।
अद्यतन-काले साक्षात्-प्रतिपक्षतया वेदान्त-दर्शनं द्वयम् एव ।
एकं शङ्कराचार्योपज्ञं निर्विशेषाद्वैतम् ।
अन्यच् च श्रीमन्-नाथमुन्य्-उपज्ञ–श्रीमद्रामानुज-मुनि-स्थापितं सविशेषाद्वैतं (विशिष्टाद्वैतम् ) ।

वस्तुतः स-विशेषं विशिष्टं पर्यायः।
श्रीमद्-रामानुज-शिष्य–वटुक-पूर्णेन विरचिते श्रीमद्-रामानुजाष्टोत्तर-शत-नामावलि-ग्रन्थे
“विशिष्टाद्वैत-पार-गः" इत्य्-उल्लेखस्य विद्यमानत्वात्
तत्-पदं प्रचारे आगतम् । +++(5)+++

… वेदान्त-सूत्र-व्याख्यानानि बहूनि सन्ति
तत्रापि अद्यतन-काले साक्षात्-प्रतिपक्षतया विद्यमानं
वेदान्तदर्शनं द्वयम् एव।
एकं शङ्कराचार्योपज्ञं निर्विशेषम्
अन्यच्च श्रीमन्नाथमन्य्-उपज्ञं श्रीमद्-रामानुज-मुनि-स्थापितं स-विशेषाद्वैतम् (विशिष्टाद्वैतम्) ।
सविशेषं विशिष्टमिति च पर्यायौ।
श्रीमद्-रामानुज-वटुक-पूर्ण-विरचिते श्रीमद्-रामानुजाष्टोत्तर-शत-नामावलि-ग्रन्थे
‘विशिष्टाद्वैत-पारगः’ इति पदस्योल्लेखात्
तत्-पदं प्रचार आगतम्।

बौद्धाः

… बौद्ध-वैदिक-प्रक्रिया-भेदः॥

तथाहि

वैदिकः पक्षः कः ? कश्चावैदिकः पक्षः ?

इति प्रथमं निर्धारणीयम् ।

… बौद्धेषु वैभाषिक-सौत्रन्तिकौ तत्त्व-द्वय-वादिनौ ।
तौ द्वौ हीनयानपदवाच्यौ
इति पण्डिताः न सम्मन्यन्ते ।
विज्ञानवादिनः, शून्यवादिनः महायानिनश् च ।
ते एव क्रमशः योगचाराः, माध्यमिकाश् चेति व्यवह्रियन्ते ।
विज्ञानमेकमेव सत्यं तत्त्वम् इति योगाचाराः,
तदपि नास्ति, किन्तु शून्यम् एव तत्त्वमिति माध्यमिकाः ।

एतेषु निर्विशेष-वादिनाम् एवं स-विशेषवादिनाञ् च स्वरूपं
विशेषतो विचार्यते ।
तत्त्वं निर्विशेषम् इति स्व-लक्षण–प्रत्यक्ष-मात्र–प्रामाण्य-वादिनः बौद्धाः ।
स्व-लक्षण-ज्ञानं नाम
यद् वस्तु-स्वरूप-मात्रं प्राथमिके प्रत्यक्षे भासते ।
तदा धर्माः न भासन्ते ।
अतः प्राथमिकं ज्ञानं निर्विकल्पकम् उच्यते।
तद् एव प्रमाणम् ।

धर्म-विषयकं यज् ज्ञानम्,
तद् विकल्प-पदेनोच्यते,
धर्माणाम् अ-वस्तुत्वात् ।
तद्-विषयक-विकल्पात्मकं ज्ञानं भ्रम एव ।

“विकल्पो ऽवस्तु निर्भासाद्
विसंवाद उपप्लवः” (प्रमा.वा.)

इति ते वदन्ति ।
एतन्-मते विकल्पकः स-विकल्पकः इति पर्यायौ।

… बौद्धाः हि प्रथमाक्ष-पात-जन्यं वस्तु-स्वरूप-मात्रावगाहि
निर्विकल्पकपदवाच्यं ज्ञानमेव प्रमाणम् ।
अनन्तर-जायमानं तु ज्ञानं
सविकल्पकं केवल-विकल्प-रूपं कल्पित-विषयं
न किञ्चिद् अपि प्रमाणम्
इति वदन्तीति सर्वप्रसिद्धम् ।

अतः बौद्धसम्मतभागं परित्यज्य
अन्यः सविशेषविषयको भागः
शङ्कराचार्यान्तरङ्गसम्मत इति ज्ञेयम् ।

… तत्त्वनिर्णये बौद्ध-वैदिक-प्रक्रियाभेदः॥

बौद्धास् तु -

“स्व-लक्षणं ज्ञानम्” इत्य् एकं ज्ञानम् अङ्गीकृत्य
तद् विकल्प-रहितम्,
अत एव निर्विशेष-वस्तु-विषयकम्,
इदम् एव प्राथम् इकं ज्ञानम् ।
धर्माश् च द्वितीय-क्षणाद् आरभ्य
अस्मिन् वस्तुनि कल्प्यन्ते

इत्यादिकं विस्तरेण प्रतिपाद्य
एतेषां द्वितीय-ज्ञानानां “विकल्प”-पद-वाच्यत्वम् एव वदन्ति ।

… वेदान्तशास्त्राद् बहुदूरं गता वेदबाह्या बौद्धा एव

स्वलक्षणं ज्ञानमेकमङ्गीकृत्य
तत्तद्-विकल्परहितम्
अत एव निर्विशेषवस्तु-विषयकम्।
इदमेव प्राथमिकं ज्ञानम्।
धर्माश् च द्वितीयक्षणादारभ्य
अस्मिन् वस्तुनि कल्प्यन्ते

इत्यादिकं विस्तरेण प्रतिपाद्य
एतेषां द्वितीयज्ञानानां विकल्पपदवाच्यत्वमेव वदन्ति ।

अयं भावः - “तत्त्वं निर्विशेषम्” इति
स्वलक्षणप्रत्यक्षमात्रप्रामाण्यवादिनो बौद्धाः ।

स्वलक्षणज्ञानं नाम यद् वस्तु-स्वरूप-मात्रं प्राथमिके प्रत्यक्षे भासते ।
तदा धर्मा न भासन्ते ।
अतः प्राथमिकं ज्ञानं निर्विकल्पकमित्युच्यते
तदेव प्रमाणम् ।
धर्मविषयकं यज्ज्ञानं
तद् विकल्पपदेनाच्यते।
धर्माणामवस्तुत्वात् तद्विषयकं ज्ञानं भ्रम एव।

विकल्पो ऽवस्तु निर्भासाद्
विसंवादाद् उपप्लवः
(प्रमाण-वार्तिकम्)

इति ते वदन्ति ।
एतन्-मते विकल्पः स-विकल्पक इति पर्यायौ ।

प्रथमक्षणेऽपि ज्ञानं सविशेषम्

वैदिकाः

[[37]]

एतत् सर्वम् अप्रमाणम्
इति श्रीभाष्य-गूढार्थ-सङ्ग्रहे, तत्त्व-मुक्ता-कलाप-व्याख्यायां सर्वङ्कषायाञ् च
बहुविस्तरेण विचारितम् ।
अतश्च प्रथमक्षणे जायमानं ज्ञानम् अपि
न निर्विशेष-वस्तु-विषयकम् इति ।

… एवं च प्रथमाक्षि-सन्निपात-जन्यं ज्ञानम् अपि
अन्ततः गुण-गुणि-विषयकम् एव,
रूपस्याग्रहणे द्रव्यस्य ग्रहणासम्भवात् ।

यद्य् अपि तज्-ज्ञानं
तदा तथा न विविच्येतापि - पृथग् अनुपलम्भात्
तथापि तद् अनन्तरं व्यवहारः स्पष्टं धर्म-धर्मि-विषयक एव भवति ।
अतः निर्विशेषं वस्तु
जगति शश-शृङ्ग-तुल्यम् एव,

नैय्यायिकाः

… इदं नैय्यायिकादिभिः नाङ्गीक्रियते ।
प्राथमिक-ज्ञानेऽपि धर्म-धर्मिणोर् उभयोर् ग्रहणम् आवश्यकम् ।
अतः अन्ततः पदार्थ-द्वय-विषयकम् एव ज्ञानं प्राथमिकं ज्ञानम् ।+++(4)+++

नैयायिकानां निर्विकल्प-ज्ञानम्

यद्य् अपि नैय्यायिकैः
“निर्विकल्पकं ज्ञानम्” अङ्गीकृतम्,
परन्तु तद् अतीन्द्रियम् ।+++(4)+++

… वेदान्तिनां तु ज्ञानस्य स्व-प्रकाशत्वाद्
एतेषाम् अतीन्द्रियं निर्विकल्पकम् अप्रमाणम् एव ।

व्यावर्तन-विवक्षा

कदाचित् प्रयुज्यमानम् अपि निर्विशेष-पदं
विवक्षित-विशेषस्याभावात् तथा प्रयुज्यते ।+++(4)+++
यथा जन-सम्मर्दं दूरात् पश्यन्
कश्चित् तत्-प्रदेशाद् आगच्छन्तम् अन्यं पुरुषं पृच्छति

को विशेषः? तत्र जनाः मिलिताः?

इति। अन्य उत्तरं वदति

न कोऽपि विशेषः, आकस्मिकोऽयं सम्मर्दः

इति ।
अथाऽपि तत्र तत् क्षेत्रं शून्यम् एवेति नार्थः । +++(5)+++

अत एव श्रीभाष्ये महा-सिद्धान्ते

स-विशेष-विषयत्वात् सर्व-प्रमाणानाम् (१.१.१)

इत्य् उक्तम् ।

[[30]]

एवं सति जगत्-कारण-भूतं वस्तु न केवलं जगद्-उत्पत्ति-मात्र-कारणम्,
किन्तु जगत्-सम्बन्धि-सर्व-विध-विषयाणाम् अपि
ब्रह्मैव कारणम्,
तच् च स-विशेषम् इत्य् एव आस्तिकाः ।

वस्तूनां स्वभावानुरोधेनैव
सर्वं भवतीति बौद्धाः वदन्ति ।
नात्र स विषयः,
वस्तु कथं भवतीति नात्र विचार्यते,
किन्तु वस्तु सविशेषं वा निर्विशेषं वा इत्येव विचारः क्रियते ।

नैय्यायिक-विशेषः

… नैय्यायिकैर् अपि
“निर्विशेषो विशेष” इति विशेषपदार्थस्य लक्षणम् उच्यते ।
यावतां व्यावर्तक-धर्माणाम् अन्ते अवसाने
यो वर्तते स विशेषः।
यः भेद इत्य्-आख्य-पदार्थः,
विशेषाख्य-पदार्थ-मूलकः ।
अतः लोके
“को विशेष?” इत्यस्य स्थाने
“को भेदः” इत्यपि व्यवहरन्ति ।
एतादृशाः पदार्थाः अनन्ताः सन्ति ।
कुतः प्रतिपरमाणु +एको विशेषो वर्तते?
तथात्वादेव तेषां भेदस् सिद्ध्यति तन्मते ।

एतादृशाणां विशेषाणां भेदः कथं सिध्यति?

इति प्रश्ने
“स्वत एवे"त्य् उत्तरं वक्तव्यम् -
विशेषे विशेषान्तराङ्गीकारे अनवस्था प्रसङ्गात् ।
अत एव “स्वतो व्यावृत्ताः विशेषाः” इति विशेषाणां लक्षणम् उच्यते ।

तर्हि विशेष-पदार्थे न कोऽपि धर्मः

इति चेद्
विशेषान्तराभावेऽपि प्रमेयत्वादयो धर्मास्तु सन्त्य् एव ।+++(4)+++
अत एव तादृश-प्रमेयत्वादिभिः
विशिष्टस्यैव विशेषस्य व्यावर्तक-धर्मान्तराभाव-मात्रात्
“निर्विशेषो विशेषः” इति वादः आगतः
न तावता निर्विशेष-पदार्थो धर्म-शून्यः ।

… अत एव नैय्यायिकानां ‘निर्विशेषो विशेषः’ इति वादोऽपि
विशेषत्व-जात्य्-अ-भावाभिप्रायेण न तु प्रमेयत्व-पदार्थत्वादि-धर्माभावाभिप्रायेण ।

न निर्विशेषं किञ्चित्

… वस्तुतस् तु
ब्रह्म निर्विशेषम् उत सविशेषमित्येव मूलभूता समस्या जागर्ति ।
न किञ्चिद् अपि वस्तु
निर्विशेषं भवितुम् अर्हति ।+++(5)+++
अत एव श्रीभाष्ये महासिद्धान्तारम्भे

[[36]]

“निर्विशेषवस्तु-वादिभिः
“निर्विशेष-वस्तुनि इदं प्रमाणम्” इति न शक्यते वक्तुम्,
स-विशेष-विषयत्वात् सर्व-प्रमाणानाम्।
सविशेषो ऽप्य् अनुभूयमानो ऽनुभवः
केनचिद् युक्त्य्-आभासेन निर्विशेष इति निष्कृष्यमाणः
सत्तातिरेकिभिः स्वासाधारणैः स्व-भाव-विशेषैर् निष्क्रष्टव्य इति
निष्कर्ष-हेतु-भूतैः सत्तातिरेकिभिः स्वासाधारणैः स्वभावविशेषैः
सविशेष एवावतिष्ठते ।

अतः कैश्चिद् विशेषैः
विशिष्टस्यैव वस्तुनः
अन्ये विशेषा निरस्यन्ते इति,
न क्वचिन् निर्विशेष-वस्तु-सिद्धिः”

इत्य् उक्तम् ।
… महासिद्धान्तारम्भे श्रीभाष्ये उक्तोऽर्थः अनुल्लङ्घनीय एव ।

… वस्तु चेत्, सविशेषम् एव, न निर्विशेषम् ।
निर्विशेषं तु
न केनापि प्रमाणेन सिध्यति,
तादृशस्य शश-शृङ्गायमाणत्वात् ।
अयम् अर्थः श्रीभाष्ये जिज्ञासाधिकरणे महासिद्धान्तारम्भे

“निर्विशेष-वस्तु-वादिभिः निर्विशेष वस्तुनि
“इदं प्रमाणम्” इति न शक्यते वक्तुम्,
स-विशेष-विषयत्वात् सर्वप्रमाणानाम्"

इत्य्-आदि-वचनैः ज्ञातव्यः ।

शास्त्र/विचार-प्रयोजनं सविशेषे

… अध्ययनादिना एव सामान्यत ब्रह्मशब्दार्थ अवगतः ।
तस्यैव विशेषजिज्ञासया ब्रह्म-मीमांसा आरभ्यते ।

वस्तुनि सामान्यतो ज्ञाते
विशेषतोऽवगमार्थं विचारः
इति विचारशास्त्रस्य मर्यादा ।
एवं सति
निर्धर्मके निर्विशेषे वस्तुनि कथं विचारः ?
अतो ब्रह्ममीमांसा-शास्त्रस्य विषयो
निर्विशेषं वस्तु भवितुं नार्हति ।

… किञ्च शास्त्रम् इति प्रसिद्धं वेदान्तशास्त्रं
सविशेष-वस्तु-विषयकम् एव भवितुम् अर्हति ।
सामान्यरूपेण विदिते विशेष-जिज्ञासया खलु
विचारशास्त्रं प्रवर्तते ।

… विचारः सर्वोऽपि
वस्तुनः स-विशेषत्वे सत्य् एव सङ्गच्छते।
अतः सर्वमपि वस्तु सविशेषम् एव ।

… विचारः सर्वोऽपि
वस्तुतः सविशेषत्वे सत्य् एव सङ्गच्छते।
अतः विचार्यमाणं वस्तु सविशेषमेव ।

सक्रियता, ब्रह्म-सूत्रानुकूल्यम्

… गीतायाः उपनिषदां वचनानां विवक्षितम् अर्थं
निर्धारयितुं प्रवृत्तं वेदान्तविचारशास्त्रं
ब्रह्मसूत्राणि इत्युच्यन्ते ।
तानि सविशेषवाद एव अनुकूलानीति
तटस्थविद्वांसः सर्वेऽप्यभिमन्यन्ते ।

सत् चैतन्यम्

… अत एव ईक्षत्य्-अधिकरणे
“ईक्षतेर् नाशब्दम्” (ब्र.सू. १.१.५ ) इति सूत्रं
“सद्-विद्यायां छान्दोग्ये
सच्-छब्द-पद-वाच्यं जगत्-कारणतया निर्दिष्टं वस्तु
चेतनाचेतन-साधारणत्वेनाचेतनं प्रधानम् एव कुतो न भवती"ति साङ्ख्यानाम् आक्षेपे
उत्तर-दानाय प्रवृत्तम् ।

प्रधानं न सच्-छब्द-वाच्यं,
सच्-छब्द-वाच्यय् +++(“तद् ऐक्षत”→)+++ ईक्षणस्य श्रवणेन
तत्र जगत्-सृष्ट्य्-अनुकूल-सङ्कल्पस्यावश्यकत्वात्,
प्रधाने च तादृश-सङ्कल्पस्यासम्भवात्
तन् न सच्-छब्द-वाच्यम् ।
ईक्षणं च चेतन-धर्मः।
अतः सच्-छब्द-वाच्यं वस्तु
चैतन्य-रूपं ब्रह्मैव जगत्-कारणम्
इति सूत्रार्थः ।

अधिकरणान्तराणि

तद्-अनन्तराणि सर्वाण्य् अपि
स-विशेष-ब्रह्म-विषयकानि
इति ब्रह्म-सूत्रैः स्पष्टं ज्ञायते ।

… एवं सति जगत्कारणभूतं वस्तु
न केवलं जगद्-उत्पत्ति-कारणम्,
अपितु जगत्-सम्बन्धि-सर्व-विषयाणाम् अपि
ब्रह्मैव कारणम् इति प्रथमाध्यायेन प्रतिपाद्यते ।
प्रत्यधिकरणं ब्रह्मणः +चेतनाचेनवैलक्षण्य-प्रतिपादनाय
तद्-अ-साधारण-धर्मा एव
हेतुत्वेन प्रतिपाद्यन्ते ।

सर्वं वस्तूनां स्व-भावानुरोधेनैव भवतीति
बौद्धैः +ब्रह्म नाङ्गीकृतम्।
अतः +न त्व् आस्तिकानां
कर्तुम् अकर्तुम् अन्यथाकर्तुं समर्थं ब्रह्म स्वीकर्तॄणां मते
तत् सम्भवति। ब्रह्मणो निर्धर्मकत्वे
एतत् कथं सम्भवति?
अतः ब्रह्मसविशेषमेव ।

वेदोद्देशः

… तथैव शङ्कराचार्यैर् अपि निर्विशेषं वस्तु प्रतिपाद्यते चेत्
कथं तेषां वैदिकत्वं भवेत् ?
वेदाः सर्वेऽपि ब्रह्मणः स्तुति-रूपा इत्येव वैदिका मन्यन्ते

“एकं सद् विप्रा बहुधा वदन्ति” (ऋ. १.१६४.४६)

इत्येव खलु घुष्यते वेदे ।

शक्त्या स-विशेषम्

ब्रह्म-शब्दोऽपि
स्वतः बृहत्त्वादि-गुण-विशिष्टम् एव वस्त्व् अभिधत्ते ।

ब्रह्मसूत्रेषु प्रत्यधिकरणं चिद्-अ-चिद्-विलक्षणत्वं
ब्रह्मणः साधनार्थं कश्चन धर्म एव हेतुतया अभिधीयते ।
यथा “विवक्षितगुणोपपत्तेश्च” (1.2.2)
“धर्मोपपत्तेश्च " ( 1.3.8)
“सर्वधर्मोपपत्तेश्च” (2.1. 36) इत्यादि।

यतः निर्धर्मके वस्तुनि जिज्ञासैव नोदेति मनुष्यस्य ।

… अत एव वैदिकानाम् अध्यात्म-विचारार्थम् एव प्रवृत्ते शास्त्रे
“अथातो ब्रह्म-जिज्ञासा” इत्य्-अत्र
बृहत्त्वादि-धर्म-विशिष्ट-वस्तु-बोधकं ब्रह्म-पदं प्रयुक्तं वर्तते ।
ब्रह्म-पदं हि शक्त्या +++(बृहत्त्वादिभिः)+++ स-विशेषं वस्तु बोधयतीति
निर्विशेष-वादिभिर् अभ्युपगन्तव्यम् ।+++(5)+++

सर्वेषां पदानां शक्त्या बोध्यमानोऽर्थ एव मुख्यार्थः ।
जगद्-उत्पतौ शुद्ध-ब्रह्मणः साक्षाद्-उपादानत्वाङ्गीकारे
तस्य स-विकारत्वापत्तिर् इत्य्-आदयो दोषास् तु
द्वितीयाध्याये प्रथम-पादे अतिविस्तरेण विचारिताः,
अत्राप्य् अग्रे विचारिता एव ।

लक्षण-सद्भावतः

… निर्विशेषस्य तु तटस्थं तत् “सत्यं ज्ञानमनन्तम्” इति तु
तस्य लक्षणमित्यादि स्वमतं स्थापयन्ति +++(शाङ्कराः)+++।
वस्तुतः निर्विशेषस्य ब्रह्मणः “सत्यं ज्ञानम् अनन्तम्” इत्यादि वा
कथं लक्षणं सम्भवति ?
लक्षणं नाम असाधारणधर्म इति सर्वप्रसिद्धम् ।
एवं सति तन्निर्विशेषं कथं भवेत् ?

निर्विशेषत्वं विशेष-नाशो न

[[31]]

इदम् अत्रावधेयम् -
लोके “सङ्गीत-विद्वान् कुत्र गतः ?” इति प्रश्ने
सङ्गीतविद्वान् निद्रातीति उतरं दीयते ।
वस्तुतः निद्राकाले सः गायति वा ?
अतः “सङ्गीत-स्विद्वान् न निद्राती"ति प्रयोगः अपार्थ एव स्यात् ।
सः जागरणानन्तरं पिशाचाविष्टः सन् गायतीति न कोऽपि मनुते,
परन्तु स एव गायतीत्येव मनुते ।+++(5)+++
सङ्गीतविद्वान् निद्रातीति व्यवहारे
तस्य सङ्गीत-ज्ञानस्य व्यक्त्य्-अ-भावेऽपि
शक्ति-रूपेण तज्-ज्ञानं वर्तते एव ।

नो चेत्
सुषुप्तौ सर्वेषां सम्पूर्ण-ज्ञान-शून्यत्वात्,
व्यवहारोपयोगि-सामान्य-ज्ञान-दृष्ट्या ऽपि
निद्राणः पुरुषः अन्य एव भवेत् ।
इष्टापत्तौ च
निद्रावस्था ऽपि मरण-तुल्या स्यात् ।
नैतत् कस्यापि सम्मतम् ।
सुप्तोत्थितस्य

“निद्रावस्थायां योहम् आसं
स एवाहम् उत्थितः "

इति प्रत्यभिज्ञा ऽपि विरुध्येत ।

ब्रह्म-सूत्रम् अपि

‘स एव तु कर्मानुस्मृति-शब्द-विधिभ्यः’ (ब्र.सू.)

इतीमम् अर्थं स्पष्टं साधयति ।

तत्रापि अहम्-अर्थ-नाशं नव्या निर्विशेषाद्वैतिनः वदन्ति ।
तच् च चार्वाक-मत-तुल्यम् एव भवेत्,
न त्व् आस्तिक्य-वादः
इति सर्वथा त्याज्यम् ।

अतः +निर्विशेषं न किञ्चिद् भवितुम् अर्हति ।
कथञ्चन निर्विशेष-पद-प्रयागस् तु
अपेक्षित-विशेष-रहितत्वाद् धर्माणाम् अनुन्मेष-दृष्ट्या वेति बोध्यम् ।

एवं लोके “शास्त्र-पण्डितः; अध्यापको निद्राति” इत्य्-आदयः प्रयोगा अपि दृश्यन्ते ।
तद्वद् एव निर्विशेष–स-विशेष–पदयोर् अपि अर्थ-भेदो ऽवगन्तव्यः ।+++(5)+++

पाञ्चरात्रे व्यूहाः

अत एव पाञ्चरात्र-प्रक्रियायां
पर-व्यूह-विभवान्तर्याम्य्-अर्चावतार-भेदः प्रतिपादितः ।
एतेषु पर-वासुदेव-रूपं सर्वोत्तीर्णं
निर्विशेष-वादि-सम्मत-ब्रह्म-तुल्यम् ।
अथापि तत्र गुणानाम् अनुन्मेष-मात्रम्,
न तु गुणानामसम्भवः ।+++(5)+++
अत्र गुणानां सर्वथा अ-सत्त्वे
कथम् उत्तरेष्व् आविर्भावः ?

तद् एव यदा व्यूह-रूपम् आप्नोति
तदा ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजसाम् अपि षड्-गुणानाम् आविर्भावाद्
व्यूह-वासुदेव-नाम्ना व्यवह्रियते ।
अनन्तरं सङ्कर्षण-प्रद्युम्नानिरुद्धेषु
एकैकस्मिन् अपि प्रधानतः द्वयोः द्वयोः गुणयोर् उन्मेषः,
इतर-चतुर्-गुणानाम् अनुन्मेषः ।

अनन्तरं राम-कृष्णावताराः विभव-पदेनोच्यन्ते ।
सर्वत्र “क्षीरे सर्पिर् इवार्पितम्”
इति श्रुत्य्-उक्त-रीत्या वर्तमानः अन्तर्यामीत्य् उच्यते ।
सोऽपि भगवतः कश्चनावतारः ।

एतावता यद् उक्तं
तन् मन्द-मतीनां दुर्ग्रहम् ।
अतः इतोऽपि सुलभतया
अर्चावतार इत्य् अन्तिमः कथ्यते +++(पाञ्चरात्र-कृद्भिः)+++।
स एव देवालयादिषु पूजादिकं गृह्णातीति
पाञ्चरात्रोक्त-प्रक्रिया ऽपि
ब्रह्मणः एकस्यैव पर-व्यूहाद्य्-अवस्था-भेद-मात्रं प्रतिपादयति,
न तु सविशेष-निर्विशेष-ब्रह्म-भेदम् ।+++(4)+++

अस्य विस्तरस् तु तत्त्व-मुक्ताकलाप-व्याख्ययां सर्वङ्कषायां
नायकसरे द्रष्टव्यः ।

[[32]]

प्रस्तुत्य्-अन्तरम्

… अत्रेदं रहस्यम् -
पञ्च-रात्र-प्रक्रियायां
पर-व्यूह-विभवान्तयाम्य्-अर्चावतार-भेदाः परमात्मनो वर्णिताः।

तत्र पर-रूपं सर्वोत्तीर्णं वेदान्त उच्यमानात्म-तत्त्व-स्थानम्।
सर्व-शक्ति–सर्व-गुण-परिपूर्णम् अपि
तत्-कार्याभावाद् अन्-अभिव्यक्त-शक्ति-गुणकम् ।
ब्रह्म-सूत्रेषु
“सर्वोपेता च तद्-दर्शनात्”, “सर्वधर्मोपपत्तेश्च” इत्यादिसूत्राणां विषयीभूतं
परवासुदेवाख्यं तत्त्वम् ।

व्यूहरूपाणि तु वासुदेव-सङ्कर्षणप्रद्युम्नानिरुद्धाख्यानि चत्वारि ।
तत्र व्यूह-वासुदेव-रूपम् अभिव्यक्त-सर्व-शक्तिकं सर्व-गुणोपेतञ् च
वेदान्त उच्यमान उच्छून-बीज-सदृश-ब्रह्म-स्थानम् ।
सङ्कर्षण-प्रद्युम्नानिरुद्ध-रूपाणि प्रत्येकं प्रधानतोऽभिव्यक्त-गुण-द्वयकानि
क्रमेण संहार-स्थिति-सृष्टि-निर्वाहकानि
इतरैस् त्रि-मूर्ति-पद-वाच्यानि तत्त्वानि ।

अन्तर्यामि-तत्त्वं तु " क्षीरे सर्पिर् इवार्पितम्”
इति श्रुति-विषय-भूतं सर्वत्र वर्तमानं प्रसिद्धम्।

अर्चा-तत्त्वम्ं तु
अतीव-मन्दाधिकारिणाम् अपि सु-लभम्,
अत्यन्ताश्रित-वत्सलत्वाद् लोकेऽवतीर्णं दिव्यं रूपं देवालयादिषु विराजमानम् ।

निगमनम्

पूर्वोक्तपाञ्चरात्रपक्रियापि ब्रह्मणः सविशेषत्वम् अवस्थाभेदञ्च प्रतिपादयति ।
न तु सत्यत्वमिथ्यात्वभेदम् ।

बीजं सविशेषम्

… जगन्-मूल-बीज-भूतं तद् आत्म-तत्त्वम्
अन्-अन्त-विशेष-गर्भितम्,
न निर्विशेषम् ।+++(5)+++
एतादृश-विचित्र-चिद्–अ-चित्-प्रपञ्चस्य मूलं तत्त्वं
कथं निर्विशेषं स्यात् ?
यथा विचित्र-शाखा-पत्र-पुष्प-फलात्मकाम्र-वृक्ष-रूपेण परिणामानुकूल-शक्ति-विशेष आम्र-बीजे स्वीक्रियते ।
अन्यथा तस्माद् यदि पनसोऽपि स्यात्,
तदा बीजं निर्विशेषं स्यात् ।+++(5)+++

[[91]]

" यच्चेहास्ति यच्च नास्ति
सर्वं तत्र समाहितम् "
(छा.उ. ८.१.३),

“एकं बीजं बहुधा यः करोति " ( श्वे. उ. ६.१२),

“बीजं मां सर्वभूतानां
विद्धि पार्थ सनातनम् " (गी. ७.१० )

इत्य्-आदि-श्रुति-स्मृतिभिर् अयम् अर्थः +ज्ञातुं शक्यते ।

छान्दोग्ये वट-बीज-दृष्टान्तेन
अयम् अर्थ एवं प्रकाशितो वर्तते -
गुरुः शिष्यं जगन्-मूल-कारण-तत्त्व-बोधयितुम्
एकं वटस्य बीजम् आनाय्य
तद्-अन्तर्वर्ति धानासु +एकां धानां विभेद्य पृष्टवान्,
“किं निभालयसे?” इति ।
शिष्येण “न किञ्चिद् भगव” इति उत्तरे दत्ते

न किञ्चिद् दृश्यते चेद् अपि,
दृश्यते चेद् अपि
एतादृश-विचत्र-विस्तृत-शाखा-पत्र-पुष्प-फलात्मक-वट-वृक्ष-रूपेण परिणामानुकूल-विशेषः कश्चन
वटबीजे स्वीकर्तव्य एव ।+++(5)+++
यम् अणिमानं त्वं न निभालयसे
स एव एवं महा-वट-वृक्ष-रूपेण परिणतो वर्तते ।
एवम् एव जगत्-कारणम् अतिसूक्ष्मं दुर्ज्ञेयम् आत्म-तत्त्वम् अपि,
एतद्-विचित्र-चिद्–अ-चिद्-आत्मक-जगद्-रूपेण
परिणामानुकूल-विशेष-विशष्टम् एव ज्ञातव्यम्

इति गुरुः +तं निर्विचिकित्सं चकार +इति ।

तोतापुरी, श्री-रामकृष्ण-परमहंसश् च

… कस्मिंश्चिद् ग्रामे
परमास्तिक-कुटुम्बो राम-भक्तः कश्चित् क्लेशेन कालं नयन्न् आसीत् ।
काल-क्रमेण वृत्ति-कर्शितः सकुटुम्बस्
तं ग्रामं परित्यज्य
काल्कत्ता-नगरं ग्रामं प्राप ।
तत्र क्षेत्रे कालिका-देवालये पूजकवृत्तिस्
तत्-कुटुम्बान्तर्गतेन तरुणेन साधुना श्रीरामकृष्णेन
गत्य्-अन्तराभावात् कर्तव्या बभूव ।

[[53]]

स तु तरुणः
जन्मनैव त्रि-करण-शुद्धः परमसाधुः
तां कालीं साक्षाज् जगन्मातृभावेन पूजयन्न् आसीत् ।
सापि देवी तदीयमार्जवं ज्ञात्वा
प्रसन्ना तं तरुणं साधुं स्वपुत्रम् इव मन्यमाना
तस्य साधोर् मनसि या काचन जिज्ञासा उदेति चेत्,
तत्सर्वं परिपूर्य
तं सर्वज्ञ-कल्पं कुर्वन्ती
काले तस्मै स्वदर्शनम् अपि दत्वा
तं साधुं क्रमेण बहुधा पोषयामास ।

सोऽपि तरुणः
नाना-विधान् अन्तरङ्गान् अनुभवान् प्राप्यात्यन्तं निर्वृत्तः ।

“यस्य सर्वे समारम्भाः
काम-सङ्कल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं
तम् आहुः पण्डितं बुधाः " ॥
(गी. ४.२१)

इत्य्-उक्त-लक्षणं पाण्डित्यं निर्विद्य

“बाल्येन तिष्ठासेत्” (बृह. उ. ३.५.१ ),

इति वचनस्य निदर्शनं भूत्वा कालं प्रमोदेन नयन्नासीत् ।

कदाचित् तस्य साधोर् मनसि जिज्ञासा अभूत्,
वेदान्ते सर्वं ब्रह्ममयम् इत्य् उद्घोषयन्ति किल,
तत् कथम् अहं जानीयामिति ।
तथैव देवीं प्रार्थयामास ।
तत्क्षणे एव तस्य दृष्टिः परिवर्तिता ।
सर्वं पुरतो विद्यमानं विलक्षणं चिन्मयमदृश्यत तेन ।
पूजागृहं पूजा-साधनानि सर्वाण्य् अपि वस्तूनि चिन्मयान्य् अदृश्यन्त ।
यदा देवीं कालीम् अपश्यत्,
तदा सापि चिन्मयी दृष्टा ।
तस्य निर्धारणार्थम् आसनाद् उत्थाय
कालीं देवीमुपसृप्य परीक्षितुं प्रारब्धवान् ।
तदा सर्वं चिन्मयमपश्यत् ।
पुनः कुतूहलं कृत्वा,
देव्याः पृष्ठभागे स्थिते कुड्ये एतावता कालेन दृश्यमानापि छाया
तदा नासीत् ।
यतो अधुना देव्याः मूर्तिर् न शिलामयी,
किन्तु शुद्धचैतन्यमयी अभूत् ।
कथं तस्या छाया भवेद् इत्यपि मनसि निधाय
निवृत्त-सर्व-संशयो बभूव ।

एवं यदा मन्दिरम् अपश्यत्
तदा मन्दिर-द्वारम् आश्रित्य तिष्ठन्तं कञ्चन पुरुषम् अपि चिन्मयम् अपश्यत् ।
स च चोर आसीत् ।
चारोऽपि दिव्यो दृष्टः ।
देव्या अनुग्रहेण सर्वम् अप्य् एतादृश-विचित्र-चिन्मयेन रूपेण तेन दृष्टम् ।
इमं प्रसङ्गं कदाचन स्वभक्तेभ्यः श्रावयन्न् आसीत् श्रीरामकृष्णपरमहंसः ।
तत्रेदं श्रृण्वन् पुरतः स्थितः शिष्यः मास्टर-महाशयः
जिज्ञासया प्रपच्छ

“सर्वं चिन्मयम् इत्य् अस्यार्थ एव न ज्ञायते किल,
किञ्चिद् विवरणं दीयताम्’

इति । तस्यैवं परमहंस उत्तरमदात् -

मधूच्छिष्टाख्य-द्रव्येणैकं वृक्षं निर्मीयाच् चेत् कश्चन,
तस्य वृक्षस्य शाखाः पत्राणि पुष्पाणि फलानि सर्वाण्यपि मधूच्छिष्टमयानि स्युः किल,
तद्वच् चिन्मयं नाम

इति ।
पुनर् अप्य् अ-निवृत्त-संशयः सः शिष्यः पृष्टवान्

मधूच्छिष्टमयं तु ज्ञायते,
चिन्मयम् इति तु न ज्ञायते किल

इति ।

[[54]]

श्रीरामकृष्णपरमहंसस् तु किञ्चिद् आलोच्य

“तथा वा ! स्वच्छस्फटिक-तुल्यं स्वानुभवैक-वेद्यं तत् ।
सर्वं चिन्मयम् इत्य् अस्याप्य् अयम् एवार्थः ।
एतदुपरि मा पृच्छ”

इति निष्कृष्ट-वचनेन तं भर्त्सयामास।

एवं सा देवी श्रीरामकृष्ण-परमहंसम् अध्यात्म-ज्ञानेन वर्धयन्ती लालयन्ती पोषयन्ती च आसीत् ।
सोऽपि सर्वेषु विषयेषु ज्ञानम् अवाप्य
तद्-अनुगुणान् अन्तरङ्गान् अनुभवांश् चाप्य
ज्ञातव्यम् एतावद् इति निश्चित्य,
ताम् एव देवीं सदा चिन्तयन्न् एवास्ते स्म ।

एतद्-अनन्तरं देव्या भवतारिण्या
एवं महती चिन्ता जाता,
यद्

एतस्य मुग्धस्य बालस्य चिन्ता
साकारतत्त्वे एव समागता किल,
निराकारं तत्त्वं लेशतोऽपि न जानाति,
येन विना मानवस्य आत्मनः पूर्णत्वं न सम्भवति,
तद्विषये जिज्ञासैव नोदेति तस्य बालस्य,
किमहं कुर्याम्

इति ।

अतः श्रीरामकृष्ण-परमहंसः
सद्यो-जात-शिशुवद् यदा महा-कालीम् एव सर्वस्वम् अमन्यत,
तदा भारस् सर्वोऽपि तस्या एव भवेद् एव ।
यथा कथञ्चित् स्व-भक्तं परिपूर्णं कर्तुं
भारस् सर्वोऽपि तस्योपर्य् एव पतति ।
अतस् सा देवी तद्-अर्थं कालं निरीक्षमाणा ऽऽसीत् ।

एतत्-समय एव
अन्या काचिद् घटना तदानीम् अभूत् ।
पञ्जाब-देशीयः कश्चनाद्वैत-मठस्य तोता-पुरी-नामको योगी
तपश् चकारात्मसाक्षाकारार्थम् ।
पूर्व-जन्म-सुकृत-वशाद् आत्म-साक्षात्कारं स प्राप ।
स च निर्विकल्पक-समाधिम् आरूढः,
तत्-कक्षायां सर्वं स्वेन साधितं मन्यमानः
किञ्चिदपि कर्तव्यं नावशिष्यत इत्यमन्यत ।

“ब्रह्म सत्यं, जगन् मिथ्या, जीवो ब्रह्मैव नापरः"

इति वचन-गहनताम् अजानानः
स आत्मानं परिपूर्णम् अमन्यत ।
वस्तुतः निराकार-तत्त्वावलम्बिनापि साकार-तत्त्व-स्वीकार आवश्यकः ।
तदैव जीवः पूर्ण-ज्ञानी भवति ।
यद्य् अपि साकारं सर्वं मिथ्यां मत्वा
केवलं निर्गुण-निराकारात्म-तत्त्व-निष्ठः सः,
किन्तु दयामयः सत्य-स्वरूपो भगवान् एव
साकार-तत्त्वस्याज्ञानाद् अपरिपूर्णं तं
परिपूर्णं कर्तुम् ऐच्छत् ।

यद्यपि तत्त्वक्षेत्रदृष्ट्या श्रीरामकृष्णपरहंस आरम्भकक्ष्यायाम् अस्ति,
मायापतिं ब्रह्म-स्वरूपं न जानाति,
तथापि देव्यां काल्याम् एव सन्न्यस्त-भारो निश्चिन्तो वर्तते ।
अतस् तस्य सर्वविधं योगक्षेमं भव-तारिणी काली देवी एव निर्वहति ।
अन्यः तोता-पुरी तु मायावैभवम् अजानन्
मायां तुच्छां मन्यमानः
आत्मानं च सर्वोतीर्णं मन्यमानः,
माया-प्रपञ्चे निस्पृहः, निर्भयं निर्गुणे प्रपञ्चातीते निराकारतत्त्वे सदा लीनो वर्तते ।

अतः उभौ अपि एकैकांशेनापूर्णौ ।
एतयोर् उभयोर् मेलनेन
उभाव् अपि परिपूर्णौ कर्तुं
जगन्-मूल-भूतं तत्त्वम् ऐच्छत् ।

[[55]]

अतः,

“मूल-भूतस्यात्मनो निराकारत्वे ऽपि
साकारत्वम् अपि तस्य सम्भवती"ति ज्ञानम् एव पूर्ण-तत्त्व-ज्ञानम्

इति प्रदर्शयितुम् एव तोतापुरी-श्रीरामकृष्णयोः मेलनं कारितं दैवेन ।
तादृश-दैवस्य प्रेरणयैव
कदाचन तोतापुरेर् मनसि +इयं भावना उदपद्यत–

“त्यक्त-सर्व-सङ्गस्य मम स्थान-मानादि-बन्धः कथम्”

इति । तदैव सः सर्वम् अपि परित्यज्य
दिगम्बरो लगुड-कमण्डलु-मात्र-धनः
ग्रामैक-रात्रं परिभ्रमन्
दैव-सङ्कल्पात् कल्कत्ता-नगर-परिसरम् आगात् ।
निवृत्त-सर्वेषणम् आत्मानं मन्यमानस्य तस्य मनसि
स्वयम् एव एकैषणोदभूत्
“कस्मैचित् सत्पात्रय स्वीया विद्या प्रदेया" इति,
यतः तदानीम् एव सिद्धा विद्या साधिष्ठा भवेद्
इति अध्यात्म-क्षेत्ररहस्यम् ।+++(4)+++

अतः स्वविद्या-प्रदानाय पात्र-भूतं समीचीनं पुरुषम् अन्विष्यन्
कुत्र तादृश इति तत्र तत्र सञ्चरन्
दक्षिणेश्वरम् आजगाम ।
दक्षिणेश्वरे सोपानघट्टे नौकायानाद् अवरुह्य
सोपानद्वारा उपर्यागच्छन्
पार्श्वे मण्डपे विश्रान्त्या उपविष्टं श्रीरामकृष्णपरमहंसम् अपश्यत् ।
श्रीरामकृष्णस्तु मध्याह्नपूजादिकं, आहारादिकं च सर्वं समाप्य
विश्रान्त्य्-अर्थं मण्डपे देवीं स्मरन्नुपविष्टः ।
तोतापुरी च तं पश्यन्नेव
दैवानुग्रहबलात् तदीयोत्तम-पात्रतां जानन्,
स्वमनसि “एतादृशः कः ?” इति विस्मितस्सन्
“कस् त्वम्” इति रामकृष्णमपृच्छत् ।
स तु सहजेन विनयेनैव शान्तमनस्कस्सन्
“अहमत्र पूजारी अस्मि" इति प्रत्यवदत् ।
तोतापुरी तु " हन्त एतादृशः पूजारी वा" इति विस्मितः सन्
“अहमेकां विद्यां तुभ्यम् उपदिदुक्षुर् अस्मि, किं स्वीकरोषि " इत्यपृच्छत् ।
स तु श्रीरामकृष्णः सहजबुद्धयैव
“मम माता स्वीकुर्याच्चेत्, स्वीकरोमि " इति प्रत्यवदत् ।
तोतापुरी च

“तर्हि मातरम् आपृच्छ्य वद,
अहमत्रैव निरीक्षमाणोऽस्मि”

इत्यवदत् ।
श्रीरामकृष्णः आगच्छन्न् एव “अङ्गीचकार मम माता” इत्याह ।
तच्छृण्वन्न् अतीव-सन्तुष्टः तोतापुरी

" तर्हि आगच्छ, समीचीनं प्रदेशं परिशीलयाम”

इति तं सहैव नयन्
उपदेशार्थं स्थानम् अन्विष्यन् कुत्रचित् स्थित्वा, “किमत्र लघुः उटजः निमार्तुं शक्यते" इत्यपृच्छत् । “शक्यत” इति श्रीरामकृष्णः प्रत्याह ।
" त्वया प्रथमं काषायः स्वीकर्तव्यो भवति किल" इति कथयत्य् एव तस्मिन्,
रामकृष्णः त्वरयैव " तत्तु न शक्यम् मया इत्याह" ।
तोतापुरी तु " कुत एवं, मात्राप्य् अङ्गीकृतम् इत्युक्तं किल " इति आश्चर्यादपृच्छत् ।
तस्य प्रत्युत्तरतया

" इयम् अन्या माता, सा मां सन्न्यासिनं द्रष्टुं न वाञ्छति ।
यद्यहं सन्न्यस्तो भवेयं, सा प्राणान् एव परित्यजेत् "

इति प्रत्याह ।
तोतापुरी विस्मितः - “किमिदम् अन्या माते"त्य् आश्चर्येण प्रपच्छ ।
सहजतया श्रीरामकृष्णः -

इयं मम जननी, मद्धस्ताद् उत्तरक्रियां वाञ्छति,
अन्या माता तु काली देवी मम

[[56]]

इति प्रत्युत्तरयामास ।
तोतापुरी

किमिदं मौढ्यम्, काळी देवी माता भवति वा ?

इति मनसि उपहसन्नेव दैवेन प्रेरितस्सन्

" तर्हि द्वित्रदिनानि तद्दर्शनाद् दूरे स्थातुं शक्यते वा” ?

इत्यपृच्छत ।

तावत्तु कर्तुं शक्यते ।
यतः सा एकस्मिन् कोणे स्थिता वृद्धा
मम माता प्रतिदिनं मम दर्शनार्थं नागच्छति ।
अहमपि न तत्र गच्छामि ।
द्वित्रदिनपरिहारेण न काऽपि हानि,

इति रामकृष्णः व्याजहार ।
तच्छ्रुत्वा तोतापुरी,

तर्हि सर्वं सज्जीक्रियताम्

इत्यादिश्य, रामकृष्णद्वारा सर्वं कारयामास ।
सर्वं सज्जीकृत्य यथासम्प्रदायं विरजाहोमादिकं सर्वं कारयित्वा
काषायं च धारयित्वा
तम् उटजे उपवेश्य

त्वया काल्यादिरूपं न स्मर्तव्यं,
निराकारात्मतत्त्वमेव स्मर्तव्यम्,

इति चादिशत् ।
तदा श्रीरामकृष्णः शतशः प्रयत्नं कृत्वापि कालीं विस्मर्तुं नाशकत् ।
तोतापुर्याः निर्भर्त्सनेन विषण्णः सन् अरोदीत् ।
तदानीं तोतापुरी पार्श्वभूमौ पतितम् एकं स्फटिकशकलं (a piece of glass) गृहीत्वा
श्रीरामकृष्णस्य भ्रूमध्ये मृदु तुदन्

“एतत्स्थानमेव दृढं स्मर, नान्यत् किञ्चन”

इति +अवोचत् ।
तस्य दक्षिणश्रोत्रे महावाक्यान्य् उपदिश्य
अन्ते सस्वरं प्रणवं श्रावयामास ।
तेन उत्तम-रीत्या निष्पन्नेन +अनाहत-नाद-रूप-प्रणव-स्वर-श्रवणेनाकष्टः श्रीरामकृष्णस्यात्मा
उपर्य् उपर्यारुह्य निर्विकल्पक-समाधिम् अध्यारोहत् ।

तत् पश्यन् तोतापुरी अतिविस्मितः

“एतत्स्थितिप्राप्त्यर्थं मया कियत् तपः कृतम्,
कति वत्सराः नीताः,
अयं तु निमेषमात्रेण कथम् एवं समारूढः"

इति आत्मनि प्रशंसन्,

अस्तु कियत्कालमयमुपविशति पश्यामि

इति मन्वानः उटजं बन्धयित्वा
किञ्चित्-पर्यटनं कृत्वा पुनः प्रत्यागत्य यदा श्रीरामकृष्णम् अपश्यत्,
सः पूर्ववदेव निश्चल उपविष्ट इति दृष्ट्वा
बहुविस्मयाविष्टो बभूव ।
एवं कतिपय-घण्टा निरीक्ष्यापि एनम् अचलम् एवापश्यत् ।
पुनः पुनः अत्यन्तं विस्मितो बभूव ।
श्रीरामकृष्णस्तु दिनत्रयपर्यन्तं यावत्
श्वासोच्छ्वासादिकं वर्जयित्वा निश्चलोऽभवत् ।

इदं पश्यन्नेव तोतापुरी

“ अहोऽयं शरीरमेव त्यजेद्वा" ?

इति भीतो बभूव ।
तत्क्षणे पूर्ववदेव प्रणव-स्वरं तस्य दक्षिणे कर्णे
अनुस्यूततया किञ्चित्कालमुपादिशत् ।

एतन्नादश्रवणेन समाधौ स्थितः श्रीरामकृष्णस्यात्मा ऽऽकृष्टस्सन् अवारुरोह ।
किञ्चिदिव चक्षुर् उन्मोल्य यदा बहिरपश्यत्
तदा तोतापुर्यपि निर्वृत्तः, “रक्षितोऽहम्” इति तुतोष ।

[[57]]

एवं भवतारिण्या अनुग्रहेण
एकनिमेषे एव श्रीरामकृष्णः सम्पूर्णसिद्धिं प्राप्तोऽपि,
निराकारे मग्नस्य तोतापुर्याः अवरोहणं तु
न तावत् सुलभम् अभूत् ।
यतः स तोतापुरी
निर्विशेषवादे अत्यन्तं मग्नमनाः,
पूर्व-वासनायाः दृढतरत्वाद् ईषद् अप्य् अवरोहितुं न शक्नोति स्म ।
अत उभयोः (रामकृष्णतोतापुर्योः) योजनाय प्रयत्नं कृतवतो भगवतः
अर्धप्रयत्नः सार्थको बभूव ।
रामकृष्णः पूर्णसिद्धो बभूव,
तोतापुरी तु अर्धसिद्ध एवास्ति ।

शिष्टार्धभागपूरणाय तोतापुर्याः साकारे विश्वासोत्पादनार्थं
बहुकष्टम् अनुभवितव्यम् अभूत् ।
तदर्थं तस्य समाधि-स्थितिं नाशयितुं
दैवेन तस्मै आमशङ्का-व्याधिर् उत्पादितः ।
तस्य शिक्षाप्राप्ति-पर्यन्तं
दैवं न तूष्णीं तिष्ठेद्
इत्य् अयम् अंशोऽपि
तेन ज्ञातुं न शक्यो बभूव ।

श्रीरामकृष्णपरमहंसस्तु देव्या वश आसीत् ।
अतः, बुद्ध्य्-अतीत-कक्ष्या ऽपि काचन वर्तते
इत्यपि ज्ञातवानासीत् ।
कक्ष्याद्वयं भवतीत्यपि ज्ञातवानासीत् ।
उभयानुभवोऽपि तदा तदा प्राप्तः ।
द्वयम् अप्य् अविशेषेणैव पश्यन्
दैवस्य चास्माच् चिन्तनातीतत्वं स्वरूपम् अनुभवन् सुखी आसीत् ।

तेतापुर्यास् तु “निर्विशेषभावनैवोत्तमा
निर्गुणं निराकारं तत्त्वमेव सत्यम्
अन्यत् सर्वं मिथ्ये"ति पूर्ववासना दृढतरा आसीत् ।
अत एव ब्रह्मणः सर्वातीतत्वं मनुष्य-बुद्ध्य्-अतीतत्वमपि न ज्ञातुं शक्यमभूत्तेन ।

वस्तुतस्तु

ब्रह्मस्वरूपं यतः कल्पनातीतम्
अत एव परस्परं विरूद्ध-धर्मा अपि
ब्रह्मणि न विरुद्ध्यन्ते

इत्य् आलोचयितुम् अशक्यम् अभूत् तेन ।

सर्वं भारं ब्रह्मणि निक्षिप्य
यद् यत् प्राप्यते
तत् सर्वं तदीयम् एवेति निश्चय एवादर्शः,
न त्व् अन्यतर-पक्ष-मात्रे निष्ठा न्याय्या -
ब्रह्मणः सर्वात्मकत्वाच् चिन्तनातीतत्वाच्च ।
मनुष्यस्य बुद्धिर् एव
सर्वत्र परस्परं विरोधं पश्यति ।
बुद्धेर् लक्षणं विरोध-प्रदर्शनमेव ।+++(5)+++
बुद्धेः सर्वातीतत्त्वं नाम कुत्रापि विरोधाप्रदर्शनम् एव,
तदा तस्य ज्ञानम् इति नाम ।
तत्बुद्धे-र्कक्ष्यायां सर्वत्र समम् एकं चैतन्यं ज्ञायेत ।
अत एव माण्डूक्योपनिषदि

“नान्तःप्रज्ञं न बहिःप्रज्ञं न प्रज्ञं
नाप्रज्ञम् अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् ऐकात्म्य-प्रत्यय-सारं
प्रपञ्चोपशमं शान्तं
शिवमद्वैतं चतुर्थं मन्यन्ते
स आत्मा स विज्ञेयः”

इत्यादिषु
ज्ञानस्य पराकाष्ठा ऐकात्म्य-प्रत्यय-सारम् इत्य् अनेनोच्यते ।
किन्तु तावदुपरिकक्षा-पर्यन्तं गमनाय,
सर्वम् एकमिति ऐकात्म्यभावना आवश्यकी,
न तु सर्व-मिथ्यात्व-भावना,
तत्र भगवद्-बुद्धेः सत्त्वात् ।

[[58]]

तोतापुर्यास् तु तादृश ऐकात्म्य-भावनां विना जगन्-मिथ्यात्व-भावनावशात्
स्वस्मिन्न् एव सर्वोत्तमत्व-भावनायाः सत्त्वात्
तादृशीम् उत्तम-कक्ष्यां तम् आरोहयितुं प्रयतमानं दैवम्
अस्य रोगमुत्पादितवान् ।
तादृशदैवदत्तव्याधिना पीडितः तोतापुरी बह्वक्लिष्यत् ।
पूर्ववत् समाधिसुखम् अपि तेन अनुभवितुमशक्यमभवत् ।

रामकृष्णपरमहंसोऽपि तन्-मन्दिराधीश-द्वारा तद्रोगचिकित्सार्थं बहुधा प्रायतत ।
आयुर्वेद - आलोपती - यूनानीचिकित्सेत्यादिभिः बहुधा चिकित्सितोऽपि
गुणं तु लेशतोऽपि नाध्यगच्छत् ।
यतः तस्य बुद्धेः शिक्षार्थं स व्याधिः तस्मै दैवेन दत्तः,
न तु तदीय-कर्म-मूलः ।
अतः नास्य प्रतीकारः
येन केनाऽपि वैद्येन मनुष्येण वा कर्तुं शक्येत ।

एतद् अजानन् स तोतापुरी
बहुवारं पूर्वमेतादृशप्रकरणे सः यत्करोति स्म,
तदेव बहुधाधुनापि कर्तुं प्रायतत ।
अथापि फलं न लब्धम् ।
पूर्वमेतादृशप्रकरणे सः निर्विकल्पकसमाधिमारूढः
तत्रैव बहुकालं तिष्ठन्,
व्याधेः स्थानालाभाद् आत्मनि लीनत्वात्
कतिपय-दिनानि शवसमाधौ स्थित्वा बहिरागच्छेत् ।
इदानीं तद् अपि तेन कृतं सर्वं व्यर्थम् अभूत् ।
उन्दुके+++(=??)+++ अधोभागे अतिसार-व्याधिना पीड्यमानस्यास्य मनः
अधोमुखमेव अभवत् ।
समाधिप्रवेश एव तस्य दुःशकोऽभूत् ।
एवम् अनेन वैद्यैश् च बहुधा प्रयतितेऽपि
सर्वं व्यर्थमभूत् ।
एकादश-मासान् कथम् अपि क्षिप्तवान् ।
अन्ते एकस्मिन् दिने तस्यात्मन्य् एव जुगुप्सा बभूव ।
मिथ्याभूतम् इदं शरीरम्, मिथ्याभूतो व्याधिः
सर्वे मिलित्वा एतादृशं योगिनं मां प्रतारयन्ति ।
अद्य एतेभ्यः शिक्षां प्रदास्यामि इति निश्चितवान् ।

यतो हि मानवा उपर्य् उपरि गमन-दृष्ट्या
जगति स्वीयं स्थानं कर्तुं वाञ्छन्ति,
तपोबलाद् यावत् शक्यते उपर्युपरि गच्छन्ति च ।
कदाचन, अहं सर्वातीतोऽस्मि इत्यपि भावना आगच्छेत् ।
तदा दैवमपि मौनमेव सहते ।
तेषामहङ्कार-नाशं न कुर्यादेव ।
अतः समय अहङ्कारः उद्गच्छेद् एव ।
अयम् अंशः श्रीतोतापुर्याः कथया ज्ञातुं शक्यते।

कदाचन तोतापुरी स्वस्योटजस्य पुरतः
अग्निज्वालां (धुनीम् ) प्रतिष्ठाप्य
तत्समीपे स्वयम् उपविश्य
श्रीरामकृष्णेन सह किञ्चिद् वार्तालापं कुर्वन् आसीत् ।
तत्समये कश्चन कर्मकरः
बीडिनामकं तमालपत्रगर्भितं द्रव्यमग्निना संयोज्य
तज्जन्यधूम्रपानाय यदा ज्वलत्-काष्ठं हस्तेन गृहीतवान्,
तद्दृष्ट्वा अतीव कुपितः तोतापुरी कोपेन तं ताडयितुं स्वीयं लगुडमुत्थापितवान् ।
समीपस्थः श्रीरामकृष्णः तद्दृष्ट्वा " अहो परब्रह्मणः क्रोधोऽप्यस्ति "
इति उच्चैः कृत्वा हसितुं प्रारब्धवान् ।

[[59]]

तच्छ्रुत्वा तोतापुरी तत्त्वं गृह्णन्,
इतः परं केनापि कारणेन कोपं न करिष्यामीति शपथं कृतवान् ।

अत्र विद्यमानं रहस्यं सर्वैरवधेयम् -
कोपः कथम् आगच्छति मनुष्यस्य ।
ब्रह्मानुभवस् तु सर्वभूतानाम् ऐकात्म्यरूपः ।
तद्-अवस्थायाम् “अयं” “परः” इति विभागस्यैवाभावात्
क्रोधः कस्योपरि आगच्छेत्,
जगतः सर्वस्यापि स्वस्मिन्न् एव सत्त्वात्
परस्यैवाभावे कस्योपरि क्रोधः स्यात् ।
एतत्तत्त्वं तेन रामकृष्णपरमहंसेन बहुदूरपर्यन्तं ज्ञातम् ।
तोतापुर्यापि कथञ्चित् किञ्चिज् ज्ञातं स्यात् ।
अथापि " ब्रह्म सत्यं जगन्मिथ्या" इत्यादि भेदानुभवस्यैव पराकाष्ठायाम् आसीद्
अतः कोपादिकम् अगच्छेदेव ।
स्वस्माद् अन्यन् न पश्यतः शुद्धब्रह्मणस् तु
कोपप्रसक्तेर् एवाभावे कस्योपरि क्रोधः ।
एतज्जानन्न् एव श्रीरामकृष्णपरमहंसः
तस्य परिहासं कृतवान् ।
सोऽपि सूक्ष्ममतिः तत्क्षण एव
कोपत्यागप्रतिज्ञां कृतवान् ।
सम्पूर्णतया भेदवासनाया अनष्टत्वात्
कोपस्यापि सम्पूर्णतया अजितत्वात्
तदीय प्रयत्नः फलेग्रहिर्नाभूत् ।

कदाचन स्वदेहमन-इन्द्रियादि-सम्बन्ध-प्रयुक्तान्
सर्वान् कोप-तापादि-दोषान् रोगांश्च ज्ञात्वा
सर्वं दीर्घम् आलोच्य
तेषु देहादिष्व् अभिमानो लेशतोऽपि स्याच् चेद्
इदम् अनिवार्यम् एव ।
तादृशाभिमानविषयस्यास्य शरीरस्य त्यागे
सर्वमपि दुःखं निराधारं स्वयमेव गच्छेत् ।
अत

" इदं शरीरम् अद्यैव त्यक्ष्यामि
गङ्गायाः अतीव गर्तस्थले नदीमध्ये"

इति शरीरं विसर्जयितुं निश्चितमतिः सन्
निश्शब्दे अर्धरात्रिसमये इतरैरज्ञातः गङ्गातीरमाजगाम ।
गङ्गानदीमध्ये नौकाः यत्र गच्छन्ति तत्र बहुगर्तः आसीत् ।

" तस्मिन् गर्ते पतित्वा शरीरमद्य त्यजामि ।
अनन्तरम् एतत् कथं मां बाधते, पश्यामि "

इति निश्चित्य गङ्गायामेवातरत् ।
उपर्युपरि मध्यभागं यदागच्छत्, गर्तस्तु न लब्धः ।
गर्तमन्विष्यन्नेव परतीरमेव प्राप ।
आश्चर्यमग्नो भूत्वा
परावृत्य स्थित्वा यदा पश्यति, तदा दक्षिणेश्वरमपश्यत् ।
देवालयादिकं छायावददृश्यत ।

किम् एतादृशगहनो जातोऽयं विषयः ।
कथं गर्तान् मयागतम् ।
अकस्मान् मध्ये दारुखण्डः पतितः स्याद्वा ।

पुनरधुना मार्गान्तरेण गच्छन्,
तत्र मग्नो भवेयमिति भावयन्
मार्गान्तरेणागन्तुं प्रायतत ।
परन्तु पूर्ववदेव सोपानम् अवाप ।
तत्र गत्वा पुनः चिन्ताक्रान्तः

“किमिदमाश्चर्यम् ? यत्र नौकाः गच्छन्ति तत्र जङ्घापरिमाणम् एव जलं कथं भवेत् ?
द्विवारमपि एवमभूत् किल

इति चिन्तामग्नस्य आकाशं पश्यतः
तदीयां स्थितिं दृष्ट्वा सत्यरुपी भगवान्
“एतदुपरि अयं न परीक्षणीयः” इति
स्वमायास्वरूपं तस्मै प्रकटयामासेति ऊह्यते ।

[[60]]

एतेन तस्य सर्वोऽपि भारः क्षिप्तो बभूव । व्याधिरपि क्षापितः ।
एतादृश-ज्ञानाभावाद् एतादृशी दुःस्थितिर्जातेति चिन्तया
सोपानम् अधिरुह्य
स्वीयम् उटजम् आगत्य,
एतावता कालेन यत्कृतं तत्सर्वं परमाद्भुतमयम् अपश्यत् ।
तादृशाद्भुतानन्देन तस्य निद्रापि नागच्छत् ।
उटजद्वारे उपविष्टः एतत् सर्वं पुनः पुनः चिन्तयन्नासीत् ।
तदैव उषःकालोऽपि समागतः ।

तोतापुर्याः योगक्षेमं प्रष्टुं श्रीरामकृष्णपरमहंसः तस्योटजमागच्छत् ।
अपूर्वतया उटजद्वारे उपविष्टं तं दूरादेव पश्यन् समीपमुपासर्पत् ।
“किमिदम् अपूर्वतया एवमुपविष्टः " इति तं तोतापुरीम् अपृच्छत् ।
सोपि “आगच्छ, आगच्छ, अस्ति महान् विशेष” इति स्वीयमनुभवं सर्वं वर्णयन्

भवतो वाद इदानीमङ्गीकृतः ।
एतदर्थमेव भवन्मात्रा महाकाल्या
अत्र एकादशमासान् यावत् स्थापितोऽहम् ।
माया मिथ्येति भावनाऽऽसीत् ।
तदानीं मायास्वरूपमपि सर्वमवगतम् ।
इतः परमत्र स्थातुं कारणं नास्ति ।
यथापूर्वं निर्भरः गच्छामि,
अनुमतिर्दीयताम्,

इत्यवदत् । रामकृष्णपरमहंसस्तु

‘अहं कः ? भवतोऽनुमतिदानाय, अधुना तु मातरं भवानङ्गीकरोति ।
अतः तदीयानुमतिं प्राप्य
तदीयप्रसादमपि स्वीकृत्य निर्गम्यताम्,

इत्यवदत् । सोऽपि तोतापुरी तदङ्गीकृत्य मन्दिर-कपाटोद्घाटनाय समयं निरीक्षमाणः
कपाटोद्घाटनानन्तरं रामकृष्णेन साकं देवीं नमन्
मनसि अनुमतिं प्रार्थितवान् ।
अनुमतिश्च लब्धा उभाभ्यामपि ।
अनन्तरं देवीप्रसादं स्वीकृत्य
दक्षिणेश्वरात् सः प्रतस्थे ।
तदनन्तरं स किमासीदिति न ज्ञायते ।

इयं घटना सर्वापि एकत्रैव न दृश्यते ।
तदीयचरिते तत्र तत्र लब्धान् विषयान् सङ्गृह्य,
तद्-अनुगुण-विज्ञानानि योजयित्वा
इदं सङ्ग्रहेण लिखितम् ।

एतद्-अध्ययनेन

ब्रह्म सविशेषं निर्विशेषं वा ?
सगुणं निर्गुणं वा ? साकारं निराकारं वा ?

इत्यादिचर्चानां सर्वासामपि उत्तरं लब्धुं शक्यम् ।

सङ्ग्रहतः कथ्यते चेत्

‘सत्त्वानीव विरुद्ध-जाति-जनुषा सिद्धानि सिद्धाश्रमे
वैरं यत्र मिथस् त्यजन्ति विधयः सर्वैः निषेधैः सह ।
तद् रङ्गेशयम् अङ्ग-सङ्गि-कमला-लक्ष्येश्वर-प्रक्रियं
शान्तावद्यम् अनन्त-मङ्गल-गुणं बह्म प्रपद्येमहि
( शतदूषणी)

इति श्लोके सञ्जग्राह
तत्त्व-रहस्यं श्रीमद्वेङ्कटनाथाचार्यः ।
एतद्-उपरि सर्वत्र पूर्ववासनैव कारणम् इति विषये

“ये यथा मां प्रपद्यन्ते
तान् तथैव भजाम्यहम् " (गी. १४.११ )

इति त्रिकालसत्यं गीतावचनं स्मर्तव्यम् ॥

[[61]]

शाङ्कराः

शङ्करोद्देशः

… अतो वस्तुतो महा-पण्डितस्य महामेधाविनः श्रीशङ्कराचार्यस्य
एतादृश-निर्विशेषवादाः सर्वेऽपि
बौद्धानां सन्तृप्त्यर्थमिति स्पष्टं ज्ञायते ।

वस्तुतो बौद्धा एव

  • प्रथमाक्षि-सन्निपात-जन्यं निर्विकल्पक-पद-वाच्यम्,
    अत एव स्व-रूप-मात्रावगाहि ज्ञानं प्रमाणम्,
  • अनन्तरं जायमानं तु
    विकल्प-पद-वाच्यं काल्पित-नाना-धर्मकम् अप्रमाणं,
  • धर्माणां कल्पितत्वेनैव मिथ्यात्वञ्

च वदन्ति ।

… अतः प्राणपणेनापि वैदिक-मत-संरक्षणे कटि-बद्धैस्
तद्-अर्थम् एवावतीर्णैः +महामेधाविभिः श्रीशङ्कराचार्यैः
वैदिकमतं बौद्धैर् ग्रस्त-प्रायं संरक्षितुं
स्वभाष्ये बौद्ध-सम्मताः वस्तु-निर्विशेषत्व–जगन्-मिथ्यात्वादयः +वादाः वक्तव्या अभूवन् ।
बौद्धा एव स्व-लक्षण-प्रत्यक्ष-मात्र-प्रामाण्यवादिनः ।
ते एव जाति-गुण-क्रिया-शून्यं निर्विशेषं स्व-लक्षणं वस्तु स्वीकुर्वन्ति ।
जाति-गुण-क्रियादयः +विकल्पाः सर्वेऽपि मिथ्या इति वदन्ति ।
वस्तुतस् ते वादा न वैदिकाः,
कुत्रापि वेदान्तेषु वस्तुनो निर्विशेषत्वं जगन्-मिथ्यात्वं
तत्-साधनाय रज्जु-सर्पादि-दृष्टान्ताश् च नोक्ताः ।
किन्तु जगतः सत्यत्वम्,
परिणामवादानुकूलाः मृद्-घटः तन्तुपटः ऊर्णनाभिः इत्यादयः दृष्टान्ता एव प्रतिपादिताः ।

… अतो वैदिक-सार्वभौमस्य वैदिक-धर्म-रक्षणार्थम् एवावतीर्णस्यास्य श्रीशङ्कराचार्यस्यान्तरङ्गाशयस्तु
न निर्विशेष-तत्त्व-प्रतिपादने आसीत् ।
केवलं बौद्धानां सन्तृप्यर्थम् एव
तथा प्रतिपादनीयम् अभूत् ।

… श्रीशङ्कराचार्यैः +ब्रह्मसूत्रभाष्ये निर्विशेष-तत्त्व-प्रतिपादनं तु
तात्कालिक-बौद्धानां सन्तृप्त्य्-अर्थम् एव ।
अन्यथा वश्य-राजानः
+मणि-मन्त्र-तन्त्रौषधि-सिद्धाः शुष्क-तार्किका जैनाः बौद्धाश्च
एनं वेदवादिनं मत्वा राजाज्ञया मारयेयुः ।+++(5)+++

अनुयायि-भ्रमः

… किन्तु अनन्तर-कालिकैस् तदनुयायिभिस् तु
तद्-आशयं न ज्ञात्वा
तत्तथैवानुकृतम्। +++(4)+++
प्रत्युत बौद्धैर् अङ्गी-कृत-शब्दापरोक्ष-वादादिकं प्रतिपादयतो
विवरण-कारस्य मतम् एव अद्यतनाद्वैतिभिः स्वीक्रियते
इति सर्वप्रसिद्धम्,
न तु वैदिकस्य भामती-कारस्य ।+++(4)+++

सविशेषताऽङ्गीकारः क्वचित्

… अत्र “सर्वोपेता च तद्-दर्शनात्” ( ब्र.सू. २.१.३० ) सूत्रम्,
तच् छाङ्कर-भाष्यं चानुसन्धेयम् ।
तथा हि -

“एकस्यापि ब्रह्मणो विचित्र-शक्ति-योगाद् उपपद्यते विचित्रे विकारप्रपञ्चे”

इत्युक्तम् ।

… एतेषां विचाराणां सर्वेषामपि समाप्ति-वेलायां
“सर्वोपेता च तद्दर्शनात्”
इति ब्रह्मणः सर्वशक्तिमत्त्वं प्रतिपाद्य
“सर्वधर्मोपपत्तेश्च” इति ।
तत्रत्यं शाङ्करभाष्यं ब्रह्मणः सर्वशक्तिमत्वं स्वीकरोति ।

… द्वितीयाध्याय-प्रथम-पादान्ते
“सर्वोपेता च तद्दर्शनात्” इति सूत्रं
“सा परा देवता सर्वशक्त्य्-उपेता च” इति शाङ्करभाष्यम् ।

“तत्-पुनः कथम् अवगम्यते विचित्र-शक्ति-युक्तं परं ब्रह्मेति ?
तद् उच्यते –
सर्वोपेता च तद्-दर्शनात् ।
सर्व-शक्ति-युक्ता च परा देवतेत्य् अभ्युपगन्तव्यम्” ।

… अत एवात्र प्रकरणे अन्तिमं सूत्रं “सर्वधर्मोपपत्तेश् च” इति -
… तत्-समनन्तराधिकरणान्ते “सर्वधर्मोपपत्तेश्च” इति सूत्रभाष्ये

यस्माद् अस्मिन् ब्रह्मणि कारणे परिगृह्यमाणे
प्रदर्शितेन प्रकारेण
सर्वे कारण-धर्माः उपपद्यन्ते
सर्वज्ञं सर्व-शक्ति-महामायञ् च ब्रह्म

इति शङ्कराचार्यैरेव उच्यते ।
निर्विशेषे ब्रह्मणि एतत् सर्वं कथं सम्भवति?

[[13]]

… अत्र च सद्-विद्यायां “सेयं देवता” इति देवता-पद-प्रयोगाद्
उदाहृत-सूत्रे “सर्वोपेता च” इति स्त्री-लिङ्गनिर्देशः ।
सद्-विद्या च तेषाम् अ-द्वैतिनां निर्गुण-विद्या,
ततः तत्-प्रतिपाद्यं ब्रह्मापि निर्विशेषम् ।
… अथापि “सर्व-शक्त्य्-उपेता परा देवता” इति शाङ्कर-भाष्यम् ।+++(5)+++
अत्र +औचित्यादिकं तटस्थैर् एव सत्यम् अन्वेषणीयम् ।